सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Husk å besøke podkastens nettsted og støtte skaperen: sambhashanasandesha.in
Forfatter
सम्भाषणसन्देशः
Kategori
Podkastens nettsted
Siste episode
29. nov 2026
Hvor kan du lytte?
Podkaster i appen Replaio Radio Kommer snartPodkaster kommer snart til appen. Installer nå, og bli den første som ser en helt ny tilnærming til podkaster
Episoder
शिवाजेः औदार्यम् 30.09.2025 4:20
बर्हानपुरे दरिद्रः केशवशास्त्री पुत्रस्य चिकित्सार्थं धनम् अपेक्षते इति देवं प्रार्थयमाणः आसीत् । तदा एव देवालयात् बहिः कोलाहलं श्रुत्वा ज्ञातवान् यत् आगरादुर्गात् पलायितः शिवाजिमहाराजः, चत्वारः अनुचराः च सन्ति इति । सः अचिन्तयत् यत् 'एनं विषयं यवनाधिकारिणं सूचयामि । तदा यत् पारितोषिकं लभ्यते तेन मम पुत्रं रक्षामि' इति । एतत् सर्वं गृहजनेभ्यः उक्त्वा यदा गृहतः प्रस्थितः तदा तस्य स्नुषा 'हिन्दूनां...
ज्ञानतो ज्येष्ठत्वम् 29.09.2025 4:04
एकदा अङ्गिरसस्य पुत्रस्य कवेः समीपं तस्य मातुलः पितृव्यः इत्यादयः सर्वे वृद्धाः गत्वा 'भवान् तु अस्माकं पुत्रः इव । अस्माकं वेदाध्ययनं कारयतु' इति अवदन् । ततः कविना वृद्धवर्गाय वेदाध्यापनम् आरब्धम् । कदाचित् पाठनावसरे कविना उक्तम् 'हे पुत्राः! मह्यं जलम् आनयन्तु' इति । तं सम्बोधनं श्रुत्वा खिन्नाः वृद्धजनाः देवनां समीपं गतवन्तः । देवाः अवदन् 'अज्ञानी मनुष्यः बालः एव । वेदज्ञः एव पिता इति शास्त्रं...
त्रयः पाषाणखण्डाः 28.09.2025 7:28
कश्चन पथिकः मरुप्रदेशे सञ्चरन् आसीत् । रात्रौ कश्चित् ध्वनिः श्रुतः 'अत्र पतितान् पाषणखण्डान् चिनोतु । श्वः ते सुवर्णमयाः भवेयुः' इति । किन्तु पथिकस्य विश्वासः न आसीत् । तथापि तेन त्रयः पाषाणखण्डाः स्वीकृताः । अनन्तरदिने त्रयः अपि पाषाणखण्डाः सुवर्णरूपेण परिवृत्ताः आसन् । पथिकः हर्षोत्फुल्लः अभवत् । किन्तु द्वितीयक्षणे 'कुतो मया बहवः पाषाणखण्डाः न चिताः?’ इति चिन्तयन् हतोत्साहः दु:खितश्च अभवत् । त...
अखण्डः विश्वासः 27.09.2025 3:38
कुरुक्षेत्रस्य युद्धे कदाचित् भीष्मः प्रतिज्ञातवान् 'अहं श्वः अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि' इति । तां प्रतिज्ञां श्रुत्वा पाण्डवपक्षे सर्वेऽपि भीताः चिन्तिताः च अभवन् । भगवान् श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् । सः अर्जुनस्य सेनाशिबिरं गतवान् । अर्जुनः तु गाढनिद्रायां मग्नः आसीत् । साश्चर्यं कृष्णः तम् उत्थाप्य प्रतिज्ञायाः विषये चिन्तितः नास्ति वा इति यद...
जीवनपथः 26.09.2025 5:56
कदाचित् कश्चन मनुष्यः बहुभिः दुःखैः पीडितः सन् ईश्वरसमीपं गत्वा उच्चैः आक्रोशम् कृतवान् । तदा ईश्वरः चित्रगुप्तम् आहूय 'भवतः पुस्तकात् एतस्य जीवनपथप्रदर्शकं चित्रं दर्शयतु' इति अवदत् । यत्र यत्र तस्य मनुष्यस्य पदचिह्नानि आसन् तत्र तत्र ईश्वरस्यापि पदचिह्नानि आसन् । कदाचित् यदा सः मनुष्यः दुःखपीडितः सन् चलितुमपि असमर्थः जातः, तदा ईश्वरः स्वस्य स्कन्धयोः तम् आरोप्य चलितवान् इति ज्ञात्वा मनुष्यः भृशं...
महादाता 25.09.2025 4:06
कश्चित् महाराजः धर्मबुद्धिः सुशीलः च आसीत् । तस्य प्रासादे सहस्राधिकाः जनाः भोजनं कृत्वा सन्तृप्त्या गच्छन्ति स्म । कदाचित् तस्य मनसि स्वस्य दानस्य विषये अहङ्कारः जातः । भोजनं कृत्वा आगच्छन्तं प्रत्येकं जनम् अपृच्छत् 'आतृप्ति भोजनं कृतं वा ? अस्य कार्यस्य कृते मां स्मरति वा ?’ इति । सर्वे आम्, स्मरामः इति अवदन् । किन्तु कश्चित् संन्यासी अवदत् 'अहम् इतोSपि महत्तरं दानं कृतवन्तं प्रथमं स्मृत्वा अनन्...
भीमभक्तिः 24.09.2025 6:03
युधिष्ठिरः धनुर्मासे प्रतिदिनं शिवपूजां करोति स्म । 'परेद्युः समाप्तिदिनम् । अतः श्रीकृष्णेन सह भोजनं कर्तुम् इच्छामि' इति यदा युधिष्ठिरः अवदत् तदा सर्वे चिन्ताग्रस्ताः आसन् । अल्पेन समयेन कथं गमनागमनं शक्यम् इति । तदा भीमसेनः आगत्य 'श्वः सूर्योदयात् पूर्वम् अहं कृष्णम् अत्र आनेष्यामि' इति अवदत् । परेद्यवि भीमः स्नानादिकं कृत्वा पाकशालां गत्वा भोजनस्य सिद्धतां अकरोत् । तस्य पुरतः स्थित्वा द्वारकाभ...
गुरुसन्निधिः 23.09.2025 4:29
कदाचित् कश्चन युवकः गृहं त्यक्त्वा अन्यत्र गतवान् । मातापितरौ पुत्रस्य अन्वेषणार्थं सर्वविधान् प्रयत्नान् कृतवन्तौ । दश वर्षाणि अतीतानि । कदाचित् पिता काशीयात्राम् अगच्छत् । तत्र गङ्गातटे कस्यचन साधोः समीपे उपविश्य पठन्तं कञ्चित् तरुणं दृष्ट्वा एषः स्वस्यैव पुत्रः इति निश्चित्य तम् आलङ्गितुं तस्य समीपं धावितवान् । किन्तु पुत्रः तं वारयन् 'क्षणं प्रतीक्षताम्' इति यदा अवदत् तदा क्रुद्धः पिता तं गुरु...
निष्ठा 22.09.2025 4:59
कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः प्रामाणिकः निष्ठावान् च शिन्धेवर्यः नीतः । राजा प्यारिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्धेवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्धेवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शिन्धेवर्यः । तदा प्रतिनिधिः 'निष्ठा...
रोटिकाद्वयम् 21.09.2025 4:07
कदाचित् पुत्रस्य पुस्तकानां निधानिकातः पिपीलिकाः पङ्क्तिशः आगच्छन्ति स्म । पुस्ताकानि निष्कास्य माता तत्र रोटिकाद्वयम् दृष्टवती । विद्यालयतः आगवन्तं पुत्रं माता अपृच्छत् । तदा म्लानमुखः पुत्रः अवदत् 'इतः परं रोटिकानाम् आवश्यकता नास्ति । विद्यालयस्य मार्गे उपविष्टायै वृद्धायै अहं प्रतिदिनं रोटिकाद्वयं ददामि स्म । ह्यः सा न आसीत् इत्यतः निधानिकायां स्थापितवान् आसम् । अद्य ज्ञातवान् यत् सा वृद्धा मृ...
वीरवनिता 20.09.2025 3:57
दुर्गादासः महाराष्ट्रराज्यस्य अप्रतिमशूरेषु अन्यतमः यः मोगलराजानां सिंहस्वप्नायते स्म । मोगलराजाः तं हन्तुं सर्वदा प्रयतन्ते स्म । कदाचित् तीर्थयात्रासमये दुर्गादासः कस्यचित् मराठनायकस्य गृहे उषितवान् । सः मराठनायकः मोगलराजस्य सेवकः आसीत् । दुर्गादासं हत्वा प्रभूतं पारितोषिकं प्राप्यते इति विचिन्त्य स्वपत्नीम् उक्तवान् । परन्तु अतिथिरूपेण आगतं देशभक्तं मारयितुं सा अनिच्छां प्रकटयति । तां नुदित्वा...
अपूर्वः विजयः 19.09.2025 3:07
कदाचित् कश्चन याचकः युधिष्ठरं नमस्कृत्य शतं नाणकानि याचितवान् । 'श्वः दास्यामि' इत्युक्त्वा तं प्रेषितवान् युधिष्ठिरः । एतत् दृष्टवता स्मितहासेन भीमसेनेन विजयघण्टा वादिता । विजयस्य कारणं किम् इति यदा युधिष्ठिरः अपृच्छत् तदा भीमसेनः अवदत् 'श्वः दास्यामि इत्युक्तस्य अर्थः यत् श्वः पर्यन्तं भवान् निश्चयेन जीविष्यति इति । मृत्योः उपरि एव दिनपर्यन्तकः विजयः किं सामान्यः ?’ इति । युधिष्ठिरः भीमेन उक्तस्...
जयदेवस्य औदार्यम् 18.09.2025 6:19
गीतगोविन्दस्य रचयिता जयदेवः सुप्रसिद्धः महाकविः । कदाचित् तीर्थयात्रां कुर्वतः तस्य सम्माननं कृत्वा जनाः तस्मै धनमपि दत्तवन्तः । केचन लुण्ठकाः जयदेवस्य पाणिपादं कर्तयित्वा एकस्मिन् कूपे प्रक्षिप्य धनम् अपहृतवन्तः । तस्मिन् एव मार्गे गच्छता गौडेश्वरेण लक्ष्मणसेनेन मनुष्यस्य ध्वनिः श्रुता । कूपतः जयदेवम् आनाय्य राजधानीं नीतवान् । बहुवारं पृष्टः अपि जयदेवः स्वस्य पाणिपादं कर्तितवतां लुण्ठकानां विषये...
वणिजः कृपणता 17.09.2025 6:34
कस्यचन कृपणस्य वणिजः धनस्यूतः च्युतः जातः । तस्मिन् चतुस्सहस्ररूप्यकाणि आसन् । ग्रामप्रमुखस्य द्वारा घोषणं कारितवान् यत् यः तं धनस्यूतं यच्छति तस्मै चतुश्शतं रूप्यकाणि ददामि इति । कयाचित् वृद्धया सः धनस्यूतः प्राप्तः । ग्रामप्रमुखं गत्वा दत्तवती । कृपणः वणिक् वृद्धायै चतुश्शतं रूप्यकाणि दातुं नेच्छत् । सः अवदत् 'अस्मिन् धनस्यूते चतुश्शताधिकचतुस्सहस्रं रूप्यकाणि आसन् । एषा वृद्धा पूर्वमेव चतुश्शतं...
तृतीयं नेत्रम् 16.09.2025 7:31
सदाचारसम्पन्नः नरहरिः सुवर्णकारः आसीत् । सः शिवेतरदेवानां देवालयं कदापि न गच्छति स्म । कदाचित् धनिकेन कनकदासेन विठ्ठलमन्दिरं निर्माप्य विठ्ठलाय एका सुवर्णमेखला समर्पणीया इति इच्छा प्रकटिता । तदर्थं सुवर्णकारं नरहरिं यदा अपृच्छत् तदा नरहरिः नेत्रयोः उपरि वस्त्रपट्टिकाबन्धनं कृत्वा विठ्ठलस्य कटेः मापनं कर्तुम् अङ्गीकृतवान् । मापनसमये त्रिवारम् अपि शिवस्य मूर्तिः इव प्रतिभासते तस्मै । तृतीयवारं नेत्...
सत्यप्रियता 15.09.2025 4:10
विधानचन्द्रः श्रेष्ठः राजनीतिज्ञः चिकित्सकश्च आसीत् । भारतरत्नबिरुदभाक् सः पश्चिमबङ्गालस्य मुख्यमन्त्री आसीत् । अत्यन्तं बुद्धिमान् सः छात्रदशायां प्रत्येकं परीक्षायामपि प्रथमस्थानं प्राप्नोति स्म । परं च एकदा सः महाविद्यालये परीक्षायाम् अनुत्तीर्णः जातः । तत् कथम् इति जानन्ति वा ? तस्य सत्यप्रियतायाः कारणेन । इयं कथा विधानचन्द्रस्य सत्यप्रियतां कथयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादश...
समयप्रज्ञा 14.09.2025 3:38
कश्चन बुद्धिमान् युवकः दुर्गादासः कदाचित् रात्रौ 'चोरः चोरः' इति चीत्कारं कृतवान् । तदा ग्रामीणाः सर्वविधानि आयुधानि स्वीकृत्य चोरं ग्रहीतुम् आगतवन्तः । किन्तु न्यग्रोधवृक्षस्य पुरतः महान् व्याघ्रः तैः दृष्टः । अनुक्षणमेव सर्वे मिलित्वा लवित्रैः दण्डैश्च तं मारितवन्तः । अनन्तरं जनाः 'किमर्थं चोरः इति उक्तवान् भवान्' इति यदा अपृच्छन् तदा मन्दहासपूर्वकं अवदत् दुर्गादासः 'चोरः इति मत्वा भवन्तः सर्वे...
वास्तविकः ज्ञानी 13.09.2025 5:00
महर्षेः कणादस्य प्रसिद्धिं श्रुत्वा तत्रत्यः राजा तस्य दर्शनलाभं प्राप्तुम् इष्टवान् । सः महर्षिं नमस्कृत्य सेवकानां द्वारा नीतानि वज्रवैडूर्यादिभिः पूर्णानि पात्राणि अयच्छत् । किन्तु महर्षिः उपायनं न स्वीकृतवान् । किमर्थम् इति पृष्टे महर्षिः अवदत् 'महाराज ! जनानां वचनं श्रुत्वा मह्यम् उपायनं दीयते भवता । यदि जनाः मम विषये दुर्वचनानि अवदिष्यन् तर्हि भवान् मह्यं दण्डनम् अदास्यत् । केवलं कर्णाभ्यां...
न फलति भाग्यम् अलसस्य 11.09.2025 5:07
सुमन्तकनामकः कश्चित् अलसः गृहजनैः पुनः पुनः उपदेशे कृते गृहमेव परित्यज्य गतवान् । भिक्षावृत्त्या उदरपोषणं कुर्वन् ग्रामान् नगराणि च अटितवान् । कदाचित् भगवती लक्ष्मीदेवी सुमन्तकं दृष्ट्वा अतीव दयापूर्णा जाता । सा स्वपतिं विष्णुं किमपि साहाय्यं कर्तुम् अवदत् । एषः सर्वथा अलसः इत्यतः तस्य भाग्यं न फलति इति अवदत् विष्णुः । लक्ष्म्याः पुनः पुनः अनुरोधेन सः एकं रत्नैः पूर्णं घटं सुमन्तकस्य मार्गे स्थापि...
अश्रुतपूर्वा कथा 11.09.2025 3:35
कश्चन धूर्तः काणः अधिकं धनं सम्पादयितुम् एकम् उपायं करोति । 'यदि कश्चन अश्रुतपूर्वां कथां वदति तर्हि तस्मै वंशागतं सुवर्णपात्रं ददामि । यदि कथा श्रुतपूर्वा स्यात् तर्हि तेन एव मह्यं पञ्चशतं दीनाराः दातव्याः' इति घोषणं कारितवान् । बहवः जनाः कथाः श्रावितवन्तः । अन्ते श्रुतपूर्वा कथा एषा इति उक्त्वा तेभ्यः पञ्चशतं दीनारान् प्राप्नोति स्म । कदाचित् एकः चतुरः युवकः आगत्य 'भवान् स्मरसि खलु भवतः पित्रा...
दोषः कस्य ? 10.09.2025 4:38
चोरः सञ्जीवः न्यायाधीशं वदति 'यदा चौर्यं करोमि तदा मम माता कदापि मां न तर्जितवती । अतः मात्रे दण्डनं दीयताम्' इति । माता वदति 'पतिः मद्यपानार्थं धनं पृच्छति । अतः पतिं दण्डयतु' इति । पतिः वदति 'पिता मां बाल्यकाले एव त्यक्त्वा कारागृहं गतवान्' इति । पिता वदति 'कञ्चित् सज्जनम् आतङ्कवादिनः मारितवन्तः इति आरक्षकप्रमुखं निवेदितवान् । किन्तु भवान् एव आतङ्कवादी' इति उक्त्वा मां कारागृहं प्रेषितवान् । आरक...
विवेकः 09.09.2025 4:21
कदाचित् विश्वविजयिनः सिकन्दरस्य भूरिधनस्य आवश्यकता आपतिता । तदा सः बन्धिनः उद्दिश्य 'समीपे खनिः अस्ति । यः सहस्रं नाणकानि सम्पाद्य मह्यं समर्पयति, तं दासमुक्तं करोमि' इति उक्तवान् । सर्वे अहर्निशं कार्यम् आरब्धवन्तः । एकः युवकः सहस्रं नाणकानि दत्तवान् इत्यतः भवान् मुक्तः इति यदा सिकन्दरः अवदत् तदा सः युवकः समीपे स्थितं कञ्चित् विकलाङ्गं दर्शयित्वा तस्य मोचनं करोतु इति उक्तवान् । यतः सः युवकः पुनरप...
मूल्यं मनुष्यस्य 08.09.2025 4:29
पुराकाले कलिङ्गराज्यम् अशोकः पालयति स्म । इयं कथा अशोकस्य तस्य मन्त्रिणः च मध्ये प्रचलिता घटना नाम । अनया घटनया अशोकः मन्त्रिणं दर्शयति यत् 'यावत् जीवामः तावदेव मनुष्यस्य मूल्यम् । जीवाभावे मनुष्यशरीरं व्यर्थमेव । अतः यावत् जीवामः तावत् सत्पुरुषाणां महात्मनां च पादकमलयोः शिरःस्थापनेन जीवनस्य धन्यता प्राप्तव्या अस्माभिः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां...
न शाम्यति वैरं वैरेण 07.09.2025 4:51
कदाचित् काशीनगरस्य क्रूरः दुष्टः च महाराजः विजयदत्तः अन्यस्य राज्यस्य गुणवतः प्रजावत्सलस्य राज्ञः धर्मप्रियस्य उपरि आक्रमणं कृतवान् । जयम् अपि प्राप्तवान् । धर्मप्रियः पुत्रम् अर्जनसिंहम् अवदत् 'विजयदत्तस्य विषये मनसि वैरभावं न स्थापयतु' इति । विजयदत्तः धर्मप्रियस्य तस्य पत्न्याः च शिरश्छेदं कारितवान् । गच्छता कालेन अर्जुनसिंहः धर्मप्रियस्य पुत्रः इति अजानन् विजयदत्तस्य अङ्गरक्षकत्वेन नियुक्तः अभव...
शुकस्य कृतज्ञता 06.09.2025 3:28
कदाचित् कश्चन पथिकः पञ्जरे निबद्धं शुकं नीत्वा राज्ञः समीपम् आगतवान् । सः शुकः न केवलं भाषणे समर्थः आसीत् अपि च मुखलक्षणं दृष्ट्वा भाविवृत्तान्तमपि कथयति स्म । सन्तुष्टः राजा शुकम् अपृच्छत् 'यद्यपि भवतः स्वामी पञ्जरस्य बन्धनं सर्वदा न करोति तथापि भवान् किमर्थं बहिः न पलायते?’ इति । तदा शुकः अवदत् 'अहं कृतघ्नः न । मम स्वामी माम् आश्रित्य एव जीवनं करोति । अतः स्वामिनं त्यक्त्वा गन्तुं नेच्छामि' इति...
Replaio er ikke podkastutgiver; programnavn, omslag og lyd tilhører opphavspersonene og distribueres via offentlige RSS-feeder.