सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Bezoek zeker de website van de podcast en steun de maker: sambhashanasandesha.in
Auteur
सम्भाषणसन्देशः
Categorie
Website van de podcast
Nieuwste aflevering
24 okt. 2026
Waar luisteren?
Podcasts in de app Replaio Radio Binnenkort beschikbaarPodcasts komen binnenkort naar de app. Installeer nu en zie als eerste een compleet nieuwe kijk op podcasts
Afleveringen
ऋणप्रत्यर्पणं कष्टाय 12.01.2025 4:53
कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन्मनि एतस्मात् तिलकात् ऋणं स्वीकृतवन्तौ आस्ताम् ।...
वास्तविकाः साधवः 11.01.2025 4:16
कदाचित् ऊर्ध्वपुण्ड्रधारिणः जटाभिः शोभमानाः दशमिताः विरागिसाधवः चिटिकां विना रेल्यानम् आरूढवन्तः । सर्वेSपि साधवः कारागारं प्रति नेयाः इति चिटिकानिरीक्षदलेन आरक्षिणः आदिष्टाः यतः तेषु असाधवः अपि आसन् केचन । आरक्षकनिरीक्षकः सर्वान् साधून् आहूय - 'ये त्रिपुण्ड्रम् अपसारयेयुः, ये कण्ठे धृतां रुद्राक्षमालां भञ्जयेयुः च तान् कारागारतः मोचयिष्यामः' इति वदति । अष्ट साधवः तथैव कृतवन्तः । किन्तु उभौ साधू त...
वस्त्रस्य उपयोगः 10.01.2025 3:20
कदाचित् बुद्धस्य कस्यचन शिष्यस्य वस्त्राणि सर्वथा जीर्णानि जातानि इति कारणतः नूतनवस्त्राणि दाप्यतामिति प्रार्थितवान् । तेन नूतनवस्त्राणि लब्धानि च । नूतनवस्त्रधारिणं शिष्यं कांश्चन प्रश्नान् पृच्छति बुद्धः । यथाक्रमम् उत्तरमपि प्राप्य - 'मम तत्त्वानाम् आन्तर्यं सम्यक् एव गृहीतम् अस्ति भवता' इत्युक्त्वा निर्गच्छति । किं तत् प्रश्नोत्तरम् जिज्ञासया कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...
अल्लावुदीनस्य दीपः 09.01.2025 5:06
कदाचित् कैश्चित् बालकैः अल्लावुदीनस्य दीपः प्राप्तः । ततः निर्गताय अल्लावुदीनाय द्वितीयतृतीयबालकौ स्वस्वकार्याणि कर्तुं आदिष्टवन्तः । अल्लावुदीनेन चतुर्थे बालके पृष्टे - देशस्य कृते कष्टग्रस्तानां कृते च साहाय्यं करोतु इति उत्तरम् आगतम् । प्रथमः बालकः - मम बुद्धेः उपयोगं करोमि । स्वप्रयत्नेन एव कार्याणि करिष्यामि इत्युक्तवान्। तद्श्रुत्वा द्वितीयतृतीयबालाकयोः बुद्धिपरिवर्तनं जातम् । तौ अपि तथैव उक...
आज्ञापालनस्य मर्म 08.01.2025 3:56
ब्रह्मचैतन्यस्य श्रीगोन्दवलेकरमहाराजस्य वचनं कदापि वितथं न भवति इति जनानां विश्वासः आसीत् । एकदा, 'सत्वरं गोन्दवलेग्रामम् आगच्छतम्' इति सन्देशः पुण्यपत्तनस्थौ द्वौ अनुयायिनौ प्रति प्रेषितः । तौ प्रस्थितवन्तौ च । अनन्तरदिने एव 'रैण्डसाहेब' नाम्नः क्रूरकर्मणः आङ्ग्लेयस्य हननं पुण्यपत्तने जातम् । यदि तौ पुण्यपत्तने स्यातां तर्हि ताभ्यां महती विपत्तिः सम्मुखीकरणीया अभविष्यत् इति चिन्तयन्तौ तौ, दूरदर्श...
राममन्दिरस्य अन्वेषणम् 07.01.2025 4:08
आक्रामकेण बाबरेण नाशितस्य राममन्दिरस्य कथा एषा । कश्चन प्रतापी सम्राट् विक्रमादित्यः कदाचित् रामजन्मभूमिम् अन्वेष्टुं सरयूनदीतटस्य समीपे स्थिते घोरे अरण्ये अन्वेषणं कारितवान् । किन्तु, न प्राप्तम् । विषादेन वृक्षस्य अधः उपविष्टवता राज्ञा प्रयागराजः दृष्टः । प्रयागराजस्य कथनानुगुणं यत्र क्षीरं स्रावन्ती धेनुः दृष्टा तत्र भूमेः खननेन एकं मन्दिरं दृष्टिगोचरतां गतम् । तत्रैव यत् भव्यं मन्दिरं निर्मापि...
स्नेहशिल्पम् 06.01.2025 5:57
मित्रयोः मध्ये स्नेहः कथं भवेत् इति अनया कथया ज्ञायते । कदाचित् रामश्यामयोः मध्ये कलहे जाते, रामः श्यामं ताडितवान् । तदा श्यामः सिकतासु लिखितवान् - ‘अद्य मम प्रियवयस्यः मां ताडितवान्' इति । अन्यस्मिन् दिने जले निम्मज्जन्तं श्यामं यदा रामः रक्षितवान्, तदा श्यामः शिलाखण्डेन लिखति - ‘अद्य निमज्जन्तं मां मम प्रियवयस्यः रक्षितवान्' इति । किमर्थम् एकवारं सिकतासु, एकवारं शिलाखण्डेन लिखति इति पृष्टे श्याम...
बलाबलपरीक्षा 05.01.2025 4:40
कदाचित् सिंहः सिंही च वने भ्रमन्तौ वृषभमेकं दृष्टवन्तौ । सिंहः तं हन्तुम् इच्छन्, गर्वेण सिंह्याः पुरतः स्वस्य अङ्गानां प्रशंसनं कृत्वा हठात् आक्रम्य वृषभस्य कण्ठं त्रोटयित्वा तदीयं मांसम् अखादत् । अनतिदूरे शृगाल्या सह स्थितः कश्चन शृगालः प्रवृत्तं सर्वं दृष्ट्वा स्वस्य शौर्यं प्रदर्शयितुम् यदा उद्युक्तः, तदा वृषभः तं पादेन बलात् प्रहृत्य शृङ्गाभ्यां नितराम् अपीडयत् । अतः अनुकरणात् प्राक् अस्माकं...
कर्मफलं कर्तारम् उपैति 04.01.2025 4:33
कर्मफलं कर्तारम् उपैतिकर्ममीमांसायां पारङ्गताः दश पण्डिताः यदा ग्रामान्तरं गन्तुं उद्युक्ताः तदा मार्गमध्ये अशनियुक्ता महावृष्टिः आरब्धा । जन्मान्तरे कृतं पापमेव अशनिवृष्ट्यादिपीडायाः कारणं इति विचिन्त्य - 'एकैकः मण्डपात् बहिः गत्वा तिष्ठेत् । यः महापापी स्यात् तस्य उपरि अशनिः पतत्येव' इति तैः निश्चितम् । नवानां जनानां पर्यायः समाप्तश्चेदपि अशनिपातः न अभवत् । दशमः एव महापापी स्यात् इति विचिन्त्य त...
सङ्गात् सञ्जायते कामः 03.01.2025 4:58
सङ्गः अपि विनाशस्य कारणं भवितुम् अर्हति इति अनया कथया ज्ञायते । आसीत् एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः यः सत्यवचनः परमकारुणिकः च । तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म । गच्छता कालेन तस्य आसुरीप्रवृत्तिः उद्भूता । कथं केनोपायेन च इन्द्रेण एतत् सम्पादितम् इति स्वारस्यकरीं कथां शृण्मः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां...
श्रेष्ठः उपकारः 02.01.2025 5:10
अरिदमननामकस्य कस्यचन राज्ञः पञ्च पत्न्यः आसन् । तासु पञ्चम्यां तस्य अनादरः आसीत्। यतः सा निर्धनकुले जाता इति । कस्मिंश्चित् दिने मरणदण्डनं प्राप्तवान् चोरः एकं दिनं वा सन्तोषम् अनुभूय मरणं प्राप्नोतु इति राज्ञीभिः प्रार्थितम् । तथैव चतस्रः राज्ञ्यः सहस्राधिकं सुवर्णनाणकानि, उत्तमवस्त्राणि, उत्तम्भोजनादिकं चोराय अयच्छन् । किन्तु पञ्चमी राज्ञी सामान्यभोजनं दत्त्वा वदति - 'चौर्यं निन्द्यं कर्म । तत्...
सद्विचारः कार्यः सदा 01.01.2025 4:16
बाल्यादारभ्यः वयं सर्वे विजयनगरसाम्राज्यस्य प्रसिद्धशासकस्य कृष्णदेवरायस्य, तस्य सभायाः सदस्यस्य तेनालिरामस्य च कथां शृण्वन्तः स्म । कदाचित् नगरस्य विहारसमये कञ्चन तक्षकं दृष्ट्वा महाराजस्य मनः खिन्नम् । अपरस्मिन् दिने तमेव तक्षकं दृष्ट्वा महाराजः मुदितः । कथम् एतत् इति पृष्टे तेनालिरामः यत् समाधानं वदति तत् कथां श्रुत्वा जानीयाम । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...
महात्मनां भूमिः एषा 31.12.2024 3:55
अमेरिकीयः धर्मगुरुः रेवरेण्ड् आवरः, पुणेनगरपरिसरे स्थितान् निर्धननिरक्षरान् क्रिस्तमतीयान् अकरोत् ।अनेन हिन्दुधर्मग्रन्थानाम् अध्ययनम् अकृत्वा, वास्तवं स्वरूपम् अनवगत्य सर्वदा हिन्दुधर्मस्य निन्दा कृता । कश्चन पण्डितः वदति यत् - 'आदौ वास्तवस्वरूपम् अवगन्तुं प्रयासः स्यात्, ततः एव अवगुणाः प्रकाशनीयाः' इति । ततः सः हिन्दुधर्मस्य अध्ययनं कृत्वा संस्कृतं मराठीं च अधीत्य बहून् ग्रन्थान् आङ्ग्लभाषया अनू...
विरक्तः महाराजः 31.12.2024 4:59
मिथिलाधिपति: जनकमहाराज: बहुधा व्यापृतः अपि तस्य गुरो: आश्रमम् आगत्य सश्रद्धम् उपदेशं श्रुत्वा अल्पमपि दर्पम् अप्रदर्शयन् यथाशक्ति गुरो: सेवां करोति स्म । अत: तस्मिन् गुरो: प्रीति: अधिका आसीत् । बहवः शिष्या: एतत् न असहन्त । एतत् जानन् ऋषिः, काञ्चन परीक्षां कृत्वा शिष्येभ्यः दर्शयति यत् किमर्थं महाराजे तस्य प्रीतिः अधिका अस्तीति। का सा परीक्षा इति कथां श्रुत्वा जानीमः । (“केन्द्रीयसंस्कृतविश्वविद्य...
सेवा क्षालयति पापम् 31.12.2024 4:24
पूर्वस्मिन् जन्मनि उत्पन्नया प्रतीकारभावनया काचित् गर्भवती नर्तकी अग्रिमजन्मनि राजगृहे हारीतिः नामिका यक्षिणी भूत्वा नगरस्थान् बालान् चोरयित्वा खादनम् आरब्धवती । राजा तस्याः बन्धनं कारयित्वा कारागृहे स्थापितवान् । गौतमबुद्धेन तस्याः पुत्रः अपहरणीयः इति राजभटाः आदिष्टाः । तथा कृते हारीतिः पश्चात्तापं अनुभवन्ती पापात् कथं विमुक्तिः प्राप्तव्या इति प्रार्थितवती । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष...
जीवनसूत्रम् 28.12.2024 3:49
जीवने महान्तम् आघातं प्राप्तः कश्चन जनः, तस्य मित्रं च वाताटस्य उड्डयनं, सूत्रस्य खण्डनं, ततः वाताटस्य पतनं च दृष्टवन्तौ । विषादेन उपविष्टवन्तं मित्रं, सुहृत् जीवनतत्त्वम् उपदिशति - परिवारसंस्कृतादयः सूत्रम् इव व्यवहरन्तः जीवने स्थिरत्वं समतोलनं च ददाति । तस्मात् तेषां खण्डनं कदापि न करणीयम् । एतत् अनवगच्छन्तः वयं परिवारसंस्कृत्यादिकं विस्मृत्य धनैकदृष्ट्यः, उन्नत्यैकदृष्ट्यः सन्तः, अग्रे गच्छामः,...
बालकः चोरः च 27.12.2024 3:11
कश्चित् निर्दयः चोरः कस्मिंश्चित् गृहं प्रविश्य जागरितं बालकं रज्जुभिः बध्नाति । क्षणाभ्यन्तरे बालकः बन्धनात् आत्मानम् अमोचयत् । कीदृशः चोरः भवान् यः दृढं बन्धुम् अपि न शक्नोति, कथं बन्धनं करणीयमिति दर्शयिष्यामि इति वदन् बालकः चोरस्य पादौ हस्तौ ग्रीवां च बध्नाति । ग्रन्थीनां शिथीलीकरणे चोरः न शक्तः । रज्जुभिः बन्धनं कर्मभिः बन्धनमिव । कर्मणां बन्धनेभ्यः अस्माभिः मुक्तैः भवितव्यम् । (“केन्द्रीयसंस...
नाशस्य कारणं व्याक्षेपः 26.12.2024 3:09
चतुरस्य कस्यचित् बालकस्य आलस्यकारणात् धनविद्यादीर्घायुष्यादीनि हस्तच्युतानि जातानि । कथं, कुत्र, किमर्थमिति ज्ञायते अनया कथया । तद्दिनस्य कार्याणि तद्दिने एव करणीयानि । श्वः अग्रे वा करिष्यामि इति चिन्तनमेव अनर्थस्य कारणम् इति अनया कथया ज्ञायते। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A clever person, due to laziness, lost wealth, knowledg...
तत्त्वस्य आचरणम् 25.12.2024 3:50
प्रतिदिनं कस्यचित् महात्मनः प्रवचनं बहुभ्यः वर्षेभ्यः श्रुण्वन् कश्चित् सज्जनः पुत्रेण हठात् मरणे प्राप्ते प्रवचनकाले न दृष्टः । महान्तं विषादम् अनुभवन् सः महात्मा यदा ग्रन्थपरिशीलने मग्नः आसीत्, तदा सः सज्जनः महात्मनः गृहमागतवान् । किमपि अजानन् इव व्यवहरन् महात्मा अनागमस्य कारणं पृच्छति । सज्जनः वदति - 'अतिथेः सम्प्रेषणव्यवस्थायां व्यग्रः आसम्' इति । एतत् श्रुत्वा भावगद्गदः सन् वदति - 'बोधनं सुकर...
अन्तरङ्गसंस्कारः 24.12.2024 3:33
वस्तूनां क्रयणाय नगरं गच्छद्भ्यां धान्यवणिक्-चर्मवणिग्भ्यां मध्येमार्गं श्रमनिवारणाय यः आश्रमः प्रविष्टः तत्रत्यः संन्यासी धान्यवणिजे कुटीरस्य अन्तः, चर्मवणिजे बहिः च भोजनं दत्तवान् । प्रत्यागमनावसरे संन्यासी चर्मवणिजे अन्तः, धान्यवणिजे बहिः च भोजनं परिवेषितवान् । किमर्थम् एतादृशः व्यवहारः इति पृष्टे संन्यासी अवदत् - अन्तरङ्गस्वरूपभेदः एव सत्कारभेदस्य कारणम् । जीवने अन्तरङ्गसंस्कारः एव मुख्यः, न त...
अर्ज्यतां गुणोत्कर्षः 23.12.2024 3:32
कश्चन राजा स्वेन सम्पादितम् अपारम् ऐश्वर्यम् अतिथिभ्यः साभिमानं दर्शयति स्म । तं प्रति आगतवन्तं संन्यासिनं सम्पत्तिं दर्शयितुं यं दीपं राजा गृहीतवान् आसीत्, तं हठात् मुखवायुना संन्यासी निर्वापितवान् । तेन अन्धकारः प्रसृतः । अनन्तरं संन्यासी राजानं अबोधयत् - दीपप्रकाशस्य अभावे तु मौक्तिकादीनां महामूल्यता नास्ति । यथा दीपप्रकाशः तथा भवति आत्मविकासः गुणोकर्षः च । सर्वोपकारकं गुणोत्कर्षम् अर्जयितुं वि...
कार्ये श्रद्धा 22.12.2024 4:33
स्वप्ने आगतायाः देव्याः वचनानुसारं मन्दिरनिर्माणकार्यम् आरब्धवान् कश्चित् धनिकः । देव्याः अनुग्रहेण प्राप्तः कश्चन उत्कृष्टः शिल्पी, श्रद्धया भक्त्या च यत् मूर्तिनिर्माणं कृतवान्, तस्याः मूर्तेः मुखे लघु कलङ्कः जातः इति कारणतः पुनः तेन अन्या मूर्तिः निर्मिता । सूक्ष्मदर्शानात् अपि कोSपि कलङ्कः न दृश्यते, किमर्थं नूतना मूर्तिः निर्मिता इति धनिकेन पृष्टे सति, शिल्पी उदतरत् - मनःसाक्षिविरोधार्थं कार्...
पूज्यः वृक्षः 21.12.2024 5:26
पूर्वं सुमात्राद्वीपे वृद्धः तपस्वी कश्चन गुहायामेव तपः आचरन् ग्रामतः आगतानां कृषिकाणां मार्गदर्शनं करोति स्म । अन्ये असूयपराः तपस्विनः एकदा यदा वृद्धं तपस्विनं मारयितुं प्रयतन्ते, तदा कश्चन महान् सर्पः आकाशात् पतित्वा रक्षति । अपरक्षणॆ प्रसारितफणातः उद्भूताभिः शाखाभिः कश्चन वृक्षः प्रत्यक्षः भवति । पश्चात्तापम् अनुभवन्तः तपस्विनः - अस्मासु कश्चित् भवन्तं पीडयेत् चेत् अस्य वृक्षस्य शाखा खड्गः भूत्...
भक्तिमती श्रुतावती 20.12.2024 4:41
अनुपमसुन्दरी सद्गुणसम्पन्ना विद्यावती च भरद्वाजमहर्षेः पुत्री श्रुतावती, इन्द्रमेव वरितुम् इष्ट्वा तं पूजयति स्म। एकदा इन्द्रः तां परीक्षितुं विशिष्ठवेषेण आगत्य कानिचन बदरफलानि पक्वीकृत्य दीयतामिति उक्तवान्। चुल्ल्यां बहुधा काष्ठानि योजितानि चेदपि बदरफलानि तु पक्वानि न अभवन् । परीक्षार्थमेव इदम् इति विचिन्त्य स्वस्य पादौ चुल्ल्यां स्थापितवती श्रुतावती । ततः इन्द्रः प्रत्यक्षीभूय तां पत्नीत्वेन अङ्...
प्रजासु अविद्यमानासु क्व राजत्वम् 19.12.2024 4:25
विकृतवर्मा नाम कश्चन राजा स्वविषये प्रजामतं ज्ञातुम् इच्छन् वेषान्तरं धृत्वा देशपर्यटनं कृतवान् । तदा सर्वत्रापि तस्य विषये असमाधानम् अस्ति इति तेन ज्ञातम्। तेन कुपितः राजा राज्ये विद्यमानानां सर्वेषां मरणदण्डनं घोषितवान् ।अत्रान्तरे आगतः कश्चन संन्यासी - राज्ये जनेषु सुखेन असत्सु कथं महाराजत्वेन तिष्ठति भवान् इति उपदिशति । ततः स्वदोषं जानन् महाराजः राज्यस्य अभिवृद्ध्यर्थम् अहर्निशं कार्यं करोति ।...
Replaio is geen uitgever van podcasts; namen van shows, covers en audio zijn eigendom van hun makers en worden verspreid via openbare RSS-feeds