सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Určitě navštivte web podcastu a podpořte jeho tvůrce: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategorie
Web podcastu
Nejnovější epizoda
11. čvc 2026
Kde poslouchat?
Podcasty v aplikaci Replaio Radio Už brzyPodcasty míří do aplikace už brzy. Nainstaluj si ji teď a jako první uvidíš úplně nový pohled na podcasty
Epizody
तीक्ष्णतमम् उत्तरम् 25.02.2025 4:17
सिकन्दरः यदा भारते क्रमणाय उद्यतः तदा तदीयः गुरुः अरिष्टाटलः उक्तवान् यत् भारतीयानां संन्यासिनाम् आशीर्वादं प्राप्य प्रत्यागच्छेत् इति । कदाचित् दण्डयात्रावसरे दश संन्यासिनः सिकन्दरेण प्राप्ताः । तान् दृष्ट्वा सिकन्दरः - ‘अहं प्रश्नान् पृच्छामि । यस्य उत्तरं तीक्ष्णतमम् अस्ति तं हनिष्यामि' इति । ततः किं भवति, कः संन्यासी तीक्ष्णम् उत्तरं ददाति, सिकन्दरः हनिष्यति वा इति सर्वं कथां श्रुत्वा जानन्तु...
वास्तविकः आनन्दः 24.02.2025 3:20
कदाचित् अमेरिकादेशे वेदान्तविचारप्राचारसमये काचित् पुत्रशोकम् अनुभवन्ती माता स्वामिनं रामतीर्थं दृष्ट्वा विलुप्तस्य आनन्दस्य पुनःप्राप्तेः मार्गं यदा अपृच्छत् तदा स्वामी समीपस्थम् अनाथबालकं दर्शयन् तं स्वपुत्रं मत्वा पालयेत् इति उक्तवान् । तद्विषये सुदीर्घायाः चर्चायाः अनन्तरं सा महिला अङ्गीकृतवती आनन्दमपि प्राप्तवती । निर्धनानाम् अनाथानां च सेवातः एव वास्तविकः आनन्दः प्राप्येत इति अवगतवती च । (“क...
गुरौ प्राप्ते 23.02.2025 3:47
कदाचित् केनचित् तरुणेन शिष्यत्वेन स्वीकर्तुं गुरुः प्रार्थितः । शताधिकाः शिष्याः आश्रमे सन्ति इत्यतः तन्निराकरोति गुरुः । यत्किमपि कार्यं करोमि इति यदा वदाति तदा पाकशालायां पेषणादिकार्यं कुरु इति गुरुः वदति । बहूनां वर्षाणाम् अनन्तरं यदा गुरोः अन्तिमकालः सन्निहितः, शिष्यान् अहूय प्राप्तस्य शिक्षणस्य सारं लिखन्तु इति गुरुः वदति । आगच्छन्तु शृण्मः यत् शिष्याः किं किं अलिखन् ? अपि च सः पेषणकार्यनिरतः...
अज्ञानं दुःखकारकम् 22.02.2025 4:18
कस्मिंश्चित् वने कश्चित् तक्षकः वृक्षान् कर्तयित्वा, तान् ज्वालयित्वा, कृष्णाङ्गारान् निर्माय विक्रयणं करोति स्म । गच्छता कालेन वनं समाप्तं गतम् । तक्षकः नृपेण मिलित्वा स्वसमस्यां यदा निवेदितवान् तदा राजा महानगरात् बहिः रक्षितं स्वचन्दनवनं तक्षकाय दत्तवान् । चन्दवृक्षस्य मूल्यम् अजानन् सः तक्षकः पूर्ववत् तान् दग्ध्वा कृष्णाङ्गाराणां निर्माणं कृत्वा विक्रयणम् अकरोत् । राजा तस्य अज्ञानं ज्ञात्वा चन्...
चिन्तनमात्रात् न हानिः 21.02.2025 3:38
कश्चन शिष्यः गुरुं पृच्छति यत् - सर्वदा निषिद्धानां एव वस्तूनां स्मरणं भवति । किं करणीयम् इति ? तदा गुरुः वदति - 'निषिद्धविषायाणां चिन्तनमात्रेण न कापि हानिः भवति । किन्तु पुनः पुनः स्मरणात् तेषु प्रवृत्तिः भवेत् इत्यतः सद्विषयाः एव चिन्तनीयाः । तदर्थं सत्कार्येषु प्रवृत्तिः अधिका भवेत् । सद्ग्रन्थान् सच्चरित्राणि च पठनीयानि । सज्जनानां सहवासः अधिकतया करणीयः । एतस्य सर्वस्य कारणतः सर्वदा मनसि सद...
विचिन्त्य वक्तव्यम् 20.02.2025 4:59
वचनानि कागदखण्डाः इव एव भवन्ति । एकस्य मुखात् निर्गताः ते अन्येषां मुखानि कथं प्राप्नुवन्ति इत्यस्य अवगमनमेव दुष्करम् । अत एव यस्य विषयस्य पूर्णज्ञानं अस्माकं न स्यात् तस्य विषये असमीचीनं वचनं कदापि न वक्तव्यम् । एतत् सर्वम् इयं कथा निरूपयति । कथं कस्यचन वृद्धस्य असत्यकथनेन युवकस्य कारागारवासः अभवत् । अन्ते कथं सः वृद्धः स्वदोषम् अवगत्य क्षमायाचनां करोति इति शृण्मः । (“केन्द्रीयसंस्कृतविश्वविद्या...
योगी वृद्धः च 19.02.2025 4:09
पूर्वं कश्चन योगी अष्ट अपि सिद्धीः प्राप्य अद्भुतकार्याणि प्रदर्शयन् जनेषु महत् आश्चर्यं जनयति स्म । कदाचित् सः 'तिरुवल्लिक्केणी' प्रदेशम् आगत्य मार्गे भूमौ खननं कृत्वा सस्यस्य मूलभागम् उपरि कृत्वा पर्णादियुक्तं भागं गर्ते वपन्तं कञ्चन वृद्धं दृष्ट्वा कीदृशः मूढमतिः त्वम् ? इति पृच्छति । तदा वृद्धः - 'अष्ट सिद्धीः आप्तवान् अपि भवान् क्षुल्लकसिद्धिप्रदर्शनेन जनान् वञ्चयन् कालं यापयति' इति वदति ।...
आत्मसाक्षात्काराय अर्हता 18.02.2025 3:59
आत्मसाक्षात्काराय अपि काचित् अर्हता अपेक्षते इति इयं कथा दर्शयति । कश्चन साधकः आत्मसाक्षात्कारं प्राप्तुम् इच्छन् कञ्चन माहात्मानं मार्गदर्शनं प्रार्थयते । महात्मा प्रतिवर्षं तं परीक्ष्य पुनः जपकरणार्थं प्रेषयति । वर्षत्रयानन्तरं सः साधकः परीक्षायाम् उत्तीर्णतां प्राप्य आत्मसाक्षात्काराय अपेक्षितां योग्यतां निरूपयति । तदनन्तरं सः महात्मा साधकं ब्रह्मस्वरूपादिकं बोधयति । (“केन्द्रीयसंस्कृतविश्वविद्...
अहो गतिः कष्टदेयम् ! 17.02.2025 5:10
कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । कार्यसमाप्तेः अनन्तरं राज्ञी तान् अहूय वदति – ‘स्वशक...
अनुल्लङ्घयाः न्यायनियमाः 16.02.2025 4:27
कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्या...
मैत्र्याः सीमा 15.02.2025 4:00
पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं मारितवान् । राजकुमारः एव स्वशावकं मारितवान् इति विचिन्त्य सा चटका चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती । स्वपुत्रस्य राजकुमारस्य दोषं ज्ञात्वा यद्यपि सः राजा चटकायाः अपराधं क्षान्तवान् तथापि परस्पर...
भवेत् को मुक्तिदायकः ? 14.02.2025 4:38
बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् । सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः कथम् अन्यं मोचयितुं शक्नुयात्' इति केनचित् प्रयो...
नक्षत्रेषु दृष्टिः 13.02.2025 4:43
षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभिजानीहि' इति वदति । गच्छता कालेन नक्षत्रवीक्षणं तस्य स्वभावः जातः । प्रौढत्वे प्राप्ते नक्षत्रवीक्षणाय सः एकं दूरवीक्षकं सज्जिकृत्य नक्षत्राणां ग्रहाणां च गतेः अध्ययनम् आरब्धवान् । कालान्तरे सः 'श्रेष्ठ...
दानम् 12.02.2025 3:52
कदाचित् केनचित् राज्ञा दत्तानि दुकूलवस्त्राणि गुरुः भिक्षुकं निर्गतिकावस्थायां दृष्ट्वा तस्मै अयच्छत् । अग्रे कदाचित् राज्ञा दत्तं सुवर्णकङ्कणं पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवते राजास्थानस्य उद्योगिने अयच्छत् । एतत् ज्ञात्वा राजा एवं किमर्थं कृतवान् इति गुरुं पृच्छति । गुरुः वदति - ‘दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागः । कृतस्य दानस्य विषये पृच्छन् अस्ति इत्यतः दा...
महामेधावी 11.02.2025 4:53
जर्मन्देशीयः महाभौतविज्ञानी 'कार्ल् फेडरिक् गास्' बाल्ये कदाचित् मुख्योपाध्यायेन दत्तस्य प्रश्नस्य उत्तरं निमेषद्वयाभ्यन्तरे ददाति । प्रश्नः आसीत् - ‘एकतः शतपर्यन्तं लिखित्वा सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः' इति । कथम् उत्तरं प्राप्तवान् इति पृष्टे फेडरिक् वदति - ‘आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तरं तृतीयायाः अन्त्यात् पूर्वस्याः पूर्वस्याः च योज...
विचिन्त्य उपदेष्टव्यम् 10.02.2025 4:42
महावीरः नाम नरपतिः गान्धारदेशं पालयति स्म । विवेकिभिः उच्यते - ‘कालम् अवेक्ष्य एव नृपजनान् हितम् अहितं वा उपदेष्टव्यम् । अन्यथा उपदेष्टॄणाम् एव अपायः सम्भवेत्' इति । तत् सत्यम् इति अनया कथया ज्ञायते । को वा नृपम् उपदिष्टवान् ? उपदेशानन्तरं किं प्राचलत् इत्यादयः विषयाः अस्यां कुतूहलकारिकथायां विद्यन्ते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रिय...
सर्वश्रेष्ठा गुरुदक्षिणा 09.02.2025 3:17
कस्मिंश्चित् गुरुकुले गुरुदक्षिणारूपेण किं देयम् इति यदा विद्यार्थिनः गुरुं पृच्छन्ति तदा गुरु वदति - यत् अधीतं तस्य सम्यक् अनुष्ठानं क्रियताम् । स्वावलम्बितया जीवनं कृत्वा वर्षाभ्यन्तरे यत् सम्पाद्येत तत्र कश्चन भागः दीयताम्' । विद्यार्थिनः तथैव कुर्वन्ति । कदाचित् कश्चित् तेजस्वी बालः वर्षाभ्यन्तरे प्रत्यागत्य दश बालान् आनीय - 'यथाशक्ति मया पाठयित्वा एताः भवच्छिष्यार्हताः कृताः। इतः परं भवान् ए...
मार्गोपदेशः 08.02.2025 4:06
कदाचित् बुद्धस्य प्रवचनं श्रोतुं वैशालीतः कश्चित् वणिक आगतः । तस्य मनसि सुमुत्पन्नं प्रश्नं बुद्धं प्रति निवेदयति यत् प्रतिदिनं निर्वाणप्राप्तिविषयं श्रोतुं बहवः जनाः आगच्छन्ति किन्तु तेषु कति जनाः निर्वाणमार्गानुयायिनः स्युः इति । तदा बुद्धः उत्तरं ददाति - ‘उपदेशः मम कर्तव्यं, तत् श्रद्धया करोमि । निर्वाणस्य प्राप्तिः अप्राप्तिः वा तत्तस्य प्रयत्नं विकासं च अवलम्बते' । अग्रे किञ्चित् सुन्दरम् उदा...
विदुषी द्रवमयी 07.02.2025 4:45
पूर्वम् असमराज्ये चण्डीचरणतर्कालङ्कारः नाम विद्वान् स्वगृहे एव छात्रान् अध्यापयति स्म । बाल्ये एव पतिविहीना जाता पुत्री द्रवमयी पितुः गृहम् आश्रित्य संस्कृताध्ययने प्रवृत्ता, अल्पे एव काले अपूर्वं पाण्डित्यं प्राप्तवती च । कालान्तरे वार्धक्यस्य अस्वास्थ्यस्य च कारणतः पिता गुरुकुलस्य पिधानं चिन्तितवान् । किन्तु द्रवमयी तत् निराकृत्य स्वयमेव अध्यापनम् आरब्धवती । सा तत् उत्तरदायित्वं सम्यक् एव निरुह्...
राज्ञी मालादेवी 07.02.2025 3:32
दक्षिणभारतस्य बळ्ळारिसंस्थानं शिवराजसैन्यं स्वाधीनम् यदा अकरोत् तदा बळ्ळारिसंस्थानस्य राज्ञी मालादेवी शिवराजस्य पुरतः उपस्थापिता सती पराधीनजीवनं निराकृत्य मरणदण्डनं याचितवती । तदा शिवराजः तस्यां मातृत्वं दृष्वा अज्ञानात् यत् आक्रमणं कृतं तदर्थं क्षमाम् अयाचत । बळ्ळारिसंस्थानं च स्वतन्त्रम् अकरोत् च । शिवराजस्य औदार्यस्य विनयस्य च दर्शनात् मालादेव्याः हृदयं भावनिर्भरं जातम् । (“केन्द्रीयसंस्कृतव...
शिवविष्ण्वोः अभेदः 06.02.2025 4:40
भगवद्भक्तः नरहरिः पण्ढरपुरे स्थितस्य सुवर्णकारस्य चाङ्गदेवस्य पुत्रः यः शिवपूजां श्रद्धया करोति स्म । शिवभक्तेः अतिरेकात् सः कदापि विठ्ठलमन्दिरं न गतवान् । कदाचित् कश्चित् धनिकः पुत्रप्राप्तेः अनन्तरं विठ्ठलाय सुवर्णकटिसूत्रं अर्पणीयमिति विचिन्त्य तत्कार्यं नरहरये अर्पितवान् । एतावत्पर्यन्तं विठ्ठलं न दृष्टवान् नरहरिः कटिसूत्रनिर्माणकार्ये सफलः भवति वा ? शिवविष्ण्वोः अभेदः तेन ज्ञायते वा इति कथां...
अपरीग्रहशीलता 05.02.2025 4:19
'राजतरङ्गिणी' इत्यस्य श्रेष्ठस्य ग्रन्थस्य निर्माता काश्मीरदेशीयः कविः कल्हणः सर्वत्र ख्यातः किन्तु सः एकस्मिन् सामान्ये कुटीरे वसति स्म । कदाचित् उज्जयिनीतः आगतः पण्डितगणः कवेः वसतिविषयं दृष्ट्वा राज्ञः पुरतः स्वस्य असन्तोषं प्राकटयत् । राज्ञः अनुरोधेनापि सः कविः कस्यापि वस्तुनः स्वीकारं न अङ्गीकरोति इति पण्डिताः ज्ञातवन्तः । पण्डिताः यदा राज्ञा दत्तां सामग्रीं कवये अयच्छन् तदा कुपितः कविः राज्यत...
कीदृशी उदारता 04.02.2025 4:32
स्वातन्त्र्यसङ्ग्रामकाले यदा गान्धिवर्यः धनसङ्ग्रहणं कुर्वन्नासीत् तदा काचित् निर्धना जीर्णशीर्णावस्थायुक्ता वृद्धा गान्धिवर्यम् उपसर्प्य भक्त्या नमस्कृत्य कटिस्थेन जीर्णवसनेन ग्रन्थीकृत्य संरक्षिताम् एकां कपर्दिकां निष्कास्य तस्य पादयोः समीपे संस्थाप्य ततः निर्गता । यदा श्रेष्ठिवर्यः श्री जमनालालः गणनायां लेखितुं कपर्दिकाम् अयाचत तदा गान्धिवर्यः तां न अयच्छत् । किमर्थम् ? तस्याः कपर्दिकायाः विशे...
सज्जनसङ्गः श्रीगन्धः इव 03.02.2025 4:13
शय्याम् आश्रितवान् कश्चन वृद्धः स्वपुत्रं प्रति कानिचन मार्गदर्शकवाक्यानि वदति । यथा सात्त्विकं जीवनं करणीयं, पापकार्याणि न करणीयानि, सज्जनसङ्गः करणीयः, दुर्जनसङ्गः परिहरणीयः इत्यादीनि । विषयं स्पष्टतया अवगमयितुं सः वृद्धः श्रीगन्धचूर्णं अङ्गारचूर्णं च आनाय्य प्रयोगमेकम् कारयति । केवलस्य बोधनस्य अपेक्षया कदाचित् प्रयोगेण विषयस्य अवगमनं शीघ्रं सम्यक् च भवति । तद्बोधिका कथा एषा । (“केन्द्रीयसंस्कृतव...
भक्तस्य प्रेम 03.02.2025 3:51
हजरतनिजामुद्दीनस्य समीपं कश्चन निर्धनः आगत्य पुत्र्याः विवाहार्थं साहाय्यम् अयाचत । दिनद्वयानन्तरं हजरतः तस्मै निर्धनाय स्वीयां पादुकां अयच्छत् । निराशः सन् यदा सः निर्धनः हजरतभक्तेन अमीरखुसरेण मार्गमध्ये प्राप्तः तदा अमीरखुसरेण कस्माच्चित् स्थानात् सुगन्धः अनुभूतः । सः सुगन्धः हजरतस्य पादुकातः आगच्छति इति ज्ञाते अमीरखुसरः स्वीयान् उष्ट्रान् प्रभूतं धनं च निर्धनाय दत्तवान् । सः निर्धनः अमीरखुसराय...
Replaio není vydavatelem podcastů; názvy pořadů, obálky a audio patří jejich autorům a šíří se přes veřejné RSS kanály