सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Обов'язково відвідайте сайт подкасту та підтримайте його автора: sambhashanasandesha.in
Автор
सम्भाषणसन्देशः
Категорія
Сайт подкасту
Останній епізод
29 лис 2026
Де слухати?
Подкасти в застосунку Replaio Radio Уже незабаромПодкасти незабаром з'являться в застосунку. Встановіть уже зараз і першими побачте зовсім новий погляд на подкасти
Епізоди
न त्वमहं कामये राज्यम्..... 29.11.2026 5:34
खाण्डिक्यः केशिध्वजश्च सहोदरौ महापण्डितौ । ज्येठः खाण्डिक्यः श्रौतस्मार्तादिकर्मसु परिणतः, अनुजः च केशिध्वजः ब्रह्मज्ञानी आसीत् । कदाचित् तयोः मध्ये कलहः जातः । केशिध्वजः विजयं प्राप्तवान् । । पराजितः खाण्डिक्यः मन्त्रिपरिवारजनैः सह पलायनं कृत्वा अरण्ये वासम् आरब्धवान् । अग्रे केशिध्वजस्य शास्त्रविषये यदा परिहारः आवश्यकः असीत् तदा सः अग्रजस्य समीपं गच्छति । खाण्डिक्यः अपि समाधानं वदति । यदा केशिध...
मोक्षार्थम् इहलोके यत्नः 28.11.2026 2:55
मत्स्यध्वजनामकस्य कस्यचन राज्ञः भोगे विशेषासक्तिः आसीत् । कदाचित् सः सर्वालङ्कारभूषितः सन् भोगिनीनां गृहं गच्छन् आसीत् । गमनमार्गे कश्चन पुरोहितः गृहस्य पुरतः उपविश्य उच्चस्वरेण श्लोकान् वदन् आसीत् । तं श्लोकं श्रुतवतः राज्ञः मनसि विवेकः उदितः । "मोक्षप्राप्त्यर्थम् अतिश्रेष्ठः मार्गः कः?” इति ज्ञातुं राजा पण्डितान् मेलितवान् । विष्णुचित्तनामा पण्डितः जयं प्राप्तवान् । तस्य उपदेशं श्रुत्वा भगवतः व...
अन्नानुसारिणी बुद्धः 27.11.2026 4:46
कश्चन राजा अनुचितरूपेण प्रजाभ्यः धनं अर्जयित्वा विलासमयं जीवनं यापयति स्म । प्रजाः खिन्नाः आसन् । कदाचित् तत् राज्यम् आगतवन्तं महात्मानं कतिचन दिनानि राजभवने एव वासं कर्तुं प्रार्थितवान् राजा । कदाचित् सः राज्ञ्याः मुक्ताहारं स्नानगृहे दृष्ट्वा चोरितवान् । ततः वनं गतवान् । प्रातः उत्थाय स्वस्य दोषम् अवगत्य राज्ञे तत् प्रत्यर्प्य एवम् अवदत् "अन्नानुसारिणी भवति बुद्धिः । भवतः अन्नस्य खादनतः मम आचारे...
शिरःकम्पनात् समस्या 26.11.2026 3:30
पुरातनकाले सर्पाणां कर्णः भवति स्म । एकदा यदा नारदमहर्षिः भगवतः स्तुतिं कुर्वन् वैकुण्ठम् आगतः तदा सर्पराजः अनन्तनागः स्तुतिं श्रुत्वा प्रसन्नः भूत्वा शिरः कम्पितवान् । तस्मात् सम्पूर्णा पृथ्वी कम्पमाना जाता । भीता भूदेवी भगवतः विष्णोः समीपम् आगत्य स्वस्य समस्याम् अवदत् । विष्णुः नारदमहर्षिः मिलित्वा निर्णीतवन्तौ यत् अनन्तस्य श्रवणशक्तिः नाशनीया इति । लक्ष्मीदेवी अनन्तस्य सान्त्वनं करोति "इतः परं...
श्रेष्ठता गुणेन, न जन्मना 25.11.2026 5:57
महर्षेः कण्वस्य त्रयः पुत्राः आसन् विशोकः नाभागः वेदाथिथिः च । विशोकः नाभागः च असुरकन्यायां जातौ इत्यतः वेदाथिथिः चिन्तयति स्म "तौ असुरपुत्रौ । अहं तु सद्वंशजातः । अतः अहमेव श्रेष्ठः" इति । कदाचित् विना कारणं विशोकेन सह कलहार्थं प्रवृत्तः । तं बहुधा निन्दितवान् । तथापि विशोकः शान्ततया एव स्थितः आसीत् । अन्ते कः श्रेष्ठः इति निश्चयार्थं परीक्षाः कृताः । विशोकः एव जितः । लज्जितः वेदाथिथिः अवगतवान् य...
प्रकृतेः नियमः 24.11.2026 4:53
विजयनगरसाम्राज्ये नरहरिः नाम कश्चित् ग्रामीणः वनं गत्वा बहुकालं यावत् तपः कृतवान् । तपसा सन्तुष्टः देवः त्रीणि फलानि दत्त्वा "भवान् फलं खादन् मनसि यत् चिन्तयति तत् सिद्धं भविष्यति" इति अवदत् । ततः नरहरिः किं किं चिन्तयित्वा फलं खादति, तस्य परिणामः कः जातः, तत् जगतः नियमस्य विरुद्धः अस्ति वा, ततः किं जातम् इति सर्वम् अस्याः कथायाः कथावस्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततय...
विधेः विचित्राणि विचेष्टितानि 23.11.2026 4:51
ब्रिटिश्देशे कश्चन अङ्गरक्षकस्य वधदण्डनं आज्ञापितवान् आसीत् महाराजः आर्थरः । किन्तु राज्ञी सूचयति यत् 'अहम् एकं प्रश्नं पृच्छामि । दत्तकालाभ्यन्तरे समीचीनं प्रत्युत्तरं दास्यति चेत् सः दण्डात् मुक्तः भवतु' इति । तस्याः प्रश्नः आसीत् 'स्त्री केन अत्यन्तं सुखं प्राप्नोति?' इति । सः बहून् देशान् अटित्वा अन्ते उत्तरं दत्तसमयाभ्यन्तरे प्राप्नोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गत...
कथं भवेत् लक्षाधिपतिः? 22.11.2026 5:57
कदाचित् भगवान् नारायाणः भगवत्याः श्रीदेव्याः इच्छानुसारं कञ्चन भिक्षुकं लक्षाधिपं कर्तुम् ऐच्छत् । किन्तु श्रेष्ठी कुबेरदत्तः 'तद् धनं यथा मदीयं भवेत् तथा करिष्यामि' इति अचिन्तयत् । सः कञ्चन उपायं करोति । किन्तु भगवतः लीलां को वा विज्ञातुम् अर्हति ? तेन अन्यदेव चिन्तितम् आसीत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, Lord Narayana w...
पापस्य कर्ता 21.11.2026 5:15
कश्चन चतुरः वाक्पटुः सर्वशास्त्रज्ञः विप्रः आसीत् । कदाचित् क्षीरदोहनसमये धेनुः तं प्रहृतवती । तदा कुपितः विप्रः तां दण्डेन ताडितवान् । तस्य प्रहारं सोढुम् असहमाना सा धेनुः मृता अभवत् । गोहत्यापापं तस्य अनुसरणम् अकरोत् इति विचिन्त्य सः विप्रः एकम् उपायम् अचिन्तयत् । यतः हस्तस्य अभिमानी देवः इन्द्रः, हस्तेन कृतं पापं तु इन्द्रेण कृतं न तु मया इति विचिन्त्य सः पापम् अवदत् यत् भवान् इन्द्रं पीडयतु, न...
अहङ्कारः पराजयाय 20.11.2026 2:20
कदाचित् वायोः अहङ्कारः समुत्पन्नः 'मम कारणेन जनाः कम्पन्ते, अतः अहमेव बलवान्' इति । 'सूर्यस्य अपेक्षया अपि अहमेव बलवान्' इत्यपि विचारः तस्य मनसि उत्पन्नः । अतः उभयोः शक्तेः परीक्षा भवतु इति वायुः सूर्यम् अवदत् । तौ उभौ अपि स्वशक्त्याः प्रयोगं कुरुतः । का सा परीक्षा? कः विजयं प्राप्नोति इति स्वयं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप...
अपवित्रः हस्तः 19.11.2026 3:00
आनन्दपुरसाहिबमन्दिरे कदाचित् श्रीगुरुनानकदेवस्य प्रवचनं प्रचलति स्म । प्रवचनमध्ये गुरुनानकदेवः 'जलम् आवश्यकम्' इति उच्चारितवान् । अग्रे उपविष्टः कश्चन युवकः त्वरया उत्थाय अन्यत्र गत्वा जलपूर्णं चषकम् आनीय तस्मै दातुम् उद्युक्तः तदा युवकस्य मृदुहस्तस्य स्पर्शः जातः । मृदुतायाः कारणं ज्ञातं यत् सः युवकः धनिकस्य पुत्रः, तस्य गृहे अनेके सेवकाः सन्ति, अयं युवकः किमपि कार्यं न करोति च इति । नानकदेवः चषक...
शुकस्य चातुर्यम् 18.11.2026 3:07
कदाचित् अरण्यं गतवता केनचन व्याधेन कश्चन शुकः गृहीतः । सः तं गृहम् आनीय पञ्जरबद्धं कृतवान् । पुनः अरण्यगमनसमये अयं शुकः मित्रेभ्यः कञ्चन सन्देशं प्रापयितुं व्याधं निवेदयति । व्याधः अरण्यं गत्वा शुकसमूहस्य समीपं गत्वा पञ्जरस्थस्य शुकस्य सन्देशं वदति । तदा कश्चन शुकः तद् श्रुत्वा मृतः जातः । खिन्नः व्याधः गृहम् आगत्य प्रवृत्तं सर्वं पञ्जरस्थं शुकं वदति । तदा हा हन्त!! इत्युक्त्वा अयमपि शुकः मृतः जात...
चतुरः मेषपालः 17.11.2026 5:03
कदाचित् धनिकः माधवः मेलं गत्वा तिस्रः उत्तमाः अजाः आनीतवान् । प्रतिदिनं दुग्धं यच्छन्ति स्म ताः अजाः । गच्छता कालेन दुग्धदानं स्थगितवत्यः । तदा ताभ्यः आहारदानं वृथा इति अचिन्तयत् सः । सः परेद्यवि ग्रामे उद्घोषयन् 'कोऽपि जनः एताः अजाः आकण्ठं भोजयति, येन अजाः पुनः किमपि खादितुं न इच्छन्ति, तर्हि अहं तस्मै सहस्रं रूप्यकाणि ददामि' इति । बहवः जनाः प्रयत्नं कृतवन्तः । किन्तु असफलाः जाताः । कश्चन बुद्धिम...
रङ्कं करोति राजानम्..... 16.11.2026 3:46
अकबरचक्रवर्ती कदाचित् बीरबलं प्रशनत्रयस्य उत्तरं ददातु इति अवदत् 'ईश्वरः कुत्र अस्ति? कीदृशः अस्ति? किं च करोति?' इति । सप्ताहानन्तरम् उत्तरं वदिष्यामि इति बीरबलः अवदत् । षड् दिनानाम् अनन्तरमपि बीरबलेन उत्तराणि न प्राप्तानि । सप्तमे दिने कश्चन गोपालः नदीतीरे उपविष्टस्य बीरबलस्य चिन्तायाः कारणं ज्ञात्वा 'अहम् उत्तरं वदिष्यामि' इति अवदत् । परेद्यवि सः राजसभाम् आगत्य अकबरस्य त्रयाणां प्रश्नानाम् उत्त...
गीतामाहात्म्यम् 15.11.2026 3:24
कृष्णदत्तः कश्चन धनिकः । तस्य बहुषु सेवकेषु अन्यतमः आसीत् गोविन्दः यः सर्वदा स्वदारिद्र्यं निन्दति स्म । कृष्णदत्तः स्वस्य जन्मदिनस्य निमित्तं सर्वेभ्यः सेवकेभ्यः उपायनानि दत्तवान् । सन्तुष्टः गोविन्दः उपायनम् उद्घाटितवान् किन्तु तत्र आसीत् भगवद्गीता पुस्तकम् । निराशः सः पुस्तकं पार्श्वे स्थापितवान् ।अनन्तरदिने कृष्णदत्तः गोविन्दम् अपृच्छत् 'भगवद्गीतां पठितवान् वा?’ इति । न इति उत्तरे प्राप्ते पुस...
चत्वारः रक्षकाः 14.11.2026 3:19
श्रीनिधिनामकः कश्चन रत्नवणिक् कदाचित् गृहं प्रत्यागच्छन् आसीत् । कुत्रचित् निर्जने प्रदेशे कश्चन आयुधसहितः चोरः आगतः । भयग्रस्तः श्रीनिधिः प्राणरक्षणार्थं स्वस्यूतं दातुम् उद्युक्तः । तावता चोरः अवदत् 'भवतः समीपे ये जनाः सन्ति तान् दूरीकरोति चेदेव भवतः स्यूतं प्राप्तुं शक्नोमि' इति । किन्तु श्रीनिधिः एकाकी एव आसीत् । परन्तु श्रीनिधेः परितः चतुरः जनान् पश्यति स्म सः चोरः । चोरस्य विवरणेन श्रीनिधिः...
ताना - रीरी 13.11.2026 7:45
अकबरचक्रवर्तिनः आस्थाने तोडरमल्लः, बीरबलः, तानसेनः इत्यादयः विद्वांसः आसन् । तानसेनः अद्वितीयः गायकः । कदाचित् तानसेनः 'ताना-रीरी इत्यनयोः बालिकयोः नाम शाश्वतं यथा स्यात् तथा करिष्यामि । इतः परं प्रत्येकं रागस्य आलापनसमयेऽपि नियमेन 'ताना-रीरी' इति आलापनं करिष्यामि' इति प्रतिज्ञां कृतवान् । अतः एव अद्यापि सङ्गीतज्ञाः गीतगानात् पूर्वं 'ताना-रीरी' इति आलपनं कुर्वन्ति । तस्य पृष्ठभूमिका अस्ति इयं कथा...
फलम् अविनयस्य 12.11.2026 2:31
यादृशं कर्म तादृशं फलम् इति तु सत्यम् एव । कथायाम् अस्यां कश्चन दुष्टस्वभावः मांसलशरीरश्च मर्कटः वने अन्यान् दुर्बलान् जन्तून् पीडयति स्म । एकदा मर्कटेन पीडितः कश्चित् कुक्कुटः शृगालस्य समीपं साहाय्यार्थम् अगच्छत् । तदा शृगालः दुष्टं मर्कटं दण्डयितुम् एकम् उपायम् अचिन्तयत् । तेन उपायेन सः मर्कटः दण्डितः अभवत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...
रोगनिदानम् 11.11.2026 4:58
यद्यपि महाराजः अभिनवसेनः समीचीनतया शासनं करोति स्म तथापि सः केषुचित् विषयेषु हठशीलः आसीत् । सः तिन्त्रिणीप्रियः आसीत् । अतः राज्ये यत्र यत्र निम्बवृक्षाः आसन् तान् सर्वान् कर्तयित्वा तेषां स्थाने तिन्त्रिणीवृक्षान् आरोपितवान् । गच्छता कालेन बहवः जनाः कुष्ठरोगपीडिताः जाताः । महाराजः अपि कुष्ठरोगपीडितः जातः । अन्यदेशात् आगतः वैद्य रोगस्य कारणं ज्ञातवान् किन्तु महाराजभयात् किमपि न अवदत् । तत्स्थाने स...
पितृमुक्तिः 10.11.2026 5:12
पृथिवीसिंहः अतीव सज्जनः धर्मभीरुः कृषिकः आसीत् । कदाचित् तस्य पुत्री एकमासात् रुग्णा जायमाना आसीत् । तस्मिन् एव काले प्रतिदिनं कश्चन वृद्धः वृषभः स्वप्नम् आगत्य 'पुत्र !! अहं भवतः पिता । धवलपुरे क्षत्रियवंशजस्य रणवीरसिंहस्य गृहे वृषभरूपेण जन्म प्राप्तवान् अस्मि । पूर्वजन्मनि रणवीरसिंहाय पञ्चसप्ततिः रूप्यकाणि दातव्यानि आसन् । यदि भवान् तानि तस्मै प्रत्यर्पयति तर्हि अहं मुक्तः भवामि' इति । पृथिवीसि...
चत्वारः प्रश्नाः 09.11.2026 3:37
मणिपुरनगरे मणिवल्लभः शासनं करोति स्म । सः धार्मिकः नीतिमान् बुद्धिमान् च । परन्तु महान् गर्विष्ठः अपि । कदाचित् महाराजं द्रष्टुम् आगतः कश्चन कविः वदति यत् पार्वतीपुरे ग्रामे सर्वे अतीव आरोग्यशालिनः बुद्धिमन्तश्च इति । कवेः वचनस्य परीक्षां कर्तुं राजा गच्छति । एक मेषपालः मिलति । तं चतुरः प्रश्नान् पृच्छति महाराजः । तस्य उत्तराणि श्रुत्वा महाराजः लज्जाम् अनुभूतवान् । तस्य गर्वः अपगतः । मदपेक्षया बुद...
अनिवारणीयं प्रारब्धम् 08.11.2026 2:53
प्रारब्धम् ईश्वरेणापि निवारयितुं न शक्यते । आश्चर्यं ननु ? इयं कथा तस्याः उदाहरणम् अस्ति । कदाचित् शनिदेवः भगवतः शङ्करस्य समीपं गत्वा अवदत् 'श्वः ब्राह्मे मुहूर्ते अहं भवन्तं पीडयितुं ग्रहरूपेण आगमिष्यामि' इति । 'तथैव भवतु' इति अवदत् शिवः । शनिदेवस्य गमनान्तरं शिवः कञ्चन उपायं करोति । यद्यपि तेन उपायः कृतः तथापि शनिदेवस्य पीडातः विमुक्तिः न प्राप्ता । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोज...
आलस्यं हि.... 07.11.2026 3:20
सप्त भ्रातरः । सर्वेऽपि अलसाः । कदाचित् पायसं निर्मितवन्तः । अन्ते ज्ञातं यत् गृहे शर्करा नास्ति इति । इदानीं विपणिं गत्वा शर्करां कः अनयति इति विवादः । कश्चन एकम् उपायं असूचयत् ' सर्वे स्थालिकां पायसेन पूरयामः, मौनेन उपविशामः । अस्मासु यः आदौ वदिष्यति सः एव गत्वा शर्कराम् आनेष्यति'। घण्टां यावत् सर्वे मौनेन उपविष्टवन्तः । तावता शुनकाः आगत्य विद्यमानं पायसं सर्वम् खादितवन्तः । अन्ते पित्रा आगत्य ए...
पीठं चलति 06.11.2026 4:13
चाङ्गदेवः कश्चन योगी । अनेकाः सिद्धीः प्राप्तवान् आसीत् । जनाः तं बहुधा प्रशंसन्ति स्म । अतः तस्य मनसि अहङ्कारः उत्पन्नः । तस्मिन् एव काले सतः ज्ञानेश्वरस्य कीर्तिः सर्वत्र प्रसृता । भगवतः विठ्ठलस्य परमभक्तः । ज्ञानेश्वरे ईर्ष्याद्वेषादयः विकाराः न आसन् । ज्ञानेश्वरस्य कीर्तिं श्रुत्वा चाङ्गदेवः तेन मेलितुम् इष्टवान् । यदा मेलितुं गतवान्, ज्ञानेश्वरः तस्य अहङ्कारं दूरीकृतवान् । चाङ्गदेवः तस्य शिष्...
उदारता 05.11.2026 2:40
कदचित् मिथिलाधिपः कोशलराज्ये आक्रमणम् अकरोत् । युद्धे कोशलनृपः पराजितः जातः, पलायनम् च अकरोत् । तस्य ग्रहणार्थं सहस्रं सुवर्णमुद्राः दीयन्ते इति उद्घोषितवान् मिथिलाधिपः । कोशलनगरे सर्वे युवकाः युद्धेः स्वप्राणान् त्यक्तवन्तः आसन् । इदानीं केवलं महिलाः बालाः वृद्धाः च आसन् । प्राकृतिकप्रकोपकारणेन कृषिः अपि नष्टा । जनानां दुर्दशां ज्ञातवान् कोशलाधिपः तेषाम् आर्थिकसाहाय्यार्थं कोशलनगरं गत्वा जनैः सह...
Replaio не є видавцем подкастів; назви шоу, обкладинки та аудіо належать їхнім авторам і поширюються через публічні RSS-канали