सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Koniecznie odwiedź stronę podcastu i wesprzyj twórcę: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategoria
Strona podcastu
Ostatni odcinek
11 lip 2026
Gdzie słuchać?
Podcasty w aplikacji Replaio Radio Już wkrótcePodcasty trafią do aplikacji już wkrótce. Zainstaluj teraz i jako pierwszy zobacz nowe podejście do podcastów
Odcinki
अध्यात्ममार्गे 08.03.2026 3:07
कश्चन गुरुः दुःखे विद्यमानं भक्तं वदति 'भवान् पुण्यवान्' इति । सन्तोषेण स्थितवन्तं भक्तं तु प्रहरति । तद् दृष्ट्वा नूतनः शिष्यः ज्येष्ठं शिष्यं आचार्यस्य आचरणस्य आन्तर्यं किम् इति पृच्छति । तदा ज्येष्ठः शिष्यः वदति 'यः दुःखे भवेत् सः आत्मना कृतं दोषम् अवगच्छति, अध्यात्ममार्गे अग्रे गच्छति च । यः सन्तोषेण स्थितः अस्ति सः स्वस्य दोषः कः इति न जानाति स्म, ज्ञातुं प्रयासमपि न करोति स्म । अतः एव तं प्...
भवेत् आन्तरङ्गिकः विकासः 07.03.2026 3:32
कश्चन राजा भौतिकव्यवस्थापरिकल्पनमात्रात् सुखशान्त्यादयः वर्धिष्यन्ते इति विचिन्त्य सर्वविधानि आनुकूल्यानि प्रजानां कृते परिकल्पितवान् आसीत् । तथापि सुखशान्त्यादयः प्रवृद्धाः न दृश्यन्ते इति यदा सः स्वस्य मार्गदर्शकं संन्यासिनम् उप्सर्प्य अवदत् तदा संन्यासी 'सुखशान्त्यादयः आन्तरङ्गिकाः । ते च भावाः जनानां मनस्सु स्वयम् उत्पन्नाः भवेयुः । तदर्थं धार्मिकोपन्यासाः आयोजनीयाः, सत्सङ्गादयः व्यवस्थापनीयाः...
असदृशी प्रीतिः 06.03.2026 3:13
श्रीरामे हनूमतः महती प्रीतिः, प्रेम, आदरः च । कदाचित् सिन्दूरलेपनं कुर्वतीं सीतां दृष्ट्वा सः सिन्दूरलेपनस्य कारणं किम् इति पृच्छति । तदा 'तव स्वामिनः दीर्घायुष्यं प्रार्थयमाना अहं सिन्दूरलेपनं करोमि' इति अवदत् सीता । तत् श्रुतवान् आञ्जनेयः आपणं गत्वा महास्यूतेन सिन्दूरम् अनीय गृहं गत्वा स्नानं कृत्वा समग्रं शरीरं सिन्दूरेण लिप्त्वा सीतारमयोः पुरतः स्थितः । सीतामातुः नेत्रे अश्रुपूर्णे जाते । अद्य...
आवश्यकतापूरणम् एव श्रेष्ठः धर्मः 05.03.2026 4:36
कदाचित् कश्चन कुग्रामवासी कस्यचन धनिकस्य गृहं गत्वा जलं याचति । किन्तु धनिकः तस्य मलिनवस्त्रं दृष्ट्वा क्रुद्धः भूत्वा किमपि न यच्छति । अग्रे कदाचित् सः धनिकः यदा मृगयार्थं गतः तदा मार्गभ्रष्टः सन् बहुधा अटित्वा अन्ते कुग्रामवासिनः गृहं प्राप्नोत् । किन्तु सः कुग्रामवासी धनिकाय जलं भोजनं शयनाय स्वस्य मञ्चं च दत्तवान् । अग्रिमदिने यदा धनिकः सुवर्णनाणकानि कुग्रामीणाय कृतज्ञतापूर्वकं दातुम् उद्यतः त...
ज्ञानाय परिश्रमः एव मार्गः 04.03.2026 3:21
कश्चन राजा तस्य पुत्रं गुरुकुलं प्रेषयितुम् इच्छन् तत्रत्यम् आचार्यम् अपृच्छत् यत् तस्य पुत्रस्य वासशिक्षणादिनिमित्तं कापि विशेषव्यव्यस्था परिकल्पयितुं शक्यते वा इति । तदा आचार्यः अवदत् 'राजकुलीयानां सञ्चाराय, वासाय, आहारस्य वा विशेषव्यवस्था भवेत् राजभवने किन्तु ज्ञानमार्गेण ये गन्तुम् इच्छेयुः तेषां निमित्तं पार्थक्येन न भवति विशेषमार्गः । अत्र राजकुमारेण सर्वैः सह वासः करणीयः, सर्वैः यत् सेव्येत...
सार्थकताप्राप्तिमार्गः 03.03.2026 3:28
कश्चन ख्यातः विद्वान् कञ्चित् ज्योतिषिकं द्रष्टुं गतः द्वित्रैः अनुयायिभिः सह । ख्यातनामा सः ज्योतिषिकः मुखदर्शनमात्रेण एव पुरतः स्थितस्य जनस्य गुणस्वभावादिकं वक्तुं समर्थः आसीत् । सः विदुषः मुखं किञ्चित् कालं दृष्ट्वा तस्मिन् विद्यमानान् बहून् दुर्गुणान् उल्लिखितवान् । तथापि सः महाजनः दक्षिणारूपेण प्रभूतं धनं दत्त्वा ततः प्रतिगतवान् । प्रतिगमनसमये कश्चन अनुयायी अपृच्छत् 'यद्यपि सः ज्योतिषिकः अप्...
परिशुद्धतायाः फलम् 02.03.2026 4:11
कस्मिंश्चित् संशोधनकेन्द्रे अन्तिमचक्रस्य संदर्शने सि.वि.रामन्वर्यः षण्णाम् अभ्यर्थिनां सन्दर्शनं कृत्वा तेषु त्रीन् चितवान् । तेभ्यः षड्भ्यः अपि यातायातव्ययं दातुं तत्सम्बद्धम् अधिकारिणम् असूचयत् सः । तेषु एकः युवकः यः सन्दर्शने न चितः सः रामन्-वर्यम् उपसर्प्य 'यः यातायतव्ययः प्रदत्तः, तत्र दोषेण सप्त रूप्यकाणि अधिकानि दत्तानि' इति अवदत् । रामन्-वर्यः सप्त रूप्यकाणि स्वीकृत्य अग्रिमरदिने मेलितुम्...
भगवदुपासनायाः उद्देशः 01.03.2026 3:16
कस्यचन आश्रमस्य अर्थस्थितिः नास्ति इत्यतः तत्रत्यः आचार्यः आश्रमस्य निर्वहणार्थं सर्वदा कष्टम् अनुभवति स्म । अतः कश्चन शिष्यः आचार्यम् उपसर्प्य 'भवान् आश्रमस्य अर्थक्लेशस्य निवारणाय किमर्थं भगवन्तं न प्रार्थयते?’ इति अवदत् । तदा आचार्यः अवदत् 'प्रतिफलम् अपेक्ष्य भगवदुपासना न करणीया वत्स ! असीमानन्दानुभूत्यै वयं निसर्गं पश्यामः, न तु प्रतिफलापेक्षया । एवमेव भगवदुपासना अपि असीमानन्दस्य अनुभूत्यै एव...
भगवतः साक्षात्कारः 28.02.2026 3:14
अस्यां कथायां कश्चन महात्मा बहून् ग्रन्थान् अधीतवन्तं कञ्चन पण्डितं भगवतः साक्षात्कारस्य विषये वदति । भगवान् प्रत्यक्षतः स्वप्ने वा प्रकटीभवेत् यत् तदेव भगवतः साक्षात्कारः इति मन्यमानं पण्डितं महात्मा वदति 'भगवान् सर्वेषु जीविषु अस्ति । अतः दीनदुर्गतानां सेवां कुर्वन् भवान् भगवत्स्वरूपं पश्यतु । परोपकारः भवतः स्वभावः भवतु । नदीतरुगुल्मादिषु अपि भगवत्स्वरूपं द्रष्टव्यम् । एतादृशात् आचरणात् एव सर्वत...
आकाशस्य आधारः 27.02.2026 3:33
'आकाशस्य आधारः एव नास्ति । निराधारः आकाशः ममोपरि पतेत् चेत् मम का गतिः ?’ इति कश्चन बालकः स्वस्य चिन्तनं कस्मैचित् संन्यासिने अवदत् । मन्दहासं प्रकटयन् संन्यसी बुभुक्षाग्रस्तं बालकं 'भिक्षायाचनं कृत्वा आहारं प्राप्य बुभुक्षां निवारय' इति असूचयत् । भिक्षायाचनाय गतः बालकेन किमपि न प्राप्तम् । नितरां खिन्नेन तेन ग्रामात् बहिः कश्चन उटजः प्राप्तः । तत्र काचित् माता तस्मै प्रीत्या भोजनं दत्तवती । प्रव...
निर्व्यामोहप्राप्त्यै मार्गः 26.02.2026 3:29
कदाचित् कश्चन राजा कस्मैचित् संन्यासिने सुवर्णमयं भिक्षापात्रम् अयच्छत् । संन्यासी तेन भिक्षापात्रेण भिक्षायाचनं करोति स्म । कश्चन चोरः तत् पात्रं चोरयितुं तं संन्यासिनं रहसि अनुसृतवान् । एतत् ज्ञातवान् संन्यासी भिक्षापात्रं बहिः अक्षिपत् । तत् दृष्ट्वा निर्व्यामोहम् अमूल्यं भिक्षापात्रं बहिः क्षिप्तवान् अयं महात्मा इति विचिन्त्य अन्तः गत्वा महात्मानं नमस्कृत्य 'कथम् अमूल्यं वस्तु बहिः क्षिप्तं भव...
यद्विना सर्वमपि व्यर्थं तत् ..... 25.02.2026 3:52
कस्यचन विद्याकेन्द्रे ज्योतिष-वैद्यकीय—शिल्पशास्त्रादयः जीवनोपयोगिन्यः विद्याः प्राधान्येन अध्याप्यन्ते स्म । देशस्य नानाकोणेभ्यः विदेशेभ्यः च अध्ययनोत्सुकाः तत् विद्याकेन्द्रं प्रति आयान्ति स्म । कदाचित् तं विद्याकेन्द्रं द्रष्टुम् आगतेन केनचित् महात्मना दिनद्वयं स्थित्वा सर्वा व्यवस्था परिशीलिता । सः यदा प्रस्थातुम् उद्यतः तदा तस्य विद्याकेन्द्रस्य प्राचार्यः तस्य अभिप्रायम् अपृच्छत् । तदा महात्...
चतुर्विधा शुद्धिः 24.02.2026 2:58
कदाचित् कश्चन राजा कस्यचन आश्रमस्य गुरुम् उपसर्प्य स्वस्य व्यवहारः कीदृशः भवेत् इति मार्गदर्शनं प्रार्थयते । तदा गुरुः 'चतुर्विधा शुद्धिः अपेक्ष्यते' इति अवदत् । ताः काः इति राज्ञा पृष्टे गुरुः अवदत् 'कायिकी, मानसिकी, आर्थिकी, आन्तरङ्गिकी' चेति । ततः गुरुः तासां शुद्धीनां विवरणं ददाति । तासां च प्राप्त्यर्थं किं किं करणीयम् इति सर्वं राजानं बोधयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजना...
परोपकारः प्रवृत्तिः 23.02.2026 2:56
आ बाल्यात् परोपकारी सेवातत्परः च रामरमणः जगन्नाथस्य भक्तया मात्रा कनककुमार्या सर्वदा बोधितः भवति स्म - 'दुःखग्रस्तानां साहाय्यं यदि क्रियेत तर्हि भगवान् सन्तुष्टः भवेत्' इति । कदाचित् शिरोभ्रमणं प्राप्य पतितवतः कस्यचन वृद्धस्य सेवां करोति रामरमणः । वृद्धस्य वस्तूनि स्वशिरसि संस्थाप्य यदा वृद्धेन सह प्रस्थितः तदा 'निम्नजातीयस्य मम वस्तूनि भवता न वोढव्यानि' इति अवदत् वृद्धः। 'भगवतः दृष्ट्या सर्वे स...
भेदांशः अयमेव 22.02.2026 2:53
कश्चन राजा कञ्चन संन्यासिनम् अपृच्छत् 'आवयोः भेदः कः?' इति । तदा संन्यासी अवदत् 'किञ्चिद्दूरं सञ्चराव । तत्र अहं ज्ञापयिष्यामि' इति । ततः प्रस्थितवन्तौ । बहवः ग्रामाः अतिक्रान्ताः । सुदूरम् अतिक्रान्तं चेदपि संन्यासी किमपि न अवदत् । एतत् असहमानः राजा 'कियद्दूरम् एव गमनम्?’ इति यदा अपृच्छत् तदा 'अग्रे गच्छाव तावत्' इति अवदत् संन्यासी । तदा राजा वदति 'मया प्रासादः प्रतिगमनीयः। मम राज्यम् अस्ति, पत्न...
देशसमृद्धिः न सुवर्णेन 21.02.2026 2:39
कश्चन राजा सुवर्णनिर्माणविद्यां ज्ञातुं कस्मिंश्चित् आश्रमे मासं यावत् न्यवसत् । आश्रमे सः सत्सङ्गकार्यक्रमे भागम् ऊढवान् । अन्तिमदिने यदा संन्यासी अपृच्छत् 'श्वः सुवर्णनिर्माणविद्यां बोधयिष्यामि किम्?’ इति । तदा राजा अवदत् 'महात्मन्! तस्य आवश्यकता नास्ति । मम हृदयम् अमृतरसायनेन पूर्णम् अस्ति । सत्सङ्गस्य कारणतः जनाः लोभ-मोह-अहङ्कारादिभ्यः विकारेभ्यः मुक्ताः भवन्ति । अतः देशे सत्सङ्गानां व्यवस्थाप...
कृष्णः ध्वजः श्वेतः जातः 20.02.2026 3:00
कदाचित् कश्चन लुण्ठाकः पश्चात्तापं प्राप्य कञ्चित् गुरुं दृष्ट्वा सन्मार्गप्राप्तीच्छां वदति । तदा गुरुः तस्मै एकं कृष्णध्वजं दत्त्वा 'एतं गृहीत्वा तीर्थयात्रां कुरु । यदा एषः श्वेतः भविष्यति तदा भवतः पापात् मुक्तिः' इति अवदत् । शताधिकेषु तीर्थेषु तेन स्नानं कृतं चेत् अपि ध्वजः श्वेतवर्णतां न गतः । तस्मात् सः नितरां खिन्नः । अथ कदाचित् सः दशाधिकेभ्यः दुष्टेभ्यः काञ्चित् सुन्दरीं रक्षितवान् । तदा ह...
उचितम् आचरणम् 19.02.2026 2:32
कदाचित् कश्चन कृषिकः बुद्धस्य कार्यक्रमम् आयोजितवान् । किन्तु प्रवचनदिने सः कृषिकः एव अनुपस्थितः आसीत् । ग्रामजनाः कृषिकः बुद्धस्य विषये अगौरवं दर्शितवान् इति परस्परम् अवदन् । अनन्तरदिने सर्वेषां सम्मुखे बुद्धः कृषिकस्य अनुपस्थितेः कारणं यदा अपृच्छत् तदा कृषिकः अवदत् 'मम वृषभः नितराम् अस्वस्थः आसीत् । पशुचिकित्सालयं प्रति सः नेतव्यः आसीत् । अतः प्रवचनकाले उपस्थातुं न शक्तवान्' इति । तदा बुद्धः जना...
समस्यापरिहारः 18.02.2026 2:43
कश्चन जनः बह्वीभिः समस्याभिः ग्रस्तः आसीत् । समस्यानां परिहारस्य मार्गं ज्ञातुम् इच्छन् सः कस्यचित् महात्मनः आश्रमं गत्वा मार्गदर्शनं क्रियताम् इति प्रार्थयति । बहुधा पृष्टः अपि महात्मा किमपि उत्तरं न अवदत् । अन्ते महात्मनः मौनप्रतिस्पन्दनं सोढुम् अशक्नुवन् सः जनः अवदत् 'भवान् तु किमपि अवदन् मयि उपेक्षां दर्शयति । समस्यानां परिहाराय अहमेव मार्गं चिन्तयिष्यामि । शरीरे शक्तिः अस्ति । मयि बुद्धिमत्ता...
गुडाकेशः लक्ष्मणः 17.02.2026 3:12
श्रीरामस्य वनवासकाले घटिता घटना एषा । लक्ष्मणः गुडाकेशः इति प्रसिद्धः इति तु वयं जानीमः । गुडाका नाम निद्रा । निद्रायाः ईशः गुडाकेशः । निशादेवीतः प्राप्तवरः एषः । किन्तु किञ्चन निबन्धम् आसीत् । तत् च यावती निद्रा लक्ष्मणेन त्यज्येत तावतीं निद्राम् अन्यः कश्चित् स्वीकुर्यात् इति । सीतायाः यादृशी पतिभक्तिः तादृशी एव पतिभक्तिः ऊर्मिलायाः अपि । अतः सा निद्रादेव्याः प्रस्तावं ससन्तोषम् अङ्गीकृतवती । तद...
दुर्गुणानां दर्शनम् 16.02.2026 2:47
कस्यचन शिष्यस्य अध्ययनशीलतां सेवाभावं च दृष्ट्वा सन्तुष्टः गुरुः गुरुकुलात् निर्गमनकाले तस्मै एकं दिव्यं दर्पणं दत्तवान् । पुरतः स्थितस्य जनस्य मनोभावान् दर्शयितुं सामर्थ्यम् आसीत् तस्य दर्पणस्य । तस्य सामर्थ्यं परीक्षितुम् इच्छन् सः आदौ गुरोः पुरतः गृहीतवान् । तत्र मोहाहङ्कारक्रोधादयः तेन लक्षितः । ततः सः मित्राणां पुरतः, मातपित्रोः पुरतः च तं दर्पणं गृहीतवान् । तेन बहवः दुर्गुणाः दृष्टाः । एतस्म...
दैनिकनियमपालनम् 15.02.2026 2:58
नोबेल्-पुरस्कारविजेता भारतरत्नं चन्द्रशेखरवेङ्कटरामः प्रसिद्धः विज्ञानी चेदपि प्रतिदिनं देवपूजानिमित्तम् उपनिषदादिग्रन्थपारायणाय च कञ्चित् समयं नियततया व्ययीकरोति स्म । एतत् जानन् कश्चन विज्ञानी वदति 'प्रसिद्धः विज्ञानी भवान् । यानि विज्ञानसिद्धानि न, तादृशेषु अंशेषु भवतः प्रवृत्तिः न उचिता' इति । तदा वेङ्कटरामः अवत् 'इदानीं तु विज्ञानसिद्धानि न । किन्तु भाविनि काले यदि तेषां विषये प्रमाणं लभ्येत...
सत्फलप्राप्तिः 14.02.2026 2:54
कदाचित् कश्चन भक्तः भगवन्तं बुद्धम् उपसर्प्य अपृच्छत् 'आर्य! भवतः उपदेशस्य कारणतः अद्यावधि कियन्तः जनाः सत्यदर्शनं प्राप्तवन्तः स्युः, कियन्तः च मोक्षमार्गस्य अनुसरणं कृतवन्तः स्युः' इति । 'अस्य उत्तरं श्वः वदिष्यामि । तदभ्यन्तरे ग्रामे अटित्वा कः किम् इच्छति इति ज्ञात्वा आगच्छतु' इति अवदत् बुद्धः । जनाः तु दुःखस्य निवारणम्, अस्वास्थ्यस्य अपगमनं, पुत्रादीनाम् उद्योगं, धनप्राप्तिं, पौत्रप्राप्तिं,...
लक्ष्म्याः निवासः 13.02.2026 2:15
'गावः लोके पूज्याः भवन्ति । गोषु वासेन ममापि गौरवं वर्धेत' इति विचिन्त्य लक्ष्मीदेवी गवां समूहम् उपसर्प्य स्वपरिचयम् उक्त्वा स्वेच्छां प्रकटय्य तदर्थम् अनुज्ञां प्रार्थयति । तदा गावः उक्तवत्यः 'पूज्ये! भवती पूजार्हा चेदपि चञ्चलत्वेन भवत्याः अपख्यातिः अस्ति । अतः भवत्यै आश्रयं दातुं नेच्छामः वयम्' इति । 'भवत्यः गुणवत्यः परोपकारशीलाः च । अतः कस्मिंश्चित् अङ्गे वासाय अवसरः दीयताम्' इति पुनः लक्ष्मीः...
पतितस्य उद्धारः 12.02.2026 2:52
कदाचित् कश्चन भ्रमणसमये कूपे अपतत् । तं रक्षितुं कश्चन महापुरुषः आगतवान् । सः ग्रन्थिकायुक्तां रज्जुं कूपस्य अन्तः क्षिप्त्वा अवदत् 'ग्रन्थिकां गृहीत्वा त्वम् उपरि आगच्छ' इति । कूपे स्थितस्य कृषिकस्य मनसि संशयः आसीत् । अतः सः अपृच्छत् 'कर्षणसमये रज्जुः भग्ना भवेत् चेत्?’ इति । 'रज्जुः अस्ति शक्तियुक्ता' इति महापुरुषेण उक्ते अपि पुनः पुनः नैकविधान् संशयान् प्रकटयति सः कृषिकः । महापुरुषस्य वचने कृषि...
Replaio nie jest wydawcą podcastów; nazwy audycji, okładki i audio należą do ich autorów i są rozpowszechniane przez publiczne kanały RSS