सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Koniecznie odwiedź stronę podcastu i wesprzyj twórcę: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategoria
Strona podcastu
Ostatni odcinek
15 paź 2026
Gdzie słuchać?
Podcasty w aplikacji Replaio Radio Już wkrótcePodcasty trafią do aplikacji już wkrótce. Zainstaluj teraz i jako pierwszy zobacz nowe podejście do podcastów
Odcinki
सम्राट् कीदृशः स्यात् ? 01.08.2026 2:53
कदाचित् कश्चन सम्राट् रथे उपविश्य राजमार्गेण गच्छन् आसीत् । तस्मिन् मार्गे गच्छन्तं कञ्चन सामान्यवेषधारिणं विरागिणम् अपसर्तुं कश्चन भटः प्रयासम् अकरोत् । किन्तु सः विरागी परिवृत्य सम्राजं सकृत् दृष्ट्वा मन्दहासं प्रकटय्य शान्तभावेन यथापूर्वम् अग्रे अगच्छत् । यदा रथः विरागिणः समीपम् आगच्छत् तदा क्रुद्धः सम्राट् अगर्जत् । तदनन्तरं तयोः मध्ये यत् सम्भाषणं प्रचलितं तेन स्वस्य दोषम् अवगत्य सम्राट् रथात...
तृतीयं 'नेत्रम्' 31.07.2026 3:19
मानवानां तृतीयं नेत्रं किम् इति भवद्भिः ज्ञायते वा ? कदाचित् कस्यचन साधोः भगवतः च सम्भाषणसमये भगवान् विवृणोति मानवानां तृतीयस्य नेत्रस्य विषये 'तत् तृतीयं नेत्रम् अस्ति मानवानाम् अन्तः । 'विवेकः' इति तस्य नाम । तस्य अस्तित्वं मानवाः जानन्ति अपि । किन्तु दौर्भाग्य नाम ते तस्य उपयोगं विरलतया एव कुर्वन्ति' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं...
यत् ज्ञानम् अन्यान् पराजेतुम् 30.07.2026 2:53
पूर्वं वामनपण्डितः नामा कश्चन महान् गर्वितः पण्डितः विविधान् ग्रामान् गत्वा पण्डितान् पराजित्य सः स्वस्य जयं प्रख्यापयति स्म । गच्छता कालेन भगद्गीतार्थं विवृण्वन् सः एकां विस्तृतां व्याख्यां लिखितवान् । सा एव व्याख्या 'भगवद्दीपिका' नाम । किन्तु तस्य गर्वस्य अपगमने काचित् स्वासरस्यकारी घटना प्रवृत्ता । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”...
जननी जन्मभूमिश्च.... 29.07.2026 3:00
सिराजुद्दौलः बङ्गालस्य राजा । कदाचित् आङ्ग्लेयैः सह यदा युद्धं प्रवर्तमानम् आसीत् तदा सिराजुद्दौलस्य सेनापतिः शत्रुपक्षम् आश्रितवान् । सिराजुद्दौलः महान्तम् आघातं प्राप्य चिन्ताक्रान्तः जातः । एतत् लक्षितवती माता यदा कारणम् अपृच्छत् तदा 'अस्मदीयाः जनाः एव विश्वासघातं कृतवन्तः । देशद्रोहम् आचरितवन्तः । स्वस्य सैन्यम् अल्पम् । शत्रुबलम् अपारम्' इति अवदत् सिराजुद्दौलः । तदा मात्रा प्रेरणदायकानि उपद...
प्रशंसायाः प्राप्त्यर्थम् 28.07.2026 3:27
कश्चन मूर्तिकारः स्वपुत्रम् उत्तममूर्तिनिर्मातारं करोति । किन्तु पिता तेन पुत्रेण निर्मितासु कमपि दोषं पश्यति स्म । पितुः प्रशंसा कथमपि प्राप्तव्या एव इति सः विशेषप्रयासं करोति स्म । कदाचित् अग्रे पुत्रेण ज्ञातं यत् पित्रा किमर्थं तथा कृतम् इति । गर्वः उन्नतेः बाधकः भवति । सः सफलद्वाराणि पिदधाति । अतः एव पित्रा पुत्रेण निर्मितानां मूर्तीनां प्रशंसा न कृता । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टा...
सा अवध्या वन्द्या च 27.07.2026 3:30
प्रसिद्धः कथाकारः प्रेमचन्दः गोरक्षपुरे यदा अध्यापनरतः आसीत् तदानीन्तनी घटना एषा । प्रेमचन्दवर्येण काचन गौः पालिता आसीत् । कदाचित् चरणाय प्रेषिता सा गौः जनपदाधिकारिणः गृहपरिसरं प्राविशत् । तद् दृष्ट्वा सः अधिकारी तस्याः गोः मारणाय भुषुण्डिकाम् आनीतवान् । तावता तत्र प्रेमचन्दः आगत्य तस्य मूकजीविनः प्राणं रक्षति । गोमातुः विषये प्रेमचन्दस्य श्रद्धाम् अतिशयप्रीतिं च दृष्ट्वा जनपदाधिकारी महत् आश्चर्यं...
पापभीतेः मुक्तिः 26.07.2026 2:51
रावणस्य दिवङ्गतेः अनन्तरं लङ्कायाः उत्तराधिकारितां स्वीकर्तुं रामः विभीषणं बोधयति । रामस्य अनुरोधात् विभीषणः पट्टाभिषेकम् अङ्गीकृतवान् । यदा सर्वे पट्टाभिषेकविधयः सम्पन्नाः अभवन् तदा विभीषणः अग्रजस्य रावणस्य अन्याय्यमार्गेण अर्जितस्य सम्पत्तेः उत्तराधिकारी सन् पापभीतिम् अनुभवामि इति रामम् अवदत् । तदा रामः विभीषणं पापभीतेः मुक्तिमार्गम् अबोधयत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर...
चतुरः टोडरमलः 25.07.2026 7:06
राजा टोडरमलः सम्राजः अकबरस्य आस्थानस्य मन्त्रिषु अन्यतमः । वित्तवाणिज्यादिविभागान् प्राधान्येन सः निर्वहति स्म । 'नरनौल'नामके नगरे तस्य सुहृद् कश्चन श्रेष्ठी आसीत् यस्य गृहं सः सर्वदा गच्छति स्म । कदाचित् श्रेष्ठी दिवं गतः । तस्य सम्पत्तिः दायादैः वञ्चनया वशीकृता । अतः श्रेष्ठीपत्नी दारिद्र्यदशाम् आपन्ना । पूर्वं तस्य पुत्रस्य निमित्तं वधूः निश्चिता आसीत् । इदानीं वधूपक्षीयाः चिन्ताग्रस्ताः अभवन्...
सुखं मृगमरीचिकायते 24.07.2026 2:53
कश्चन राजा वार्धक्ये राज्यं पुत्राय समर्प्य एकाकी वनं प्रति प्रस्थितवान् । तदा कश्चन महात्मा तं राजानं संसारस्य विषये, संसारे सुखस्य विषये च बोधयति - संसारे सुखं मृगमरीचिकायते । सा मृगमरीचिका अस्मान् इतस्ततः भ्रामयति । सत्कर्मानुष्ठानात्, भगवतः ध्यानात् शरणागतितः च सुःखं प्राप्येत इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A king, in ol...
वास्तविकः सुहृत् 23.07.2026 4:11
बलभद्रनामा कश्चन वणिक्पुत्रः आसीत् । तस्य सम्पदं दृष्ट्वा अनेके जनाः तस्य सुहृदः अभवन् । तस्य आपणे सर्वदा सम्यक् खादन्तः जल्पन्तः मद्यं पिबन्तः च कालं यापयन्ति स्म । अथ कदाचित् दूरस्थात् ग्रामात् बलभद्रं द्रष्टुम् आगतः मातुलः सम्पत्तेः दुरुपयोगं दृष्ट्वा सुहृदां विषये पूर्वसूचनां ददाति यत् एते वास्तविकाः सुहृदः न इति । तेषां सुहृदां लघुपरीक्षां करोति । तया बलभद्रेण ज्ञायते कः वास्तविकः सुहृद् इति...
जयस्य कारणम् 22.07.2026 3:58
कश्चन बुद्धिमान् तरुणः सुशीलः अन्नदानस्य निराकरणं करोति । किमर्थम् इति पृष्टे 'एतादृशं दानं दातुः अहङ्कारस्य वृद्ध्यै भवेत्, न तु देशहिताय' इति वदति तरुणः । यदा सः राज्ञः समीपं नीतः तदा तरुणः वदति 'अन्नदानस्य कारणतः युवकाः अलसाः जाताः सन्ति । एतस्य प्रत्यक्षपरिणामः सैनिकेषु जायते । अतः देशे उद्योगावसराः वर्धनीयाः, न तु अन्नदानव्यवस्था' इति । तदनन्तरं यत् अग्रे भविष्यति तेन राजा बोधं प्राप्य यत् आव...
सूत्रद्वयम् 21.07.2026 3:14
यदा रावणः अन्तिमश्वासोच्छ्वासं कुर्वन् आसीत् तदा रामः सुव्यवस्थितजीवनसञ्चालनस्य सूत्राणि कानि इति ज्ञातुं लक्ष्मणं रावणस्य अन्तिकं प्रेषयति । लक्ष्मणः गत्वा जीवनस्य महत्त्वपूर्णमन्त्रः भव्यसूत्रं च किमस्ति इति रावणं पृच्छति । तदा रावणः स्वस्य जीवनस्य अनुभवाधारेण कथयति 'शिष्टाचारजीवनस्य द्वे सूत्रे स्तः । प्रथमं तु - श्रेष्ठं कार्यं कर्तुं कदापि विलम्बः न करणीयः । द्वितीयं - कुत्सितकार्ये शीघ्रता न...
विदेशगमने स्पृहा 20.07.2026 3:52
विदेशगमने स्पृहा जनैः किं किं कारयति इति अनया कथया ज्ञातुं शक्यते । कदाचित् कस्यचन विश्वविद्यालयस्य भौतशास्त्रविभागाय रशियादेशतः एकं निमन्त्रणपत्रम् आगतम् आसीत् । किन्तु तस्य विद्यालयस्य कुलसचिवः तां वार्तां न भौतविभागप्रमुखम् अवदत्, न वा कुलपतिम् । सः कदाचित् सभायां 'रशियादेशस्य विश्वविद्यालयः मां निमन्त्रितवान् अस्ति' इति उद्घोषितवान् । यदा सः देहलीम् अगच्छत् तदा कस्यचन अधिकारिणः मनसि संशयः उत्प...
निरशनम् इष्टसिद्धिपर्यन्तम् अपि 19.07.2026 3:33
हरियाणाराज्ये माहराग्रामे निवसन् फूलसिंहः निम्नजातीयानाम् उद्धरणम् एव जीवनस्य लक्ष्यं भावयति स्म । अथ कदाचित् पार्श्वस्थे 'मोट'नामके ग्रामे चर्मकारबान्धवाः स्वीयोपयोगार्थं कूपं खातवन्तः । किन्तु तत् असहमानाः यवनाः मृत्तिकाभिः तं कूपं पिहितवन्तः । भक्तः फूलसिंहः इदम् अन्याय्यं प्रतिरुद्ध्य सङ्ग्रामम् आरब्धवान् । यावत् पर्यन्तं कूपखननं न भविष्यति तावत् पर्यन्तं आहारसेवनं न करिष्यामि इति प्रतिज्ञातवा...
देशभक्तिः 18.07.2026 2:40
भारतस्य स्वातन्त्र्यसङ्ग्रामकाले बहवः देशभक्ताः यथाशक्ति सङ्ग्रामे भागं वहन्तः स्वस्य देशभक्तिं प्रकटितवन्तः । तेषु अन्यतमः आसीत् कश्चन नापितः यः चेन्नैनगरे (पूर्वं मद्रास् इति तस्य नाम आसीत्) वसति स्म । अनया कथया सः कथं सङ्ग्रामे भागम् ऊढवान् इति ज्ञातुं शक्नुमः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) During India’s freedom struggle, ma...
न आवश्यकं किमपि 17.07.2026 3:39
कश्चन वणिक् केनचन ज्योतिषेण उक्तम् इति कारणेन महता प्रमाणेन अन्नवितरणं कर्तुम् आरब्धवान् । तस्य मनसि चिन्ता आसीत् 'मम षष्ठपरम्परायां जातानां का अवस्था भवेत्?’ इति । कदाचित् अन्नवितरणसमये कञ्चन निर्धनम् अन्नं नेतुम् आह्वयति सः वणिक् । किन्तु मध्याह्नाय यावत् आवश्यकम् तावत् प्राप्तम् अस्ति । सायङ्कलनिमित्तमपि गृहे तण्डुलादिकम् अस्ति इति निर्धनः वदति । तदा वणिक् चिन्तयति 'एषः निर्धनः श्वस्तनव्यवस्थाव...
प्रतिमायां सजीवः देवः 16.07.2026 4:12
यद्यपि शिवकुमारेण आ गतेभ्यः विंशतेः वर्षेभ्यः लिपिकाररूपेण कार्यं कृतं तथापि पदोन्नतिः न प्राप्ता आसीत् । सहोद्योगिनः मार्गदर्शनेन सः रामं पूजितवान् । वर्षात् अधिकः कालः अतीतः चेदपि तेन किमपि फलं न प्राप्तम् । अपरस्य सहोद्योगिनः मार्गदर्शनेन श्रीकृष्णस्य पूजनम् आरब्धवान् । अग्रे किं भवति इति कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्...
कृतज्ञताभावः कथम् उह्येत ? 15.07.2026 2:52
१८७३ तमवर्षीया घटना एषा । राजप्रतिनिधिः लार्ड् नार्थबुक् नामा कदाचित् स्वामिनः दयानन्दस्य मेलनम् अभिलषितवान् । राजप्रतिनिधिना योग्यः एव सत्कारः व्यवस्थापितः आसीत् । सत्कारस्य समये सम्भाषणावसरे दयानन्दस्वामी निर्भयेन स्वस्य अभिप्रायं प्रकटयति । तस्य निर्भयं वचनं श्रुत्वा राजप्रतिनिधिः क्षणं यावत् आश्चर्येण स्तब्धः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनि...
परमसन्तृप्तः कः? 14.07.2026 3:00
काशीराज्ये कस्मिंश्चित् ग्रामे आसीत् सुमतिनामा कश्चन निर्धनः परोपकारनिरतः दैवभक्तः यः भिक्षान्नेन जीवनं निर्वहति स्म । 'जीवने परमसुखी कः' इति ज्ञातुम् इच्छा जाता तस्य । सः जनान् प्रष्टुम् च आरब्धवान् यत् तेषां जीवनं सुखमयं स्यात् वा ? इति । पृष्ट्वा पृष्ट्वा अन्ते कश्चन अवदत् यत् सुमतिः नाम कश्चन यः अविवाहितः परोपकारी भिक्षान्नजीवी च अस्ति सः एव सुखी स्यात् इति । अन्यस्य मुखात् स्वस्य प्रशंसां श्र...
नृगस्य शापः 13.07.2026 3:05
कदाचित् वनविहारार्थं गतवन्तः द्वारकावासिनः तरुणाः कस्मिंश्चित् कूपे कृकलासम् एकम् अपश्यन् । कूपात् कृकलासम् उद्धर्तुम् अशक्नुवन् ते एतं विषयं कृष्णं निवेदितवन्तः । कृष्णः कूपसमीपम् आगत्य लीलया तं कृकलासं कूपात् उद्धृत्य भूमौ अस्थापयत् । तावता कृकलासः देवरूपं प्राप्य कृष्णः साष्टाङ्गं नमस्कृतवान् । इक्ष्वाकोः पुत्रः नृगः शापकारणात् कृकलासः जातः आसीत् । कृष्णस्य करस्य स्पर्शनम् एव तस्य शापविमोचनमार्...
दौर्भाग्यकरं मुखम् 12.07.2026 3:03
वीरदेवः इति कश्चन दानशीलः राजा । प्रतिदिनं सः उषसि उत्थाय दर्पणे मुखं पश्यति, ततः विहारार्थम् उद्यानं गच्छति च । एवं करणात् सौभाग्यं सिद्ध्येत् इति तस्य चिन्तनम् । अथ एकदा सः स्वमुखम् अदृष्ट्वा एव उद्यानं गतः । ततः किं भवति इति कथायाः विषयः वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Viradeva was a generous king. Every morning he loo...
सज्जनतायाः फलम् 11.07.2026 3:14
सुन्दरनामकः कश्चन धनिकः दैवभक्तः सदाचारी च आसीत् । स्वस्य ग्रामे मन्दिरमेकं निर्मापितवान् । धनव्यवस्थायाः देवालयस्य च निर्वहणार्थं कस्यचन निष्कपटस्य योग्यस्य जनस्य आवश्यकता आपतत् । अतः सुन्दरेण तादृशस्य अन्वेषणम् आरब्धम् । तस्य स्थानस्य प्राप्त्यर्थं बहुभिः अहमहमिकया अग्रे आगतम् । किन्तु सुन्दरः सर्वान् तिरस्कृतवान् । अन्ते कश्चन निर्धनः तरुणः चितः सुन्दरेण । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष...
मयि ते, तेषु चाप्यहम् 10.07.2026 3:03
कदाचित् नारदः श्रीकृष्णमन्दिरम् अगच्छत् । 'भगवान् पूजां करोति । कृपया प्रतीक्षताम्' इत्यवदत् सेवकः । 'यं त्रैलोक्यं पूजयति, सः श्रीकृष्णः कं वा पूजयेत्?’ इति नारदः अचिन्तयत् । नारदेन अनुरोधे कृते श्रीकृष्णः तं पूजागृहम् अनयत् । एकस्यां लघुतमायां सुवर्णमञ्जूषायाम् अविद्यत अल्पमात्रं मृत्तिका । ये साधुपुरुषाः श्रीकृष्णस्य साहाय्यम् अकुर्वन् तेषां चरणधूलिं मञ्जूषायां संस्थाप्य पूजयति कृष्णः इति ज्ञात...
अप्रतिमशूरः भण्डारीरामः 09.07.2026 3:14
भण्डारीरामः द्वितीयजागतिकयुद्धकाले जपानीयान् विरुद्ध्य प्रवर्तमाने युद्धे बलूचीदलस्य सदस्यः सन् सः रणरङ्गम् अगच्छत् । समुन्नते पर्वतशिखरे जपानीयसैन्यस्य एकं शिबिरम् आसीत् । तस्य पर्वतस्य आरोहणम् आसीत् नितरां कष्टसाध्यम् । प्रतिपदं कष्टम् अनुभवन्तः भण्डारीरामः बलूचीदलीयाः च शत्रुशिबिरं वशीकृतवन्तः । सर्वथा असहायकस्थितौ स्वस्य प्राणापायम् अपि अविगण्णय शत्रुशिबिरस्य वशीकरणस्य प्रमुखं पात्रम् ऊढवता भण...
आत्मनः परिष्काराय प्रयासः 08.07.2026 3:18
महेन्द्रनाथगुप्तः रामकृष्णपरमहंसस्य शिष्यः । सः वादशीलः । सर्वदा कमपि अंशम् अधिकृत्य सः परमहंसेन सह वादं करोति स्म । अथ कदाचित् सः परमहसम् अपृच्छत् 'भगवान् साकारः उत निराकारः?’ इति । अग्रे तयोः मध्ये सुदीर्घा चर्चा अभवत् । महेन्द्रनाथः परमहंसेन बोधितमेव मनसि आकलयन् ततः निर्गतवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Mahendranath Gupta...
Replaio nie jest wydawcą podcastów; nazwy audycji, okładki i audio należą do ich autorów i są rozpowszechniane przez publiczne kanały RSS