सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Odcinki: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Koniecznie odwiedź stronę podcastu i wesprzyj twórcę: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Kategoria

Kids

Strona podcastu

sambhashanasandesha.in

Ostatni odcinek

11 lip 2026

Gdzie słuchać?

Podcasty w aplikacji Replaio Radio Już wkrótce

Podcasty trafią do aplikacji już wkrótce. Zainstaluj teraz i jako pierwszy zobacz nowe podejście do podcastów

Pobierz z Google Play Zainstaluj za darmo Android 5 mln+ pobrań · ocena 4,8 iOS niedługo

Odcinki

स्मरणार्हा राज्ञी वेलुनाचियारा 11.02.2026

वेलुनाचियारा बाल्यकाले एव फ्रेञ्च्-आङ्ग्ल-उर्दुप्रभृतयः अनेकाः भाषाः पठिताः । तस्याः पतिः शिवगङ्गीयः मुतुवडुगनाथपेरियः शतकद्वयं यावत् शिवगङ्गायाः पालनं अकरोत् । १७७२ तमे वर्षे ईस्ट्-इण्डियासंस्थया यदा शिवगङ्गा स्वायत्तीकृता तस्मिन् युद्धे राजा अम्रियत । राज्ञी वेलुनाचियारा पुत्र्या साकं पलायनम् अकरोत् । आङ्ग्लेभ्यः शिवगङ्गां पुनः प्राप्तुं दृढनिश्चयं कृत्वा राज्ञी अष्ट वर्षाणि यावत् सन्नाहकार्यं क...

हुतात्मा बालः 10.02.2026

१९२९ तमे वर्षे गोवाराज्ये अस्नोडनामके लघुनगरे जन्म प्राप्नोत् बालारायामापारीवर्यः । गोवामुक्तिसङ्ग्रामस्य नेतारं तं जनाः 'बालः' इति शब्देन निर्दिशन्ति स्म । तदा पोर्तुगीज्-शासनम् आसीत् । स्वतन्त्रगोमान्तकदलनामिकायां संस्थायां सः विस्फोटकनिर्माणप्रयोगादिकं, भुशुण्डिचालनादिकं च ज्ञातवान् । १९५५ तमे वर्षे अस्नोडीये आरक्षकालये विस्फोटः जातः येन दशाधिकाः आरक्षाः प्राणवियोगं प्राप्तवन्तः । गोवायाम् इव द...

अमरत्वम् 09.02.2026

अमरत्वं प्राप्तव्यम् इति कस्यचन राज्ञः महती इच्छा जाता । कस्यचन कूपस्य जलं पीतं चेत् अमरत्वं निश्चयेन प्राप्स्यते इति राज्ञा कथञ्चित् ज्ञातम् । अमरत्वदायकस्य कूपस्य अन्वेषणं यदा जातं तदा राजा कूपात् जलम् उद्धृत्य तत् पातुम् उद्यतः । तावता कूपसमीपे स्थितः कश्चन काकः अवदत् 'एतत् जलं मा पिब । अहम् अमरत्वं प्राप्य पश्चात्तापम् अनुभवामि । मम गृहजनाः, बान्धवाः दिवं गताः । अहम् एकाकी अस्मि । अमरत्वप्राप्...

उत्तमा नीतिः उत्कृष्टेन क्रमेण 08.02.2026

कदाचित् कश्चन राजा वैराग्यं प्राप्य संन्यासी जातः । भिक्षाटनसमये काचित् माता तस्मै त्रीन् तण्डुलकणान् दत्तवती । त्रीन् अंशान् ज्ञापयितुं त्रयः तण्डुलकणाः दत्ताः इति उक्त्वा ते च के इति कथयति सा । 'कामक्रोधलोभमोहादयः शत्रवः यदि भवता दूरे स्थाप्येरन् तर्हि भवतः सुरक्षितता सिद्धा । प्रतिदिनं परिश्रमः, योग्याभ्यासः इत्यादयः नियततया कृताः चेत् महती बुभुक्षा बाधते । तदा शुष्का रोटिका अपि परमस्वादुतया भा...

अनुग्रहः 07.02.2026

सूर्याजिपन्तस्य ज्येष्ठपुत्रं गङ्गाधरं 'श्रेष्ठ' पदेन निर्दिशति स्म । सः आसीत् शान्तस्वभावः । श्रेष्ठस्य भगवद्भक्तिः बाल्यात् एव अपूर्वा आसीत् । दशमे वयसि 'अनुग्रहप्रसादं यच्छतु' इति पितरम् अभ्यर्थितवान् । 'हनुमतः मन्दिरं गत्वा अभ्यर्थय' इति पिता अवदत् । पित्राज्ञां पुरस्कृत्य श्रेष्ठः मदिरं गत्वा एकादश दिनानि यावत् निराहारं स्थितवान् । बालकस्य एतां निष्ठां तपश्चर्यां च दृष्ट्वा मारुतिः प्रसन्नः भ...

योग्यता 06.02.2026

वृन्दावनगमनमार्गे कञ्चित् साधुं यदा कश्चन पुरुषः अपृच्छत् 'वृन्दावनधाम कियत् दूरे अस्ति ?’ इति तदा साधुः अवदत् 'तिस्रः घण्टाः अपेक्षिताः' इति । यदा अपरः यात्री अपृच्छत् तदा 'होराद्वयम् अपेक्षितम्' इति अवदत् । यदा कश्चन वृद्धः अपृच्छत् तदा 'एका होरा अपेक्ष्यते' इति अवदत् । सम्मुखे स्थितः कश्चन सज्जनः साधुम् अपृच्छत् 'किमर्थं भवान् विभिन्नानि उत्तराणि उक्तवान्?’ इति । तदा साधुः अवदत् 'प्रथपुरुषस्य श...

किं वस्तु बलवत्तमम् 05.02.2026

कस्मिंश्चित् गुरुकुले पञ्च शिष्याः अध्ययनं कुर्वन्ति स्म । तेषु कश्चन अन्धः सन् महता यत्नेन अध्ययनं करोति स्म । कदाचित् गुरुः अपृच्छत् 'जगति बलवत्तमं वस्तु किं स्यात्?’ इति । प्रथमः शिष्यः शस्त्रम्, द्वितीयः अयः, तृतीयः अग्निः, चतुर्थः जलम् इति यथाक्रमम् अवदन् । अन्धशिष्येन कथितम् 'बाह्यजगति स्युः नैकानि बलवत्तमवस्तूनि । किन्तु तेषां सर्वेषां भौतिकवस्तूनाम् अपेक्षया बलवत्तमं च भवति 'दृढसङ्कल्पः' ।...

महताम् उत्तरदायित्वं महत् 04.02.2026

कदाचित् भगवान् बुद्धः सरोवरे सद्योविकसितस्य कमलस्य सुगन्धस्य आस्वादनम् आरब्धवान् । तावता काचित् देवकन्या प्रत्यक्षा भूत्वा अवदत् 'किमपि मूल्यम् अदत्त्वा पुष्पस्य गन्धम् आजिघ्रति भवान् । एतत् चौर्यम्' इति । तावता अन्यः कश्चन आगत्य बहूनां कमलपुष्पाणां निर्दाक्षिण्यम् उत्पाटनम् आरब्धवान् । किन्तु सा देवकन्या तम् उद्दिश्य किमपि न अवदत् । तथा किमर्थम् इति बुद्धेन पृष्टे देवकन्या अवदत् 'लोभतृष्णादिभिः अ...

वाक्चातुर्येण जातः कविः 03.02.2026

कदाचित् बहुपुत्रवान् कश्चन वलयविक्रयिकः पुत्रेण सह वाणिज्याय प्रस्थितः पार्श्वस्थं ग्रामं प्रति । तस्मिन् एव ग्रामे राजमाता अत्तिमब्बा अपि वसति स्म । पार्श्वग्रामे स्थितं प्रासादम् उपसर्प्य मातॄः आहूतवान् वलयक्रयणार्थम् । तावता लघुवयस्कः तस्य पुत्रः बालवचनैः 'आगच्छन्तु मातरः, अयं रक्तवर्णीयः भवत्यै युज्यते । नीलवर्णीयः तस्यै युज्यते .....' इति वदन् एकैकाम् अपि पश्यन् वाक्चातुर्येण सर्वासां मनः आकृ...

प्राप्तानां परिष्कारः एव धर्मः 02.02.2026

कश्चन धान्यवणिक् किञ्चन गुरुकुलं गतवान् । गुरुकुलं धनयुक्तं तु न । व्यवस्था अपि सामान्या । अतः सः वणिक् अवदत् 'नूतनानि परिवर्तनानि, व्यवस्थायां परिवर्तनानि अपेक्ष्यन्ते अत्र । तदा गुरुकुलस्य ख्यातिः वर्धते' इति । किन्तु गुरुकुलस्य आचार्यः प्रत्यवदत् 'ख्यातिप्राप्त्युद्देशः न अस्माकम् । सर्वविधाः छात्राः प्राप्यन्ते अत्र । सर्वान् सम्यक् अध्याप्य उत्तमविद्यावतः कर्तुं प्रयासं कुर्मः वयम् । वयं स्म...

अपूर्वम् उपायानम् 01.02.2026

इमर्सनः कश्चन क्रैस्तधर्मगुरुः । भगवद्गीतया आकृष्टः‌ सः स्वस्य धर्मगुरुत्वं परित्यज्य भगवद्गीतायाः प्रचारे मग्नः अभवत् । कदाचित् सः इङ्ग्लेण्ड्-देशं गतः तत्रत्यं कञ्चन महादार्शनिकं कार्यायिलं द्रष्टुम् । सम्भाषणावसरे कार्यायिलः अपृच्छत् 'मह्यं कीदृशम् उपायनम् आनीतम्?’ इति । 'मम देशे महती सम्पत्तिः चेदपि सांस्कृतिकदृष्ट्या तु वयम् अकिञ्चनाः । मया अपूर्वम् उपायनं दीयते किन्तु तत् न मद्देशीयम् , अपि...

भगवत्तत्त्वम् 31.01.2026

आत्मानं नास्तिकं मन्यमानं कञ्चन राजानं द्रष्टुं कश्चन संन्यासी आगतवान् । तम् आशिषा अनुगृह्य मन्दहासपूर्वकम् अपृच्छत् संन्यासी 'भगवतः कृपया भवतः देशे सर्वं कुशलं ननु?’ इति । तत् श्रुत्वा राजा असन्तोषेण अवदत् 'देशे सर्वं कुशलम् एव । किन्तु अत्र न भगवतः दयायाः पात्रता कापि' इति । ततः संन्यासी मन्दहासं प्रकटयन् तं कांश्चन प्रश्नान् अपृच्छत् । राज्ञः मुखात् आगतैः उत्तरैः एव प्रतिपादयति संन्यासी यत् राज...

योग्यं प्रशासनम् 30.01.2026

उत्तमस्य प्रशासनस्य परिणामः कः इति अनया कथया ज्ञातुं शक्नुमः । कदाचित् केनचन संन्यासिना स्वशिष्यैः सह काचित् रुदती महिला दृष्टा । कारणे पृष्टे ज्ञातं यत् केनचन नरभक्षकेन व्याघ्रेण तस्याः परिवारसदस्याः, अन्ये केचन ग्रामजनाः च निष्ठुरतया भक्षिताः इति । शिष्येषु कश्चन अवदत् यत् एतं प्रदेशं परित्यज्य अन्यत् स्थानं गच्छेयुः इति । किन्तु तन्नीराकृत्य महिला अवदत् 'एतस्य प्रदेशस्य राजा सज्जनः धर्मनिष्ठः प...

उपायचतुरः सङ्कनायकः 29.01.2026

षोडशशतके प्रवृत्ता घटना एषा । अन्यमतीयानां दुराक्रमणकारणतः विश्वनाथमन्दिरम् उध्वस्तं, विश्वनाथस्य पूजा स्थगिता च इति विषयः सङ्कनायकं तुदति स्म । सः काषायवस्त्रं धृत्वा देहलीम् अगच्छत् । देहल्याम् अकबरस्य सेनापतिः अङ्कुशाखानः दुर्गद्वारे उद्घोषितवान् - यः आत्मानं खड्गयुद्धनिपुणं मन्यते सः मया सह युद्धं कुर्यात् इति । सङ्कनायकः महत् कौशलं दर्शयन् अल्पे एव काले अङ्कुशाखानस्य शिरश्छेदनम् अकरोत् । तस्य...

परतत्त्वम् एकमेव 28.01.2026

ब्रह्म सत्यं जगन्मिथ्या । परतत्त्वं तु एकमेव । यत् सर्वत्र सर्वदा तिष्ठति तदेव पारमार्थिकं सत्यम् । यत्र यत् नास्ति तत्र तस्य रूपस्य आरोपणम् एव उच्यते 'प्रातिभासिकं सत्यम्' इति । यत् लोके व्यवहारे सत्यतया स्वीक्रियते, तत् व्यावहारिकं सत्यम् इति कथ्यते। यः ब्रह्मज्ञानं प्राप्तवान् सः सर्वं परब्रह्ममयं पश्यति । प्रातिभासिकं, व्यावहारिकं वा सत्यम् अतिक्राम्य पारमार्थिकं सत्यं प्रति गमनम् एव ज्ञानार्थ...

प्रत्युत्पन्नमतित्वम् 27.01.2026

काचित् विधवा पुत्रेण सह दारिद्र्यमयं जीवनं यापयति स्म । कदाचित् चुल्ल्याम् अग्निः सर्वथा निर्विण्णः आसीत् । पार्श्वस्थधनिकगृहं गत्वा तप्ताङ्गारान् आनय इति पुत्रं प्रेषितवती माता। पुत्रः गत्वा सेवकं तप्ताङ्गारान् अयाचत । किन्तु सः सेवकः बालकम् उपेक्षया पश्यन् अवदत् 'किं युतकेन तप्ताङ्गाराः नीयेरन् ? त्वया युतकमपि न धृतम्' इति । क्षणं विचिन्त्य सः बालः समीपे स्थितेन जलेन हस्तौ आर्द्रीकृत्य काष्ठभस्म...

बोधनम् 26.01.2026

कदाचित् गुरुकुले मगधराजकुमारं गुरुः विना कारणं दण्डेन ताडितवान् आसीत् । वेदनाम् अनुभवन् 'किमर्थम् एवं मम दण्डनं क्रियते ?’ इति राजकुमारेण पृष्टे गुरुः गाम्भीर्येण अवदत् 'कालान्तरेण स्वयं ज्ञास्यते त्वया' इति । कालान्तरेण राजकुमारः सिंहासनम् आरूढवान् । कदाचित् गुरुः तं द्रष्टुम् आगतः । राजा तं यथोचितं सत्कृत्य सम्भाषणावसरे गुरुकुले विना कारणं दण्डनस्य कारणम् अपृच्छत् । गुरुः हसन् अवदत् 'तस्मिन् दिन...

समस्याः मण्डूकाः इव 25.01.2026

कस्मिंश्चित् प्रवचने कश्चन पुरुषः महात्मानम् अपृच्छत् यत् जीवने कथं सर्वाः समास्याः निवार्य तृप्त्या जीवनं यापयितुं शक्यम् इति । तदा माहात्मना कांश्चन सजीवान् मण्डूकान् आनाय्य काञ्चित् तुलाम् अपि आनाय्य तेषां मण्डूकाननां भारं ज्ञात्वा वद इति उक्तम् । अल्पे एव काले तेन पुरुषेण ज्ञातं यत् मण्डूकानां तोलनं कियते क्लेशाय इति । तदा महात्मा अवदत् 'यथा मण्डूकाः एकत्र स्थापयितुं न शक्याः तथैव समस्यानां सर...

अध्यापनव्रतम् 24.01.2026

कश्चन तरुणः विद्याभ्यासं समाप्य स्वग्रामं गत्वा अध्ययन् कुर्वन् यथाशक्ति अध्यापनम् अपि आरब्धवान् । तस्य उत्कृष्टेन अध्यापनेन दिने दिने तस्य कक्ष्यायां छात्रसङ्ख्या प्रवृद्धा । तेन अन्ये अध्यापकाः असूयां प्राप्य छात्राणां मातापितरौ मिथ्या उक्त्वा छात्राः यथा कक्ष्यां न गच्छेयुः तथा कृतवन्तः । एतत् कुतन्त्रं जानन् अपि सः तरुणः अधीरः न जातः । कांश्चन शङ्कून् पुरतः संस्थाप्य सः अध्यापनम् आरब्धवान् । द...

चत्वारः प्रहरिणः 23.01.2026

कस्यचन लघुदेशस्य राजा सुशर्मा प्रजानां सुखं कथं स्यात् इति सर्वदा चिन्तयति स्म । अथ कदाचित् इन्धुधरः इति राजा यदा तस्य देशम् आगतः तदा सुशर्माणम् अपृच्छत् 'सुविशाले अपि भवतः देशे कथं शान्तिसुखादयः अधिकाः । मम राज्ये सान्तिसुखादिकं वर्धयितुं मया किं करणीयम् ?’ इति । तदा राजा इन्दुधरः अवदत् 'मम राज्ये सत्यप्रेमन्यायत्यागाः इति चत्वारः प्रहरिणः सन्ति । ते असत्यात्, घृणातः, अन्यायात्, स्वार्थात् च मम म...

मम अनुत्तीर्णता भवितुं न अर्हति 22.01.2026

कस्मिंश्चित् विद्यालये परीक्षापरिणामस्य घोषणस्य अनन्तरं कश्चन छात्रः उत्थाय 'मम परीक्षापरिणामः भवता न उक्तः' इति अवदत् । तदा शिक्षकः अवदत् 'त्वं ज्वरादिकारणम् उक्त्वा दीर्घकालं यावत् कक्ष्यायाम् अनुपस्थितः आसीः । अतः त्वम् अनुत्तीर्णः स्याः । तस्मात् एव आवल्यां तव नाम नास्ति' इति । 'मम अनुत्तीर्णता भवितुं न अर्हति, श्रीमन्' इति सः छात्रः आत्मविश्वासेन अवदत् । एवं वादः प्रतिवादः च प्राचलत् तयोः मध्...

कर्मयोगः नाम कः? 21.01.2026

कदाचित् पर्वतारोहणसमये कश्चन शिष्यः रमणमहर्षिम् अपृच्छत् 'कर्माचरणस्य कर्मयोगस्य च कः भेद:?’ इति । तदा महर्षिः केनचित् दृष्टान्तमाध्यमेन विवृणोति यत् 'भारभावः यतः अनुभूयेत तत् कर्म । भारवहने लाघवता अनुभूयेत यत् सः कर्मयोगः । जीवने बहूनि श्रमत्यागसेवादीनि कार्याणि करणीयानि भवन्ति । तानि भवन्ति अपरिहार्याणि । तस्मात् वयं खेदेन, अनिच्छया, अप्रसन्नमनसा वा तेषाम् अनुष्ठानं चिन्तयामः । यत् कार्यं क्रियत...

दृष्ट्यनुगुणा भावना 20.01.2026

रामरावणयोः युद्धस्य अनन्तरं कदाचित् सभायां चर्चा जाता 'अशोकवने स्थितानां पुष्पाणां वर्णाः अनेकविधाः आसन् ननु ?’ इति । 'तत्र सर्वाणि अपि पुष्पाणि श्वेतवर्णानि आसन्' इति अवदत् सीता । 'श्वेतपुष्पाणि क्व? सर्वाणि रक्तवर्णानि ननु आसन् ?’ इति अवदत् आञ्जनेयः । 'उभौ अपि परस्परविरुद्धम् अभिप्रायं वदतः । कस्य कथनं वास्तविकम् ?’ इति केनचन सभासदेन पृष्टे श्रीरामः अवदत् 'उभयोः अपि कथनं युक्तम् एव । तत्तस्य दृष...

आर्तिनाशनं मुख्यम् 19.01.2026

जपान्देशे यदा भगवतः बुद्धस्य महान् प्रभावः आसीत् तदा प्रवृत्ता घटना एषा । सर्वत्र शान्तिः प्रवृत्ता आसीत् इति कारणतः युद्धं क्वापि न प्रवर्तते स्म । अतः बहवः भटाः वृत्तिहीनाः जाताः । कश्चन भटः वृत्त्यभावात् नितरां परितपति स्म । तस्य गृहे एकवारमपि भोजनं प्राप्तुम् असमर्थं जातम् । सः बुद्धमन्दिरं गत्वा तत्र स्थितौ भिक्षू नमस्कृत्य स्वस्य दैन्यस्थितिं विवृत्य 'कापि वृत्तिः परिकल्प्यताम्' इति प्रार्थि...

आत्मविश्वासः 18.01.2026

कदाचित् कक्ष्यायाम् एकैकशः आगत्य श्लोककथनम् आरब्धवन्तः छात्राः । आदौ एकः छात्रः भीत्या आगत्य श्लोककथनम् आरब्धवान् । अर्धं यावत् श्रावितं तावता शिक्षकः 'अलम्! स्थगय !’ इति असूचयत । सः म्लानमुखः सन् प्रत्यागतवान् । एवमेव दशाधिकाः छात्राः अपि अध्यापकस्य 'स्थगय' इति आदेशं श्रुत्वा श्लोककथनं स्थगयित्वा स्वस्थानं गतवन्तः । यदा धीरजः इति छात्रः आगत्य कथनम् आरब्धवान् तदा 'स्थगय' इति अध्यापकेन उक्तं चेदपि...

Słuchaj podcastu बालमोदिनी w Replaio

Radio i podcasty w jednej aplikacji - za darmo, bez zakładania konta. Zainstaluj już dziś i nie przegap premiery

Pobierz z Google Play

Replaio nie jest wydawcą podcastów; nazwy audycji, okładki i audio należą do ich autorów i są rozpowszechniane przez publiczne kanały RSS