सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
No dejes de visitar la web del podcast y apoyar a su creador: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Categoría
Web del podcast
Último episodio
15 de oct. de 2026
¿Dónde escuchar?
Podcasts en la app Replaio Radio Muy prontoLos podcasts llegarán muy pronto a la app. Instálala ahora y sé el primero en descubrir una forma totalmente nueva de vivir los podcasts
Episodios
सत्कार्याणि कानि ? 23.04.2026 3:46
'फलप्राप्तीच्छां विना यानि उत्तमानि कार्याणि क्रियेरन् तानि एव सत्कार्याणि भवेयुः । यत् क्रियेत तत् निःस्वार्थभावनया कर्तव्यम् । जनानाम् उपकारः यतः स्यात् तादृशानि कार्याणि करणीयानि । येभ्यः कार्येभ्यः मनसः आत्मनः च संस्कारः भवेत् तानि एव उत्तमकार्याणि । प्रशंसाप्राप्तीच्छा विकृतिरूपा एव । अतः तादृशीम् इच्छां परित्यज्य शुद्धेन हृदयेन प्रजाहितकार्याणि कुरु' इति कश्चन संन्यासी कञ्चन राजानं बोधयति अ...
निर्लिप्तभावेन प्रशासनम् 22.04.2026 3:13
व्यासपूजादिने गुरोः रामदासस्य आश्रमं प्रति भक्ताः आगत्य गुरुपूजां निमित्तीकृत्य किमपि समर्पयन्ति स्म । राजा शिवराजः अपि तत्र आगत्य साष्टाङ्गप्रणामं कृत्वा एकं कागदं स्थालिकां संस्थाप्य गुरुदेवस्य पुरतः अस्थापयत् । तत्र लिखितम् आसीत् 'मम राजपदवीं, राज्यं, सम्पत्तिं च गुरुदेवस्य पदतले अर्पितम् अस्ति' इति । सः संन्यासी भूत्वा गुरोः सेवां कर्तुम् इच्छति स्म । तदा गुरुः अवदत् 'स्वराज्यं सुराज्यं क्रिय...
सन्तोषप्राप्त्यै मार्गः 21.04.2026 3:22
सन्तोषप्राप्तिमार्गम् इच्छन्तं कञ्चन गृहस्थं कश्चन महात्मा स्वस्य आश्रमे कूपखननकार्ये नियोजयति । सः गृहस्थः काञ्चित् नीतिम् अनुसृत्य कूपखननं करोति । जलम् अपि उद्भवति । तदा परस्परसम्भाषणावसरे महात्मा वदति 'कूपखननस्य या नीतिः सा एव सन्तोषप्राप्त्यै अपि । ऊर्ध्वभागे विद्यमानाः विघ्नकारकाः अंशाः अपनीताः चेत् सन्तोषः स्वयमेव उद्गच्छति । निरन्तरप्रयासः अपि अपेक्ष्यते तदर्थम् । मनसः नैर्मल्यं सम्पादितं च...
देशीया विदेशीया च संस्कृतिः 20.04.2026 2:46
भारतीयः कश्चन युवा संन्यासी विदेशम् अगच्छत् । काषायं कञ्चुकं शिरोवेष्टं धृत्वा सर्वत्र अटति स्म । एकदा कश्चन विदेशी तम् उपसर्प्य अवदत् 'सर्वदा इदमेव वस्त्रं धृतवता भवता लज्जा न अनुभूयते वा? कीदृशी दारिद्र्योपेता संस्कृतिः स्यात् भवताम्' इति । तदा सः युवा संन्यासी अवदत् 'भवतां संस्कृतेः निर्माणं भवद्देशस्य सौचिकाः कुर्युः । किन्तु अस्माकं सनातनीं संस्कृतिम् अस्माकं चारित्र्यं निर्माति । कस्यचन देशस...
स्वरक्षणं स्वयमेव करणीयम् 19.04.2026 2:40
कस्मिंश्चित् अरण्ये उषितवतः कस्यचन शशस्य विश्वासः आसीत् यत् सर्वे प्राणिनः मम सुहृदः इति । यश्च विश्वासः परावलम्बनं द्योतयति स्म । एकदा क्रीडाङ्गणे खेलता शशकेन दूरात् शुनकानां भषणं श्रुतम् । शशः ततः न अधावत् । तस्य चिन्तनम् आसीत् कश्चन सुहृद् मम साहाय्यं करिष्यति इति । ततः सः अश्वं गर्दभं मेषं च उपसर्प्य स्वं रक्षितुं प्रार्थयते । किन्तु ते सर्वे किञ्चन कारणम् उक्त्वा सहकर्तुं निराकुर्वन्ति । एता...
अपराधकृत्येषु न्यूनता 18.04.2026 3:23
कदाचित् वेषान्तरं धृतवान् राजा पङ्क्तिबद्धतया एव चलतः दशाधिकान् गर्दभान् अपश्यत् । कारणे पृष्टे रजकः अवदत् यत् यः गर्दभः पङ्क्तिभङ्गं करोति तं सम्यक् ताडयामि इति । राजा स्वपरिचयम् उक्त्वा देशे प्रवृत्तानाम् अपराधकृत्यानां निग्रहः कर्तुं शक्यः वा इति । तदा रजकः अवदत् 'द्वित्राः कठोरदण्डनेन दण्डनीयाः । ततः सहजतया अपराधकृत्ये न्यूनता भविष्यति' इति । ततः राजा तं न्यायनिर्णायकत्वेन नियोजयति । आदौ चौर्य...
सुयोग्यः पुत्रः 17.04.2026 3:28
कदाचित् जलपूर्णं घटं वहन्तीनां तिसृणां महिलानां पुत्राणां श्रेष्ठताविषये चर्चा आरब्धा । प्रथमायाः पुत्रः महाविद्वान् । द्वितीयायाः पुत्रः उत्तमः वणिक् । तृतीयायाः पुत्रः तु शास्त्रम् अधीत्य, विरामसमये अन्यान् शास्त्रग्रन्थान् अध्यापयति स्म । तावता राजधानीं गच्छन् प्रथमायाः पुत्रः ताः नमस्कृत्य अग्रे अगच्छत् । अनन्तरं द्वितीयायाः पुत्रः अपि ताः प्रणम्य वेगेन अधावत् । तावता तृतीयायाः पुत्रः आगत्य त...
अभिनन्दनं कस्मै ? 16.04.2026 4:09
रवीन्द्रनाथटागोरवर्यः यदा गीताञ्जलिनिमित्तं नोबेल्प्रशस्तिं प्राप्नोत् तदा शान्तिनिकेतने अभिनन्दनसभा प्रवृता । बङ्गालस्य वरपुत्रः' साहित्यक्षेत्रे ध्रुवनक्षत्रम्' ‘भारतमातुः कीर्तिहेतुः' इत्यादिभिः वचनैः तस्य प्रशंसा बहुभिः कृता । रवीन्द्रनाथवर्येण न अत्युत्साहः प्राप्तः, न वा नीरसप्रतिस्पन्दः दर्शितः । कश्चन आप्तः अपृच्छत् 'सर्वे महता सन्तोषेण आसन् । किन्तु भवान् तु स्थितप्रज्ञः इव व्यवहृतवान्' इ...
कष्टनिवारणं सर्वादौ स्यात् 15.04.2026 3:38
कदाचित् रामकृष्णपरमहंसेन सह प्रबन्धकः मथुराबाबुः अन्ये केचन च तीर्थयात्रां कुर्वन्तः देवघरप्रदेशं प्राप्तवन्तः । तस्मिन् काले महान् क्षामः प्रसृतः आसीत् । आहाराभावकारणतः जनाः महत् कष्टम् अनुभवन्तः आसन् । तत्रापि सन्थालजातीयाः वनवासिनः भोक्तुम् अन्नं, धर्तुं वस्त्रं च अप्राप्नुवन्तः किङ्कर्तव्यताविमूढाः आसन् । रामकृष्णवर्यः एतेषां कष्टस्य निवारणाय दृढनिश्चयम् अकरोत् । तीर्थयात्रायै रक्षितं धनं, धनव...
कष्टकाले व्यवहारः 14.04.2026 3:04
निरन्तरं कष्टम् अनुभवन्तीं काञ्चित् पौत्रीं तस्याः पितामही एकेन निर्दशनेन दर्शयति यत् कष्टे प्राप्ते धैर्यच्युतिप्राप्तिः न उचिता । कष्टकाले दृढतां प्राप्य कष्टं धैर्येण सम्मुखीकरणीयम् । कष्टं सम्मुखीकृत्य कालानुगुणतया आत्मनि परिष्कारम् आनीय अन्येषु अपि तादृशस्य गुणस्य आनयनाय प्रयासः तु उत्कृष्टः व्यवहारः इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...
प्रीतिः परस्परावगतिः च मुख्या 13.04.2026 3:31
कश्चन कृषिकः तरुणः विवाहार्थं बह्वीः कन्याः दृष्टवान् चेदपि तासु कापि तस्य तृप्तये न जाता । अतः तेन अग्रे किं क्रियेत इति धिया कञ्चन गुरुम् उपसर्पति । तदा गुरुः अवदत् 'भवता उत्कृष्टं बृहदाकारकम् आम्रफलम् एकम् अन्विष्य आनेतव्यम् । पूर्वं यत्र गतं तत् स्थलं प्रति न गन्तव्यम्' इति । ततः निर्गतेन तरुणेन एकस्यां वाटिकायाम् उत्कृष्टानि आम्रफलानि दृष्टानि चेदपि अग्रे इतोSपि उत्कृष्टानि आम्रफलानि प्राप्य...
प्रयत्नः न परित्यक्तव्यः 12.04.2026 3:13
श्रान्तः पुत्रः नौदण्डचालनं परित्यज्य गृहं गच्छाम इत्यवदत् यतः बलवद्भ्यः तरङ्गेभ्यः नौका अग्रे न गच्छति स्म । तदा पिता अवदत् 'समुद्रस्य गभीरता यावत् वर्धेत तावता प्रमाणेन तरङ्गाघातः अपि न्यूनः भवेत् । गभीरस्थलप्राप्तिपर्यन्तमपि प्रयत्नः न परित्यक्तव्यः । ये शान्तस्थितिं प्राप्तवन्तः ते सर्वे सहस्रशः प्रयत्नान् कृतवन्तः एव । यः प्रयत्नकारणात् भीतः भवेत् सः कदापि अग्रे न गच्छेत्, प्रगतिं न प्राप्न...
विजयस्य मार्गः 11.04.2026 2:47
कश्चन जनः कञ्चित् गुरुम् उप्सर्प्य विजयप्राप्तिमार्गम् अपृच्छत् । तदा गुरुः बोधयति – ’विजयप्राप्तिमार्गः पार्थक्येन न भवति । स्थिरतया स्थित्वा कष्टपरमपरां सम्मुखीकृत्य यः अग्रे गच्छेत् सः एव विजयं प्राप्नुयात्' इति । एवमेव सम्भाषणम् अनुवर्तते तयोः मध्ये । सन्तोषसन्तृप्तादयः कथं प्राप्येरन् ? सन्तोषस्य जयपराजयोः च किं न कोSपि सम्बन्धः? तेषां सर्वेषां प्रश्नानां समाधानं बोधयति सः गुरुः । (“केन्द्रीय...
यशस्वितासूत्रम् 10.04.2026 3:39
कश्चन गुरुः यशस्वितामार्गं ज्ञातुम् इच्छन्तं शिष्यं महाराजस्य समीपं प्रेषयति । सुखभोगवातावरणे लीनः राजा कथं मां बोधयति इति चिन्तयति शिष्यः । भटाः शिष्यम् अतिथिप्रकोष्ठं नीतवन्तः । तत्र मृदुतल्पः, विविधाः फलखाद्यादिव्यवस्थाः आसन् । यदा शिष्यः शयनम् अकरोत् तदा तेन स्वशिरोभागे लम्बमानः कश्चन तीक्ष्णः खड्गः लक्षितः । समग्रां रात्रिं खड्गं पश्यन् एव अयापयत् सः शिष्यः । परेद्यवि राजा अवदत् 'आस्थाने भोगम...
का नाम भीतिः? 09.04.2026 2:54
फ्रान्स्-देशस्य कश्चन लघुग्रामः महता अरण्येन आवृतः आसीत् । ततः अनतिदूरे कश्चित् महापर्वतः विराजते स्म । कदाचित् तद्ग्रामस्य अष्टवर्षीयः बालं तं पर्वतम् आरुह्य एकस्यां महाशिलायाम् उपविश्य निसर्गसौन्दर्यम् आस्वादयन् आसीत् । अन्धकारः प्रसृतः चेदपि बालः गृहं न आगतः इति चिन्तायां सत्यां तस्य पितामही प्रतिवेशिजनैः सह पौत्रस्य अन्वेषणं कुर्वती पर्वतसमीपम् अगच्छत् । तत्र कस्याञ्चित् महाशिलायां तूष्णीम् उप...
धर्मतत्त्वम् 08.04.2026 3:23
इयं कथा धर्मत्त्वं बोधयति । कस्यचन वणिजः जिज्ञासा आसीत् । सा च लोके स्थितानां बहूनां मतानां मध्ये परस्परं कलहाः भवन्ति । सर्वाणि अपि मतानि स्वचिन्तानुगुणं धर्मस्य स्वरूपं विवृण्वन्ति । किन्तु धर्मस्य वास्तविकं स्वरूपं किम् इति न ज्ञायते इति । अथ कदाचित् सः वणिक् कञ्चित् तत्त्वज्ञानिनम् उपसर्प्य स्वजिज्ञासां कथयित्वा तत्त्वज्ञानिना ज्ञातं धर्मत्त्वं बोधयितुं प्रार्थयते । स च तत्त्वज्ञानी स्वस्य अनु...
छात्रस्य निःस्पृहता 07.04.2026 3:38
शैत्यकालस्य रात्रिः । केचन बालाः छात्रावासस्य पुरतः अग्निं प्रज्वाल्य तस्य पार्श्वे उपविश्य पुस्तकानि पठन्ति स्म । तदवसरे कश्चन पान्थः आगत्य अग्निपार्श्वे उपविशति शैत्यकारणेन । किञ्चित्कालं तत्र उपविश्य शैत्यनिवारणम् अनुभूय छात्रेभ्यः कृतज्ञतां समर्प्य ततः निर्गच्छति । किञ्चित्कालानन्तर्म् अध्ययनरतः कश्चन छात्रः पान्थस्य ग्रन्थिम् पश्यति । तस्मिन् प्रभूतं धनम् आसीत् । सः धावित्वा तस्मै पान्थाय धनग...
हृदयस्य अवगमनम् 06.04.2026 2:44
रामः यदा वनवासं प्रति प्रस्थितवान् मार्गे एकं कण्टकं रामस्य पादे लग्नम् । वेदनाम् अनुभवन् सः भूदेवीं प्रार्थितवान् 'मातः! यदा भरतः मम अन्वेषणं कुर्वन् अत्र आगच्छेत् तदवसनरे मार्गे कण्टकानि शिलाखण्डाः च यथा न भवेयुः तथा अनुगृहाण' इति । 'किमर्थम् एवं प्रार्थितम्?’ इति कुतूहलेन सीता अपृच्छत् । तदा रामः अवदत् 'अन्वेषणसमये यदि भरतेन कण्टकवेधः प्राप्येत तर्हि सः चिन्तयेत् यत् मम अग्रजः एतादृशैः कियद्भिः...
राष्ट्रश्रद्धा 05.04.2026 3:05
कस्यचन राज्ञः सभायाम् 'अस्मिन् राज्ये जनानां सन्तोषजीवनस्य कारणं किं भवितुम् अर्हति?’ इति विषयम् अधिकृत्य चर्चा जाता । अन्ते निर्णीतं यत् सेना, देशसमृद्धिः, राष्ट्रश्रद्धा चेति त्रीणि तत्त्वानि मुख्यानि इति । एतेषु अपि मुख्यं किम् इति जिज्ञासायां राजा कञ्चन संन्यासिनं दृष्ट्वा स्वस्य जिज्ञासां तस्य पुरतः उपस्थापितवान् । सुदीर्घायाः चर्चायाः अनन्तरं राज्ञा ज्ञातं यत् राष्ट्रश्रद्धा एव सर्वातिशायिनी...
यत् अस्ति तदेव परमप्रियम् 04.04.2026 2:58
कदाचित् कश्चन भक्तः कस्यचन माहात्मनः कुटीरे एकस्यां रात्रौ वासम् अकरोत् । इष्टिका एव उपाधानम्, जीर्णः च कटः एव शय्या आसीत् तस्य माहात्मनः । एतत् दृष्ट्वा सः भक्तः तस्य कष्टमयं जीवनं दृष्ट्वा उत्तमव्यवस्थां व्यवस्थापयिष्यामि इति अवदत् । किन्तु भगवता यत् दत्तं तत् एव परमप्रियम् इति महात्मा मन्यते स्म । इदानीं यावत् स्यात् तावता एव सः नितरां सन्तुष्टः आसीत् । एतादृशस्य कारणतः एव सः महात्मा जाता इति व...
लक्षितम् अन्यत् 03.04.2026 3:07
शरीरहीनताकारणतः कश्चन दुर्बलकायजनः भृतिकार्यं न प्राप्नोति स्म । यदा सः देवं प्रार्थितवान् तदा देवः स्वप्ने प्रत्यक्षीभूय 'शिलानोदनं कुरु' इत्यवदत् । मासत्रयम् अतीतं चेदपि तां महाशिलां कम्पयितुम् अपि न शक्तवान् सः । अतः सः खिन्नः जातः । कदाचित् स्वप्ने यदा देवः दृष्टः स्वस्य दौर्भाग्यम् अकथयत् सः जनः । तदा देवः अवदत् 'भवता सा महाशिला कम्पयितुं न शक्या इति जानामि अहम् । किन्तु मासत्रयं यावत् यः नोद...
मकरतोरणम् 02.04.2026 3:12
देवालयेषु द्वारतोरणस्य मध्यभागे (देवविग्रहं परितः) मकरतोरणं भवति । तन्मध्ये राक्षसमुखं किञ्चन दृश्यते । तस्य राक्षसस्य नाम किम्? तत् मुखं किमर्थं स्थाप्यते तत्र इति विषयम् अधिकृत्य स्कन्दमहापुराणे या कथा तां कथाम् इदानीं शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In temples, at the center of the gateway arch (around the deity’s im...
स्नेहस्य तत्त्वम् 01.04.2026 3:30
कस्यचन राज्ञः चिन्ता आसीत् यत् स्वस्य द्वयोः पुत्रयोः कः तस्य उत्तराधिकारी भवेत् इति । तौ परीक्षितुं पञ्चाशत्सहस्रं सुवर्णनाणकानि दत्त्वा 'वर्षाभ्यन्तरे पञ्चाशति ग्रामेषु अस्मद्वासयोग्यानि गृहाणि निर्मातव्यानि' इति अवदत् । वर्षम् अतीतम् । अल्पेन धनेन अल्पेन कालेन च सम्पूर्णगृहनिर्माणकार्यं कर्तुं न शक्तम् इति ज्येष्ठः पुत्रः अवदत् । द्वितीयः पुत्रः तु राज्ञा दत्तं समग्रमपि धनं प्रत्यर्प्य अवद्त् '...
असहायाः न पीडनीयाः 31.03.2026 3:20
कदाचित् कश्चन कृषिकः भीत्या धावतः शशशिशून् दण्डं गृहीत्वा अनुसृतवान् । तेषां धावनस्य दर्शनेन आनन्दं प्राप्नोति स्म । एतत् दृष्ट्वा कश्चन संन्यासी 'अन्यस्य असहायकतां दृष्ट्वा आनन्दप्राप्तिः न उचिता । ये असहायकताम् अनुभवेयुः तेषां मानसिकक्लेशम् अवगन्तुं प्रयासः करणीयः' इत्यादिभिः वचनैः तं कृषिकं बोधितवान् । स्वस्य दोषं ज्ञात्वा सः कृषिकः संन्यासिनं क्षमाम् अयाचत । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...
प्रयत्नेन किं न साध्येत ? 30.03.2026 3:37
सातारानगरे देवरायनामकः कश्चन धनिकः रामनामकस्य निर्धनसेवकस्य कदाचित् निर्धनताविषये अपहासम् अकरोत् । प्रयत्नेन सर्वम् अपि साधयितुं शक्येत इति मत्वा सः कष्टेन प्रयाणं कृत्वा काशीम् अगच्छत् । कस्यचित् आचार्यस्य गृहे आश्रयं प्राप्य कठिनपरिश्रमं कुर्वन् द्वादश वर्षाणि यावत् अधीत्य व्याकरणे, न्याये, वेदान्ते, अर्थशास्त्रे च प्रावीण्यं प्राप्तवान् । तदीयां विद्वत्तां दृष्ट्वा पेशवराजः तम् उच्चपदे नियुक्तव...
Replaio no es editor de podcasts; los nombres de los programas, las portadas y el audio pertenecen a sus autores y se distribuyen a través de canales RSS públicos