सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Bezoek zeker de website van de podcast en steun de maker: sambhashanasandesha.in
Auteur
सम्भाषणसन्देशः
Categorie
Website van de podcast
Nieuwste aflevering
24 okt. 2026
Waar luisteren?
Podcasts in de app Replaio Radio Binnenkort beschikbaarPodcasts komen binnenkort naar de app. Installeer nu en zie als eerste een compleet nieuwe kijk op podcasts
Afleveringen
उचितं न कृतं त्वया 18.12.2024 4:06
बुन्देलखण्डस्य शासकः अनिरुद्धसिंहः एकदा रणरङ्गतः पलायितः । तदा तस्य भगिनी सारन्धा कोपेन एतादृशेन व्यवाहारेण कुलस्य गौरवं नाशितम्, पलाय्य उचितं कार्यं न कृतं च इति वदति । तस्मात् जागरितः अनिरुद्धः मासत्रयं यावत् युद्धं कृत्वा विजयं प्राप्य प्रत्यागच्छति । तस्य स्वागताय ससन्तोषेण भगिनी सारन्धा पत्नी शीतलादेवी च सज्जा अभवताम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां...
सदाचरणमेव जीवनम् 17.12.2024 3:20
जीवनं नाम किम् इति जिज्ञासुः कश्चन जनः सर्वत्र परिभ्रमन् अरण्यं प्रविष्टवान् । तत्र जीवनविषये पृष्टे सति शुकः, शशः, हरिणः, नदी, वृक्षः, बीजः, उलूकः च स्वाभिप्रायम् प्रकटयन्ति । अनन्तरं तेन कश्चन संन्यासी दृष्टः । ततः ज्ञातवान् यत् केवलम् अन्वेषणेन जीवनं यापयितुम् अवसरः न प्राप्यते । आदौ उत्तमं जीवनं करणीयम् । सदाचरणमेव जीवनम् इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...
वचनपरिपालनम् 16.12.2024 5:01
काचन निर्धना माता पुत्रजननसमये धात्रै दत्तं वाक्यं पालयितुम्, पञ्चवर्षाणि पश्चात् सर्वमपि धनं यत् पुत्रेण प्राप्तं तत् सर्वं धात्रै अर्पयति। निर्धनमहिलायाः वचनपरिपालकतां निर्लोलुपतां च दृष्ट्वा सा धात्री तेन धनेन एकं कासारं निर्मितवती । अयं कासारः अद्यापि दरभङ्गानगरे 'धात्रीकासार' नाम्ना ख्यातः । सः बालकः भाविनि काले 'शङ्करमिश्र' नाम्ना ख्यातः, न्यायशास्त्रक्षेत्रे च महती ख्यातिः विद्यते । (“केन्द...
शान्तिप्राप्तेः मार्गः 15.12.2024 4:48
शान्तियुतं जीवनं कर्तुम् इच्छन् राजा शान्तियुतजीवनस्य मार्गं ज्ञात्वा आगच्छन्तु इति भटान् प्रेषयति । कञ्चन तेजस्विनं सन्यासिनं दृष्ट्वा अपेक्षायाम् उक्तायां 'शान्तिमार्गः अन्तरङ्गे भवति' इति संन्यासी वदति । परन्तु राजा स्वयमेव आगत्य विनयेन वचनस्य तात्पर्यं पृच्छति । तदा शान्तिमार्गस्य अन्वेषणम्, अन्तरङ्शोधनस्य सोपानानि इत्यादीनि विस्तरेण विवृणोति संन्यासी । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टा...
मार्गस्य शुद्धता 14.12.2024 4:25
कदाचित् बौद्धविहारे भगवता बुद्धेन ज्ञातं यत् शिष्याः सर्वदा ध्यानमग्नाः सन्तः ज्वरग्रस्तं शिष्यम् उपेक्षितवन्तः इति ।तदा तान् सर्वान् आहूय - केवलं ध्यानमार्गेण गमनेन न प्रयोजनम्, दीनसेवादिभ्यः एव मार्गस्य शुद्धिः भवति, मार्गस्य अनुसरणं यावत् मुख्यं भवति, मार्गस्य शुद्धता अपि तावती एव मुख्या इति बोधयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियत...
विवेकः जयति सर्वदा 13.12.2024 3:26
कस्मिंश्चित् ग्रामे कश्चन वणिक् धनिकात् स्वीकृतम् ऋणं प्रत्यर्पयितुम् अशक्तः अभवत् । सः धनिकः वृद्धः क्रूरः च वणिक्कन्यां वञ्चनया परिणेतुम् इच्छति । परन्तु, सा दक्षा कन्या उपायेन व्यवहृत्य अपायं निवार्य, पितरम् अपि ऋणात् कथं रक्षितवती इति अनया कथया जानीमः । अतः विवेकः एव सर्वत्र जयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, a mercha...
उपकारः तु स्वभावः 12.12.2024 3:22
केनचित् कृषिकेन कश्चन सज्जनः चक्रावाततः रक्षितः । प्राणापायमपि अविगणय्य रक्षणरूपम् उपकारं कृतवतः कृषिकस्य परोपकारस्वभावं दृष्ट्वा सः सज्जनः पारितोषिकं दातुम् इच्छति । 'अपाये स्थितवतः रक्षणं मानवधर्मः । तत् कर्तव्यबुद्ध्या मया कृतं, न तु पारितोषिकेच्छया' इति उक्त्वा पारितोषिकं निराकरोति सः कृषकः । एतादृशानां जनानां कारणात् एव लोके वृष्ट्यादयः भवन्ति इति मनसि एव चिन्तयति सः सज्जनः । (“केन्द्रीयसंस्क...
कुटिलः कूपः 11.12.2024 4:34
एकदा धारायाः अधिपतेः भोजस्य सभायां दूरदेशात् कश्चन पण्डितः आगत्य एकां समस्यां प्रस्तुतवान् । किन्तु पण्डितेषु श्रेष्ठः वाग्विभूषणः अपि उत्तरं दातुं न शक्तवान् । अतिथिपण्डितेन सप्ताहं यावत् समयः दत्तः । तावता श्रेष्ठः पण्डितः वाग्विभूषणः समस्यायाः परिहारं स्वयमेव अन्विषति उत अन्येन उत्तरं प्राप्यते ? कः सः प्रश्नः? तस्य उत्तरं किं भवितुम् अर्हति? इति सर्वैः कथां श्रुत्वा ज्ञायताम् । (“केन्द्रीयसंस्...
वरद्वयम् 10.12.2024 4:08
कस्यचित् राज्ञः समीपे केनचित् तपस्विना दत्तः कश्चन विशिष्टः खड्गः असीत् येन सः सर्वेषु अपि युद्धेषु जयं लभते स्म । कदाचित् कश्चन असूयापरः राक्षसः निद्रासमये तं खड्गं चोरयित्वा राजानं कारागृहे स्थापयति । स्वप्ने काचित् देवी द्विवारम् आगत्य वरं ददाति येन आगामिषु दिनेषु सः पुनरपि राज्यं प्राप्नोति । तदा देवी प्रत्यक्षीभूय – 'इतः परं खड्गः युद्धाय न, अपि तु शान्तिपालनाय उपयोक्तव्यः' इति उक्त्वा अदृश्य...
अपूर्व: अभ्यासक्रमः 09.12.2024 3:42
सङ्गीतक्षेत्रे करीमखानवर्यः सुविख्यातः । एकलव्यः इव कश्चन युवकः करीमखानवर्यस्य ध्वनिमुद्रिकां श्रावं श्रावं सङ्गीताभ्यासं करोति स्म । अग्रे करीमखानवर्येण मिलित्वा, 'सम्यक् अभ्यासं कृत्वा प्रगतिं ख्यातिं च प्राप्नुहि' इति आशीर्वादं प्राप्तवान् । सः एव कुन्दनलालसेहगलवर्यः यः भाविनि काले चलनचित्रगायकत्वेन चित्रनटत्वेन च ख्यातः अभवत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...
अल्पोपि उपकारः भवेत् महते फलाय 08.12.2024 3:55
१८८५ तमे वर्षे नेल्सन् नाम्नः कश्चन निवृत्तः सेनाधिकारी यदा वायुविहारार्थं गतवान् तदा समुत्पन्नेन चक्रवातेन तस्य शिरस्त्रं वायुना नीतम् । चक्रवातबाधाम् उपेक्ष्य शिरस्त्रम् आनीय दत्तवत्यै पुष्पानामिकायै बालिकायै सः सेनाधिकारी कृतज्ञतां समर्प्य, तस्याः नामसङ्केतादिकं स्वीये लघुपुस्तके लिखित्वा ततः निर्गतः। अनन्तरं यदा पुष्पायाः पतिः प्लेग्रोगेण ग्रस्तः असीत् तदा चिकित्सालये कश्चन वैद्याधिकारी तस्य...
महासाहसी विधिचन्दः 07.12.2024 5:11
ताराचन्द-वख्तमलनामानौ गुरुहरिगोविन्दशिष्यौ गुरवे अश्वौ उपायनीकर्तुं स्वस्थानात् यदा प्रस्थितवन्तौ तदा मध्यमार्गे यवनराजः शाहजहानः अश्वौ वशीकृत्य तौ शिष्यौ ताडयित्वा च प्रेषितवान् । प्रवृत्तं सर्वं विदित्वा अन्यः कश्चन शिष्यः विधिचन्दः अश्वौ आनेतुं प्रतिज्ञाम् अकरोत् । शूरः उपायचतुरः च सः विधिचन्दः केनोपायेन अश्वौ अपहृत्य गुरोः हरिगोविन्दवर्यस्य पुरतः प्रत्यक्षः भवति इति पश्यामः । (“केन्द्रीयसंस्कृ...
अध्ययनं ज्ञानसङ्ग्रहाय 06.12.2024 3:56
परीक्षायाम् अधिकान् अङ्कान् प्राप्तवतः सत्काराय कार्यक्रमः आयोजितः आसीत् कस्मिंश्चित् सर्वकारीये विद्यालये । मुख्यातिथिः पारितोषिकं यच्छन् कांश्चन प्रश्नान् पृष्टवान् । किन्तु एकस्यापि प्रश्नस्य उत्तरं दातुम् असमर्थः बालकः कारणे पृष्टे, केवलं कण्ठस्थीकृत्य उत्तरं लिखामि इति उक्तवान् । तत्रैव स्थितः अन्यः बालकः सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत् श्रुत्वा अतिथिः तस्मै स्वयं पारितोषिकं ददाति ।...
इर्ष्यादय: खलु भाराय 05.12.2024 4:17
केवलेन प्रवचनेन कार्यं न सिद्ध्यति । अतः केनचित् निदर्शनेन शिष्यान् दर्शयति कश्चन महात्मा - कथम् ईर्ष्याद्वेषादिकं अन्यान् पीडयति, कथम् ईर्ष्याद्वेषादिकं परित्यक्तं चेत् जीवनं निर्मलं स्वच्छं स्यात्, ईर्ष्याद्वेषादिकं सदा मनसि स्थापयेम तर्हि मनसः अस्वास्थ्यं ततः जीवनस्य दुर्गतिः च कथं भवति इति । किं तत् निदर्शनमिति शृण्मः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध...
कर्तव्यबोधः 04.12.2024 5:02
प्रथमस्वातन्त्र्यसङ्ग्रामस्य प्रमुखस्य नानासाहेबस्य उपस्थितिं सूचितवन्तं प्रति पञ्चाशत्सहस्रं दास्यन्ते इति आङ्ग्लसर्वकारेण घोषितमासीत्। कदाचित् बुभुक्षया पिपासया श्रान्त्या च किञ्चित् गृहम् आगतवन्तं नानसाहेबं, गृहस्वामिनी ससन्तोषेण भोजनं परिवेषितवती । तावता आरक्षाधिकारी तस्याः पतिः गृहं प्रविश्य नानासाहेबं बन्धुं प्रयतते । पतिपत्न्योः मध्ये वादविवादे आरब्धे पतिः लघुभुषुण्डिकां हस्तेन गृह्णाति । प...
गर्वभङ्गः शनिदेवस्य 03.12.2024 3:43
कदाचित् रामनामजपं कुर्वन्तम् आञ्जनेयं शनिदेवः गर्वेण युद्धाय आह्वयते । गुरुपुत्रेण सह अहं युद्धं न करोमि इति युद्धप्रस्तावननिराकुर्वन्तम् आञ्जनेयं शनिः मुष्ट्या प्रहृतवान् । अनन्यगतिकया आञ्जनेयः स्वपुच्छेन शनिं बद्ध्वा शिलानाम् उपरि गर्तेषु च नीतवान् । शनेः देहः क्षतविक्षतः जातः । शनेः प्रार्थनानन्तरं तं मोचयित्वा, तैलमर्दनेन पीडाम् अपनीतवान् आञ्जनेयः । ततः प्रभृति शनिदेवस्य तैलसमर्पणप्रथा आरब्धा...
कर्तव्यपालने विघ्नः 02.12.2024 3:45
महादेवरानडे इति ख्यातः न्यायधीशः आसीत् । सः कोल्हापुरे स्थानान्तरणं प्राप्तवान् यत्र तस्य बहवः बान्धवाः आसन् । कदाचित् तस्य बन्धुः महादेवस्य पितरं यदि न्यायलयस्य व्यावहारः मदनुकूलः भविष्यति तर्हि उपकृतः भविष्यामि इत्यवदत् । महादेवः अवदत् - यदि अस्माकं बान्धवाः न्यायप्रक्रियायां बाधां जनयेयुः तर्हि निष्पक्षतया कर्तव्यपालनं न भवेत् । अपि च कर्तव्यच्युतिकारणात् मनसः अशान्तिः, स्वास्थ्यहानिः च भवेदिति...
श्लोकात् परिवृत्तं जीवनम् 01.12.2024 4:39
काशीराज्ये राज्ञः ब्रह्मदत्तस्य पुत्रः बोधिसत्त्वः यदा जन्म प्राप्तवान् तदा एव दिने काचित् दासी अपि कटाहकनामकाय पुत्राय जन्म दत्तवती । कालक्रमेण कटाहकः पार्श्वराज्यस्थस्य धनिकस्य कन्यया विवाहं कृतवान् । बोधिसत्त्वः कटाहकेन मेलितुं तस्य गृहं गच्छति । कटाहकः स्वपत्नीं बहुधा पीडयति इति ज्ञात्वा बोधिसत्त्वः तस्य पत्नीं उपदिशति "तव पतिः कुपितः चेत् एतं श्लोकम् उच्चैः पठ" इति । कटाहकेन पत्न्यां निन्दित...
देवदर्शनम् 30.11.2024 3:42
कस्मिंश्चित् आश्रमे कश्चन तरुणः छात्रः दश वर्षाणि अधीत्य भगवद्दर्शनार्थम् आशावान् आसीत् । गुरुः तस्य इच्छां ज्ञातवान् । उद्विग्नेन छात्रेण भगवतः दर्शनं कदा इति पृष्टे गुरुः शान्ततया श्वः इति प्रत्युत्तरं ददाति स्म । द्वितीयदिने गुरुं प्रति गतं छात्रं गुरुः उक्तवान् - “यः भगवतः स्वरूपं तथा तस्य तत्त्वं स्पष्टं न जानाति, तस्य भगवतः दर्शनं कथं संभवति? तत् तु ध्यानमार्गेण एव साध्यम्” इति । (“केन्द्रीय...
शोधकार्ये आस्था 29.11.2024 3:35
आयुर्वेदविद्वान् चरकः एकदा गुरुकुले विद्याध्ययनकाले रोगग्रस्तः अभवत् । तदा तस्य गुरुः तस्य रोगं परीक्ष्य कस्यचन दुर्लभस्य औषधीयं सस्यस्य गुणविशेषान् वर्णितवान् । तत् अन्वेष्टुं चरकः वनं प्रविष्टवान् । तेन अनेकानि सस्यानि परिशीलितानि, किन्तु निर्दिष्टं सस्यं न प्राप्तम् । आश्रमं प्रत्यागतं तं गुरुः उक्तवान् – “अस्माकं आश्रमस्य पृष्ठे एव तत् सस्यम् अस्ति ।” ततः निर्मितम् औषधं सेवित्वा रोगात् मुक्तः...
सर्वः सर्वमपि कर्तुं सज्जः स्यात् 28.11.2024 3:28
ईश्वरचन्द्रविद्यासागरः समयपालने अतीव अनुशासितः अन्यस्मादपि तदेव अपेक्षते स्म । सः कस्याश्चित् सभायाः अध्यक्षत्वेन आहूतः सन् समयात् पूर्वमेव स्थानं प्राप्तवान् । सभास्थले आसन्दाः मलिनाः आसन् । स्वच्छताकर्मिणः नासन् इत्यतः सः त्वरया सम्मार्जनीं गृहीत्वा स्वयं स्वच्छताकार्यम् आरब्धवान् । एतद् दृष्ट्वा आयोजकाः लज्जिताः स्वच्छतायां संलग्नाः अभवन् । शीघ्रं सभास्थलं स्वच्छं जातम् । स्वस्य भाषणे, विद्यासा...
अपूर्वा वरदक्षिणा 27.11.2024 3:18
मदनमोहनमालवीयः यदा विश्वविद्यालयनिर्माणाय धनसङ्ग्रहणकार्ये निरतः आसीत् तदा कश्चन धनिकः स्वपुत्र्याः विवाहनिमन्त्रणपत्रं तस्मै दत्तवान् । मालवीयस्य शिष्यः एव तस्य कन्यायाः वरः आसीत् । सः धनिकः विवाहं वैभवपूर्णं कर्तुम् इच्छति स्म । मालवीयः तम् आडम्बरव्ययस्य व्यर्थत्वं सूचितवान्, एवं कृत्वा तदर्थं यत् धनं व्ययीक्रियेत तत् विश्वविद्यालयाय दानरूपेण समर्प्यताम् इति तेन निर्दिष्टम् । धनिकः तस्य अभिप्राय...
भगवतः प्रियः 26.11.2024 3:53
कश्चन परोपकारी सज्जनः केवलं दरिद्राणां दीनानां च सेवायामेव मग्नः भवति स्म । एकदा स्वप्ने देवदूतः तमवदत्- “ये जनाः भक्त्या भगवन्तं प्रार्थयन्ते तेषाम् आवल्यां तव नाम नास्तीति ।" सज्जनः प्रत्यवदत्, "मम भक्तिः सेवारूपेण अस्ति, न तु प्रार्थनारूपेण । अनन्तरं पुनः देवदूतः स्वप्ने समागत्य अवदत् – ये निस्वार्थररूपेण कार्यं कुर्वन्ति तेषामुपरि भगवतः महती प्रीतिः भवतीति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...
शत्रुणापि प्रशंसितः लाचितः 25.11.2024 6:15
असमे चक्रधरसिंहस्य शासने लाचितवराफुकनः सेनापतिः आसीत् । दिल्लीनगरस्थः औरङ्गजेबः असमस्य वशीकरणं लक्ष्यीकृतवान् । लाचितः गुवाहाटीसमीपे दुर्गस्य निर्माणस्य आदेशं दत्तवान् । सः सर्वदा सैनिकान् प्रेरयति स्म । ज्वरपीडितः अपि लाचितः औरङ्गजेबस्य सेनापतिं रामसिंहं पराजितवान् इत्यतः तस्य शौर्यं सर्वे सादरं स्मरन्ति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्...
आशीर्वादः 24.11.2024 3:53
रामकृष्णपरमहंसस्य पत्नी शारदादेवी सर्वजनवत्सला आसीत् । एकदा एका महिला तां द्रष्टुं आगता । सा शारदादेवीं अवदत्, "मम पतिः कश्चित् वैद्यः, सः धनं सम्पादयतु इति आशीर्वादं कुरुतु ।" शारदादेवी विचार्य अवदत्, "अहम् आशीर्वादं कर्तुं न समर्था ।" कारणे पृष्टे शारदादेवी उक्तवती, "धनं प्राप्यते चेत् सुखं न लभ्यते । अनेके जनाः धनवन्तः अपि दुःखिताः सन्ति ।" अन्यच्च "यदि तव पतिः धनं सम्पादयेत्, तर्हि रोगिणां सङ्...
Replaio is geen uitgever van podcasts; namen van shows, covers en audio zijn eigendom van hun makers en worden verspreid via openbare RSS-feeds