uk

सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Епізодів: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Обов'язково відвідайте сайт подкасту та підтримайте його автора: sambhashanasandesha.in

Автор

सम्भाषणसन्देशः

Категорія

Kids

Сайт подкасту

sambhashanasandesha.in

Останній епізод

11 лип 2026

Де слухати?

Подкасти в застосунку Replaio Radio Уже незабаром

Подкасти незабаром з'являться в застосунку. Встановіть уже зараз і першими побачте зовсім новий погляд на подкасти

Завантажити з Google Play Встановіть безкоштовно Android майже 10 млн завантажень · рейтинг 4,8 iOS незабаром

Епізоди

सत्यवादी चोरः 05.06.2025

कदाचित् कश्चन चोरः मनःपरिवर्तनं प्राप्तुं मुनेः समीपं गतवान् । सः मुनेः वचनानुसारं सत्यमेव भाषितुं सङ्कल्पं कृत्वा ततः कदापि मिथ्याभाषणं न कृतवान् । एकदा सः राजकोषतः सुवर्णपेटिकाद्वयमेव चोरयित्वा यदा धावितुम् आरब्धवान् तदा मार्गमध्ये मन्त्री लब्धः । प्रवृत्तं सर्वं ज्ञात्वा सः मन्त्री इतोपि एकां सुवर्णपेटिकाम् अपहृतवान् । जनाः पेटिकात्रयमपि चोरेण अपहृतम् इति चिन्तयन्ति इति मत्वा । किन्तु यदा राजस्...

उड्डयनसमर्थः अश्वः 04.06.2025

वयं सर्वे विजयनगरस्य राजानं कृष्णदेवरायं, तस्य परमाप्तमन्त्रिणं तेनालिरामकृष्णं जानीमः एव ।  तेनालिरामकृष्णः परोपकारी सङ्कटतारकः तीक्ष्णमतिः च आसीत् इति सर्वे जानन्ति स्म । अस्यां स्वारस्यकार्यां कथायां तेनालिरामकृष्णः कथं कञ्चन अश्वपोषकं राज्ञः दण्डनात् रक्षति, कम् उपायं करोति इति पश्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) We all k...

दानस्य महिमा 03.06.2025

यदा पुष्करनगरनृपः कदाचित् रुग्णः जातः तदा राजपुरोहितः सूचयति यत् विपुलस्य सुवर्णस्य दानकरणेन राजा स्वस्थः भवितुम् अर्हति इति । तद्वदेव राजा दशकोटिसुवर्णमुद्राणां दानाय व्यवस्थां करोति । किन्तु मन्त्री नगराध्यक्षः च वञ्चनां कृत्वा अल्पम् एव धनराशिं प्रजाभ्यः दत्तवन्तौ । विपुलं दानं कृत्वा अपि यदा नृपः स्वास्थ्यं न प्राप्तवान् तदा सः सुवर्णस्य दानं योग्यरीत्या अभवत् उत न इति ज्ञातुं गुप्तचरान् प्रेष...

सुखस्य मन्त्रः 02.06.2025

कदाचित् कश्चन कुक्कुरः दिल्लीतः हरिद्वारं प्रति अधावत् । मार्गे केचन कुक्कुराः भषन्तः एतं कुक्कुरम् अनुसृतवन्तः ।  एषः कुक्कुरः तैः सह सङ्घर्षम् अकृत्वा हरिद्वारं प्रति अधावत् । यदि सङ्घर्षं कृतवान् स्यात् तर्हि अन्ये कुक्कुराः तस्य महतीं हानिं कृतवन्तः स्युः । तेन समयश्रमयोः महती हानिः अभविष्यत्, अपायः अपि अभविष्यत् । लक्ष्यप्राप्तिमार्गे ये विरोधिनः सन्ति तैः सह सङ्घर्षः न करणीयः अस्माभिः । लक्ष...

अर्थहीनं वस्तुजातम् 01.06.2025

अस्यां कथायां वेदव्यासस्य पुत्रेण शुकदेवेन ज्ञायते यत् एतस्मिन् जगति विधिना निर्मितस्य वस्तुजातस्य अवश्यं हि कापि उपयुक्तता वर्तते एव । पूर्णरूपेण अनुपयुक्तं वस्तु दुर्लभम् एव । ईश्वरेण प्रत्येकं वस्तु मानवलोककल्याणार्थम् एव निर्मितम् । एतस्मिन् लोके सर्वथा अनुपयुक्तम्, अतः एव त्यक्तव्यम् एकमेव वस्तुजातम् । तद् अस्ति अहङ्कारः नाम । अतः सः गुरुं जनकं प्रार्थयते 'निरन्तरं निरहङ्कारः भूत्वा वर्तितुं...

कन्यायाः पतिनिर्णयः 31.05.2025

कस्यचन पण्डितस्य कन्या सर्वगुणसम्पन्ना उच्चाकाङ्क्षिणी च प्रतिज्ञाबद्धा आसीत् यत् सर्वे यं प्रशंसन्ति, यश्च शक्तिशाली भवति तमेव अहं वृणोमि इति । एकदा सा महाराजं दृष्ट्वा तमेव वृणोमि इति अचिन्तयत् । किन्तु सः यदा गुरोः पादस्पर्शं करोति, तदा गुरुः एव श्रेष्ठः इति चिन्तयति । पुनः गुरुः देवं प्रणमति इति करणेन देवः श्रेष्ठः इति चिन्तयति । अन्ततो गत्वा पण्डितपुत्रः एकः दृष्टेभ्यः सर्वेभ्यः श्रेष्ठः इति...

संसारमोहः 30.05.2025

कदाचित् प्रह्लादः वरयाचनसमये भगवन्तं नृसिंहं वदति यत् 'अहम् एकाकी मुक्तः भवितुं न इच्छामि । सर्वान् अपि जीवान् स्वीकृत्य वैकुण्ठं प्रति गमनाय अनुमतिं ददातु' इति । 'त्वमेव सर्वान् पृष्ट्वा ये वैकुण्ठं गन्तुम् इच्छन्ति तान् सर्वान् स्वीकृत्य आगच्छ' इति भगवान् वदति । ततः प्रह्लादः प्रष्टुं गच्छति । ब्राह्मणाः, परिव्राजकाः, राजानः, वणिजः, सेवकाः, पशुपक्षिणः इत्यादयः सर्वे अपि प्रह्लादेन सह वैकुण्ठं प्...

रहस्यस्य कुञ्चिका 29.05.2025

टिबेटदेशे अधिकतया मौनेन स्थितवन्तं साधुपुरुषं दृष्ट्वा जनाः चिन्तितवन्तः यत् एषः सर्वाणि रहस्यानि जानाति  इति । कदाचित् कश्चन युवकः तं रहस्यं ज्ञातुं साधुपुरुषम् उपसर्प्य स्वस्य इच्छां निवेदितवान् । साधुपुरुषः किमपि रहस्यं न जानामि इति प्रथमम् अवदत् । किन्तु युवकेन पुनः पुनः निवेदिते साधुपुरुषः सः कथमपि अन्यत्र प्रेषणीयः इति विचिन्त्य -'ॐ मणिपद्मे हुम्' इत्येतं मन्त्रं पुनः पुनः जप इति वदति ।  तेन...

सुकन्यया निर्मितः आमलकीप्राशः 28.05.2025

राज्ञः शयार्तेः तनया सुन्दरी मनोहारिणी च । तनया सुकन्या शापग्रस्तानां सैनिकानां हिताय च्यवनमहर्षिं परिणीय तस्य सेवायै लग्ना असीत् । एकदा अश्विनीकुमारौ ऋषिसेवारतायाः सुकन्यायाः सौन्दर्यम् अवलोक्य 'एतं वृद्धं विहाय आवयोः अन्यतरं वृष्णीष्व' इति उक्तवन्तौ । तन्निराकरोति सुकन्या । तां पतिव्रतां विज्ञाय अश्विनीकुमारौ प्रसन्नौ भूत्वा आमलकीप्राशननिर्माणविधिं कथयामासतुः । तस्य सेवनेन ऋषिः च्यवनः न केवलं वि...

ईश्वरसाक्षात्कारः 27.05.2025

रमणमहर्षेः भक्ताः वदन्ति स्म यत् रमणमहर्षिः भगवत्साक्षात्कारम् अपि प्राप्तवान् अस्ति इति । एतत् असहमानाः केचन क्रिस्तधर्मप्रचारकाः महर्षेः दाम्भिकता सप्रमाणं प्रकाशनीया इति सङ्कल्पितवन्तः । अतः‌ ते कतिपयैः विदेशीयैः पत्रकारैः सह महर्षेः आश्रमं गत्वा भवतः ईश्वरस्य साक्षात्कारं द्रष्टुम् इच्छामः इति अवदन् । तदङ्गीकृत्य महर्षिः तान् कुष्ठरोगपीडितस्य गृहम् अनयत् । तस्य सर्वविधसेवाः कृत्वा आङ्ग्लान् सम...

एकस्य जनस्य अभावे...... 26.05.2025

अमेरिकादेशे कस्याञ्चित् नद्यां कश्चित् विद्युत्स्तम्भः पतितः । अतिभारयुक्तं तं स्तम्भम् उन्नेतुं कर्मकराः  असमर्थाः जाताः ।  इतोऽपि एकस्य जनस्य साहाय्ये अपेक्षितेऽपि तत्रत्यः प्रमुखः मम योग्यतायाः अननुगुणः व्यवहारः इति मत्वा साहायार्थं न गतवान् । तावता कश्चन अश्वारोही तत्रत्यां स्थितिं दृष्ट्वा कार्ये संलग्नः अभवत् । तस्य प्रोत्साहवचनेन कर्मकराः उत्साहध्वनिं कुर्वन्तः बलेन विद्युत्स्तम्भम् उन्नीय...

उभौ मार्गौ 25.05.2025

कदाचित् मृगयायै गतः जुनागढदेशस्य मृगयाप्रियः राजा अङ्गारः वेगेन अश्वं चालयन् सहचरेभ्यः पृथक् जातः । मृगयायां मारितान् बहून् शशान् अश्वस्य पुच्छे अबध्नात् सः । प्रतिगमनमार्गम् अजानन् सः इतस्ततः पश्यन् अश्वं मन्दं चालयन् वृक्षस्य मूले उपविष्टं ध्यानमग्नं कञ्चन संन्यासिनं दृष्टवान् । राजा तं प्रणम्य राजधानीं प्रति गमनार्थं मार्गम् अपृच्छत् । संन्यासी राज्ञः मृगयाप्रवृत्तिं दृष्ट्वा 'अहम् उभौ एव मार्ग...

महात्यागी 24.05.2025

कश्चन महात्मा सर्वसङ्गपरित्यागी इति ख्यातः आसीत् । धनादिषु अल्पा अपि आसक्तिः न आसीत्  । कदाचित् प्रयाणावसरे नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः कश्चन श्रेष्ठी वणिक् महात्मनः पादौ अस्पृशत् ।  झटिति एव महात्मा अपि श्रेष्ठिनः पादौ अस्पृशत् । आश्चर्यान्वितः श्रेष्ठी 'भवादृशेन महात्यागिना सर्वसङ्गपरित्यागिना च किमर्थं मम पादौ स्पृष्टौ ?’ इति पृष्टे महात्मा अवदत् 'मया तु लौकिकमातापित्रोः सङ्गः परित...

द्वैमातुरः 23.05.2025

आसीत् कश्चन वरेण्यनामकः राजा यः धर्मानुयायी प्रजावत्सलः च । तस्य पतिव्रता धर्मपरायणा च पत्नी पुष्पका कदाचित् कञ्चित् विलक्षणं शिशुं प्रसूतवती । चत्वारः हस्ताः, मुखे दन्तः च आसन् तस्य । विलक्षणशिशोः जननं ज्ञातवता राज्ञा शिशुं सरोवरे त्यक्तुम् आदिश्यते । सरोवरस्य समीपे आसीत् पार्श्वमुनेः आश्रमः । प्रतिदिनं सरोवरे स्नानं कर्तुम् आगतवता मुनिना एषः शिशुः दृष्टः । परमात्मास्वरूपः अयं शिशुः इति मत्वा तम्...

सुगन्धमयता 22.05.2025

शबरीं द्रष्टुम् आगवन्तं रामं आश्रमं परितः विद्यमानानां सुगन्धपूर्णानां पुष्पाणां कथां वदति सा - 'पूर्वम् आश्रमपरिसरे मातङ्गः नाम महर्षिः निवसति स्म । कदाचित् महर्षिः अचिन्तयत् यत् वृष्टेः आरम्भतः पूर्वं यदि काष्ठानि न सङ्गृह्येरन् तर्हि वर्षाकाले महत् कष्टम् अनुभोक्तव्यं भवेत् इति । शिष्येषु केनापि अवधानं न दत्तम् इति कारणतः स्वयं महर्षिः परशुं गृहीत्वा काष्ठसङ्ग्रहाय आश्रमात् निर्गतवान् । तं सर्व...

वाणिज्यकौशलम् 21.05.2025

कस्याञ्चित् महावाणिज्यसंस्थायां विक्रेतृविभागस्य निमित्तम् अभ्यर्थिनां सन्दर्शनं प्रचलत् आसीत् । अनुभवराहित्येऽपि कस्यचन तरुणस्य सरलतां दृष्ट्वा तम् उद्योगे न्ययोजयत् प्रबन्धकः । 'विक्रयणे विशेषास्था दर्शनीया, प्रगतिः साधनीया च भवता' इति अबोधयत् सः । कञ्चित् कालानन्तरं ज्ञातं कथं सः तरुणः स्वस्य कौशलेन वाणिज्यसामर्थ्येन च संस्थायै दशलक्षरूप्यकमितः लाभः दापितः इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस...

धर्मस्य सारः 20.05.2025

पूर्वं कश्चन राजुकुमारः सकलज्ञानसम्मन्नः बलवान् अधीतराजोचितविद्यः च असीत् । किन्तु धर्मलक्षणं तेन न ज्ञातम् । सः पण्डितान् अपृच्छत् ।  एकैकः एकैकप्रकारेण धर्मलक्षणं विवृतवान् येन राजकुमारस्य भ्रमः जातः । अन्ते सः कञ्चित् संन्यासिनं दृष्ट्वा स्वस्य समस्यां निवेदितवान् । संन्यासिना कारितायां क्रीडायां राजकुमारेण प्रतिस्पर्धिनि गौरवप्रधानं, मृदु व्यवहारः, दयापरार्थं, प्राणत्यागाय सज्जता इत्यादयः दर्श...

कर्मफलं कर्तारम् उपैति 19.05.2025

'यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुरा कृतं कर्म कर्तारमनुगच्छति ।। 'प्रियम् अप्रियं वा कर्मफलं कर्तारमेव उपैति' इति वचनं अस्माभिः ज्ञातमेव । शास्त्रकुशलोऽपि कश्चन पण्डितः कथं पापं करोति? यदा कर्मफलं पापपुरुषरूपं धृत्वा पण्डितं ग्रहीतुम् आगतवान् तदा तस्य निवारणाय कम् उपायं करोति ? परन्तु अन्ते कर्मफलस्य भोक्ता स्वयमेव अस्ति इति कथं पण्डितेन विदितम् इति ज्ञातुम् इमां स्वारस्यकरीं कथां शृ...

भक्तराजः प्रह्लादः 18.05.2025

त्रिषु लोकेषु देवताभ्योऽपि महान् पूजनीयः प्रह्लादः इन्द्रेण न असह्यत । सः ब्राह्मणवेषं धृत्वा प्रह्लादनिकटम् आगत्य अकथयत् 'भवतः इहलौकिकस्य पारलौकिकस्य च कल्याणमार्गस्य तत्त्वम् उपदिशतु' इति । तदङ्गीकृत्य प्रह्लादः ज्ञानतत्त्वं बोधयित्वा अन्ते' यद् इष्यते तद् याच्यताम्' इति यदा अवदत् तदा कपटवेषधारी इन्द्रः 'भवतः शीलं ग्रहीतव्यम् इति मम इच्छा' इति प्रत्यवदत् । प्रह्लादः तस्य वचनं पूरितवान् । तदनन्तर...

भगवतः अस्तित्वम् 17.05.2025

कदाचित् कश्चन तरुणः रमणमहर्षिम् उपसर्प्य भगवतः अस्तित्वस्य विषये सन्देहं प्रकटयति । सन्देहस्य कारणे पृष्टे 'यावत् ईश्वरः दृष्टिगोचरः न भवेत् तावत् तस्य अस्तित्वस्य विषये श्रद्धा अपि न भवेत्' इति । तदा महर्षिः मन्दहासपूर्वकम् अवदत् 'अहं कञ्चित् प्रश्नं पृच्छामि । किं भवति बुद्धिमत्ता अस्ति?’ । 'तत्र नास्ति एव सन्देहः' इति यदा तरुणः वदति तदा महर्षिः वदति 'किन्तु सा न दृश्यते मया । तस्मात् कथं निर्णे...

अधीरता न शोभायै 16.05.2025

कदाचित् 'पञ्जाबकेसरी' इति ख्यातस्य राज्ञः रणजितसिंहस्य राज्यस्य सीमाप्रदेशं केचन लुण्ठाकाः पेशावरनगरस्य लुण्ठनं कुर्वन्तः सन्ति इति गुप्तचराः वार्ताम् आनीतवन्तः । तां वार्तां श्रुत्वा यदा राजा सेनापतिम् आनाय्य अपृच्छत् तदा त्रिगुणितप्रमाणेन स्थितान् तान् लुण्ठाकान् अस्मत्सैनिकाः कथं वा अवरोधयेयुः इति अवदत् सेनापतिः ।  किमपि उनुक्त्वा अनुक्षणं राजा १५० सैनिकैः पेशावरं प्राप्य शत्रुसंहारे उदुक्तः ।...

निन्द्यं कर्म राक्षसत्वाय 15.05.2025

गुरुनानकः कदाचित् यदा प्रियशिष्येण मरदानेन सह विन्ध्याचलपरिसरे गच्छन् आसीत् तदा केचन वन्यजातीयाः मरदानं बद्ध्वा भैरवीगुहां प्रति बलिरूपेण नीतवन्तः । भैरव्याः अर्चकः तस्य मारणाय शूलं गृहीत्वा आगतः। तदा 'वाहे गुरु' इति ध्वनिः श्रुतः । एतस्य श्रवणात् अर्चके विलक्षणं परिवर्तनं दृष्टम् ।  एतत् दृष्ट्वा वन्यजातीयानां नायकः क्रोद्धेन 'भवान् कः?' इति अपृच्छत् । 'अहं भवान् इव मानवः अस्मि' इति गुरुनानकः अवद...

नरकस्य राज्यपालत्वेन नियुक्तिः 14.05.2025

भारतस्य राष्ट्रपतिः डा.राजेन्द्रप्रसादमहोदयः कदाचित् दिल्लीविश्वविद्यालयस्य समारम्भे भागम् अवहत् । समारम्भानन्तरं छात्राः राजेन्द्रप्रसादमहोदयस्य हस्ताक्षरं प्रार्थितवन्तः । सन्तोषेण अङ्गीकृतवान् । कश्चन छात्रः विनोदाय स्वपुस्तके 'स्वर्गस्य राज्यपालत्वेन नियोजनम्' इति लिखित्वा हस्ताक्षराय अयच्छत् । किमपि अवदन् राजेन्द्रप्रसादमहोदयः वाक्यद्वयं लिखित्वा तत् पुस्तकं तस्मै प्रत्यार्पयत् । तत्र लिखितस्...

चोराय उपाहारः 13.05.2025

कदाचित् रात्रौ साबरमतिस्थस्य आश्रमस्य पाकमन्दिरं प्रविष्टवन्तं चोरम् आश्रमवासिनः गृहीतवन्तः । अग्रिमदिवसे प्रात:काले यदा गान्धिवर्यस्य पुरतः सः चोरः उपस्थापितः, तदा तस्मै चोराय प्रथमम् उपाहारं दत्त्वा अनन्तरं मत्समीपे आनेतव्यः इति अवदत् गान्धिवर्यः । अनन्तरं गान्धिवर्येण सुमधुराणि हितवचनानि चोराय उक्तानि । तस्मिन् एव आश्रमे कार्यम् अपि दास्यामि इत्यवदत् । गान्धिवर्यस्य वचनानि श्रुत्वा द्रवीभूतान्त...

करणीया अकिञ्चनानां सेवा 12.05.2025

परमविरक्तः तपस्वी महर्षिः रमणः धर्मशात्राध्ययनेन सङ्कल्पं कृतवान् यत् आवश्यकतायाः अधिकं वस्तु न सङ्ग्रहणीयम् इति । कदाचित् महर्षेः सकाशे यत् एकमेव कौपीनम् आसीत् तदपि शीर्णम् जातम् । महर्षिं दृष्ट्वा नितरां खिन्नाः परमभक्ताः धीरजनाः अञ्जलिं बद्ध्वा नूतनं कौपीनं दद्याम वयम् इति प्रार्थितवन्तः । तदा महर्षिः स्मितपूर्वकम् उक्तवान् -’मत्परिसरे असङ्ख्याः जनाः सन्ति ये च शैत्येन कम्पमानाः रात्रिं यापयन्त...

Слухайте подкаст बालमोदिनी у Replaio

Радіо та подкасти в одному застосунку - безкоштовно й без реєстрації. Встановіть уже сьогодні та не пропустіть запуск

Завантажити з Google Play

Replaio не є видавцем подкастів; назви шоу, обкладинки та аудіо належать їхнім авторам і поширюються через публічні RSS-канали