सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Epizody: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Určitě navštivte web podcastu a podpořte jeho tvůrce: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Kategorie

Kids

Web podcastu

sambhashanasandesha.in

Nejnovější epizoda

11. čvc 2026

Kde poslouchat?

Podcasty v aplikaci Replaio Radio Už brzy

Podcasty míří do aplikace už brzy. Nainstaluj si ji teď a jako první uvidíš úplně nový pohled na podcasty

Stáhnout z Google Play Nainstaluj zdarma Android téměř 10 mil. stažení · hodnocení 4,8 iOS už brzy

Epizody

तल्लीनता 16.04.2025

कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति ।  छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः महाराजं द्र्ष्टुं गतवन्तः । कक्ष्यायां केवलं एकः छ...

आज्ञापालकः शिष्यः 15.04.2025

समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् ।  अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः कूपे अपतत्। पतनसमये श्रीरामस्य स्मरणं अकरोत् । क...

परिवर्तनम् 14.04.2025

अमरावतीनगरे कस्मिंश्चित् आश्रमे बहवः शिष्याः अध्ययनं कुर्वन्ति स्म । एकः शिष्यः चौर्याभ्यासे लिप्तः आसीत् । अन्यैः शिष्यैः सः द्विवारं चौर्यसमये गृहीतः । तदा सर्वे तं बहिष्कर्तुं गुरुं प्रार्थितवन्तः ।  किन्तु गुरुः तस्य बहिष्करणं न अनुमोदितवान् । 'एषः आश्रमात् बहिष्कृतः चेत् को वा एतम् आहूय विद्यां बोधयेत् ?’ इति अवदत् । एतानि वचनानि श्रुत्वा चोरशिष्यस्य मनः परिवृत्तम् । सः गुरोः पादौ गृहीत्वा अश...

भगवतः कार्ये हस्तक्षेपः 13.04.2025

कश्चन कृषिकः महादेवभक्तः आसीत् । तस्य ज्येष्ठा पुत्री कृषिकाय, कनिष्ठा पुत्री कुम्भकाराय च दत्ता तेन । सः यदा ज्येष्ठपुत्र्याः गृहम् अगच्छत्, तदा पुत्र्या वृष्टेः प्रार्थनां कर्तुम् उक्तम् । तदनन्तरं सः कनिष्ठपुत्र्याः गृहम् गतवान् । कनिष्ठा तु पितरं वृष्टिः न भवेत् इति प्रार्थनां कर्तुं प्रार्थयति । तयोः अपेक्षयोः परस्परविरोधे सति सः कृषिकः गुरोः समीपं गत्वा मार्गम् अपृच्छत् । गुरुः तं लोकहितं मन...

योग्यः उत्तराधिकारी 12.04.2025

कस्यचित् राज्यस्य महाराजस्य त्रयः पुत्राः आसन् । तेषु कस्मै देयम् इति प्रश्ने मन्त्रिणा सूचितं यत् अपत्यानि परीक्षितव्यानि इति । अपरस्मिन् दिने पुत्रान् आहूय शतं रूप्यकाणि दत्त्वा सायङ्कालाभ्यन्तरे स्वप्रासादः पूरणीयः इति अवदत् राजा ।  प्रथमः पुत्रः, तैः रूप्यकैः इष्टानि वस्तूनि क्रीतवान् ।  द्वितीयः पुत्रः पितुः आज्ञा पालनीया एव इति धिया धूल्या प्रासादम् अपूरयत् । तृतीयः पुत्रः चतुरः आसीत् । सः क...

सुहृदयः महाशयः 12.04.2025

कश्चित् आजीविकाम् अन्विष्यन् ग्रामतः मुम्बापुरीम् आगत्य श्रमिकैः सम्मिल्य कस्याञ्चित् निर्माणशालायां कार्यं करोति स्म। स्वकीयधारणाय अपेक्षितं धनं स्वसमीपे संरक्ष्य शेषं ग्रामे निवसन्त्यै मात्रे प्रेषयति स्म । कदाचित् सः शतरूप्यकाणि मात्रे प्रेषयितुम् इच्छन् एकं संक्षिप्तं लखं विलिख्य रूप्यकैः सह पत्रम् एकस्मिन् पुटके निधाय गृहगमनाय लोकयानम् आरूढवान् ।  लेखेन आर्जितद्रव्येण च सहितं पुटकं केनापि चात...

सो Sपि अहमेव 12.04.2025

गोस्वामी तुलसीदासः यदा जगन्नाथस्य दर्शनं कर्तुं गतवान् तदा तस्य हस्तपादविहीनां काष्ठमयीं मूर्तिं दृष्ट्वा निराशतां प्राप्तवान् ।  नीलाम्बुदश्यामरूपस्य देवस्य दर्शनम् इच्छन् भगवतः प्रार्थनायां निरतः जातः । दिनद्वयम् अन्नं जलं च विना तेन एवमेव विलपनं कृतम् । तावता कश्चित् बालकः जगन्नाथस्य प्रसादं तुलसीदासाय दत्त्वा - 'अहमेव रामः ।  जगन्नथरूपमपि ममैव' इति वदति । भक्त्या प्रसादं सेवित्वा अनन्तरदिने यद...

कर्तव्यपरायणता 12.04.2025

कदाचित् पूणास्थेन केनचित् विद्यालयेन महादेवगोविन्दरानडेवर्यः मुख्यातिथित्वेन निमन्त्रितः आसीत् । जनसम्मर्दस्य निवारणाय कार्यक्रमे निमन्त्रणपत्रेण सह आगतवतामेव प्रवेशः इति निश्चितम् आसीत् । तस्याः व्यवस्थायाः निर्वहणाय नियुक्तः कश्चन स्वयंसेवकः रानडेवर्यम् अपि विना आमन्त्रणपत्रम् अन्तः प्रवेष्टुम् न अनुमतवान् । तावता कश्चन व्यवस्थापकः कुतश्चित् पत्रमेकं रानडेवर्यस्य हस्ते स्थापितवान् ।  तस्य स्वयंस...

अपूर्वं भिक्षापात्रम् 12.04.2025

प्रातः प्रथमं राजगृहं प्रविष्टवते भिक्षुकाय सुवर्णमुद्राः, तदनन्तरं आगतेभ्यः भिक्षुकेभ्यः रजतमुद्राः दीयन्ते स्म भोजमहाराजस्य शासनकाले । एकस्मिन् दिने अगवते भिक्षुकाय राज्ञा दत्ताभिः सुवर्णमुद्राभिः लघु भिक्षापात्रं पूर्णं न अभवत् । एतेन राज्ञा ज्ञातं यत् आगतः भिक्षुकः सामान्यः न, अपि च परीक्षार्थमेव आगतः इति । अतः तं पादस्पर्शपूर्वकं नमस्कृत्य तत् पात्रं केन निर्मितमिति पृष्टवान् । तदा हसन् सः भि...

श्रमात् ऋते प्राप्तं न एष्टव्यम् 12.04.2025

'श्रमं विना निश्शुल्कं यत् प्राप्येत तत् न स्वीकरणीयम् । भगवान् हस्तपादं यत् दत्तवान् तस्य उपयोगेन जीवनं चिन्तनीयं, न तु निश्शुल्कं प्राप्यमाणस्य स्वीकरणे प्रवृत्तिः दर्शनीया' इति मातुः वचनानुसारं काचित् बालिका गुजरातप्रदेशे रविशङ्करमहाराजेन वितीर्यमाणं गुडं न स्वीकृतवती । बालिकायाः वचनम् आश्चर्येण शृण्वन् रविशङ्करः बालिकया सह गृहं गत्वा स्वाभिमानपाठं बोधितवतीं मातरं दृष्ट्वा नमस्कृतवान् । (“केन्द...

अदृष्टदेवता 11.04.2025

चीनादेशे शिष्योकिनामकस्य कस्यचित् युवकस्य स्वप्ने काचित् देवी आगत्य - ‘'हवाङ्गो' नद्याः तीरे कस्माच्चित् प्रभूतं सुवर्णं लप्स्यते' इति अवदत् । अपरदिने आदिनं प्रतीक्षायां कृतायामपि शिष्योकिना किमपि न प्राप्तम् । पुनः देव्या उक्ते सति सः गत्वा आदिनं प्रतीक्षां कृतवान् किन्तु किमपि न लब्धम् । यदा ततः निर्गन्तुम् उद्यतः तत्रैव विद्यमानः शाकविक्रेता तस्य आगमनस्य कारणं पृच्छति । स्वप्नवृतान्तं यदा अश्रा...

शिष्टाचारः न त्याज्यः 05.04.2025

कदाचित् चरकाचार्यः शिष्यैः सह ग्रामप्रदेशे सञ्चरन् कस्यचित् कृषिक्षेत्रे एकम् अपूर्वं सस्यम् अपश्यत् । कश्चित् शिष्यः उत्साहेन पर्णकाण्डमूलानां सङ्ग्रहणाय यदा उद्यतः तदा चरकाचार्यः तं निवार्य सस्यादीनां सङ्ग्रहाय क्षेत्रस्वामिनः अनुज्ञा प्राप्तव्या इति अवदत् ।  लोकोपकराय सस्यसङ्ग्रहणाय कस्यापि अनुज्ञा प्राप्तव्या नास्ति इति राजाज्ञा अस्ति खलु इति शिष्येण उक्ते अचार्यः वदति - ‘राजाज्ञा अन्या, शिष्ट...

पुण्यस्य फलम् 04.04.2025

कदाचित् समुद्रे झञ्झावातप्रहारं प्राप्तायाः महानौकायाः जनान् रक्षितुम् कश्चित् युवकः मातरम् अनुज्ञा याचते । षड्भ्यः वर्षेभ्यः पूर्वं समुद्रप्रयाणाय निर्गतः तस्य पतिः न प्रत्यागतः इति कारणतः पुत्रं कथं प्रेषयामि इति चिन्तयति माता ।  किन्तु सः कथञ्चित् मातरं समाधाय अनुज्ञां प्राप्य च चातुर्येण नौकां चालयन् महानौकासमीपं गत्वा तत्रत्यान् सर्वान् तीरं प्रापयत् सः । तीरं प्रापितेषु जनेषु तस्य पिता अपि अ...

भवता कति प्रहाराः प्राप्येरन् ? 03.04.2025

कस्मिंन्श्चित् प्रासादे काचित् सेविका राज्ञः शय्यागृहस्य स्वच्छतासमये राज्ञः मृदुलां स्थूलां शय्यां दृष्ट्वा शयनसुखानुभवेच्छया शय्याम् आरूढवती । महान्तं हितानुभवे प्राप्ते अचिरात् एव तया निद्रा प्राप्ता । अल्पे एव काले राजा राज्ञी च तत्र आगतौ । शयानां सेविकां दृष्ट्वा राज्ञः कोपः नितरां प्रवृद्धः ।  राजा कशाम् आनाय्य प्राहारम् आरब्धवान् । सेविका हसितुम् आरब्धवती । किमर्थम् अयं व्यवहारः इति पृष्टे...

रक्षणीयः कार्योत्साहः 02.04.2025

साधारणतया  ज्येष्ठैः चिन्त्यते यत् अपूर्वा सिद्धि केवलं तरुणैः एव प्राप्तुं शक्या, वयोज्येष्ठाः किं वा कुर्युः इति ।  तरुणाः चिन्तयन्ति यत् ज्येष्ठानां जीवनानुभवः विवेचनशक्तिः च अपारा ।  अतः तैः एव विशिष्टा सिद्धिः सम्पादयितुं शक्या इति ।  कथायाम् अस्यां कश्चन प्रवचनकारः वदति यत् - ‘वस्तुतः दैहिकवयसः, सिद्धेः च न विशेषसम्बन्धः ।  केचन तारुण्ये एव अनासक्तिनाशं प्राप्य निरुत्साहाः भवन्ति ।  अन्ये के...

उत्तङ्कमेघाः 01.04.2025

कुरुक्षेत्रयुद्धानन्तरं द्वारकां प्रति प्रस्थितेन श्रीकृष्णेन मार्गे महर्षिः उत्तङ्कः मिलितः ।  वादविवादयोः अनन्तरं मुनिः भगवतः यथार्थं स्वरूपं ज्ञात्वा विश्वरूपं दर्शयितुं प्रार्थयते । विश्वरूपं दृष्टवान् हृष्टः च मुनिः कृष्णं स्तोत्रैः तोषयति । कृष्णः 'वरं याच' इति यदा वदति तदा मुनिः 'अस्यां मरुभूमौ यदा अहम् अपेक्षां कुर्यां तदा जलं प्रत्यक्षीभवतु' इति वदति ।  कृष्णस्य वाक्यानुसारम् इदानीमपि उत्...

भगवति विश्वासः 31.03.2025

सद्योविवाहितः युवकः पत्न्या सह यदा समुद्रयात्रां कुर्वन्नासीत् तदा हठात् झञ्झावातः समुत्पन्नः । सर्वे प्रयाणिकाः भीतवन्तः देवं रक्षणार्थं प्रार्थितवन्तः च । किन्तु सः युवकः निश्चिन्ततया उपविष्टः आसीत् । तं दृष्ट्वा पत्नी 'कथं निश्चिन्ततया तिष्ठति?’ इति पृच्छति । झटिति सः उत्थाय कोषात् खड्गम् आकृष्य पत्न्याः शिरसः उपरि गृहीत्वा पृच्छति भवती भीता वा इति ।  'किमर्थं भीतिः ? भवान् आत्मीयः। कदापि मम प्...

सन्तोषस्य प्राप्तिः 30.03.2025

सर्वविधानि आनुकूल्यानि भोगसाधनानि च सन्ति चेदपि कस्यचित् धनिकस्य जीवने सन्तोषस्य अभावः आसीत् । कदाचित् स्वनगरं प्रति आगतवते संन्यासिने स्वस्य दुःखं निवेदयति । तदा संन्यासी दर्शयति यत् केवलं धनसङ्ग्रहणमात्रेण सन्तोषः न प्राप्यते । धनस्य वितरणं करणीयम् । दीनानां सेवा करणीया । परोपकारः चिन्तनीयः । तस्मात् अपारः सन्तोषः प्राप्स्यते इति । तस्मात् दिनात् सः धनिकः सम्पत्तेः वितरणम् आरब्धवान् ।  ततः तस्य...

हस्ते प्रकाशः 29.03.2025

कश्चन युवकः पर्वते स्थितं संन्यासिनं द्रष्टुं पर्वतारोहणं कर्तुमारब्धवान् ।  यदा सूर्यास्तः जातः अन्धकारकारणेन अग्रे गन्तुं बिभ्यन् तत्रैव स्थितवान् ।  हस्तेन दीपं गृहीत्वा उपरि गच्छन्तं कञ्चन वृद्धम् अनुसृत्य उपरि आगत्य पृच्छति 'लघुदीपं स्वीकृत्य अन्धकारे कथं गच्छति?’ इति । तदा सः वृद्धः वदति -’अग्रे गमनाय हस्ते दीपः, पादयोः प्रकाशः भवति चेत् अन्यत् किमपि न आवश्यकम् । यत् दूरम् अतिक्रान्तम्, अग्र...

सञ्जीविनी नाम....... 28.03.2025

पूर्वम् अनुशिर्वः नाम्नः पर्शियादेशस्य राज्ञः आस्थानवैद्यः 'बुर्जोयः' भारतपर्वतप्रदेशात् 'सञ्जीविनी' नामकम् ओषधिसस्यम् आनेतुं प्रस्थितवान् । भारते पर्वतप्रदेशेषु सर्वत्र तेन अन्विष्टेSपि कुत्रापि तत् सस्यं न लब्धम् इति कारणतः यदा सः प्रतिगन्तुम् उद्यतः तावता कश्चन पण्डितः तेन मिलितः । पण्डितः उक्तवान् - ‘सञ्जीविनिसस्यं पर्वते प्राप्येत  इत्येतत् किञ्चन आलङ्कारिकं वचनम् । पर्वाताः नाम ज्ञानिनः ।  म...

अनन्यशरणता 27.03.2025

कदाचित् केचन दुष्टाः एकतन्त्रीं वादयन्तं कृष्णस्य परमभक्तं पाषाणैः प्रहरन्तः आसन् । प्रहारजन्यां वेदनाम् असहमानः सः भक्तः कृष्णस्य रक्षणं प्रार्थितवान् ।  भक्तस्य आर्तरवं सोढुम् अशक्नुवन् कृष्णः भोजनस्य मध्ये एव उत्थाय भक्तस्य रक्षणाय प्रस्थितवान् ।  किन्तु यावत् तत्समीपं गतवान् तावता सः भक्तः पाषाणान् स्वीकृत्य तान् दुष्टान् प्रहर्तुम् उद्यतः । सः स्वस्य रक्षणं स्वयमेव विचिन्त्य योग्यम् उपायं चिन...

मन्दहासपूर्णं तत् मुखम् 26.03.2025

कञ्चित् ग्रामम् आगतवते भगवते बुद्धाय तत्रत्याः जनाः सर्वविधां व्यवस्थां कल्पितवन्तः । तत्र कश्चित्  जयः नाम बालः सर्वं महता कुतूहलेन अपश्यत् ।  बुद्धस्य मदहासपूर्णं मुखं बालस्य मनः अहरत् । बुद्धस्य उपदेशः निरन्तरं प्रवृतः । प्रस्थानोद्यताय बुद्धाय जनाः किमपि उपायनं यथाशक्ति समर्पयन्तः आसन् । सः बालः किमपि दातुम् अशक्नुवन् अञ्जलिमितां मृत्तिकां गृहीत्वा बुद्धम् अर्पितवान् ।  बालेन उपायनीकृतां मृत्त...

सर्वं प्राप्तुं शक्यम् 25.03.2025

कयाचित् महिलया स्वप्ने आपणिकत्वेन स्थितः भगवान् दृष्टः । कीदृशानां वस्तूनां विक्रयणं भवति इति महिलया पृष्टे भगवान् वदति यत् सर्वमपि लभ्यते बीजरूपेण । तत् उप्त्वा पोषणं कृतं चेत् गच्छता कालेन फलानि प्राप्यन्ते इति । स्वप्नतः जागरिता महिला चिन्तयति - ‘स्वप्ने भगवान् येषां बीजानां विषये अवदत् तानि बीजानि जीवने मया अन्यैः च प्राप्तुं शक्यनि एव ।  एतत् तथ्यम् अजानत्या मया एतावन्ति वर्षाणि व्यर्थतया याप...

मोक्षस्य कः मार्गः ? 24.03.2025

कदाचित् मुक्तिप्राप्तीच्छवे ज्येष्ठाय कश्चन गुरुः - 'आशाव्यामोहादयः यावत् अस्मदन्तः स्युः तावत् प्रापञ्चिकबन्धनं स्यात् एव । अतः अन्तर्मुखतां प्राप्य अशादित्यागाय निरन्तरं श्रमः करणीयः ।  अशादिबन्धमोक्षतः जीवनं बाह्यसम्पर्कहीनं भविष्यति ।  एतदेव मोक्षं प्रातुं प्रथमं सोपानम् । आशाबाहुल्यं क्रमशः न्यूनीकृतं चेत् क्षणिकलाभचिन्ता अपगच्छेत् ।  तदा जीवने विकासः स्यात्' इत्यादिभिः वचनैः बोधयति ।  (“केन्...

परिश्रमेण साध्यं सर्वम् 23.03.2025

वयं सर्वे ईश्वरचन्द्रविद्यासागरं जानीमः एव । बाल्ये दरिद्रतायाः कारणेन सः शालां गन्तुम् अशक्नुवन् अन्येभ्यः बालेभ्यः अक्षराणि विज्ञाय अक्षराभ्यासं कृत्वा उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् । पिता उपवासादिकम् आचरन् पुत्रं विद्यालयं प्रति प्रेषितवान् । ग्रामविद्यालयस्य अध्ययनानन्तरं सः नगरीयविद्यालये सर्वेषां साहाय्येन विद्यार्थिवेतनादिप्राप्त्या च अध्ययनम् अनुवर्तितवान् । कलक...

Poslouchej podcast बालमोदिनी v Replaio

Rádio a podcasty v jedné aplikaci - zdarma a bez registrace. Nainstaluj si ji ještě dnes a nepropásni premiéru

Stáhnout z Google Play

Replaio není vydavatelem podcastů; názvy pořadů, obálky a audio patří jejich autorům a šíří se přes veřejné RSS kanály