सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Určitě navštivte web podcastu a podpořte jeho tvůrce: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategorie
Web podcastu
Nejnovější epizoda
11. čvc 2026
Kde poslouchat?
Podcasty v aplikaci Replaio Radio Už brzyPodcasty míří do aplikace už brzy. Nainstaluj si ji teď a jako první uvidíš úplně nový pohled na podcasty
Epizody
मनोधर्मः तु भिद्यते 22.03.2025 4:06
कश्चन गुरुः यानि कार्याणि पूर्वं करोति स्म तान्येव कार्याणि ज्ञानोदयप्राप्तेः अनन्तरमपपि करोति स्म । एतत् दृष्ट्वा कश्चन तरुणः पृच्छति - ‘भवतः ज्ञानोदयः अभवत् इत्येतत् कथं सत्यम्?’ इति । तदा गुरुः उपदिशति - ‘ज्ञानोदयात् पूर्वं कर्तव्यबुद्ध्या कार्यं क्रियते स्म । इदानीं तु आत्मतृप्त्यर्थं कार्यं करोमि । आत्मतृप्त्यै यत्र कार्यं क्रियते तत्र महान् आनदः । खेदादयः अपगच्छन्ति । एवं, क्रियमाणे कार्ये उ...
अहो परिशुद्धिः 21.03.2025 4:51
कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः न्यायाधीशः शिन्देवर्यः नीतः । राजा पेरिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्देवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्देवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शिन्देवर्यः । तदा साश्चर्येण 'महता धनस्य स्वीकारे अ...
ज्ञानी नाम 20.03.2025 3:32
कश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति इति पृष्टे बूद्धः विस्तरेण विवृणोति येन सः युवकः स...
यशस्वितायाः रहस्यम् 19.03.2025 3:10
कदाचित् कश्चन युवकः साक्रेटीसम् उपसर्प्य यशस्वितायाः रहस्यं पृच्छति । अनन्तरदिने साक्रेटीस् दर्शयति यत् - 'यशस्विता परिश्रमम् अपेक्षते, सङ्घर्षप्रवृत्तिम् अपेक्षते । श्रद्धा, प्रयत्नः, परिश्रमः, सङ्घर्षप्रवृत्तिः इत्येते एव यशस्विताप्राप्तेः उपायाः । एतेषु यदि एकः अंशः न स्यात् तर्हि यशस्विता न प्राप्येत' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...
भारतं नाम ...... 18.03.2025 5:03
अलेक्साण्डरः गुरुं नमस्कृत्य 'भारतं जेतुं कृपया आशिषा अनुग्रहीतव्यः अहम्' इति यदा अवदत् तदा गुरुः अरिष्टाटलः क्षणकालं मुखं निर्निमेषं दृष्ट्वा वदति यत् 'भारतं जेतुं सर्वथा न शक्यम् । वस्तुतः भारतत्वं भवति तत्रात्यायाम् आध्यात्मिकतायाम् । सा च तत्रत्यान् निःस्पृहान् संन्यासिनः अवलम्बते । अजय्याः ते । भारतस्थान् देशान् जयन् एव भारतीयं वैशिष्ट्यम् अवगन्तुं प्रयासं कुरु' इति अवदत् गुरुः । तस्य मुखमेव...
प्रशस्तः मार्गः 17.03.2025 4:36
कदाचित् कस्यचित् भिक्षोः मनसि आगतानां सन्देहानाम् उत्तरम् अदत्त्वा बुद्धः केवलं मन्दाहासं प्रकटयति । तदा भिक्षुः वदति यत् अत्रापि उत्तरं न लभ्यते, लौकिकजीवनं प्रत्येव गमिष्यामि अहम् इति । तदा बुद्धः - 'जीवस्य सत्ता वादं न अवलम्बते । भवन्मनसि आगतानां प्रश्नानामुत्तरं गच्छता कालेन गुरुमुखात् ग्रन्थाध्ययनात् वा प्राप्येत । तर्कमार्गः अन्यः, निर्वाणमार्गः अन्यः । निर्वाणमार्गस्य उपदेशमात्रं मम कर्...
दत्ते वस्तुनि न स्यात् ममता 16.03.2025 3:50
कश्चन धनिकः भक्तः बहुमूल्यकं राङ्कवं यत् श्रीकृष्णबोधानन्दनाम्ने संन्यासिने उपायनीकृतवान् आसीत् तत् राङ्कवं स्वामी पार्श्वे स्थिताय विदुषे दत्तवान् । एतत् धनिकाय न अरोचत इति ज्ञात्वा स्वामी राङ्कवं धनिकाय प्रत्यर्पयितुं विद्वांसम् असूचयत् । राङ्कवस्य प्रतिस्वीकरणम् अनिच्छन्तं धनिकं प्रति स्वामी वदति - ॑'इदं न मम' इति बुद्ध्या यत् दीयेत तस्य उपयोगः कथं करणीयः इति दात्रा चिन्तनीयं नास्ति । अतः एव तत...
पूर्वयॊजना 15.03.2025 4:24
कालपुरनाम्नि राज्ये विशेषनियमः आसीत् यत् यः राजा भवेत् सः षडेव वर्षाणि राजत्वसुखम् अनुभवेत् । तदनन्तरं सरोवरस्य अपरस्मिन् तीरे स्थिते घोरारण्ये सः परित्यज्यते स्म । राज्यात् निर्गमनावसरे केचन राजानः बहुधा आक्रन्दन्ति स्म, विलपन्ति स्म । एवं राज्यात् च्युतः कालेश्वरनामा कश्चन राजा अरण्यं प्रति गमनसमये हसनमुखः सन् उत्साहेन अरण्यदिशि पदानि अस्थापयत् । नाविकः साश्चर्यं तम् अनुसृत्य पश्यति यत् तत्र भव्...
भक्तिरेव गरियसी, न तु क्रमः 14.03.2025 4:48
भगवन्तं साकारत्वेन निर्दिश्य प्रार्थनां कुर्वन्तं कञ्चन ग्रामीणकृषिकं कश्चन पण्डितः शास्त्रीयं प्रार्थनाक्रमं बोधयति । अनन्तरदिने पण्डितेन उपदिष्टं प्रार्थनाक्रमं स्मर्तुम् अशक्नुवन् सः कृषिकः नितरां परितप्तः भवति । रात्रौ पण्डितस्य स्वप्ने देवः प्रत्यक्षीभूय वदति - 'कृषिकः स्वीयक्रमम् अनुचितम् इति मन्यते । त्वया बोधितः क्रमः तेन न स्मर्यते । नितरां परिताप्यति । अहमपि परितपामि' इति । प्राप्तविवेकः...
स्वानुकुलतया अर्थकथनम् 13.03.2025 3:46
लोके जनाः स्वानुभवानुरूपानेव शास्त्रोपदेशान् गृह्णन्ति इत्यस्य उदाहरणं भवितुमर्हति इयं कथा । कदाचित् तीर्थयात्रां कुर्वन्तौ सुहृदौ मार्गभ्रष्टौ भूत्वा क्षुद्बाधया इतस्ततः अटित्वा अन्ते कस्मिंश्चित् ग्रामे देवपूजानिमित्तं परिकल्पितार्थं भोजनार्थम् उपविष्टवन्तौ । भोजनसमये जनैः उक्तं श्लोकं श्रुत्वा तयोर्मध्ये एकः चिन्तयति यत् भोजने विरलतया लब्धे न अधिकं खादेयम् यतः मम तीर्थयात्रायां विघ्नः भवेत् इति...
त्यज मन्त्रशक्तिम् 12.03.2025 4:33
कदाचित् राजगृहनगरे भिक्षाप्राप्त्यर्थं सञ्चरत्सु केषुचित् बुद्धशिष्येषु कश्यपः इति कश्चन अन्यतमः शिष्यः मन्त्रविद्याबलात् स्तम्भस्य उपरि स्थापितं स्वर्णपूर्णं चन्दनकरण्डकं प्राप्तवान् । वृत्तं ज्ञात्वा बुद्धः असन्तुष्टः सन् कश्यपं वदति यत् तत् त्वदीयं न, तस्य प्राप्त्यर्थं कृतः प्रयासः अधोगतिं निरूपयति इति । सामर्थ्यातिशये प्रदर्शिते कथम् अधोगतिं निरूपयति इति कश्यपेन पृष्टे बुद्धः अवगमयति यत् यः...
जन्मना वेदान्ती 11.03.2025 4:46
कदाचित् प्रभाकरः नामा कश्चन गृहस्थः शङ्काराचार्यं दृष्ट्वा प्रार्थयते यत् तस्य द्वादशवर्षीयं जडबुद्धिपुत्रं आशीर्वादेन अनुगृह्य अस्य जडबुद्धितां निवारयतु इति । शङ्काराचार्यः बालकेन सह सम्भाषणं कृत्वा ज्ञातवान् यत् एषः महात्मा अस्ति इति, अपि च पुत्रं मया सह प्रेषयतु इति वदति । पितुः अनुज्ञां प्राप्य शङ्कराचार्येण सह निगर्तः सः बालकः गच्छता कालेन महावेदान्ती जातः । आत्मस्वरूपादिकं हस्तस्थम् आमलकम...
रक्षिष्यति सः 10.03.2025 4:39
कदाचित् वयं चिन्तयामः यत् 'अहम् एकाकी अस्मि' इति । अस्यां कथायाम् अपि पुत्रः तथैव चिन्तयति । किन्तु पिता निदर्शनेन दर्शयति यत् जीवने कोऽपि कदापि न एकाकी । भगवान् सदा अस्माभिः सह स्थित्वा अस्मान् रक्षति । सः एव अस्मान् कष्टकाले तारयिष्यति इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Sometimes, we think to ourselves, "I am all alone." In...
न भुज्यते मही सम्पत्तिः वा... 09.03.2025 3:55
जगद्देवः इति कश्चन राजा प्रभूतां सम्पत्तिं सम्पादयितुं सर्वदा युद्धे रतः भवति । जगत् एव जेतव्यम् इति तस्य इच्छा । कदाचित् कश्चन संन्यासी आगत्य सुन्दरैः उदाहरणैः राजानं दर्शयति यत् कथं समग्रा भूमिः सम्पत्तिः वा भोक्तुं न शक्यते । अपि च जगदेव जेतव्यमिति मूर्खता अस्ति । राज्ञः आद्य कर्तव्यं भवति यत् जनानां शन्तिं, समृद्धिं, सुखं च चिन्तयेत् । तदनन्तरं राजा युद्धादिप्रयासं स्थगयित्वा शासनकार्येषु अवध...
देवः किं दृष्टः ? 08.03.2025 4:24
कदाचित् गुरोः प्रवचनानन्तरं शिष्येण आनन्देन मया देवः दृष्टः इति कथिते अन्ये शिष्याः हसन्ति । एवमेव बहुवारं प्रवृत्ते, एकस्मिन् दिने गुरुः वदति यत् - 'पुनः देवः दृश्यते चेत् गुरुत्वप्राप्तितः पूर्वं किं किं पापकार्यं कृतं मया इति त्वया प्रष्टव्यम् । तदा एव भवता देवः दृष्टः इत्येतत् प्रमाणितं भवेत्‘ इति । अनन्तरदिने तेन देवः दृष्टः इति निरूपितं भवति । तत् कथमिति जिज्ञासायां कथां शृण्वन्तु । (“केन्द...
जीवनदर्शनम् 07.03.2025 3:35
सर्वे अपि अपत्यस्य जन्मदिनं निमित्तीकृत्य किमपि उपायनं यच्छन्ति । तत् सर्वं लौकिकम् उपयानं भवति प्रायशः । अस्यां कथायां पुत्र्याः जन्मदिननिमित्तं पिता तिस्रः पेटिकाः ददाति । किं भवितुम् अर्हति तासु पेटिकासु ? कीदृशानि उपायनानि ? लौकिकानि वा तत्त्वबोधकानि वा ? आगच्छन्तु कथां शृण्मः । वयम् अपि तादृशानि उपायनानि एव बालेभ्यः दातुं प्रयत्नं कुर्मः (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्...
मनोबलं सर्वबलातिशयि 06.03.2025 3:08
अस्यां कथायां कश्चन आचार्यः मनोबलस्य महत्त्वं छात्रेभ्यः बोधयति । सिंहः गजवत् न महाशक्तिमान्, उष्ट्रवत् न अत्युन्नतः, शृगालवत् न महाबुद्धिमान्, चित्रकवत् अधिकवेगेन न धावितुं शक्तोति, गरुडवत् अत्युन्नते स्थले डयने असमर्थः, तथापि सः मनोबलेन वनस्य राजा अस्ति । मनोबलं सर्वबलातिशायि । शरीरस्य सर्वाणि अङ्गानि अपि यत्र असफलानि तत्र मनोबलम् एकम् एव अस्माकम् आधारः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टा...
दुर्भावः अनुचितः 05.03.2025 3:14
समुद्रतीरे पार्श्वे स्थितं पेयं स्तोकं स्तोकं पिबन्तं कञ्चन युवकम्, अपि च तस्य मूर्ध्नि हस्तं प्रसारयन्तीं काञ्चन महिलां दृष्ट्वा भद्रपुरुषः अचिन्तयत् यत् सः युवकः मद्यपः, सा च महिला प्रेयसी गणिका स्त्री इति । तावता समुद्रतः 'रक्षत रक्षत' इति चीत्कारं श्रुत्वा सः युवकः झटिति समुद्रं प्रविश्य परित्राणकार्यम् आरभ्य भद्रपुरुषेण सह सर्वान् रक्षितवान् । तदनन्तरं भद्रपुरुषः ज्ञातवान् यत् सः बालकः रोगस्...
सौभाग्यवती भव 04.03.2025 3:39
'ज्येष्ठाः नन्तव्याः' इति आचारः लोके अस्ति । स्नेहं, विश्वासं, आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः । इयं कथा तस्य उदाहरणं भवितुम् अर्हति । कुरुक्षेत्रयुद्धे यदा भीष्मः युद्धे पाण्डवान् हनिष्यामि इति घोषणम् अकरोत् तदा कृष्णस्य वचनानुसारं मध्यरात्रे एव द्रौपदी भीष्मावासं प्राप्य नमस्कृतवती । नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा भीष्मः सहजतया 'अखण्डसौभाग्यवती भव' इति आशीर्वादं कृतवान् ।...
अधिकमूल्यकं चित्रम् 03.03.2025 3:23
कदाचित् कश्चन राजा स्वस्य चित्रं लेखयितुम् ऐच्छन् अत्युत्तमं चित्रकारम् अन्वेष्टुम् आदिशति लभते च । यदा राजा चित्रकाराय स्वस्य इच्छां कथयति, तदा सः 'कियन्मूल्यकं चित्रं लेखनीयम्' इति पृच्छति । कुतूहली सः राजा अल्पमूल्यके चित्रे किं भवति, अधिकमूल्यके चित्रे किं भवति इति पृच्छति । तदा तस्य उत्तरं किं ददाति इत्यादि सर्वं कथां श्रुत्वा जानीयाम । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्ग...
श्रेष्ठानि तत्त्वानिः 02.03.2025 2:57
कदाचित् कश्चन पण्डितः नद्यां स्नानं कुर्वन् कञ्चन श्रेष्ठतत्त्वयुतश्लोकम् यदा उच्चारितवान् तदा वस्त्रप्रक्षालानाय आगतवती काचित् महिला हसितवती । ग्राममुख्यः यदा महिलाम् आनाय्य किमर्थं पण्डितं अपमानितवती इति पृष्टे, 'अपमानं न कृतवती । लोके अन्यानि अपि श्रेष्ठानि तत्त्वानि सन्ति' इत्युक्त्वा तानि कानि इति विवृणोति । कथां श्रुत्वा ज्ञास्यामः यत् एकैकः कथं भिन्नरीत्या चिन्तयति इति । (“केन्द्रीयसंस्...
धैर्यवती महिला 01.03.2025 4:01
कदाचित् महापराक्रमी सम्राट् अशोकः साम्राज्यविस्तरणाय दण्डयात्रां कुर्वन् विजयपुरीम् आक्रम्य तस्य शान्तिप्रियराजं वीरसेनं पराजित्य कारागारे स्थापितवान् । कदाचित् अवगुण्ठनधारिणी काचित् महिला आगत्य स्वीयभूमिं सम्पत्तिं च वशीकृत्य, पतिं कारागारे निक्षिप्तवन्तं विरुद्धं न्यायं याचितवती । कः सः? इति अशोकेन पृष्टे, सा अवगुण्ठनम् अपनीय वदति - सः भवान् एव इति । तस्याः सात्विकं कोपं, धैर्यं च दृष्ट्वा अश...
प्रसन्नतायाः कारणम् 28.02.2025 3:59
कदाचित् सम्राट् श्रोणिकः भगवन्तं बुद्धं दृष्ट्वा पृच्छति - ‘सर्वविधानि सुखानि चेदपि कथं मनः प्रसन्नं न भवति इति । तदा बुद्धः वदति - ‘चापल्यत्यागः, विलासिजीवने अल्पप्रवृत्तिः, भोगसाधनानाम् उपयोगे न्यूनतासम्पादनम्, दयास्नेहादीनाम् अवलम्बनं, यावत् प्राप्येत तावता सन्तुष्टिः, दानशीलता इत्यादयाः अंशाः अवलम्बिताः चेत् प्रासादे अपि सन्तोषः प्रातुं शक्यः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीय...
कर्मसु कौशलम् 27.02.2025 3:46
कदाचित् महानौकायाम् उत्पन्नायाः समस्यायाः परिहारम् अनवगच्छन्तः तन्त्रज्ञाः असहायकतां दर्शितवन्तः । तावता व्यवस्थापकेन आनीतः कश्चन विशेषतन्त्रज्ञः अनुभवी वृद्धः, अल्पेन कालेन दोषं परिहृतवान् । तेन सर्वैः यन्त्रैः कार्यम् आरब्धम् । कौशलस्य मूल्यमपि अधिकम् इति ज्ञात्वा सः व्यवस्थापकः दशसहस्ररूप्यकाणि विशेषज्ञाय दत्त्वा प्रेषितवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...
निर्मीयतां चिकित्सालयप्रकोष्ठः 26.02.2025 3:38
जनपदचिकित्सालयस्य पुरतः उपविश्य शाकविक्रयणं करोति काचित् वृद्धा बिन्नीबाई इति । चिकित्सालये स्थलाभावात् सञ्चारभूमौ शयनं कुर्वतः रोगिणः दृष्ट्वा सन्तापम् अनुभवन्ती सा मुख्यवैद्याधिकारिणं रोगिणां व्यवस्थां कल्पयितुं शक्यते वा इति पृच्छति । धनाभावात् सर्वकारः प्रकोष्ठनिर्माणे अनासक्तः इति ज्ञात्वा सा स्वस्य ग्रामभूमिं विक्रीय, सञ्चितं धनमपि संयोज्य दशलक्षं रूप्यकाणि वैद्याय ददाति । ततः महता वेगेन प्र...
Replaio není vydavatelem podcastů; názvy pořadů, obálky a audio patří jejich autorům a šíří se přes veřejné RSS kanály