सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Určitě navštivte web podcastu a podpořte jeho tvůrce: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategorie
Web podcastu
Nejnovější epizoda
11. čvc 2026
Kde poslouchat?
Podcasty v aplikaci Replaio Radio Už brzyPodcasty míří do aplikace už brzy. Nainstaluj si ji teď a jako první uvidíš úplně nový pohled na podcasty
Epizody
जिह्वालम्पटः साधुः 03.02.2025 5:31
कस्यचन साधोः तपस्यायाः ख्यातिः देवलोके प्रसृता । स्वर्गे देवानां मध्ये अपि चर्चा आरब्धा । कथञ्चित् तस्य तपसः भङ्गः करणीयः इति कश्चन देवः पृथिवीं प्रति समागत्य साधोः व्यवहारं सुसूक्ष्मं परीक्षितवान् । उपायं कृत्वा अल्पे एव काले तस्य साधोः तपोभ्रष्टतां सम्पादितवान् । कथम् इति स्वारस्यकारिणीं कथां श्रुत्वा ज्ञास्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्र...
तपश्शक्तिः पण्डितस्य 31.01.2025 3:56
यवनाः यदा काशीविश्वेश्वरमन्दिरस्य नाशं कृतवन्तः तदा तस्मिन्नेव वर्षे तत्परिसरे क्षामः समुत्पन्नः । 'क्षामस्य कारणं किम् ? ' इति यवनैः पृष्टे तेजःसम्पन्नः महात्मा नारायणभट्टः वदति यत् भगवतः विश्वेस्वरस्य कोपः एव कारणम् अपि च मन्दिरस्य पुनर्निर्माणेन वृष्टिः भवेत् इति । 'स्वप्रभावेण आदौ वृष्टिः अनीयताम् ' इति यदा यवनाः कुप्यन्ति तदा नारायणभट्टः प्रायोपवेशनव्रतं आरब्धवान् सुवृष्टिः च आगता । महत् आश्च...
वाचः व्रणः 30.01.2025 5:30
कस्यचित् सरोवरस्य समीपे उपविष्टवन्तं चिन्ताग्रस्तं निर्धनं रामदीनं कश्चन सिंहः प्रभूतं धनं यच्छन् पुत्र्याः विवाहाय मामपि निमन्त्रयतु इति वदति । विवाहदिने सिंहः उपस्थितः । गृहपरिसरे कमपि दुर्गन्धम् अनुभूय वरपक्षीयाः तस्य कारणं अपृच्छन् तदा 'गृहे कश्चन मूषकः मृतः स्यात्' इति रामदीनः वदति । अग्रे कदाचित् धनस्य आवश्यकताम् अनुभवतः रामदीनस्य साहाय्यं कर्तुं निराकृत्य सिंहः वदति - 'त्वं स्वपुत्रीविवा...
नमः अमृतादेव्यै ! ! 29.01.2025 4:57
१८३० तमे वर्षे राजस्थाने जोधपुरे प्रवृत्ता घटना एषा । अद्यापि राजस्थाने बहुत्र भाद्रपदशुक्लदशम्याम् अमृतदेव्याः वीरगाथा पठ्यते गीयते च । भारतसर्वकारस्य अरण्यपरिसररक्षणविभागेन श्रेठाय परिसरसंरक्षकाय 'अमृतदेवीप्रशस्तिः' दीयते । का सा अमृतदेवी ? किं कार्यं च कृतवती इति अस्यां कथायां विद्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) This event...
मन्दस्मितता कुतः न ? 28.01.2025 4:53
कश्चन बौद्धाचार्यः बुद्धप्रतिमां कारयितुम् इच्छन् प्रत्येकं गृहतः धनसङ्ग्रहं कुर्वन्तु इति शिष्यान् आदिशति । धनसङ्ग्रहसमये काचित् बाला शिष्याय एकं रूप्यकं दातुम् इच्छति किन्तु सः उपेक्षया पश्यन् ततः गच्छति । शिल्पिभिः महता प्रयासेन निर्मितायाः मूर्तेः मुखे प्रसन्नता तु न दृष्टा । बौद्धगुरुः ज्ञातवान् यत् कश्चन शिष्यः निर्धनबालातः अल्पत्वात् एकं रूप्यकं न स्वीकृतवान् इति । बालातः रूप्यकनाणके स्वीक...
सङ्कल्पमात्रेण किम् ? 27.01.2025 4:13
कस्मिंश्चित् गुरुकुले बहुधा स्मारितं चेदपि पञ्चषाः छात्राः तत्तदिनस्य पाठं तद्दिने एव न पठन्ति स्म । तथापि गुरुः तान् न अतर्जयत् । कदाचित् गुरुः नदीतीरे सञ्चरन् दर्शयति यत् त्रिषु मण्डूकेषु एकः जलं प्रति कूर्दनं करणीयम् इति सङ्कल्पमात्रं करोति न तु कूर्दनम् । यस्य सङ्कल्पः दृढः सः एव कार्ये प्रवृत्तः भवेत् । तत्तदिनस्य पाठं तत्तदिने एव पठित्वा तस्य मननं कुर्यात् । अनन्तरदिनतः ते शिष्याः अध्ययने श्...
समयोचिता युक्तिः 26.01.2025 5:41
कदाचित् मरुप्रदेशे कश्चन स्पेन्-देशीयः वञ्चनया भारतीयस्य अश्वं हृत्वा तम् आरुह्य वेगेन गतवान् । भारतीयः कथञ्चित् स्पेनीयस्य दुर्बलम् अश्वम् आरुह्य स्पेनीयम् अनुसरन् समीपवर्तिग्रामं प्राप्य तत्रत्य न्यायाधीशं दृष्ट्वा स्पेनीयस्य दुष्कृत्यं सर्वं निवेदितवान् । न्यायाधीशेन पृष्टे सः स्पेनीयः आरोपं निराकरोति । तावता चतुरेण भारतीयेन काचित् युक्तिः प्रदर्शिता स्पेनीयः असत्यवादी इति निरूपितं च । भारतीयस्...
गुणैः एव शोभते जनः 25.01.2025 3:31
कदाचित् सम्भाषणावसरे मगधदेशस्य राजा चन्द्रगुप्तः प्रधानामात्यं चाणक्यं दृष्ट्वा पृच्छति - ‘रूपमेव प्रशस्यते लोके । रूपवेषादिकं दृष्ट्वा एव खलु आदरम् अनादरं वा दर्शयन्ति जनाः ?’ । तदा चाणक्यः सुवर्णमृदोः घटे जलं संपूर्य आदौ सुवर्णघटस्य जलं राज्ञे ददाति यत् उष्णम् आसीत् । तावता राज्ञा अवगतं यत् सुन्दरे स्वर्णघटे अपि स्थितं जलम् उष्णम्, असुन्दरे मृद्घटे स्थितं जलं च शीतलम् । तथा जनाः गुणैः शोभन्ते न...
आशयः तु इत्थम् 24.01.2025 3:25
कदाचित् शिष्यः आनन्दः प्रसङ्गत्रयविषये वर्तमानां जिज्ञासां परिहर्तुं भगवन्तं बुद्धं पृच्छति - ‘भगवान् अस्ति इति कदाचित् वदति । भगवतः पूजा मास्तु इत्यपि वदति । भगवतः अस्तित्वस्य विषये यदा कश्चन शिष्यः प्रष्टुम् आगतः तदा भवान् किमपि उत्तरं न ददाति । किमर्थम् एवम् ?’ इति । तदा बुद्धः यथाक्रमं तस्य प्रश्नस्य उत्तरं यच्छति (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप...
विलक्षणम् वाक्पाटवम् 23.01.2025 4:36
कदाचित् बाबरः तेनालिरामस्य बुद्धेः परीक्षणार्थं स्वस्य आस्थानं प्रति तं निमन्त्रितवान् । विभिन्नैः कौतुकैः निजवार्ताभिश्च तत्रत्यान् सभासदः हासयितुं स असमर्थः अभवत् यतः बाबरेण आज्ञा कृता आसीत् यत् कोऽपि न हसेत् इति । एवमेव पञ्चदशदिनानि अतीतानि । किन्तु अन्ते तेनालिरामः तस्य वाक्पाटवं साधितवान् । कथम् इति इयं कथा कथयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वन...
विचित्रोपकरणम् 22.01.2025 3:54
पूर्वकाले यदा सर्वत्र दर्पणः व्यवाहारे न आसीत् तदा कदाचित् कण्णदासनामा कश्चित् वणिक् कुतश्चित् दर्पणम् एकं प्राप्तवान् । स्वस्यैव प्रतिबिम्बम् इति अज्ञात्वा कस्यचित् महापुरुषस्य भवेदिति विचिन्त्य सः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं दृष्ट्वा तं महापुरुषं नत्वा पेटिकायां स्थापयति स्म । पत्न्याः रोहिण्याः मनसि सन्देहे जाते कदाचित् कण्णदासस्य निर्गमनस्य अनन्तरं प्रकोष्ठं प्रविश्य दर्पणे महिलामुखं दृष्...
भक्तः कुलशेखरः 21.01.2025 4:08
चेरराज्यस्य राजा ईश्वरभक्तः कुलशेखरः प्रतिदिनं हरिकथां श्रावयितुं कमपि पण्डितं स्वकीयप्रासादम् अनाययति स्म । एतत् अनिच्छन्तः राज्ञ्यः अमात्यः च मिलित्वा श्रीरामविग्रहस्थं हारं पण्डितस्य स्यूते स्थापयन्ति । कालसर्पदंशः एव दण्डः इति घोषयित्वा कालसर्पयुक्ते घटे यदा पण्डितः हस्तं निक्षेप्तुम् उद्युतः तावता राजा स्वयं हस्तं प्रवेशितवान् । विस्मयः नाम राज्ञः करस्पर्शनेन सर्पः स्वयं बहिः आगतवान् । न तु...
आहो, साहसम् 20.01.2025 5:38
इङ्ग्लेण्ड्देशे केण्ट्नामकस्य प्रदेशस्य समुद्रतीरे महतः चण्डमारुतस्य कारणेन काचन बृहती नौका पीड्यमाना नुद्यमाना भग्नप्राया अभवत् । समुद्रतीरस्य जनसम्मर्दे केनचित् महनीयेन सह पालितः कश्चन बलशाली अप्रतिमशूरः धीरश्च शुनकः आसीत् । शुनकस्य स्वामी किञ्चित् चिन्तयित्वा नौकारक्षणाय एकम् उपायं कृत्वा शुनकं प्रेषयति । शुनकस्य साहाय्येन सर्वे नाविकाः तीरं प्राप्नुवन्ति । कथम् इति जिज्ञासया कथां शृणुमः । (“के...
कूपः कस्य ? 19.01.2025 5:19
काचन वृद्धा गृहस्य पार्श्वे स्थितस्य कूपस्य जलम् आनीय दैनन्दिनकार्याणि निर्वर्तयति स्म । भैरवनामा कश्चन दुष्टः वृद्धायाः कूपः मदीयः इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान् । खिन्नया वृद्धया राज्ञि निवेदिते कथं राजा चातुर्येण न्यायनिर्णयं करोति इति शृणुमः । तेनैव राज्ञा रणजितसिंहेन अमृतसरसि सुवर्णालयः निर्मितः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...
पठने आसक्तिः 18.01.2025 4:58
भूतपूर्वराष्ट्रपतिः मान्यः के आर् नारायणन्वर्यः बाल्यकाले सर्वदा शालां प्रति विलम्बेन आगच्छति स्म यतः सः प्रतिदिनं मातुः साहाय्यं कृत्वा अष्ट कि.मी. दूरतः पादाभ्यामेव आगच्छति स्म । किन्तु पठने सः अन्ये छात्राः इव एव आसीत् । एकदा विलबेन आगतवन्तं तं अध्यापकः तर्जयित्वा कक्ष्यायां प्रवेष्टुं न अनुमतवान् । बालः म्लानमुखः सन् कक्ष्यातः बहिः तिष्ठन् कक्ष्यायां बोधितान् सर्वान् अंशान् पुस्तके लिखितवान्...
कृष्णभक्तः रसखानः 17.01.2025 4:13
कश्चन मुसल्मानः रसखानः गुरुणा सह मक्कामदीनायात्रार्थं प्रस्थिते मध्यमार्गे वृन्दावनं प्राप्तवान् । यमुनानद्याम् आसन्नायां सुमधुरः वेणुध्वनिः तस्य मनः पूर्णतः अहरत् । तत्र सुन्दरः वृन्दावनाधीशः दृष्टिगोचरतां गतः । पुनः अदृश्यः जातः च । पुनर्दर्शनार्थं रसखानः दिनत्रयं निराहारं श्रीकृष्णनाम्नः जपं कृतवान् । तृतीयदिने रात्रौ भगवान् स्वयमेव आगत्य नैवेद्यरूपेण अर्पितं क्षीरान्नं आनीय स्वहस्ताभ्यां तं भो...
वेदप्रामाण्यम् 16.01.2025 3:41
दार्शनिकः कुमारिलभट्टः कदाचित् बौद्धदार्शनिकेन धर्मकीर्तिना पराजितः । तदा कुमारिलभट्टेन निश्चितं यत् बौद्धसिद्धान्ते तलस्पर्शि पाण्डित्यं प्राप्य एते बौद्धाः जेतव्याः इति । अग्रे सः वेदानां श्रेष्ठतां सयुक्तिकं प्रतिपाद्य बौद्धमतस्य दौर्बल्यं सप्रमाणं निरूपितवान् च । कुपिताः बौद्धाः 'यदि वेदाः प्रमाणं स्युः तर्हि पर्वतशिखरात् कूर्दनं क्रियताम्' इति वदन्ति । कुमारिलभट्टः वेदमातरं क्षणं ध्यात्वा सधै...
व्याघ्रायत 15.01.2025 3:50
'उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै: । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ।।' - एतत् सुभाषितं बहु प्रसिद्धम् । काष्ठविक्रेतुः देवदत्तस्य स्वकार्ये प्रवृत्तिः कथं जाता इति बोधयन्ती इयं कथा एतस्य सुभाषितस्य उदाहरणं भवितुम् अर्हति इति पश्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) We all know the famous saying, 'उद्यमेन हि स...
कार्यसंस्कृतिः 14.01.2025 3:33
कश्चन अमेरिकीयः घण्टामात्रं कार्यं कृत्वा घण्टाद्वयस्य निमित्तं वेतनं प्राप्तुं नेच्छति । खिन्नः सः यदा मित्रं वदति तदा 'तद्विषये संस्था चिन्तयतु, शिष्टं समयं सुखेन यापयतु' इति वदति । तदा अमेरिकीयः वदति - ‘तेन संस्थायाः हानिः भवति । तेन देशस्य अर्थस्थितेः हानिः भवति । अतः देशस्य उन्नतिः साधनीया चेत् देशस्थैः सर्वैः कार्यसंस्कृतिविषये अवधानवद्भिः भवितव्यम् एव’ इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस...
देवदर्शनाय योग्यता 13.01.2025 3:28
कदाचित् कश्चन राजा 'ईश्वरः कुत्र अस्ति' इत्यस्य प्रश्नस्य उत्तरं मासाभ्यन्तरे दातव्यम् इति सभायाम् आदिशति। चिन्ताक्रान्तेन मन्त्रिणा कश्चित् तीक्ष्णमतिः उत्तरं जानन् बालकः प्राप्तः । अनन्तरदिने राजस्थाने बालकः दर्शयति यत् कथं केवलेन दुग्धस्य आलोडनेन नवनीतं न भवति । आदौ क्षीरेण दधि करणीयम्, अनन्तरं दध्नः मथनात् नवनीतं प्राप्यते । तद्वदेव देवविषये अपि भक्तिं विना, त्यागतपस्यादिकं विना च भगवान् न् दृ...
ऋणप्रत्यर्पणं कष्टाय 12.01.2025 4:53
कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन्मनि एतस्मात् तिलकात् ऋणं स्वीकृतवन्तौ आस्ताम् ।...
वास्तविकाः साधवः 11.01.2025 4:16
कदाचित् ऊर्ध्वपुण्ड्रधारिणः जटाभिः शोभमानाः दशमिताः विरागिसाधवः चिटिकां विना रेल्यानम् आरूढवन्तः । सर्वेSपि साधवः कारागारं प्रति नेयाः इति चिटिकानिरीक्षदलेन आरक्षिणः आदिष्टाः यतः तेषु असाधवः अपि आसन् केचन । आरक्षकनिरीक्षकः सर्वान् साधून् आहूय - 'ये त्रिपुण्ड्रम् अपसारयेयुः, ये कण्ठे धृतां रुद्राक्षमालां भञ्जयेयुः च तान् कारागारतः मोचयिष्यामः' इति वदति । अष्ट साधवः तथैव कृतवन्तः । किन्तु उभौ साधू त...
वस्त्रस्य उपयोगः 10.01.2025 3:20
कदाचित् बुद्धस्य कस्यचन शिष्यस्य वस्त्राणि सर्वथा जीर्णानि जातानि इति कारणतः नूतनवस्त्राणि दाप्यतामिति प्रार्थितवान् । तेन नूतनवस्त्राणि लब्धानि च । नूतनवस्त्रधारिणं शिष्यं कांश्चन प्रश्नान् पृच्छति बुद्धः । यथाक्रमम् उत्तरमपि प्राप्य - 'मम तत्त्वानाम् आन्तर्यं सम्यक् एव गृहीतम् अस्ति भवता' इत्युक्त्वा निर्गच्छति । किं तत् प्रश्नोत्तरम् जिज्ञासया कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...
अल्लावुदीनस्य दीपः 09.01.2025 5:06
कदाचित् कैश्चित् बालकैः अल्लावुदीनस्य दीपः प्राप्तः । ततः निर्गताय अल्लावुदीनाय द्वितीयतृतीयबालकौ स्वस्वकार्याणि कर्तुं आदिष्टवन्तः । अल्लावुदीनेन चतुर्थे बालके पृष्टे - देशस्य कृते कष्टग्रस्तानां कृते च साहाय्यं करोतु इति उत्तरम् आगतम् । प्रथमः बालकः - मम बुद्धेः उपयोगं करोमि । स्वप्रयत्नेन एव कार्याणि करिष्यामि इत्युक्तवान्। तद्श्रुत्वा द्वितीयतृतीयबालाकयोः बुद्धिपरिवर्तनं जातम् । तौ अपि तथैव उक...
आज्ञापालनस्य मर्म 08.01.2025 3:56
ब्रह्मचैतन्यस्य श्रीगोन्दवलेकरमहाराजस्य वचनं कदापि वितथं न भवति इति जनानां विश्वासः आसीत् । एकदा, 'सत्वरं गोन्दवलेग्रामम् आगच्छतम्' इति सन्देशः पुण्यपत्तनस्थौ द्वौ अनुयायिनौ प्रति प्रेषितः । तौ प्रस्थितवन्तौ च । अनन्तरदिने एव 'रैण्डसाहेब' नाम्नः क्रूरकर्मणः आङ्ग्लेयस्य हननं पुण्यपत्तने जातम् । यदि तौ पुण्यपत्तने स्यातां तर्हि ताभ्यां महती विपत्तिः सम्मुखीकरणीया अभविष्यत् इति चिन्तयन्तौ तौ, दूरदर्श...
Replaio není vydavatelem podcastů; názvy pořadů, obálky a audio patří jejich autorům a šíří se přes veřejné RSS kanály