सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Koniecznie odwiedź stronę podcastu i wesprzyj twórcę: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategoria
Strona podcastu
Ostatni odcinek
11 lip 2026
Gdzie słuchać?
Podcasty w aplikacji Replaio Radio Już wkrótcePodcasty trafią do aplikacji już wkrótce. Zainstaluj teraz i jako pierwszy zobacz nowe podejście do podcastów
Odcinki
अहो! उदारता 22.05.2026 3:04
रवीन्द्रनाथवर्येण यदा नोबेल्पुरस्कारः प्राप्तः तदा असङ्ख्याः जनाः तम् अभिनन्दितवन्तः । किन्तु कश्चन प्रतिवेशी तस्य अभिनन्दं न कृतवान् इति तस्य दुःखम् आसीत् । कदाचित् वायुविहारार्थं रवीन्द्रनाथवर्यः समुद्रतीरम् अगच्छत् । समुद्रे पतिताः सूर्यकिरणाः रमणीयतया शोभते स्म । अत्रान्तरे तस्य दृष्टिः एकस्मिन् गर्ते पतिता । सः अचिन्तयत् 'सूर्यकिरणाः प्रसारविषये गर्तसमुद्रादिभेदभावं न प्रदर्शयन्ति.......’ इति...
स्वीकरणे योग्यता 21.05.2026 3:17
पूर्वं कश्चन राजा कस्यचन संन्यासिनः समीपं गत्वा 'उत्कृष्टं तत्त्वं किञ्चन उपदिश्यताम्' इति प्रार्थितवान् । 'अपेक्षिता योग्यता नास्ति इदानीं भवतः' इति संन्यासिना उक्तम् । खिन्नः राजा स्वभवनं गत्वा कोपेन मन्त्रिणम् अवदत् 'एकः पण्डितः, सः संन्यासी च अनीयेताम्' इति । यदा तौ आगतवन्तौ तदा राजा अवदत् यत् अहं पण्डितस्य मुखात् उपदेशं प्राप्स्यामि इति । तदा संन्यासी क्षणमात्रेण एव भवतः योग्यतापरीक्षणं भवितु...
स्वातन्त्र्यम् आनन्दः च 20.05.2026 3:11
कदाचित् प्रजानुरागी राजा अरण्यमार्गे गच्छन् आसीत् । कश्चन अजापालकः वृक्षस्य अधः उपविश्य वेणुवादने मग्नः आसीत् । राजा अपृच्छत् 'साम्राज्यमेव प्राप्तवान् इव महति आनन्दे मग्नः भवान् वेणुवादनं करोति' इति । तदा अजापालकः अवदत् 'वस्तुतः वेणुवादनस्य साम्राज्यप्राप्तेः च न सादृश्यम् । अहं तु भगवच्चिन्तनं कुर्वन् सर्वचिन्ताभ्यः मुक्तः सन् मनोवाक्कायकर्मसु स्वतन्त्रः । धनस्य स्वातत्न्त्र्यस्य आनन्दस्य च न को...
का शक्तिः श्रेष्ठा ? 19.05.2026 3:43
कदाचित् लक्ष्मीसरस्वत्योः मध्ये का श्रेष्ठा इति विवादः उत्पन्नः । संन्यासिनीरूपेण भूलोकं गत्वा स्वस्य श्रेष्ठता प्रतिष्ठापनीया इति निर्णयं कृत्वा आदौ लक्ष्मीः एकं ग्रामम् अगच्छत् । स्वीयेन सुवर्णपात्रेण यस्मिन् गृहे सा भोजनं करोति तत्रैव भोजनपात्रं परित्यज्यते लक्ष्म्या । जनाः तां स्वगृहं प्रति निमन्त्रयितुम् अहमहमिकया प्रवृताः अभवन् । ग्रामे सर्वत्र ईर्ष्या, असूया, कलहः इत्यादयः आरब्धाः । तदनन्तर...
अलसानां भविष्यम् 18.05.2026 3:04
कदाचित् कश्चन आङ्ग्लाधिकारी कृत्रिमं विनयं दर्शयन् दयानन्दसरस्वतीवर्यम् अपृच्छत् 'अधुना भारते आङ्ग्लानां भविष्यं कथं स्यात्?’ इति । तदा दयानन्दवर्यः अवदत् 'आङ्ग्लाः अलसाः जाताः सन्ति । अलसानां भविष्यं सदा निराशदायकम् एव भवति' इति उक्त्वा आङ्ग्लानां दिनचरीं विस्तृतरूपेण अवदत् । दयानन्दवर्यस्य वचनं वास्तवद्योतकम् अप्रियसत्यज्ञापकं च आसीत् इति कारणतः आङ्ग्लाधिकारी प्रतिवचनं किमपि अनुक्त्वा मुखम् अवनम...
मानवीयता 17.05.2026 3:00
कदाचित् जम्मूकश्मीरस्य चक्रवर्ती प्रतापसिंहः प्रजानां सुखदुःखानि स्वयं ज्ञातुम् इच्छन् वेषान्तरं धृत्वा देशपर्यटनम् आरब्धवान् । एकदा सः ज्वरेण पीडितस्य युवकस्य सेवां कृत्वा, युवकस्य गम्यस्थानं प्रति अपि प्रापयति । तस्य श्वश्रूः लक्ष्मीमेहता या प्रतापसिंहस्य प्रासादे कर्मकरी आसीत्, महाराजेन साकम् अश्वम् आरुह्य आगतं जामातरं दृष्ट्वा भीता सती 'जामात्रा कृतः अपराधः क्षन्तव्यः । भवान् अस्य देशस्य राजा...
अपूर्वा सृष्टिः 16.05.2026 3:15
जगतः सृष्टिं कर्तुम् उद्यतः ब्रह्मा कौमुदीसदृशं हासं, चम्पकस्य सुगन्धम्, अमृतस्य माधुर्यं च संयोज्य एकां मृत्तिकामूर्तिं निर्मितवान् । सा मूर्तिः तु अपूर्वा आसीत् । कान्त्या शोभते स्म । 'मृन्मयी मूर्तिरेषा कथम् अपूर्वा भवितुम् अर्हति?’ इति यदा कश्चन देवदूतः ब्रह्मदेवम् अपृच्छत् तदा ब्रह्मदेवः मन्दहासपूर्वकं तस्य मृन्मय्याः मूर्तेः वैशिष्टयं, तस्य आकारस्य (शरीरस्य) प्राधान्यं च विवृणोति । (“केन्द्...
विनयः महात्मनः 15.05.2026 3:42
कदाचित् कश्चन आधुनिकः तरुणः रेलयाने महाभारतपुस्तकं पठितवन्तं कञ्चन सहयात्रिकम् अपश्यत् । वैज्ञानिकयुगे अपि एतादृशं पठ्यते किम् इति तरुणः सहायात्रिकम् अपृच्छत् । तदा सहायात्रिकः 'महाभारतादिषु प्रतिपादितानि तत्त्वानि अद्यापि सङ्गतानि भवन्ति' इत्यवदत् । तथापि सः तरुणः विज्ञानस्य महत्त्वं, विज्ञानकारणतः जातानाम् आविष्काराणां विषये कथनम् अनुवर्तितवान् । यदा उभौ अपि यानात् अवतीर्णवन्तौ तदा परस्परं सङ्के...
वास्तविकं शूरत्वम् 14.05.2026 3:47
महान् शूरः अस्मि अहम् इति मन्यमानं सिकन्दरमहाराजं कश्चन महात्मा शूरः कः भवति इति बोधयति । लोके सप्त प्रकाराः शूराः भवन्ति इति विवृणोति । अन्ते सः पृच्छति 'एतेषु सप्तसु प्रकारेषु भवान् कीदृशप्रकारकः शूरः?’ इति । महात्मनः निष्ठुराणि वचनानि श्रुतवतः महाराजस्य ज्ञानोदयः अभवत् । सः महात्मानं प्रणम्य मौनेन ततः प्रत्यगच्छत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनि...
होलिका 13.05.2026 2:33
होलिकापर्वणः पृष्ठभूमिकायाम् अस्ति काचित् कथा । होलिका हिरण्यकशिपोः भगिनी । अग्निः यथा न दहेत् तथा वरः प्राप्तः आसीत् होलिकया । अतः हिरण्यकशिपुः होलिकायाः साहाय्येन पुत्रः प्रह्लादः दग्धव्यः इति अचिन्तयत् । प्रह्लादेन सह सा अग्निं प्रविष्टवती । वरस्य नियमः आसीत् यत् एकाकितया प्रविष्टा ताम् अग्निः न दहति इति । अतः सा दग्धा जाता । विष्णोः अनुग्रहस्य कारणतः प्रह्लादः कामपि पीडाम् अप्राप्य हसन् अग्नित...
पठितः पाठः 12.05.2026 2:55
वसन्तः कश्चन विख्यातः मल्लः । कदाचित् सः गुरुणा बलभीमेन सह मल्लयुद्धं कृत्वा विजयं प्राप्तुम् इच्छति । यद्यपि तस्य वचनम् अकल्पितम् अनुचितं च आसीत् तथापि गुरुः तेन सह मल्लयुद्धं करोति । मल्लयुद्धे केनचित् कालेन एकां विलक्षणां चातुरीम् उपयुज्य बलभीमः वसन्तं पराजयति । क्रुद्धः वसन्तः 'या नूतना चातुरी विद्या प्रयुक्ता सा भवता न पाठिता एव' इति यदा वदति तदा गुरुः वदति 'सा चातुरी मया एतस्य दिनस्य कृते रक...
आत्मविश्वासः 11.05.2026 2:42
इयं कथा आत्मविश्वासस्य उत्तमम् उदाहरणं भवितुम् अर्हति । यः परेषां साहाय्येन विना स्वकार्ये उद्यतः भवेत् सः एव सफलतां प्राप्नोति । यः आत्मस्थैर्येण स्वप्रयत्नेन कार्यतत्परः सन् अग्रे सरेत् सः विफलतां न प्राप्नोति कदाचिदपि । अस्यां कथायां कश्चन राजा सैनिकेषु अन्यतमस्य कस्यचन सैनिकस्य परीक्षां करोति । प्रथमं भीतिम् अनुभवति सः सैनिकः । अनन्तरं सः धैर्यं प्राप्य परीक्षायां सफलः भवति । (“केन्द्रीयसंस्कृ...
निगृहीतः कः आसीत् ? 10.05.2026 3:36
कदाचित् स्वातन्त्र्यान्दोलने कस्यचन उच्चाधिकारिणः मृत्युः सञ्जातः । अनेन रुष्टे सर्वकारेण आन्दोलननेता निगृह्य न्यायालये उपस्थापितः । अयम् आसीत् क्रान्तिकारी ऊधमसिंहः । अस्मिन् सेनाधिकारिणः डायरस्य हननस्य आरोपः अवर्तत । काचित् युवत्याः प्रयासेन एव सः निगृहीतः आसीत् । ऊधमसिंहः जानाति स्म सा का इति । तथापि नार्याम् अस्त्रोत्थापनम् अस्माकं भारतीयसंस्कृतौ नास्ति इति ज्ञातवान् सः तस्यै युवत्यै कोपम् अकृ...
दृष्टिशोधनम् 09.05.2026 3:46
कदाचित् ब्रह्मविदम् आचार्यम् उपसर्प्य कौचित् ब्रह्मचारिणौ ब्रह्मविद्याम् उपदेष्टुं प्रार्थितवन्तौ । तदा आचार्यः तयोः परीक्षां कृतवान् । तयोः एकः एव परीक्षाम् उत्तीर्णः सन् ब्रह्मविद्यालाभार्थम् अधिकारी जातः । ततः आचार्यः 'सर्वत्रापि सर्वस्मिन्नपि वस्तुनि भगवन्तं पश्येत् । कस्मिंश्चिपि असत्कर्मणि प्रवृत्तिं न दर्शयेत् । तदा एव भगवान् तव सम्मुखे तिष्ठेत् .....’ इत्यादिभिः वचनैः तं ब्रह्मचारिणं ब्रह्...
मन्त्रिणः चातुर्यम् 08.05.2026 3:52
राजा विक्रमसिंहः कलापोषकः आसीत् । प्रजापालने राज्ञः अधिकावधानं नास्ति इति कारणतः दुःखितः मन्त्री महाराजः विवेकमार्गं प्रति अनेतव्यः इति दिवानिशम् अचिन्तयत् । सः कञ्चन उपायं कृत्वा महाराजं कृषिकक्षेत्रं प्रति अनयत् । 'एते कृषिकाः परोक्षरीत्या कलाकाराः एव । एतषां साहाय्यं करणीयम्' इति अवद्त् मन्त्री । ततः ग्रामेषु सर्वत्र जलाशयाः, कूपाः, तडागाः च निर्मिताः राज्ञा । सर्वे अपि जनाः सन्तुष्टाः सन्तः मन...
कामनाहङ्कारयोः जयाय 07.05.2026 3:19
कस्यचन परोपकारस्य साधकस्य अनुष्ठानक्रमं व्यवहारं च जनाः बहुधाः प्रशंसन्ति स्म । तस्य साधकस्य पार्श्वे सर्वदा जलपूर्णः कलशः, अग्निपूर्णा अङ्गारधानी च भवति स्म । तस्य कारणं यदा कश्चन भक्तः अपृच्छत् तदा साधकः अवदत् 'अहं मम कामनाः जले मज्जयितुम् इच्छामि । अहङ्कारश्च दग्धुम् इच्छामि । जलकलशस्य अग्नेः च दर्शनात् आत्मना करणीयस्य कार्यस्य स्मरणं भवति । दुर्गुणाः निवारणीयाः इत्येतत् कदापि विस्मृतं न भवेत्'...
श्रमस्य मूल्यम् 06.05.2026 2:54
कदाचित् वेषान्तरं धृत्वा अटितवतः राज्ञः अश्वशकटस्य नेमिः चक्रात् पृथक् अभवत् । यदा लोहकारम् अन्विष्यन् गच्छति राजा तदा अद्य विरामदिनं, सहायकः नास्ति इति अवद्त् लोहकारः । अतः साहाय्यार्थं राजा एव भस्रिकादण्डचालनम् अङ्गीकृतवान् । जीवने ऐदम्प्राथम्येन श्रमः कृतः, श्रमस्य आनन्दः च ज्ञातः राज्ञा । श्रमस्य महत्त्वं बोधितवते लोहकाराय राजा गुरुदक्षिणारूपेण षट् सुवर्णनाणकानि दत्त्वा ततः निर्गतः । (“केन्द्र...
दुष्टनिग्रहः 05.05.2026 3:16
काचित् मूषिका पत्या सह ग्रामे न्यवसत् । कश्चन धूर्तः बिडालः काननात् आगत्य तस्याः शिशून् भक्षयति स्म । अनेन दुःखिता मूषिका इदं गृहं परित्यज्य अन्यत्र गच्छामः इति पतिम् अवदत् । किन्तु सः मूषकः पत्नीं कष्टेन समाधाय एतस्याः समस्यायाः निवारणाय कमपि उपायं चिन्तयाम इति अवदत् । सः एकम् उपायं कृत्वा तस्य दुष्टबिडालस्य निग्रहम् अकरोत् । सर्वे मूषकाः प्रसन्नाः अभवन् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्...
गर्वः न उचितः 04.05.2026 3:05
दम्भोद्भवः इति कश्चन राजा 'मत्सदृशः वीरः त्रिषु लोकेषु अपि नास्ति' इति भावयन् गर्वेण व्यवहरति स्म । कदाचित् कश्चन सज्जनः अवदत् 'गन्धमादनपर्वते उभौ तपोनिरतौ नरनारायणौ स्तः । तौ जेतुं कोऽपि न शक्नुयात्' इति । अथ कदाचित् गन्धमादनपर्वतम् अगच्छत् दम्भोद्भवः ताभ्यां सह युद्धं कर्तुम् । नरः कांश्चन दर्भान् अभिमन्त्र्य भूमौ अक्षिपत् । तदनन्तरक्षणे एव दम्भोद्भवस्य मुखं नासिका कर्णौ नेत्रे च दर्भाङ्कुरैः पू...
मूल्यवर्धनम् 03.05.2026 2:42
कदाचित् कश्चन वणिक् स्वस्य तरुणं पुत्रम् अहूय एकं मलिनं वस्त्रं दत्त्वा एकं रजतनाणकम् आनेतव्यम् इति अवदत् । पुत्रः तत् वस्त्रं स्वच्छतया प्रक्षाल्य महता श्रमेण विक्रीय रजतनाणकद्वयं प्राप्तवान् । एवं रीत्या पिता अनेकवारं पुत्राय मलिनवस्त्राणि दत्त्वा तानि विक्रेतुं रजतनाणकानि सुवर्णनाणकानि वा अनेतुम् अवदत् । पुत्रः अनेकान् उपायान् आश्रित्य तानि सर्वाणि विक्रीतवान् । एतस्मात् प्रयत्नेन सर्वमपि साधयि...
प्रीत्यादरपूर्णः व्यवहारः 02.05.2026 2:52
कश्चन युवकः पत्न्या सह विपणिं गत्वा सर्वदा एकस्याः वृद्धातः एव फलानि क्रीणाति स्म । तस्याः निर्धनतां ज्ञात्वा साहाय्यार्थं धनं दातुं तेन यदा उद्यतं तदा तया विनयेन तत् निराकृतम् । तस्मात् तेन युवकेन कश्चन उपायः कृतः । तेन यः उपायः कृतः तम् उपायं ज्ञात्वा वृद्धा अन्यम् उपायं करोति । युवकेन कः उपायः कृतः ? वृद्धया कृतः उपायः कः ? इति कुतूहलेन इमां कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...
महामूर्खः कः? 01.05.2026 3:21
ध्यानचन्दः वणिक् चेदपि सः जिज्ञासुः भगवद्भक्तः च आसीत् । कदाचित् नगरस्य महाश्रेष्ठी लक्ष्मीपतिः तं गृहम् आहूय तस्य शिरसि एकं शिरस्त्रं निधाय अवदत् 'एतत् महामूर्खाय दातुं कारितम्' इति । ध्यानचन्दः प्रतिवचनं किमपि न अवदत् । अथ कदाचित् लक्ष्मीपतिः अस्वस्थः जातः । तदा ध्यानचन्दः आगत्य तत् शिरस्त्रं लक्ष्मीपतेः शिरसि स्थापयित्वा अवदत् 'परलोकं प्रति किमपि नेतुं न शक्यते इति जानता अपि भवता आजीवनं प्रभूतं...
ज्ञानम् अपारम् 30.04.2026 2:40
स्वगुरोः अपारस्य ज्ञानस्य प्रशंसां कुर्वते शिष्याय गुरुः एवं बोधयति 'अलं प्रशंसया । मया प्राप्तम् अल्पमेव । यथा सागरः अपारः तथैव ज्ञानराशिः अपि अपारः । वयं महता श्रमेण यत् अध्ययनं कुर्याम तत् तु तावदेव भवेत्, सागरे दण्डस्य मज्जनात् यावत् सङ्गृह्येत । यत् ज्ञानं प्राप्तं तत् अधिकम् इति तु भ्रमः एव । प्राप्तव्यमस्ति अपारम् । ज्ञानसागरस्य अपारतां मनसि निधाय प्राप्तस्य मापनं करणीयम् अस्माभिः, न तु स्व...
पुत्रात् ख्याता इतरा 29.04.2026 3:43
मण्डूकमुनि-इतरयोः पुत्रः महीदासः सर्वदा द्वादशाक्षरमन्त्रं जपन् लौकिककर्मसु अनासक्तिं वहति स्म । अतः महीदासे इतरायां च मुनेः अनादरः प्रवृद्धः । खिन्ना इतरा पुत्रेण सह अन्यत्र वासम् आरब्धवती । कदाचित् जपेन सन्तुष्टः विष्णुः महीदासस्य स्वप्नम् आगत्य 'गुरूपदेशं विना एव सकलवेदवेदाङ्गज्ञानं तव भविष्यति' इति अवत् । तथैव ज्ञानं सम्पाद्य ऋग्वेदभाष्यं कर्मकाण्डबोधकं ब्राह्मणग्रन्थं च सः अरचयत् । 'मम माता प...
सदाचारस्य अनुष्ठानम् 28.04.2026 2:57
पूर्वं वारणास्यां स्थितस्य बनारसहिन्दुविश्वविद्यालयस्य कुलपतिः आसीत् आचार्य: नरेन्द्रदेवः । अस्वस्थं बन्धुं द्रष्टुं कदाचित् सः सैकल्-रिक्षायानेन गच्छन् आसीत् । तं दृष्ट्वा कश्चन सुहृद् पृच्छति यत् सर्वकारस्य कार्-यानेन गन्तुम् अर्हति खलु इति । तदा आचार्यः वदति 'उन्नतस्थाने तिष्ठता मया आचारशुद्धिः परिरक्षणीया । यदि मादृशानाम् आचारे एव शुद्धिः न भवेत् तर्हि समाजे सदाचारः कथं तिष्ठेत्? अतः मया वैयक्...
Replaio nie jest wydawcą podcastów; nazwy audycji, okładki i audio należą do ich autorów i są rozpowszechniane przez publiczne kanały RSS