सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 715 episodios

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

No dejes de visitar la web del podcast y apoyar a su creador: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Categoría

Kids

Web del podcast

sambhashanasandesha.in

Último episodio

17 de oct. de 2026

¿Dónde escuchar?

Podcasts en la app Replaio Radio Muy pronto

Los podcasts llegarán muy pronto a la app. Instálala ahora y sé el primero en descubrir una forma totalmente nueva de vivir los podcasts

Descárgala en Google Play Instálala gratis Android casi 10 M de descargas · valoración de 4,8 iOS muy pronto

Episodios

न फलति भाग्यम् अलसस्य 11.09.2025

सुमन्तकनामकः कश्चित् अलसः गृहजनैः पुनः पुनः उपदेशे कृते गृहमेव परित्यज्य गतवान् । भिक्षावृत्त्या उदरपोषणं कुर्वन् ग्रामान् नगराणि च अटितवान् । कदाचित् भगवती लक्ष्मीदेवी सुमन्तकं दृष्ट्वा अतीव दयापूर्णा जाता । सा स्वपतिं विष्णुं किमपि साहाय्यं कर्तुम् अवदत् । एषः सर्वथा अलसः इत्यतः तस्य भाग्यं न फलति इति अवदत् विष्णुः । लक्ष्म्याः पुनः पुनः अनुरोधेन सः एकं रत्नैः पूर्णं घटं सुमन्तकस्य मार्गे स्थापि...

अश्रुतपूर्वा कथा 11.09.2025

कश्चन धूर्तः काणः अधिकं धनं सम्पादयितुम् एकम् उपायं करोति । 'यदि कश्चन अश्रुतपूर्वां कथां वदति तर्हि तस्मै वंशागतं सुवर्णपात्रं ददामि । यदि कथा श्रुतपूर्वा स्यात् तर्हि तेन एव मह्यं पञ्चशतं दीनाराः दातव्याः' इति घोषणं कारितवान् । बहवः जनाः कथाः श्रावितवन्तः । अन्ते श्रुतपूर्वा कथा एषा इति उक्त्वा तेभ्यः पञ्चशतं दीनारान् प्राप्नोति स्म । कदाचित् एकः‌ चतुरः युवकः आगत्य 'भवान् स्मरसि खलु भवतः पित्रा...

दोषः कस्य ? 10.09.2025

चोरः सञ्जीवः न्यायाधीशं वदति 'यदा चौर्यं करोमि तदा मम माता कदापि मां न तर्जितवती । अतः मात्रे दण्डनं दीयताम्' इति । माता वदति 'पतिः मद्यपानार्थं धनं पृच्छति । अतः पतिं दण्डयतु' इति । पतिः वदति 'पिता मां बाल्यकाले एव त्यक्त्वा कारागृहं गतवान्' इति । पिता वदति 'कञ्चित् सज्जनम् आतङ्कवादिनः मारितवन्तः इति आरक्षकप्रमुखं निवेदितवान् । किन्तु भवान् एव आतङ्कवादी' इति उक्त्वा मां कारागृहं प्रेषितवान् । आरक...

विवेकः 09.09.2025

कदाचित् विश्वविजयिनः सिकन्दरस्य भूरिधनस्य आवश्यकता आपतिता । तदा सः बन्धिनः उद्दिश्य 'समीपे खनिः अस्ति । यः सहस्रं नाणकानि सम्पाद्य मह्यं समर्पयति, तं दासमुक्तं करोमि' इति उक्तवान् । सर्वे अहर्निशं कार्यम् आरब्धवन्तः । एकः युवकः सहस्रं नाणकानि दत्तवान् इत्यतः भवान् मुक्तः इति यदा सिकन्दरः अवदत् तदा सः युवकः समीपे स्थितं कञ्चित् विकलाङ्गं दर्शयित्वा तस्य मोचनं करोतु इति उक्तवान् । यतः सः युवकः पुनरप...

मूल्यं मनुष्यस्य 08.09.2025

पुराकाले कलिङ्गराज्यम् अशोकः पालयति स्म । इयं कथा अशोकस्य तस्य मन्त्रिणः च मध्ये प्रचलिता घटना नाम । अनया घटनया अशोकः मन्त्रिणं दर्शयति यत् 'यावत् जीवामः तावदेव मनुष्यस्य मूल्यम् । जीवाभावे मनुष्यशरीरं व्यर्थमेव । अतः यावत् जीवामः तावत् सत्पुरुषाणां महात्मनां च पादकमलयोः शिरःस्थापनेन जीवनस्य धन्यता प्राप्तव्या अस्माभिः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां...

न शाम्यति वैरं वैरेण 07.09.2025

कदाचित् काशीनगरस्य क्रूरः दुष्टः च महाराजः विजयदत्तः अन्यस्य राज्यस्य गुणवतः प्रजावत्सलस्य राज्ञः धर्मप्रियस्य उपरि आक्रमणं कृतवान् । जयम् अपि प्राप्तवान् । धर्मप्रियः पुत्रम् अर्जनसिंहम् अवदत् 'विजयदत्तस्य विषये मनसि वैरभावं न स्थापयतु' इति । विजयदत्तः धर्मप्रियस्य तस्य पत्न्याः च शिरश्छेदं कारितवान् । गच्छता कालेन अर्जुनसिंहः धर्मप्रियस्य पुत्रः इति अजानन् विजयदत्तस्य अङ्गरक्षकत्वेन नियुक्तः अभव...

शुकस्य कृतज्ञता 06.09.2025

कदाचित् कश्चन पथिकः पञ्जरे निबद्धं शुकं नीत्वा राज्ञः समीपम् आगतवान् । सः शुकः न केवलं भाषणे समर्थः आसीत् अपि च मुखलक्षणं दृष्ट्वा भाविवृत्तान्तमपि कथयति स्म । सन्तुष्टः राजा शुकम् अपृच्छत् 'यद्यपि भवतः स्वामी पञ्जरस्य बन्धनं सर्वदा न करोति तथापि भवान् किमर्थं बहिः न पलायते?’ इति । तदा शुकः अवदत् 'अहं कृतघ्नः न । मम स्वामी माम् आश्रित्य एव जीवनं करोति । अतः स्वामिनं त्यक्त्वा गन्तुं नेच्छामि' इति...

स्थानस्य प्रभावः 05.09.2025

कस्मिंश्चित् वने चोराः एकस्मिन् कुटीरे वसन्ति स्म । कदाचित् राजभटैः चोराः गृहीताः, कारागारे स्थापिताः च । कदाचित् एकः साधुः वने अटन् तमेव कुटीरम् आश्रितवान् । एकदा वर्षाकाले कश्चन युवकः पत्न्या सह वृष्टितः रक्षणं प्राप्तुं तस्मिन् कुटीरे स्थितवान् । साधोः मनसि दुर्भावना उत्पन्ना । दम्पती गन्तुम् उद्युक्तौ तदा साधुः छुरिकां गृहीत्वा यदा तयोः समीपम् आगतवान् तदा मनसः दुर्भावना अपगता । पुनः यदा कुटीरं...

भक्तः दामाजी पन्तः 04.09.2025

पुरा मङ्गलवेढाग्रामे दामाजीपन्तः‌ नाम परमदयालुः दैवभक्तः दानशीलश्च आसीत् । यवनराजस्य शासनाधिकारिरूपेण कार्यं करोति स्म । कदाचित् पण्ढरपुरतः आगवद्भ्यः जनेभ्यः धान्यागारतः यथेष्टं धान्यं वितीर्णवान् । एतेन कुपितः यवनराजः पान्थम् आनाययति । मार्गमध्ये सः पण्ढरिनाथस्य मदिरं गत्वा भक्त्या प्रार्थितवान् । भक्तवत्सलः पण्ढरिनाथः दामाजीपन्तस्य सेवकरूपं धृत्वा सपादलक्षमुद्रायुक्तं स्यूतं यवनराजाय दत्त्वा प्र...

चरति चरतो भगः 03.09.2025

कश्चित् श्रान्तः पथिकः अग्रे गन्तुम् अनिच्छन् वृक्षस्य अधः उपविष्टं वृद्धं 'ग्रामः कियत् दूरे अस्ति?’ इति अपृच्छत् । किन्तु सः वृद्धः किमपि न उक्तवान् । कुपितः पथिकः मनसा एव वृद्धं निन्दन् यदा अग्रे गन्तुम् उद्युक्तः तदा वृद्धः उच्चस्वरेण तम् आहूय अवदत् 'ग्रामः क्रोशमितदूरे अस्ति' इति । उत्तरं दत्त्वा अपि भवान् अग्रे न चलति चेत्, मम उत्तरं व्यर्थं स्यात् । अतः पूर्वम् उत्तरं न दत्तवान् । यदा भवान्...

गन्तव्यः मार्गः 02.09.2025

कस्मिंश्चित् गृहे द्वौ मृद्घटौ दुग्धेन पूर्णौ आस्ताम् । प्रथमघटस्थं दुग्धं 'सुवर्णकुम्भे मां स्थापयतु इति गृहस्वामिने' अवदत् । तथैव अकरोत् स्वामी । 'उष्णीकरणं मास्तु, आतञ्चनं मास्तु' इत्यादि अवदत् प्रथमघटस्थं दुग्धम् । किन्तु मृद्घटस्थेन दुग्धेन किमपि नोक्तम् । अतः स्वामी तम् उष्णीकृत्य तस्मिन् आतञ्चनमपि कृतवान् । एतत् सर्वं दृष्ट्वा प्रथमघटस्थं दुग्धं मृद्घटस्य दुग्धस्य उपहासं करोति 'भवतः वर्णः न...

मूल्यं दुधस्य 01.09.2025

प्रतिदिनं काचित् गोपिका साधोः आश्रमम् आगत्य अर्धलीटर्मितं दुग्धं मापकेन मापयित्वा साधोः भाण्डे स्थापयति । किन्तु आश्रमस्य पार्श्वे वसते ब्रह्माचरिणे दुग्धपात्रे अवशिष्टं समग्रं दुग्धं समर्पयति ।  वस्तुतः ब्रह्मचारिणे अपि अर्धलीटर्मितं दुग्धम् एव दातव्यम् । एतत् निरीक्ष्य साधुः पृष्ट्वान् किमर्थम् एषा प्रतारणा इति । तदा गोपिका अवदत् 'भवान् जपमालां गृहीत्वा मणिभिः गणनां कुर्वन् जपं करोति । अतः भवते...

कः महामूर्खः ? 31.08.2025

कस्मिंश्चित् ग्रामे दामोदरः नाम कश्चन महामूर्खः दरिद्रः च आसीत् । कस्यचित् संन्यासिनः वचनानुसारं तस्य भाग्यान्वेषणार्थं पूर्वाभिमुखं प्रयाणम् आरब्धवान् । मार्गमध्ये एकः सिंहः, एकः उद्यानपालः, एकः राजा च तेषां समस्यायाः समाधानं भाग्यदेवतां पृष्ट्वा वदतु इति निवेदितवन्तः । चतुर्दशदिनानि यावत् प्रयाणं कृत्वा संन्यासिना उक्तं पर्वतं प्राप्य गुहायां कश्चन निद्रितवान् आसीत् । भवान् कः ? इति पृष्टे सः उक...

रामसेवाचूडामणिः हनूमान् 30.08.2025

यदा श्रीरामः रावणं निहत्य प्रत्यागत्य सिंहासने अभिषिक्तः तदा सीतालक्ष्मणभरतशत्रुघ्नाः रामस्य समीपं गत्वा 'एतावत्पर्यन्तं हनूमान् एव सकलां सेवां करोति स्म । अतः अस्मभ्यं भवतः सेवाभाग्यं ददातु' इति अयाचन्त । रामः वदति 'भवन्तः कार्याणाम् आवलींं लिखन्तु । किमपि कार्यम् अवशिष्टं चेत् तत् हनूमान् करोति' इति । सीतादयः सुसूक्ष्मतया आवलीं सज्जीकृतवन्तः । हनूमान् यदा आवलीम् अपश्यत् तदा सर्वाणि कार्याणि तैः...

एतत् भवदीयम् .. 29.08.2025

कश्चन नितरां धर्मनिष्ठः दानशीलः च आसीत् । कदाचित् राजभवनम् आगतवते तापसाय राजा अवदत् 'अहं भवते अत्यमूल्यं कमपि उपहारं ददामि' इति । तापसः 'आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु' इति अवदत् । राजा राज्यकोषं, राजभवनं, रथादिकं ददामि इति यदा वदत् तदा तत्सर्वं प्रजाजनानम् इति अवदत् तापसः । शरीरमपि मातापितृभ्यां दत्तम्, अतः तदपि भवतः न इत्युक्तं तापसेन । यदा राजा विस्मयेन मूढः जातः तदा तापसः अवदत् 'भवतः...

विश्वासः नास्ति किम् ? 28.08.2025

कदाचित् कश्चित् दरिद्रः मन्दिरे गणेशं प्रार्थयते यत् गृहगमनसमये मार्गे यथा धनं प्राप्नुयां तथा माम् अनुगृह्णातु इति । यत् प्राप्नोमि तस्य अर्धभागं भवते अर्पयामि इति । आश्चर्यम्! मार्गमध्ये किञ्चित् धनं दृष्टिगोचरम् अभवत् । तत्र पञ्चाशत् रूप्यकाणि आसन् । मन्दिरं गत्वा गणेशस्य पुरतः स्थित्वा 'किं भवतः मयि विश्वासः नास्ति ? यद् लभ्यते तत्र अर्धभागं निश्चयेन भवते समर्पयामि इति अहम् उक्तवान् खलु‌? तर्ह...

अयि, मयेदं किं कृतम् ! 27.08.2025

मृगयाव्यसनः कश्चन युवा भुषुण्डिम् आदाय अश्वम् आरुह्य मृगयार्थं वनम् अगच्छत् । तत्र च हंसयूथं रममाणं दृष्ट्वा तेन स्वभुषुण्डितः गोलिका मुक्ता । गोलिकया एकः हंसः विद्धः सन् चीत्कारं कृतवान् । सः युवा अश्वात् अवतीर्य तत्पार्श्वे गतः । तीव्रव्यथया चीत्कुर्वन्तं हंसं च दृष्टवान् । किञ्चित्कालनन्तरं सः हंसः प्राणैः विमुक्तः‌ जातः । मृतं स्वप्रियतमं विज्ञाय तत्प्रियतमा हंसी करुणं विलपति स्म । सर्वं दृश्य...

सत्सङ्गस्य श्रेष्ठत्वम् 26.08.2025

कदाचित् विश्वामित्रस्य तपोबलं श्रेष्ठम् उत वसिष्ठस्य सत्सङ्गफलं श्रेष्ठम् इति प्रश्नः उद्भूतः । तद्विषये निर्णयं कर्तुं तौ ब्रह्मणः समीपं गतवन्तौ किन्तु ब्रह्मा विष्णोः समीपं प्रेषयति । विष्णुः शिवस्य समीपं, शिवः आदिशेषस्य समीपं प्रेषयति च । विश्वामित्रवसिष्ठयोः विवादं श्रुत्वा आदिशेषः अवदत् 'भवतोः कोऽपि स्वप्रभावेण मम मस्तकस्थां पृथिवीं क्षणकालं यावत् आकाशे निरालम्बां धारयतु' इति । महर्षिः विश्वा...

सा मञ्जुला कोकिला 25.08.2025

किं भवद्भिः ज्ञायते यत् अमृतात् जातः वृक्षः आम्रवृक्षः इति ? किन्तु कथं स्वर्णकुम्भात् अमृतबिन्दुः पतितः? गरुडेन कथम् अमृतबिन्दुः पातितः ? गानविद्याविलासिनी गन्धर्वकन्या मञ्जुला गरुडं यदा अनुसृतवती तदा किं जातम् ? विष्णोः शापेन मञ्जुला का अभवत् ? इति सर्वं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Do you know that the...

पात्रताम् अनुसृत्य 24.08.2025

उद्यानपालकेन श्रावितेन पद्येन सन्तुष्टः राजा 'मनोभिलषितं याचतु' इति अवदत् । तदा उद्यानपालकः सहस्रं सुवर्णनाणकानि अयाचत् । किञ्चित् 'न्यूनं याचतु' इति यदा राजा अवदत् तदा एकं नाणकं ददातु इति अवदत् उद्यानपालकः । आश्चर्यस्तब्धः राजा अपृच्छत् 'किमर्थम् अनयोः मध्ये एकां संख्यां न उक्तवान्' इति । तदा सः अवदत् 'पुत्र्याः‌ विवाहार्थं धनम् अपेक्षितम् । प्रथमवारम् अहं भवतः स्थानं, पात्रतां व्यक्तित्वं च दृष्...

काकः चलति हंसगत्या 23.08.2025

कदाचित् गर्विष्ठः काकः हंसेन सह स्पर्धार्थं सन्नद्धः जातः । हंसः काकश्च उड्डयनम् आरब्धवन्तौ । काकः स्वसामर्थस्य कौशलस्य च प्रदर्शनाय भिन्नप्रकारेण उड्डयनम् अकरोत् । हंसः तु समानगत्या उड्डयते स्म । ततः हंसः सागराभिमुखः जातः । किञ्चित्कालाभ्यन्तरे अनभ्यासेन उड्डयनेन च तस्य शरीरे स्वेदः जातः । परन्तु परितः सम्पूर्णतया जलराशिः । तस्मात् भीतः काकः मम मरणं निश्चितम् इति विचिन्त्य प्राणान् रक्षितुं हंसं...

अहङ्कारी मशकः 22.08.2025

कस्मिंश्चित् वने कश्चित् मशकः खलबुद्ध्या विनाकारणं कस्यचित् कर्णयोः कस्यचित् नासिकारन्ध्रे वा प्रविश्य तान् पशून् विचलितान् करोति स्म । सर्वे पशवः मिलित्वा मशकस्य अत्याचारविषयम् अवदन् । किन्तु सिंहः गजः च किमपि कर्तुम् अशक्तौ जातौ । सः मशकः अहङ्कारी भूत्वा पशून् अवदत् 'प्रतिदिनं भवत्सु अन्यतमः मम रुधिरपिपासां पूरयन्तु' इति । सर्वे पशवः अङ्गीकृतवन्तः । प्रथमः पर्यायः कस्यचित् कच्छपस्य आसीत् । सः कञ...

क्षणस्थायि सौन्दर्यम् 21.08.2025

कश्चन अतीवसुन्दरः विवाहयोग्यः च राजकुमारः अश्वारूढः सन् वनमार्गेण गच्छन् आसीत् । तदा एका सुन्दरी युवतिः दृष्टा यां सः परिणेतुम् इष्टवान् । राजा तां सुन्दरीम् आनाय्य यदा विवाहस्य प्रस्तावं कृतवान् तदा सा सुन्दरी निराकृतवती । पुनः पुनः रजकुमारेण निवेदिते सति सा अङ्गीकृतवती । किन्तु सप्ताहं यावत् प्रतीक्षां करोतु इति अवदत् सा । अनतरं तया या परीक्षा कृता तेन राजकुमारस्य ज्ञानोदयः जातः । सः प्रतिज्ञाम्...

मातुः उपदेशः 20.08.2025

मातुः उपदेशानुसारं सुप्रसिद्धः राजा गोपीचन्दः राज्यस्य त्यागं कृत्वा गोरखनाथस्य शिष्यः जातः । प्रथमदिने एव गुरुः गोपीचन्दं भिक्षायाचनार्थं प्रेषितवान् । ततः भिक्षाटनार्थं गतवान् । सः मातुः समीपम् अपि गत्वा भिक्षाम् अयाचत । माता त्रीणि गूढवचनानि भिक्षारूपेण अवदत् - ‘सर्वदा सुरक्षिते दुर्गे तिष्ठतु । स्वादिष्टं भोजनं एव खादतु । सुखमये सुगन्धिते तल्पे एव शयनं करोतु' इति। तेषां अर्थः च - 'गुरुसन्निधिः...

कतमः योग्यः ? 19.08.2025

कस्यचित् देशस्य राज्ञः त्रयः पुत्राः आसन् । ते च युवकाः जाताः । एकदा राजा चिन्तामग्नः आसीत् यत् तस्य अनन्तरं कतमः पुत्रः राज्यपालनं कुर्यात् इति । कारणं ज्ञातवता मन्त्रिणा कश्चन उपायः सूचितः – पुत्राः यं कमपि जनं तोषयित्वा आगच्छन्तु । ते तत् कार्यं कथं सम्पादयन्ति इति आधारेण कतमः योग्यः इति निर्णायं कुर्मः' इति । तदनु राजा पुत्रान् आहूय मन्त्रिणा यदुक्तं तथैव अवदत् । ततः पुत्राः गतवन्तः । त्रयः अप...

Escucha el podcast बालमोदिनी en Replaio

Radio y podcasts en una sola app - gratis y sin registro. Instálala hoy y no te pierdas el estreno

Descárgala en Google Play

Replaio no es editor de podcasts; los nombres de los programas, las portadas y el audio pertenecen a sus autores y se distribuyen a través de canales RSS públicos