सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 712 episodios

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

No dejes de visitar la web del podcast y apoyar a su creador: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Categoría

Kids

Web del podcast

sambhashanasandesha.in

Último episodio

14 de oct. de 2026

¿Dónde escuchar?

Podcasts en la app Replaio Radio Muy pronto

Los podcasts llegarán muy pronto a la app. Instálala ahora y sé el primero en descubrir una forma totalmente nueva de vivir los podcasts

Descárgala en Google Play Instálala gratis Android casi 10 M de descargas · valoración de 4,8 iOS muy pronto

Episodios

आत्मानन्दः 14.10.2026

रोहिदासनामा कश्चन चर्मकारः पादरक्षाणां निर्माणं कृत्वा ताः विक्रीय जीवनं करोति स्म । महान् हरिभक्तः सः पादरक्षानिर्माणसमयेऽपि हरिनाम जपित्वा सर्वदा आनन्देन तिष्ठति स्म । तस्य शिष्यः चिन्तयति स्म यत् 'एतेन ज्ञानिना एतादृशं क्षुद्रं कार्यं न करणीयम्' इति । अतः सः गुरोः दारिद्र्यं दूरीकर्तुम् कञ्चन निकषं ददाति यस्य स्पर्शेन अयोमयानि वस्तूनि सुवर्णमयानि भवति । किन्तु रोहिदासः तस्य उपयोगं न करोति । तस्...

परिणामे भयङ्करः 13.10.2026

कश्चन कलारसिकः काव्यप्रियः च महाराजः आसीत् । कदाचित् मगधदेशात् काव्यं श्रावयितुम् अस्य महाराजस्य आस्थानम् आगतवान् । यद्यपि सः उत्तमः कविः तथापि तस्य एकः दुरभ्यासः आसीत् यत् सः काव्यश्रावणसमये पुनःपुनः करतलयोः कण्डूयनं करोति स्म । तदपि सः तावद्वारं करोति स्म यत् काव्यश्रोतारः तेन जुगुप्साम् अनुभवेयुः । महाराजः तस्य काव्यं श्रुत्वा तं दुरभ्यासं दूरीकर्तुम् उपायमेकं करोति ।   (“केन्द्रीयसंस्कृतविश्वव...

केतक्याः पतनम् 12.10.2026

केतकी कदाचित् ब्रह्मणा सह मिलित्वा शिवस्य अन्वेषणविषये असत्यवचनं कथयति । कुपितः शिवः तां शप्तवान् यत् 'इतः परं मम पूजायां तव उपयोगः न भविष्यति' इति । अतः एव तदाप्रभृति शिवस्य पूजार्थं केतकी न उपयुज्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, the Ketaki flower falsely supported Brahma during the search for Lord Shiva's true form. An...

संयमात् एव शान्तिः 11.10.2026

कदाचित् वारणास्याम् आयोजितायां सभायां नानाविधाः चर्चाः शास्त्रार्थसंवादाश्च प्राचलन् 'शान्तिः कस्मात् प्राप्यते' इत्यस्मिन् विषये । सप्त दिनानि यावत् सभा प्रवृत्ता । अन्ते राजपुरोहितः सर्वेषां मतानि परिशील्य 'ज्ञानेन एव शान्तिः प्राप्यते' इति निर्णयम् असूचयत् । सर्वेऽपि सभासदः सम्मतिं सूचितवन्तः । किन्तु कश्चन युवकः उत्थाय अवदत् यत् 'शान्तिः संयमेनैव प्राप्यते' इति । सः एव युवकः आसीत् उद्दालकः। सः...

अक्षुण्णः अधिकारः 10.10.2026

महाराष्ट्रे गाडगेमहाराजनामा कश्चन महापुरुषः अनेकलक्षरूप्यकाणि अन्येभ्यः दानरूपेण स्वीकृत्य तानि दरिद्राणां कल्याणाय व्ययीकरोति स्म । जीर्णानि वस्त्राणि, एकं कम्बलम्, एकं मृत्तिकापात्रं च एतावदेव तस्य धनम् आसीत् । एकस्यापि रूप्यकस्य दुर्विनियोगः तेन न कृतः । कदाचित् सः यदा अस्वस्थः जातः तदा डा.अम्बेडकरः तं द्रष्टुम् आगतः । स्वस्य निमित्तं किमपि न स्वीकरोति इत्यतः कम्बलद्व्यम् आनीय गाडगेमहाराजाय दत्...

गोसेवा 09.10.2026

अनादिकालात् अपि भारते गौः पूज्यते स्म । तस्य सेवा रक्षणं च आद्यं कर्तव्यम् इति जनाः मन्यन्ते स्म । अत्रापि प्रजारक्षकः परमोदारः च महाराजः विक्रमादित्यः काञ्चन गावं रक्षति । कदाचित् सः एकाकी अश्वारोही सन् सन्ध्याकाले यदा अरण्यमार्गे गच्छन् आसीत् तदा दूरात् कस्याश्चित् गोः आक्रन्दनं श्रुतवान् । वर्षाकालः इत्यतः कस्मिंश्चित् गर्ते काचन गोः पतिता आसीत् । सिंहः अपि तत्र आयाति । सः स्वप्राणान् पणीकृत्य...

अतिथिसत्कारस्य फलम् 08.10.2026

भारतीयसंस्कृतौ अतिथिसत्कारस्य विशिष्टं महत्त्वम् अस्ति । 'अतिथिदेवो भव' इति वचनम् अस्मान् शिक्षयति यत् अतिथिः देवता इव पूजनीयः ।  अतिथिसत्कारेण उत्तमं फलम् अपि लभ्यते । तत् फलं कीदृशं भवति इत्यस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कथायाम् अस्यां कश्चन किरातः कस्यचित् बालकस्य अतिथिसत्कारकरणेन अग्रिमजन्मनि राजकुमाररूपेण जन्म प्राप्नोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गत...

यथा त्वं तथा अहम् 07.10.2026

रत्नपुरनामके ग्रामे काचन वृद्धा वसति स्म । सा अतीव चतुरा बुद्धिमती च । तस्याः चत्वारः पुत्राः एका पुत्री च । पुत्री ज्येष्ठा, पुत्राः कनिष्ठाः च । पुत्र्याः विवाहः जातः । तस्याः पतिः स्वभावेन विनोदशीलः । सर्वदा श्वशुरालयगमनसमये सः शिशुभ्यः मिष्टान्नं नयति स्म किन्तु कदाचित् सः इक्षून् नीतवान् । कुतूहलेन यदा वृद्धा जामातरम् अपृच्छत् तदा तस्य वाक्चातुर्यं दृष्ट्वा सर्वे परिवारजनाः तूष्णीम् अभवन् । त...

कः मूर्खः ? 06.10.2026

कश्चन वृद्धः नगरात् ग्रामं प्रति आगच्छन् आसीत् । सः सर्वदा चलन् एव गच्छति स्म । नगरात् ग्रामः दूरे आसीत् । यद्यपि वृद्धः मन्दमेव चलितवान् तथापि सः शीघ्रमेव श्रान्तः अभवत् । किञ्चित् दूरगमनानन्तरं सः परस्परं कलहमग्नौ द्वौ युवकौ दृष्टवान् । कलहस्य कारणम् आसीत् तयोः मध्ये कः बुद्धिमान् ? कः बलवान् ? इति । तत् श्रुत्वा सः वृद्धः तौ सान्त्वयन् अहं निर्णयं करोमि इत्युक्त्वा कञ्चित् उपायं करोति । (“केन्द...

आदर्शसहोद्योगिनः अन्वेषणम् 05.10.2026

प्राचीनभारते नागार्जुननामकः कश्चन प्रसिद्धः आयुर्वेदशिक्षकः आसीत् । सः रसायनशास्त्रेऽपि निपुणः आसीत् । वार्धक्यकारणात् सः पूर्ववत् कार्यं कर्तुं न शक्नोति स्म । अतः सः एकस्य समर्थस्य साहाय्यकस्य नियोजनं चिन्तितवान् । यद्यपि तस्य शताधिकाः छात्राः आसन् तथापि मौखिक-व्यावहारिकयोः परीक्षयोः अनन्तरं वेणुगुप्तः शीलादित्यः चेति द्वौ एव सफलतां प्राप्तवन्तौ । तयोः अपि परिक्षायां शिलादित्यः एव जयं प्राप्नोति...

मुकुटधारी तु मोक्तुकामोSस्ति 04.10.2026

कस्मिंश्चित् वने कश्चन शशः परिवारेण सह निवसति स्म । यद्यपि शशः तस्य पत्नी च बहिः गमनसमये 'बहिः नः गन्तव्यम्' इति स्व-अपत्यानि सूचयतः तथापि शिशवः वारं वारं बहिः गत्वा क्रीडन्ति स्म । कदाचित् कश्चन दयालुः गजः क्रीडतः शशकान् दृष्ट्वा चिन्ताक्रान्तः भूत्वा 'भवतां मातापितरौ कुत्र?’ इति पृच्छति पितृभ्यां सूचनार्थम् । किन्तु प्रत्यागतौ मातापितरौ प्रवृत्तं सर्वं विदित्वा 'सः दुष्टगजः स्यात्' इति मत्वा कुप...

सः पापीयान् 03.10.2026

केचन जनाः दुःखदघटनाः शीघ्रमेव विस्मरन्ति । अन्ये तु ताः घटनाः चिरकालं यावत् स्वमनसि वहन्ति । ते क्रोधं द्वेषम् अपमानं दुःखं च न त्यजन्ति । तर्हि पापी कः ? यः दुःखं ददाति सः अथवा यः तदेव दुःखं चिरकालं यावत् स्वमनसि धारयति सः ? बौद्धभिक्षुद्वयस्य एषा कथा अस्य प्रश्नस्य उत्तरं ददाति। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Some people quickly...

यात्राफलम् 02.10.2026

आनन्दपुरे रामः भीमः च द्वौ स्नेहितौ आस्ताम् । द्वौ अपि परिश्रमेण कृषिं कुरुतः । कदाचित् काशीयात्रां कर्तुं तौ द्वौ निश्चितवन्तौ । रामः गृहजनानां बन्धूनां च साहाय्येन धनसङ्ग्रहणं कृतवान् । भीमस्य तु धनस्य चिन्ता नासीत् । तयोः यात्रा कथं प्रचलति, किं किं जायते, यात्रा सफला भवति वा न वा इत्येव अस्याः कथायाः कथावस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्व...

रजकोषः प्रजोपयोगाय 01.10.2026

कदाचित् काशीक्षेत्रम् आगतवतः स्वामिनः सच्चिदानन्दस्य प्रवचनं योगानन्दमहाराजस्य आश्रमे जातम् । काशीनरेशः नटवरसिंहः सामान्यवेषं धृत्वा आश्रमं गतवान् । प्रवचनान्तरं महाराजः स्वपरिचयम् उक्त्वा स्वामिनं राजभवनं नीतवान् । सत्कारानन्तरं स्ववैभवं दर्शयितुम् अभिलषितवान् । यदा सः कोषागारं दर्शितवान् तदा 'अनेन कोषागारेण किं प्रयोजनम्?' इति अपृच्छत् स्वामी । 'यत् सम्पादितं तत् प्रजानां प्रयोजनाय भवेत् । विद्य...

कस्य कृते कस्य त्याग‌? 30.09.2026

कस्यचन वीतरागस्य सर्वसङ्गपरित्यागिनः साधोः दर्शनार्थं कश्चन महाराजः गतवान् । स्वसमीपम् अगतवन्तं महाराजं दृष्ट्वा साधुः आश्चर्यान्वितः जातः । 'भवान् त्यागी अस्ति । समाजे त्यागिनः पुरुषाः एव सर्वाधिकम् आदरणीयाः भवन्ति' इति महाराजः अवदत् । किन्तु साधुः अवदत् 'भवान् एव महात्यागी' इति । तदनन्तरं या चर्चा प्राचलत् तया चर्चया महाराजस्य ज्ञानोदयः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर...

चतुरः शृगालः 29.09.2026

कस्मिंसश्चित् वने शृगालः, व्याघ्रः, मूषकः, वृकः, नकुलः च मित्रभावेन मिलित्वा निवसन्ति स्म । कदाचित् वनमध्ये भ्रमन्तः ते एकं पुष्टं हरिणम् अपश्यन् । शृगालस्य युक्त्या तं हरिणं मारितवन्तः । किन्तु हरिणस्य समग्रमपि शरीरं स्वयम् एव खादनीयम् इति विचिन्त्य शृगालः एकम् उपायं करोति । चतुरः शृगालः स्वबुद्ध्या सर्वान् निवार्य सर्वमपि हरिणमांसं खादति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गतत...

पितृव्यस्य बुद्धिमत्ता 28.09.2026

वणिजः वीरभद्रस्य चत्वारः पुत्राः आसन् । सः पुत्रेषु अतीव स्निह्यति स्म । कदाचित् वीरभद्रः पुत्रेभ्यः दत्तानि अङ्गुलीयकानि प्रतिस्वीकृत्य एकस्यां पेटिकायां निक्षिप्य स्वस्य मरणानन्तरं मातरं पृष्ट्वा पुनः अङ्गुलीयकानि स्वीकुर्वन्तु इति अवदत् । यदा वीरभद्रस्य मरणं जातं तदा कनिष्ठः पुत्रः यथाकथञ्चित् पेटिकातः अङ्गुलीयकम् अचोरयत् । पितुः उत्तरक्रियायाः अनन्तरं यदा अन्ये पुत्राः पेटिकाम् उद्घाटितवन्तः त...

तत्र प्रीतिः यत्र निःस्वार्थता 27.09.2026

कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'भवतः पत्नीषु भवति का अधिका स्निह्यति ?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । कृष्णः अवदत् 'अश्रुजलमिश्रिता पादेन मर्दिता च मृत्तिका एव अस्याः वेदनायाः औषधम्' इति । नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य औषधम् अयाचत । परन्तु सर्वतः अपि निराकरणरूपमेव उत्तरं प्राप्नोत् । अन्ते सः राधायाः समीपं गत्वा...

न त्यक्तव्यः अभ्यासः 26.09.2026

कस्मिंश्चित् ग्रामे वर्षत्रयं वृष्टिः न भविष्यति इति ज्ञात्वा ग्रामवासिनः जीवनार्थं यत्र कुत्रापि गतवन्तः । किन्तु एकः कृषकः तत्रैव स्थित्वा स्वशुष्कक्षेत्रस्य कर्षणं करोति स्म । एकदा आकाशे सञ्चरन् एकः मेघः तं कृषकं दृष्ट्वा आश्चर्येण अपृच्छत् 'किमर्थम् अत्रैव स्थितवान् भवान् ?' इति । तदा कृषकः अवदत् 'कृषिकार्यं विस्मृतं भवति यदि अहम् अन्यत्र गच्छामि । क्षेत्रकर्षणस्य अभ्यासः एव नष्टः भवेत्' इति ।...

त्यागस्य फलम् 25.09.2026

कश्चन शिल्पी यां यां शिलां पश्यति स्म तया शिलया सुन्दरीं मूर्तिं निर्माय विक्रीणीते स्म । कदाचित् उत्तमया शिलया विग्रहं कुर्याम् इति विचिन्त्य तां शिलां खण्डयित्वा भागद्वयम् अकरोत् । एकः भागः शिल्पिनः प्रहारं सोढुम् अशक्नुवन् दूरं गन्तुं प्रयत्नम् अकरोत् । शिल्पी निराशः भूत्वा अन्यं भागं स्वीकृत्य बहुपरिश्रमेण कार्यं कृत्वा सुन्दरं गणेशविग्रहं निर्मितवान् । सः विग्रहः देवालये प्रतिष्ठापितः अभवत् ।...

परमेश्वरभक्तः 24.09.2026

कश्चन शिवभक्तः आसीत् । तेन एकः श्लोकः रचितः आसीत् । "तस्य श्लोकस्य विशेषः कः इत्युक्ते प्रतिपदं प्रथमाक्षरं परित्यज्य पठनेन विष्णुपरकः अर्थः भवति । सः शिवभक्तः सन् कथं किमर्थं च शिवविष्ण्वोः स्तोत्रम् एकेनैव श्लोकेन कृतवान् इति पृष्ठभूमिकायां वर्तते इयं कथा । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was a devotee of Lord Shiva who com...

कोSहम्? 23.09.2026

दयानन्दसरस्वती यदा युवकः आसीत् तदा सः सद्गुरोः अन्वेषणं कुर्वन् आसीत् । तदर्थं सः ग्रामं ग्रामम् अटति स्म । कदाचित् सः मथुरानगर्यां स्वामीविरजानन्दस्य विषये बहु श्रुतवान् । विरजानन्दः जन्मना अन्धः आसीत् । परन्तु प्रजाचक्षुः सः महान् ज्ञानी इति विख्यातः आसीत् । अनया कथया ज्ञायते कथं दयानन्दसरस्वती तस्य शिष्यः जातः इति । गुरुशिष्ययोः ऐतिहासिकमेलनेन कालान्तरे विश्वमानवतायाः क्षेत्रे वेदानां नवीनमार्ग...

नाम्नः माहात्म्यम् 22.09.2026

श्रीरामस्य लङ्काभियानसमयः । नलनिलयोः मार्गदर्शने सागरे सेतुनिर्माणम् आरब्धम् । सुविशालेषु प्रस्तरखण्डेषु रामनाम विलिख्य स्थापनेन ते जले अनिमग्नाः सन्तः स्थिरतया तिष्ठन्ति स्म । तत् दृष्ट्वा श्रीरामः सागरतटे कार्यरतेभ्यः वानरेभ्यः किञ्चित् दूरं गतवान् । भूम्याः एकां शिलाम् उन्नीय तां सागरजले निक्षिप्तवान् । आश्चर्यम् ! शिला तु पूर्णतया सागरजले निमग्ना जाता । एतत् सर्वं दृष्टवान् हनूमान् एवं कथयति "...

अनन्यशरणत्वम् 21.09.2026

नन्दनृपतिः मगधदेशे पाटलीपुत्रे शासनं कुर्वन् आसीत् । चाणक्यः चन्द्रगुप्तस्य साहाय्येन पाटलीपुत्रं वशीकर्तुं प्रयत्नं कुर्वन् आसीत् । नन्दनृपतिः अपि चाणक्यं चन्द्रगुप्तं च निग्रहीतुं सर्वत्र सैनिकान् नियुक्तवान् आसीत् । कदाचित् अरण्यमार्गे चाणक्यचन्द्रगुप्तौ गच्छन्तौ आस्ताम् । कश्चन नन्दनृपतिसैनिकः तयोः अनुधावनं कृतवान् । तौ पादचारिणौ, सः सैनिकः अश्वारूढः । अतः चाणक्यः कञ्चन उपायम् कृत्वा आत्मानं च...

रागिणां कीदृशी गतिः 20.09.2026

कश्चन महान् कृपणः वणिक् आसीत् । सः आदिनम् आपणे कार्यं करोति स्म । तेन बहु धनं सम्पादितम् आसीत् । स्वीये वार्धके अशीतितमे वर्षे सः अतीव रुग्णः आसीत् । तस्य अन्तकाले सर्वे गृहजनाः तं परितः स्थितवन्तः आसन् । तान् सर्वान् दृष्ट्वा सः वृद्धः किं पृष्टवान् जानन्ति वा ? "सर्वे अत्र सन्ति चेत् आपणे कः अस्ति ?” इति । अहो ! रागिणां कीदृशी गतिः यत् ते अन्तकालेऽपि न मुञ्चति संसारे मोहम् । (“केन्द्रीयसंस्कृतवि...

Escucha el podcast बालमोदिनी en Replaio

Radio y podcasts en una sola app - gratis y sin registro. Instálala hoy y no te pierdas el estreno

Descárgala en Google Play

Replaio no es editor de podcasts; los nombres de los programas, las portadas y el audio pertenecen a sus autores y se distribuyen a través de canales RSS públicos