सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
No dejes de visitar la web del podcast y apoyar a su creador: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Categoría
Web del podcast
Último episodio
14 de oct. de 2026
¿Dónde escuchar?
Podcasts en la app Replaio Radio Muy prontoLos podcasts llegarán muy pronto a la app. Instálala ahora y sé el primero en descubrir una forma totalmente nueva de vivir los podcasts
Episodios
शूरा रत्नावली 11.06.2026 3:14
जयसलमेरस्य राज्ञः रतनसिंहस्य पुत्री रत्नावली शौर्येण अप्रतिमा । कदाचित् अल्लावुद्दीनस्य सेनापतिः मल्लिकाफुरः रतनसिंहं पराजेतुं ससैन्यम् आगतः । राजकुमारी रत्नावली सैन्यस्य नेतृत्वम् ऊढवती । मल्लिकाफुरः शत्रुहस्तगतः अभविष्यत् । किन्तु कथञ्चित् आत्मानं रक्षन् रणरङ्गात् पलायत । सः कुतन्त्रम् आश्रित्य दुर्गस्य अन्तः गमनाय मार्गं दर्शयितुं कस्मैचित् निर्धनाय वृद्धाय प्रभूतं धनं दत्तवान् । किं सः वृद्धः...
उदारम् आचरणम् 10.06.2026 3:20
लक्ष्मणमेघनादयोः युद्धे लक्ष्मणेन प्रयुक्तः बाणः मेघनादस्य हस्तम् अकर्तयत् । सः हस्तः रावणस्य अन्तःपुरे मेघनादस्य पत्न्याः सुलोचनायाः पुरतः अपतत् । दुःखितः सुलोचना सहगमनं कर्तुं निश्चयं अकरोत् । किन्तु दाहसंस्कारार्थं मेघनादस्य शिरः आवश्यकम् । सा धैर्येण श्रीरामस्य दर्शनाय प्रस्थिता । श्रीरामः तस्यां महान्तम् आदरं प्रदर्शयन् मेघनादस्य शिरः दत्तवान् । मेघनादस्य अन्त्यसंस्कारं निमित्तीकृत्य एकं दिनं...
जितेन्द्रियता 09.06.2026 3:02
पञ्चदशवर्षीयः कश्चन तरुणः कञ्चन महात्मानम् उपसर्प्य संन्यासदीक्षां याचते । पुनः पुनः याचनेन महात्मा तस्य परीक्षां करोति । परीक्षया तरुणस्य जितेन्द्रियता साधिता अस्ति इति महात्मना ज्ञातम् । अतः संन्यासादीक्षां दास्यामि इत्युक्त्वा तं तरुणम् आशिषा अनुगृह्णाति । सः एव भाविनि काले 'महात्मा ज्ञानेश्वरः' इति ख्यातः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक...
कः आरोग्यसम्पन्नः ? 08.06.2026 2:43
वाग्भटः विख्यातः प्राचीनः वैद्यराजः । एकदा धन्वन्तरिः पृथ्वीतले वैद्यानां परीक्षा करणीया इति विचिन्त्य शुकस्य रूपं धृत्वा एकं प्रश्नं त्रिवारम् उच्चार्य वैद्यान् अपृच्छत् - 'कोऽरुक्? कोऽरुक्? कोऽरुक्?’ (कः आरोग्यसम्पन्नः भवति इत्यर्थः)। वैद्याः विविधानि उत्तराणि दत्तवन्तः किन्तु धन्वन्तरिः न सन्तुष्टः । यदा वाग्भटं प्रति आगत्य प्रश्नं अपृच्छत् तदा सः उत्तरयति 'हितभुक्, मितभुक्, उष्णभुक्' इति । तस्...
तारतम्यभावम् आचरन्ति अज्ञानिनः 07.06.2026 2:32
कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । कस्यचित् चर्मकारस्य कुटीरं प्राप्य जलं पृष्टवान् । किन्तु निम्नकुलीयः सः चर्मकारः जलं कथं ददानि इति चिन्तयति । तदा महात्मा वदति यत् भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः.....’। तदनन्तरं सः चर्मकारः सन्तोषेण तस्मै महात्मने जलं दत्तवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टाद...
स्वातन्त्र्यप्रिया अभयादेवी 06.06.2026 3:22
उल्लाळराज्यं किञ्चन सम्पद्भरितं लघुसंस्थानम् । गच्छता कालेन तस्य संस्थानस्य राज्ञः मद्यपानप्रवृत्तिः जाता । पोर्तुगीसाः तस्य मैत्रीं सम्पादितवन्तः । मद्यपानाय यत् मद्यं क्रेतव्यं, तन्निमित्तं स्वसंस्थानमेव पोर्तुगीसाधीनं कृतवान् सः । राज्ञी अभयादेवी संस्थानरक्षणाय स्वयं शासनसूत्रं गृहीतवती । पोर्तुगीस्-अभयादेव्योः मध्ये जाते युद्धे पोर्तुगीसानां पराजयः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्...
वास्तविकः धनिकः 05.06.2026 3:01
कस्मिंश्चित् ग्रामे देवालयनिर्माणार्थं धनं प्राप्तुं पञ्च जनाः प्रतिगृहं गतवन्तः । यः अधिकं धन दास्यति तस्य नाम्नः उट्टङ्कनं देवालये भवितुम् अर्हति इति निश्चितवन्तः । कश्चन कोट्यधीशः लक्षरूप्यकपरिमितं धनं दत्तवान् । कदाचित् धनिकेन धनदातॄणाम् आवली दृष्टा । तत्र कश्चन कृषिकः सहस्रं रूप्यकाणि दत्तानि आसन् । कृषिकस्य आर्थिकी स्थितिः शोचनीया चेदपि तेन सहस्रं रूप्यकाणि दत्तानि । मत्तः तस्य हृदयौदार्यम्...
असंमोहः 04.06.2026 3:03
अनया कथया वार्धक्ये कथं व्यवहरणीयम् इति ज्ञातुं शक्नुमः । पुत्राः प्रमादं कुर्युः इति भीतिः, मम अनुभवस्य उपयोगं कुर्युः इति अपेक्षा इत्यादयः वार्धक्ये सहजाः । तादृशीं मानसिकताम् अवहतः कस्यचन ज्येष्ठस्य जीवनं निश्चयेन अस्ति अनुकरणार्हम् । प्रायः असंमोहः नाम अयमेव । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) This story teaches how one should co...
सत्यनिष्ठा सुहृत्प्रीतिः च 03.06.2026 3:08
कदाचित् अन्यस्मिन् देशे कश्चन वणिक् लघुनः अपराधस्य निमित्तं कारागारे स्थापितः आसीत् । तस्य शूलारोपम् आदिष्टवान् राजा । सः वणिक् राज्ञे निवेदितवान् यत् गृहं गत्वा यद्यत् करणीयं स्यात् तत्सर्वं निर्वर्त्य वर्षाभ्यन्तरे प्रत्यागमिष्यामि इति । तस्य स्थाने तस्य मित्रं कारागारे स्थापितः आसीत् । वर्षम् अतीतम् । तस्य मित्रस्य शूलारोपस्य समयः आगतः । तावता धावन् तत्र आगतः सः वणिक् । बहुविधान् विघ्नान् अपाकृ...
विलक्षणः आसीर्वादः 02.06.2026 3:12
कश्चन महात्मा विलक्षणानि आशीर्वादवचनानि ददाति स्म । यथा राजानं 'सुभटो भव', आस्थानपण्डितम् 'अज्ञानी भव', महाधनिकं वणिक्प्रमुखं 'सेवकः भव' इति । किमर्थम् एवम् आशीर्वादं ददाति इति ज्ञातुं अनन्तरदिने राज्ञः वृद्धमन्त्री गत्वा महात्मानं राजास्थानम् आनयति । तदा महात्मा विलक्षणाशीर्वदवचनानाम् विशेषार्थं वदति । महात्मना कृतः आशीर्वादः विलक्षणः स्याद् चेदपि विशेषाभिप्रायगर्भः आसीत् इति जानन्तः सभास्थाः सर्...
मानवहृदयम् 01.06.2026 3:03
कश्चन निर्धनः दीनः जनः आसीत् यस्य निबिडं श्मश्रु, दीर्घाः नखाः, जीर्णं दुर्गन्धयुक्तं वस्त्रं च आसीत् । जनाः तम् उन्मत्तः इति वदन्ति स्म । कदाचित् कश्चन सहृदयः तरुणः विनयः तं जनं दृष्ट्वा मनसि बहुविधैः प्रश्नैः पीडितः अभवत् । द्वितीये दिने सः तस्मै एकं कदलीफलम् अयच्छत् । अग्रिमे दिने विनयाय एकं पत्रम् आगतम् - भवान् मुख्यमन्त्रिणः सहयोगित्वेन नियुक्तः इति । यदा सः अग्रिमे दिने मन्त्रालयं प्राप्तवान...
श्रमः व्ययामः च 31.05.2026 3:15
नूतनतया निर्मीयमाणस्य पत्तनस्य विभिन्नानि कार्याणि प्रचलन्ति स्म । एकदा मार्गनिर्माणकार्ये नैके कर्मकराः अहोरात्रं कार्यं कुर्वन्ति स्म । तदा कुतश्चित् कश्चित् सुदृढः युवा तत्र समागत्य बहूनि कार्याणि अकरोत् । सायं यदा सन्तुष्टः स्वामी तस्मै द्विगुणितं वेतनं दातुम् उद्यतः तदा सः तत् सर्वथा निराकृत्य अवदत् 'प्रतिदिनं मया कठिनाः व्यायामाः क्रियन्ते । अस्य अस्मिन्नेव मार्गे चलन् अहं मार्गस्य निर्माणका...
चर्वितचर्वणम् 30.05.2026 2:43
अस्यां कथायां अजापालकेन सह साक्षात्सन्दर्शनं भवति वार्तादूरदर्शनस्य । एकस्य विषयस्य पुनः पुनः चर्चा चर्वितचर्वणम् इति कथ्यते । सन्दर्शनस्य चर्वितचर्वणस्य च कः सम्बन्धः इति ज्ञातुम् इच्छा अस्ति वा? तर्हि इमां हास्यमयीं कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In this humorous story, a goatherd is interviewed on the televisio...
धूर्तः आपणिकः 29.05.2026 3:17
लालबहादुरशास्त्री भारतस्य सुप्रसिद्धः द्वितीयः प्रधानमन्त्री । तस्य पत्नी ललितादेवी अपि स्वातन्त्र्यान्दोलने भागग्रहीत्री एव । सा महिला दलस्य प्रमुखा आसीत् । कदाचित् सा आपणिकानां मनः परिवर्तयितुम् अन्याभिः महिलाभिः साकं वैदेशिकवस्तुविक्रयणस्थलं गतवती । बहवः आपणिकाः ललितादेव्याः अनुरोधं स्वीकृत्य सर्वाणि वैदेशिकवस्तूनि बहिः अक्षिपन् । किन्तु एकः आपणिकः तत् न अङ्गीकृतवाम् । तस्य मनःपरिवर्तनं कथं भ...
सङ्गं मा कुरु दुष्टानाम् 28.05.2026 3:07
दुष्टानां सङ्गः सर्वथा न करणीयः इति इयं कथा ज्ञापयति । पितुः मरणानन्तरं भट्टनाथस्य स्वेच्छाचारस्य निग्रहीता न कोऽपि आसीत् । दुष्टानां मित्राणाम् उपदेशं पालयन् सः मनोरञ्जनाय दुर्व्यसनाय च प्रभूतं धनं व्ययितवान् । उद्योगिनः तं वञ्चितवन्तः । वाणिज्ये महती हानिः तेन अनुभूता । अन्ते यदा सः आत्महत्यार्थं प्रकोष्ठस्य अट्टाधारे रज्जुं बद्ध्वा पाशं कण्ठे योजयित्वा कूर्दनम् अकरोत् तदा अट्टाधारः भग्नः जातः ।...
महात्मनाम् आशीर्वादस्य फलम् 27.05.2026 5:27
महात्मनाम् आशीर्वादवचनानि कदापि विफलानि न भवन्ति इत्यस्य उदाहरणं भवितुम् अर्हति इयं कथा । कश्चन तरुणः बालगङ्गाधरवर्येण कानिचन आशीर्वादवचनानि प्राप्नोत् । तानि आशीर्वादवचनानि तस्य हृदये स्थिरतया अतिष्ठन् । तरुणेन विद्याभ्यासं समाप्य सर्वकारोद्योगः प्राप्तः । स्वयोग्यतया अल्पे एव काले पदोन्नतिं प्राप्नुवन् रिसर्व्-वित्तकोषस्य 'गवर्नर्' पदमपि प्राप्नोत् । ब्रिटिश्-शासने तत् पदं प्राप्तवान् प्रथमः भार...
अनुचितं कार्यं न करोमि 26.05.2026 2:56
कश्चन विद्यालये कश्चन निरीक्षणाधिकारी छात्राणां परीक्षार्थं पञ्च आङ्ग्लशब्दान् अवदत् । यदा मुख्योपाध्यायः छात्राणां मध्ये सञ्चरन् आसीत् तदा तेन ज्ञातं यत् एकेन छात्रेण 'केट्ल्' इत्ययं शब्दः दोषपूर्णतया लिखितः इति । सः नेत्रसङ्केतेन छात्रम् असूचयत् यत् पार्श्वस्थेन छात्रेण यत् लिखितं तत् दृष्ट्वा समीकुरु इति । किन्तु तेन छात्रेण आदेशः न पालितः । यदा निरीक्षणाधिकारी निर्गतः तदा मुख्योपाध्यायः किमर्थ...
पालय कर्तव्यम् 25.05.2026 2:38
बहुषु युद्धेषु शत्रुजनानां मारणं दृष्ट्वा कस्यचन राज्ञः मनः विषादग्रस्तं जातम् । सः कञ्चन संन्यासिनम् उपसर्प्य 'भवतः इव तपोमयं जीवनं स्यात् ममापि' इति अवदत् । तदा संन्यासी 'प्रजारक्षणं, युद्धम् इत्यादिकं तव कर्तव्यम् । तपसि प्रवृत्तिः, जनानां प्रबोधनम् इत्यादिकं मम कर्तव्यम् । सर्वेण अपि जनेन स्वस्य कर्तव्यपालनमात्रं चिन्तनीयम् । अन्येन आत्मनः तोलनं न युज्यते....’ इत्यादिभिः वचनैः राजानं बोधयति ।...
मानवता 24.05.2026 3:26
जोधपुरसाम्राज्ये राजा रामसिंहः आधिपत्यं वहन् आसीत् । कदाचित् रामसिंहः महता शौर्येण मोगलैः सह युद्धम् अकरोत् । भीतं मोगलसैन्यं तत्स्थानात् पलायनम् अकरोत् । पलायमानाः पिपासापीडिताः मोगलसैनिकाः कस्यचन तडागस्य जलं पातुं यदा उद्यताः तदा रामसिंहस्य सैनिकाः तेषां जलपानं निवारितवन्तः । रामसिंहः त्वरितं तत्रागत्य 'इमे निश्शस्त्राः, निस्सहायाः, पिपासाबाधिताश्च । जलपानाय प्रतिगमनाय च अनुमन्यन्ताम्' इति उच्चै...
राधानामजपः किमर्थम् ? 23.05.2026 3:08
कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'सदैव भवान् राधे! राधे! इति किमर्थं जपति?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । वेदनायाः निवारणं कथम् इति पृष्टे कृष्णः अवदत् 'मद्भक्तस्य चरणरजसः स्पर्शेन इयं वेदना दूरीभवितुमर्हति’ इति । अविलम्बेन गत्वा आनेष्यामि इत्युक्त्वा नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य चरणरजः अयाचत । परन्तु सर्वतः अपि न...
अहो! उदारता 22.05.2026 3:04
रवीन्द्रनाथवर्येण यदा नोबेल्पुरस्कारः प्राप्तः तदा असङ्ख्याः जनाः तम् अभिनन्दितवन्तः । किन्तु कश्चन प्रतिवेशी तस्य अभिनन्दं न कृतवान् इति तस्य दुःखम् आसीत् । कदाचित् वायुविहारार्थं रवीन्द्रनाथवर्यः समुद्रतीरम् अगच्छत् । समुद्रे पतिताः सूर्यकिरणाः रमणीयतया शोभते स्म । अत्रान्तरे तस्य दृष्टिः एकस्मिन् गर्ते पतिता । सः अचिन्तयत् 'सूर्यकिरणाः प्रसारविषये गर्तसमुद्रादिभेदभावं न प्रदर्शयन्ति.......’ इति...
स्वीकरणे योग्यता 21.05.2026 3:17
पूर्वं कश्चन राजा कस्यचन संन्यासिनः समीपं गत्वा 'उत्कृष्टं तत्त्वं किञ्चन उपदिश्यताम्' इति प्रार्थितवान् । 'अपेक्षिता योग्यता नास्ति इदानीं भवतः' इति संन्यासिना उक्तम् । खिन्नः राजा स्वभवनं गत्वा कोपेन मन्त्रिणम् अवदत् 'एकः पण्डितः, सः संन्यासी च अनीयेताम्' इति । यदा तौ आगतवन्तौ तदा राजा अवदत् यत् अहं पण्डितस्य मुखात् उपदेशं प्राप्स्यामि इति । तदा संन्यासी क्षणमात्रेण एव भवतः योग्यतापरीक्षणं भवितु...
स्वातन्त्र्यम् आनन्दः च 20.05.2026 3:11
कदाचित् प्रजानुरागी राजा अरण्यमार्गे गच्छन् आसीत् । कश्चन अजापालकः वृक्षस्य अधः उपविश्य वेणुवादने मग्नः आसीत् । राजा अपृच्छत् 'साम्राज्यमेव प्राप्तवान् इव महति आनन्दे मग्नः भवान् वेणुवादनं करोति' इति । तदा अजापालकः अवदत् 'वस्तुतः वेणुवादनस्य साम्राज्यप्राप्तेः च न सादृश्यम् । अहं तु भगवच्चिन्तनं कुर्वन् सर्वचिन्ताभ्यः मुक्तः सन् मनोवाक्कायकर्मसु स्वतन्त्रः । धनस्य स्वातत्न्त्र्यस्य आनन्दस्य च न को...
का शक्तिः श्रेष्ठा ? 19.05.2026 3:43
कदाचित् लक्ष्मीसरस्वत्योः मध्ये का श्रेष्ठा इति विवादः उत्पन्नः । संन्यासिनीरूपेण भूलोकं गत्वा स्वस्य श्रेष्ठता प्रतिष्ठापनीया इति निर्णयं कृत्वा आदौ लक्ष्मीः एकं ग्रामम् अगच्छत् । स्वीयेन सुवर्णपात्रेण यस्मिन् गृहे सा भोजनं करोति तत्रैव भोजनपात्रं परित्यज्यते लक्ष्म्या । जनाः तां स्वगृहं प्रति निमन्त्रयितुम् अहमहमिकया प्रवृताः अभवन् । ग्रामे सर्वत्र ईर्ष्या, असूया, कलहः इत्यादयः आरब्धाः । तदनन्तर...
अलसानां भविष्यम् 18.05.2026 3:04
कदाचित् कश्चन आङ्ग्लाधिकारी कृत्रिमं विनयं दर्शयन् दयानन्दसरस्वतीवर्यम् अपृच्छत् 'अधुना भारते आङ्ग्लानां भविष्यं कथं स्यात्?’ इति । तदा दयानन्दवर्यः अवदत् 'आङ्ग्लाः अलसाः जाताः सन्ति । अलसानां भविष्यं सदा निराशदायकम् एव भवति' इति उक्त्वा आङ्ग्लानां दिनचरीं विस्तृतरूपेण अवदत् । दयानन्दवर्यस्य वचनं वास्तवद्योतकम् अप्रियसत्यज्ञापकं च आसीत् इति कारणतः आङ्ग्लाधिकारी प्रतिवचनं किमपि अनुक्त्वा मुखम् अवनम...
Replaio no es editor de podcasts; los nombres de los programas, las portadas y el audio pertenecen a sus autores y se distribuyen a través de canales RSS públicos