सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Koniecznie odwiedź stronę podcastu i wesprzyj twórcę: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategoria
Strona podcastu
Ostatni odcinek
14 paź 2026
Gdzie słuchać?
Podcasty w aplikacji Replaio Radio Już wkrótcePodcasty trafią do aplikacji już wkrótce. Zainstaluj teraz i jako pierwszy zobacz nowe podejście do podcastów
Odcinki
आत्मानन्दः 14.10.2026 5:16
रोहिदासनामा कश्चन चर्मकारः पादरक्षाणां निर्माणं कृत्वा ताः विक्रीय जीवनं करोति स्म । महान् हरिभक्तः सः पादरक्षानिर्माणसमयेऽपि हरिनाम जपित्वा सर्वदा आनन्देन तिष्ठति स्म । तस्य शिष्यः चिन्तयति स्म यत् 'एतेन ज्ञानिना एतादृशं क्षुद्रं कार्यं न करणीयम्' इति । अतः सः गुरोः दारिद्र्यं दूरीकर्तुम् कञ्चन निकषं ददाति यस्य स्पर्शेन अयोमयानि वस्तूनि सुवर्णमयानि भवति । किन्तु रोहिदासः तस्य उपयोगं न करोति । तस्...
परिणामे भयङ्करः 13.10.2026 3:22
कश्चन कलारसिकः काव्यप्रियः च महाराजः आसीत् । कदाचित् मगधदेशात् काव्यं श्रावयितुम् अस्य महाराजस्य आस्थानम् आगतवान् । यद्यपि सः उत्तमः कविः तथापि तस्य एकः दुरभ्यासः आसीत् यत् सः काव्यश्रावणसमये पुनःपुनः करतलयोः कण्डूयनं करोति स्म । तदपि सः तावद्वारं करोति स्म यत् काव्यश्रोतारः तेन जुगुप्साम् अनुभवेयुः । महाराजः तस्य काव्यं श्रुत्वा तं दुरभ्यासं दूरीकर्तुम् उपायमेकं करोति । (“केन्द्रीयसंस्कृतविश्वव...
केतक्याः पतनम् 12.10.2026 2:46
केतकी कदाचित् ब्रह्मणा सह मिलित्वा शिवस्य अन्वेषणविषये असत्यवचनं कथयति । कुपितः शिवः तां शप्तवान् यत् 'इतः परं मम पूजायां तव उपयोगः न भविष्यति' इति । अतः एव तदाप्रभृति शिवस्य पूजार्थं केतकी न उपयुज्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, the Ketaki flower falsely supported Brahma during the search for Lord Shiva's true form. An...
संयमात् एव शान्तिः 11.10.2026 5:35
कदाचित् वारणास्याम् आयोजितायां सभायां नानाविधाः चर्चाः शास्त्रार्थसंवादाश्च प्राचलन् 'शान्तिः कस्मात् प्राप्यते' इत्यस्मिन् विषये । सप्त दिनानि यावत् सभा प्रवृत्ता । अन्ते राजपुरोहितः सर्वेषां मतानि परिशील्य 'ज्ञानेन एव शान्तिः प्राप्यते' इति निर्णयम् असूचयत् । सर्वेऽपि सभासदः सम्मतिं सूचितवन्तः । किन्तु कश्चन युवकः उत्थाय अवदत् यत् 'शान्तिः संयमेनैव प्राप्यते' इति । सः एव युवकः आसीत् उद्दालकः। सः...
अक्षुण्णः अधिकारः 10.10.2026 2:54
महाराष्ट्रे गाडगेमहाराजनामा कश्चन महापुरुषः अनेकलक्षरूप्यकाणि अन्येभ्यः दानरूपेण स्वीकृत्य तानि दरिद्राणां कल्याणाय व्ययीकरोति स्म । जीर्णानि वस्त्राणि, एकं कम्बलम्, एकं मृत्तिकापात्रं च एतावदेव तस्य धनम् आसीत् । एकस्यापि रूप्यकस्य दुर्विनियोगः तेन न कृतः । कदाचित् सः यदा अस्वस्थः जातः तदा डा.अम्बेडकरः तं द्रष्टुम् आगतः । स्वस्य निमित्तं किमपि न स्वीकरोति इत्यतः कम्बलद्व्यम् आनीय गाडगेमहाराजाय दत्...
गोसेवा 09.10.2026 4:09
अनादिकालात् अपि भारते गौः पूज्यते स्म । तस्य सेवा रक्षणं च आद्यं कर्तव्यम् इति जनाः मन्यन्ते स्म । अत्रापि प्रजारक्षकः परमोदारः च महाराजः विक्रमादित्यः काञ्चन गावं रक्षति । कदाचित् सः एकाकी अश्वारोही सन् सन्ध्याकाले यदा अरण्यमार्गे गच्छन् आसीत् तदा दूरात् कस्याश्चित् गोः आक्रन्दनं श्रुतवान् । वर्षाकालः इत्यतः कस्मिंश्चित् गर्ते काचन गोः पतिता आसीत् । सिंहः अपि तत्र आयाति । सः स्वप्राणान् पणीकृत्य...
अतिथिसत्कारस्य फलम् 08.10.2026 8:54
भारतीयसंस्कृतौ अतिथिसत्कारस्य विशिष्टं महत्त्वम् अस्ति । 'अतिथिदेवो भव' इति वचनम् अस्मान् शिक्षयति यत् अतिथिः देवता इव पूजनीयः । अतिथिसत्कारेण उत्तमं फलम् अपि लभ्यते । तत् फलं कीदृशं भवति इत्यस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कथायाम् अस्यां कश्चन किरातः कस्यचित् बालकस्य अतिथिसत्कारकरणेन अग्रिमजन्मनि राजकुमाररूपेण जन्म प्राप्नोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गत...
यथा त्वं तथा अहम् 07.10.2026 3:35
रत्नपुरनामके ग्रामे काचन वृद्धा वसति स्म । सा अतीव चतुरा बुद्धिमती च । तस्याः चत्वारः पुत्राः एका पुत्री च । पुत्री ज्येष्ठा, पुत्राः कनिष्ठाः च । पुत्र्याः विवाहः जातः । तस्याः पतिः स्वभावेन विनोदशीलः । सर्वदा श्वशुरालयगमनसमये सः शिशुभ्यः मिष्टान्नं नयति स्म किन्तु कदाचित् सः इक्षून् नीतवान् । कुतूहलेन यदा वृद्धा जामातरम् अपृच्छत् तदा तस्य वाक्चातुर्यं दृष्ट्वा सर्वे परिवारजनाः तूष्णीम् अभवन् । त...
कः मूर्खः ? 06.10.2026 3:20
कश्चन वृद्धः नगरात् ग्रामं प्रति आगच्छन् आसीत् । सः सर्वदा चलन् एव गच्छति स्म । नगरात् ग्रामः दूरे आसीत् । यद्यपि वृद्धः मन्दमेव चलितवान् तथापि सः शीघ्रमेव श्रान्तः अभवत् । किञ्चित् दूरगमनानन्तरं सः परस्परं कलहमग्नौ द्वौ युवकौ दृष्टवान् । कलहस्य कारणम् आसीत् तयोः मध्ये कः बुद्धिमान् ? कः बलवान् ? इति । तत् श्रुत्वा सः वृद्धः तौ सान्त्वयन् अहं निर्णयं करोमि इत्युक्त्वा कञ्चित् उपायं करोति । (“केन्द...
आदर्शसहोद्योगिनः अन्वेषणम् 05.10.2026 5:34
प्राचीनभारते नागार्जुननामकः कश्चन प्रसिद्धः आयुर्वेदशिक्षकः आसीत् । सः रसायनशास्त्रेऽपि निपुणः आसीत् । वार्धक्यकारणात् सः पूर्ववत् कार्यं कर्तुं न शक्नोति स्म । अतः सः एकस्य समर्थस्य साहाय्यकस्य नियोजनं चिन्तितवान् । यद्यपि तस्य शताधिकाः छात्राः आसन् तथापि मौखिक-व्यावहारिकयोः परीक्षयोः अनन्तरं वेणुगुप्तः शीलादित्यः चेति द्वौ एव सफलतां प्राप्तवन्तौ । तयोः अपि परिक्षायां शिलादित्यः एव जयं प्राप्नोति...
मुकुटधारी तु मोक्तुकामोSस्ति 04.10.2026 3:36
कस्मिंश्चित् वने कश्चन शशः परिवारेण सह निवसति स्म । यद्यपि शशः तस्य पत्नी च बहिः गमनसमये 'बहिः नः गन्तव्यम्' इति स्व-अपत्यानि सूचयतः तथापि शिशवः वारं वारं बहिः गत्वा क्रीडन्ति स्म । कदाचित् कश्चन दयालुः गजः क्रीडतः शशकान् दृष्ट्वा चिन्ताक्रान्तः भूत्वा 'भवतां मातापितरौ कुत्र?’ इति पृच्छति पितृभ्यां सूचनार्थम् । किन्तु प्रत्यागतौ मातापितरौ प्रवृत्तं सर्वं विदित्वा 'सः दुष्टगजः स्यात्' इति मत्वा कुप...
सः पापीयान् 03.10.2026 2:58
केचन जनाः दुःखदघटनाः शीघ्रमेव विस्मरन्ति । अन्ये तु ताः घटनाः चिरकालं यावत् स्वमनसि वहन्ति । ते क्रोधं द्वेषम् अपमानं दुःखं च न त्यजन्ति । तर्हि पापी कः ? यः दुःखं ददाति सः अथवा यः तदेव दुःखं चिरकालं यावत् स्वमनसि धारयति सः ? बौद्धभिक्षुद्वयस्य एषा कथा अस्य प्रश्नस्य उत्तरं ददाति। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Some people quickly...
यात्राफलम् 02.10.2026 5:15
आनन्दपुरे रामः भीमः च द्वौ स्नेहितौ आस्ताम् । द्वौ अपि परिश्रमेण कृषिं कुरुतः । कदाचित् काशीयात्रां कर्तुं तौ द्वौ निश्चितवन्तौ । रामः गृहजनानां बन्धूनां च साहाय्येन धनसङ्ग्रहणं कृतवान् । भीमस्य तु धनस्य चिन्ता नासीत् । तयोः यात्रा कथं प्रचलति, किं किं जायते, यात्रा सफला भवति वा न वा इत्येव अस्याः कथायाः कथावस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्व...
रजकोषः प्रजोपयोगाय 01.10.2026 3:48
कदाचित् काशीक्षेत्रम् आगतवतः स्वामिनः सच्चिदानन्दस्य प्रवचनं योगानन्दमहाराजस्य आश्रमे जातम् । काशीनरेशः नटवरसिंहः सामान्यवेषं धृत्वा आश्रमं गतवान् । प्रवचनान्तरं महाराजः स्वपरिचयम् उक्त्वा स्वामिनं राजभवनं नीतवान् । सत्कारानन्तरं स्ववैभवं दर्शयितुम् अभिलषितवान् । यदा सः कोषागारं दर्शितवान् तदा 'अनेन कोषागारेण किं प्रयोजनम्?' इति अपृच्छत् स्वामी । 'यत् सम्पादितं तत् प्रजानां प्रयोजनाय भवेत् । विद्य...
कस्य कृते कस्य त्याग? 30.09.2026 3:17
कस्यचन वीतरागस्य सर्वसङ्गपरित्यागिनः साधोः दर्शनार्थं कश्चन महाराजः गतवान् । स्वसमीपम् अगतवन्तं महाराजं दृष्ट्वा साधुः आश्चर्यान्वितः जातः । 'भवान् त्यागी अस्ति । समाजे त्यागिनः पुरुषाः एव सर्वाधिकम् आदरणीयाः भवन्ति' इति महाराजः अवदत् । किन्तु साधुः अवदत् 'भवान् एव महात्यागी' इति । तदनन्तरं या चर्चा प्राचलत् तया चर्चया महाराजस्य ज्ञानोदयः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर...
चतुरः शृगालः 29.09.2026 5:58
कस्मिंसश्चित् वने शृगालः, व्याघ्रः, मूषकः, वृकः, नकुलः च मित्रभावेन मिलित्वा निवसन्ति स्म । कदाचित् वनमध्ये भ्रमन्तः ते एकं पुष्टं हरिणम् अपश्यन् । शृगालस्य युक्त्या तं हरिणं मारितवन्तः । किन्तु हरिणस्य समग्रमपि शरीरं स्वयम् एव खादनीयम् इति विचिन्त्य शृगालः एकम् उपायं करोति । चतुरः शृगालः स्वबुद्ध्या सर्वान् निवार्य सर्वमपि हरिणमांसं खादति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गतत...
पितृव्यस्य बुद्धिमत्ता 28.09.2026 8:01
वणिजः वीरभद्रस्य चत्वारः पुत्राः आसन् । सः पुत्रेषु अतीव स्निह्यति स्म । कदाचित् वीरभद्रः पुत्रेभ्यः दत्तानि अङ्गुलीयकानि प्रतिस्वीकृत्य एकस्यां पेटिकायां निक्षिप्य स्वस्य मरणानन्तरं मातरं पृष्ट्वा पुनः अङ्गुलीयकानि स्वीकुर्वन्तु इति अवदत् । यदा वीरभद्रस्य मरणं जातं तदा कनिष्ठः पुत्रः यथाकथञ्चित् पेटिकातः अङ्गुलीयकम् अचोरयत् । पितुः उत्तरक्रियायाः अनन्तरं यदा अन्ये पुत्राः पेटिकाम् उद्घाटितवन्तः त...
तत्र प्रीतिः यत्र निःस्वार्थता 27.09.2026 6:18
कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'भवतः पत्नीषु भवति का अधिका स्निह्यति ?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । कृष्णः अवदत् 'अश्रुजलमिश्रिता पादेन मर्दिता च मृत्तिका एव अस्याः वेदनायाः औषधम्' इति । नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य औषधम् अयाचत । परन्तु सर्वतः अपि निराकरणरूपमेव उत्तरं प्राप्नोत् । अन्ते सः राधायाः समीपं गत्वा...
न त्यक्तव्यः अभ्यासः 26.09.2026 2:35
कस्मिंश्चित् ग्रामे वर्षत्रयं वृष्टिः न भविष्यति इति ज्ञात्वा ग्रामवासिनः जीवनार्थं यत्र कुत्रापि गतवन्तः । किन्तु एकः कृषकः तत्रैव स्थित्वा स्वशुष्कक्षेत्रस्य कर्षणं करोति स्म । एकदा आकाशे सञ्चरन् एकः मेघः तं कृषकं दृष्ट्वा आश्चर्येण अपृच्छत् 'किमर्थम् अत्रैव स्थितवान् भवान् ?' इति । तदा कृषकः अवदत् 'कृषिकार्यं विस्मृतं भवति यदि अहम् अन्यत्र गच्छामि । क्षेत्रकर्षणस्य अभ्यासः एव नष्टः भवेत्' इति ।...
त्यागस्य फलम् 25.09.2026 3:21
कश्चन शिल्पी यां यां शिलां पश्यति स्म तया शिलया सुन्दरीं मूर्तिं निर्माय विक्रीणीते स्म । कदाचित् उत्तमया शिलया विग्रहं कुर्याम् इति विचिन्त्य तां शिलां खण्डयित्वा भागद्वयम् अकरोत् । एकः भागः शिल्पिनः प्रहारं सोढुम् अशक्नुवन् दूरं गन्तुं प्रयत्नम् अकरोत् । शिल्पी निराशः भूत्वा अन्यं भागं स्वीकृत्य बहुपरिश्रमेण कार्यं कृत्वा सुन्दरं गणेशविग्रहं निर्मितवान् । सः विग्रहः देवालये प्रतिष्ठापितः अभवत् ।...
परमेश्वरभक्तः 24.09.2026 5:21
कश्चन शिवभक्तः आसीत् । तेन एकः श्लोकः रचितः आसीत् । "तस्य श्लोकस्य विशेषः कः इत्युक्ते प्रतिपदं प्रथमाक्षरं परित्यज्य पठनेन विष्णुपरकः अर्थः भवति । सः शिवभक्तः सन् कथं किमर्थं च शिवविष्ण्वोः स्तोत्रम् एकेनैव श्लोकेन कृतवान् इति पृष्ठभूमिकायां वर्तते इयं कथा । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was a devotee of Lord Shiva who com...
कोSहम्? 23.09.2026 2:43
दयानन्दसरस्वती यदा युवकः आसीत् तदा सः सद्गुरोः अन्वेषणं कुर्वन् आसीत् । तदर्थं सः ग्रामं ग्रामम् अटति स्म । कदाचित् सः मथुरानगर्यां स्वामीविरजानन्दस्य विषये बहु श्रुतवान् । विरजानन्दः जन्मना अन्धः आसीत् । परन्तु प्रजाचक्षुः सः महान् ज्ञानी इति विख्यातः आसीत् । अनया कथया ज्ञायते कथं दयानन्दसरस्वती तस्य शिष्यः जातः इति । गुरुशिष्ययोः ऐतिहासिकमेलनेन कालान्तरे विश्वमानवतायाः क्षेत्रे वेदानां नवीनमार्ग...
नाम्नः माहात्म्यम् 22.09.2026 3:48
श्रीरामस्य लङ्काभियानसमयः । नलनिलयोः मार्गदर्शने सागरे सेतुनिर्माणम् आरब्धम् । सुविशालेषु प्रस्तरखण्डेषु रामनाम विलिख्य स्थापनेन ते जले अनिमग्नाः सन्तः स्थिरतया तिष्ठन्ति स्म । तत् दृष्ट्वा श्रीरामः सागरतटे कार्यरतेभ्यः वानरेभ्यः किञ्चित् दूरं गतवान् । भूम्याः एकां शिलाम् उन्नीय तां सागरजले निक्षिप्तवान् । आश्चर्यम् ! शिला तु पूर्णतया सागरजले निमग्ना जाता । एतत् सर्वं दृष्टवान् हनूमान् एवं कथयति "...
अनन्यशरणत्वम् 21.09.2026 4:09
नन्दनृपतिः मगधदेशे पाटलीपुत्रे शासनं कुर्वन् आसीत् । चाणक्यः चन्द्रगुप्तस्य साहाय्येन पाटलीपुत्रं वशीकर्तुं प्रयत्नं कुर्वन् आसीत् । नन्दनृपतिः अपि चाणक्यं चन्द्रगुप्तं च निग्रहीतुं सर्वत्र सैनिकान् नियुक्तवान् आसीत् । कदाचित् अरण्यमार्गे चाणक्यचन्द्रगुप्तौ गच्छन्तौ आस्ताम् । कश्चन नन्दनृपतिसैनिकः तयोः अनुधावनं कृतवान् । तौ पादचारिणौ, सः सैनिकः अश्वारूढः । अतः चाणक्यः कञ्चन उपायम् कृत्वा आत्मानं च...
रागिणां कीदृशी गतिः 20.09.2026 2:24
कश्चन महान् कृपणः वणिक् आसीत् । सः आदिनम् आपणे कार्यं करोति स्म । तेन बहु धनं सम्पादितम् आसीत् । स्वीये वार्धके अशीतितमे वर्षे सः अतीव रुग्णः आसीत् । तस्य अन्तकाले सर्वे गृहजनाः तं परितः स्थितवन्तः आसन् । तान् सर्वान् दृष्ट्वा सः वृद्धः किं पृष्टवान् जानन्ति वा ? "सर्वे अत्र सन्ति चेत् आपणे कः अस्ति ?” इति । अहो ! रागिणां कीदृशी गतिः यत् ते अन्तकालेऽपि न मुञ्चति संसारे मोहम् । (“केन्द्रीयसंस्कृतवि...
Replaio nie jest wydawcą podcastów; nazwy audycji, okładki i audio należą do ich autorów i są rozpowszechniane przez publiczne kanały RSS