सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Husk å besøke podkastens nettsted og støtte skaperen: sambhashanasandesha.in
Forfatter
सम्भाषणसन्देशः
Kategori
Podkastens nettsted
Siste episode
29. nov 2026
Hvor kan du lytte?
Podkaster i appen Replaio Radio Kommer snartPodkaster kommer snart til appen. Installer nå, og bli den første som ser en helt ny tilnærming til podkaster
Episoder
पिच्छधारिताकारणम् 25.10.2025 2:45
कृष्णावतारे कृष्णः सर्वदा स्वशिरसि पिच्छं किमर्थं धृतवान् इति ज्ञायते वा ? कदाचित् वनवासकाले सीता पिपासया बाध्यमाना आसीत् । तदा कश्चित् मयूरः आगत्य ततः अनतिदूरे कश्चन जलाशयः अस्ति इति उक्त्वा रामादयः यथा मार्गं जानीयुः तथा स्वस्य पिच्छं तत्र तत्र पातयन् अग्रे अगच्छत् । पिच्छमार्गम् अनुसरन्तः रामादयः यदा जलाशयं प्राप्तवन्तः तदा तत्र मरणदशां प्राप्तं मयूरं दृष्टवन्तः । स्वस्य प्राणापायम् अपि अविगण्ण...
वृक्षस्य चक्रवर्तित्वम् 24.10.2025 3:22
कदाचित् मार्गे गच्छता गुरुणा कस्यचित् महावृक्षस्य मनोवृत्तिं ज्ञात्वा 'तथास्तु' इति उक्तम् । सा मनोवृत्तिः का इति शिष्येण पृष्टे, गुरुः अवदत् 'चक्रवर्तीं भूत्वा भूमण्डलं परिपालनीयम्' इति । तत् श्रुतवतः शिष्यस्य हासं दृष्ट्वा गुरुः वदति यदि भगवतः सङ्कल्पः स्यात् तर्हि लोके असाध्यं किमपि नास्ति इति । किं तस्य वृक्षस्य मनोवृत्तिः परिपूर्णा भवेत् ? गुरोः आशीर्वादः सफलः किं भवेत् ? सर्वं जानन्तु कथां श...
प्रकाशः अन्धकारं प्रति गच्छेत् 23.10.2025 2:33
कदाचित् कृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् सारथिः दारुकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः दारुकः वदति यत् 'भवता किमर्थं तत्र गम्यते ? सः एव अत्र आनाय्यताम्' इति । तदा कृष्ण...
परिवर्तनम् 22.10.2025 4:30
कस्यचन वृद्धस्य राज्ञः प्रासादे उत्सवः आयोजितः आसीत् । बहवः नृपाः आसन् । कार्यक्रमान्ते नर्तक्याः नृत्यं प्राचलत् । किञ्चित्कालानन्तरं वाद्यवादकः निद्रां प्राप्नुवन् अस्ति इति कारणतः नर्तकी भीत्या तं सावधानं कर्तुम् एकं श्लोकम् अवदत् । वाद्यवादकः तन्द्रां त्यक्त्वा सम्यक् अवादयत् । तस्य श्लोकस्य अर्थं विभिन्नाः जनाः विभिन्नप्रकारेण स्वीकृतवन्तः । नर्तक्याः गुरुः, राजकुमारी, राजकुमारः, वृद्धः राज...
धनं देशसेवायै 21.10.2025 3:46
कस्याञ्चित् कक्ष्यायां प्रवृत्ता घटना एषा । अचार्यः कक्ष्यां प्रविश्य छात्रेभ्यः एकं प्रश्नं पृच्छति 'मार्गे गमनसमये वज्रं दृश्येत तर्हि किं कुर्युः भवन्तः' इति । तदा सर्वे स्वीयम् अभिप्रायं वदन्ति । किन्तु कश्चन बालकः वदति 'वज्रं विक्रीय ततः प्राप्तं धनं देशसेवायै, निर्धनानां साहाय्याय वा व्ययीकरिष्यामि' इति । नितरां सन्तुष्टः आचार्यः देशभक्तत्वेन ख्यातः भव इति अशीर्वादं ददाति । सः एव गोपालकृष्णग...
गाननिपुणः उलूकः गानबन्धुः 20.10.2025 2:51
कदाचित् नारदमहर्षिणा कोपाधिक्यात् लक्ष्मीः शप्ता । तेन कारणेन नारदस्य सङ्गीतज्ञानं विलुप्तं जातम् । ततः नारदः पश्चात्तापम् अनुभवन् विष्णुम् उपसर्प्य कृतस्य दोषस्य परिहारम् अपृच्छत् । तदा विष्णुः 'गानबन्धुनामकस्य दिव्योलूकस्य समीपं गत्वा तस्मात् गानं शिक्षेत' इति अवदत् । अनन्यगतिकया नारदः गानबन्धोः समीपं गत्वा प्रवृत्तं सर्वं निवेद्य तदीयं शिष्यत्वम् अङ्गीकृत्य सङ्गीतं शिक्षयितुं प्रार्थितवान् । तत...
मानसपूजायाः महिमा 19.10.2025 2:40
पूसलारनामा कश्चन निर्धनः शिवभक्तः शिवालयं निर्मातुम् ऐच्छन् स्वस्य असामर्थ्यं स्मृत्वा मनसि एव शङ्करस्य देवालयं रचयितुम् आरब्धवान् । स्वस्य चित्ते एव इष्टिकाः, दारुस्तम्भाः, फलकानि इत्यादीनि सङ्गृह्य शुभदिने देवालयकार्यम् आरभ्य शुभमुहूर्तं चित्वा कुम्भाभिषेकं कर्तुं निश्चितवान् । तस्मिन् एव दिने काञ्चीनगरस्य कश्चन राजा, तेन निर्मितस्य शिवदेवालस्य कुम्भाभिषेकमुहूर्तं निश्चितवान् । किन्तु शिवः राज्ञ...
भाग्ये यत् लिखितं तदेव प्राप्यते 18.10.2025 1:32
कदाचित् श्रीकृष्णलक्ष्म्योः मध्ये सुदाम्नः जीवनावस्थायाः चर्चा भवति । तदा श्रीकृष्णः वदति 'प्रारब्धं नाम किञ्चन तत्त्वम् अस्ति । तत् कस्मै अपि जनाय समयात् पूर्वं भाग्यात् अधिकं न ददाति' इति । तदा तत् अनङ्गीकृत्य लक्ष्मीः भिक्षाटनसमये कस्याश्चित् गृहस्वामिन्याः मनसि सुदामविषये अनुकम्पाम् उत्पादितवती । तस्य परिणामतः सुदामा पायसं प्राप्तवान् । गृहगमनसमये मार्गे सः पादस्खलनात् भूमौ अपतत् । समग्रं पायस...
अन्तरङ्गशुद्धिः 17.10.2025 3:05
वारणास्यां गङ्गाघट्टसमीपे छिन्नपादरक्षासीवनं कुर्वता गङ्गामातुः भक्तेन रूयिदासेन कदाचित् गङ्गास्नानाय गन्तुं समयः न लब्धः । अतः सः नाणकमेकं गङ्गामात्रे समर्पयितुं कस्मैचित् ब्राह्मणाय अयच्छत् । यदा सः ब्राह्मणः गङ्गामात्रे अर्पितवान् तदा गङ्गामाता सुवर्णकङ्कणमेकं रूयिदासाय दीयताम् इति ब्राह्मणस्य हस्ते अधत्त । किन्तु दुराशां प्राप्तवता ब्राह्मणेन तत् कङ्कणं राजगृहं विक्रेतुं नीतम्, । संशयं प्राप्त...
मनः दर्पणः एव 16.10.2025 2:23
कदाचित् श्रीरामः हनुमदादिभिः सह सुवेलपर्वतशिखरं गतः । तत्र दृश्यमानं चन्द्रं दर्शयन् स्वस्य स्वस्य चिन्तनानुगुणं चन्द्रे दृश्यमानायाः कृष्णवर्णतायाः कारणं किं भवितुमर्हति इति अपृच्छत् । राजा सुग्रीवः, अग्रजात् प्रहारं प्राप्य राज्यात् निर्गतः विभीषणः, सिंहासनस्य उत्तराधिकारित्वं प्राप्तुं योग्यतायां सत्याम् अपि युवराजपदमात्रं प्राप्तवान् अङ्गदः, प्रियसहोदरः, सीतावियोगदुःखतप्तः च रामः, रामभक्तः आञ्...
वेदविदः पक्षिणः 15.10.2025 4:58
महाभारतयुद्धस्य अनन्तरम् ऋषिः शमिकः रणरङ्गं गतः । तत्र लघुपक्षिणां कूजनं श्रुतम् । तान् स्वस्य आश्रमं नीत्वा जागरूकतया पोषितवान् । छात्राणाम् अध्यापनसमये पक्षिभिः अपि वेदाः, विविधानि शास्त्राणि च शिक्षितानि । एकस्मिन् दिने पक्षिणां मुखात् वेदमन्त्रान् श्रुत्वा मुन्यादयः महत् आश्चर्यं प्राप्तवन्तः । शमिकः अपृच्छत् यत् कथं ते मनुष्याः इव भाषणे समर्थाः इति । तदा ते पूर्वजन्मनि प्रवृद्धं सर्वम् अवदन्...
बुद्धिर्यस्य फलं तस्य 14.10.2025 3:45
मातुः वचनम् उपेक्ष्य कश्चन अजशावकः अजसमूहात् दूरं गत्वा अरण्यं प्राविशत् । तदा कश्चन महाकायः वृक पुरतः आगतः । कथमपि आत्मरक्षणं करोमि इति विचिन्त्य सः एकम् उपायं करोति । उच्चैः क्रन्दन् अवद्त् 'भ्रातः ! मह्यं जलं ददातु । अहं विषपर्णं खादितवान् अस्मि । मम सर्वम् अङ्गम् इदानीं विषमयं जातम्' इति वदन् निश्चेष्टः सन् अतिष्ठत् । तदा वृकः 'एतस्य मांसं खादित्वा अहमपि मृतः भविष्यामि' इति विचिन्त्य ततः अधावत...
फलं परनिन्दायाः 13.10.2025 5:14
पुरा काशीनगरे कश्चन धर्मात्मा प्रजावत्सलः च राजा आसीत् । कदाचित् मृगयार्थं गच्छतं राजानं कश्चन देवदूतः आकाशात् अवतीर्य 'भवतः कृते स्वर्गलोके सुवर्णप्रासादः सज्जीकृतः अस्ति' इत्युक्त्वा अन्तर्हितः अभवत् । पुनः कदाचित् राजा वने स्थितं कञ्चन तपस्विनं द्रष्टुं गतः । ध्यानमग्नः तपस्वी नेत्रे न उद्घाटितवान् । क्रुद्धः राजा पार्श्वे पतितम् अश्वपुरीषं तपस्विनः शिरसि क्षिप्त्वा ततः निर्गतवान् । एकदा रात्र...
श्रेष्ठतमं कार्यम् 12.10.2025 4:51
पिप्पलः नाम कश्चन संन्यासी तपः आचर्य इन्द्रात् वरं प्राप्य अहङ्कारी जातः । कदाचित् पितामहः ब्रह्मा 'एतस्य अहङ्कारः निवारणीयः' इति विचिन्त्य सारसरूपं धृत्वा पिप्पलस्य समीपम् आगत्य 'भवान् किमर्थम् आत्मानं श्रेष्ठं मन्यते । कुण्डलस्य पुत्रः सुकर्मा यद्यपि तपः न आचरितवान् भवदपेक्षया ज्ञानी अस्ति' इति । आश्चर्यभरितः पिप्पलः सुकर्मणः समीपं गत्वा तस्य ज्ञानस्य रहस्यम् अपृच्छत् । तदा सुकर्मा अवदत् 'अहं च...
अन्नदातुः वृत्तिः 11.10.2025 6:55
एकदा प्रवासं कुर्वता सत्पुरुषेण पिपासानिवारणार्थं मार्गमध्ये विद्यमानं कुटीरस्वामिनं जलं याचितम् । जलं पीत्वा अप्रसन्नमनस्कः सन् ततः यावत् गन्तुम् उद्युक्तः तदा 'किञ्चित् क्षीरं पीत्वा गच्छतु' इति स्वमी उक्तवान् । पुनः पुनः अनुरोधेन सत्पुरुषः चमसपरिमितमेव क्षीरं पीतवान् । अस्वस्थमनस्कः सः अवदत् यत् 'एषा धेनुः भवता चोरिता अस्ति । भवता दत्तं क्षीरं पीत्वा 'भवतः धेनुः चोरयितव्या' इति विचारः मम मनसि आ...
मन्त्रिणः युक्तिः 10.10.2025 4:15
पुरा कस्यचन महाराजस्य राज्यशासने अनासक्तिः आसीत् । गच्छता कालेन राज्यस्य दुःस्थितिः आगता । माहाराजस्य मन्त्रिषु अन्यतमः कश्चन मन्त्री कथमपि महाराजः बोधनीयः इति निश्चयम् अकरोत् । एकस्मिन् सायङ्काले वायुविहारसमये मन्त्री पक्षिणः कलरवं श्रद्धया कर्णौ दत्त्वा श्रोतुम् आरब्धवान् । यदा महाराजः अपृच्छत् तदा मन्त्री 'अहं पक्षिणः भाषां जानामि' इत्युक्त्वा तस्य मनसि यत् राज्ञे बोधनीयम् इति आसीत् तत् सर्वं प...
मातृऋणम् 09.10.2025 3:12
सुप्रसिद्धः राजा देवव्रतः कदाचित् स्वमातरं पद्मावतीम् अवदत् 'पितुः आज्ञानुसारेण राज्यस्य उत्तरदायित्वं निर्वहन् अस्मि । गुरुणा प्रदत्तायाः शिक्षायाः सदुपयोगं कृतवान् अस्मि । अतः अहं भूमेः, गुरोः, पितुः, मातुः च ऋणात् मुक्तः अस्मि' इति । पुत्रस्य एतादृशीं वार्तां श्रुत्वा पद्मावती अहसत् । अनन्तरं सा एकेनैव उदाहरणेन दर्शयति यत् कथं मातुः ऋणात् मुक्तः भवितुं न अर्हति इति । ततः सः मातुः क्षमां प्रार्...
स्वतन्त्रतायाः महत्त्वम् 08.10.2025 4:23
कदाचित् कश्चन बालकः चिन्मयः सुमधुरं कूजन्तं पक्षिशावकं गृहीत्वा पञ्जरे स्थापितवान् । चिन्मयः आदिनं शावकं किमपि खादयितुं प्रयतमानः आसीत् किन्तु शावाकः किमपि अस्पृष्ट्वा मातरं स्मरन् व्याकुलतया क्रन्दनं कुर्वन् आसीत् । अनन्तरदिने प्रातः एकः पक्षी एतं शावकं किमपि खादयन् आसीत् । तद् दृष्ट्वा यदा चिन्मयः पञ्जरसमीपं गतः तावता शावकः मृतः आसीत् । अनन्तरं केनचित् पक्षितज्ञेन ज्ञातं 'यदि कश्चन पक्षी दुर्दैव...
यद्यदाचरति श्रेष्ठः 07.10.2025 4:52
'यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः' इत्यस्य वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कदाचित् स्काट्लेण्डदेशस्य एडिम्बरानगरस्य दण्डाधिकारी जार्ज् ड्रुमण्डः, वायुविहारसमये काञ्चन शवयात्राम् अपश्यत् । किन्तु पेटिकां परितः चतुरः जनान् विहाय अन्ये केऽपि न आसन् । कारणं तस्य दरिद्रस्य बान्धवाः, स्नेहिताः च न आसन् । अतः ड्रुमण्डः 'दरिद्राणां सेवां करोमि' इति विचिन्त्य तैः सह प्रस्थितवान् । ड्रुमण...
अपरिवर्तनीयः विधिनियमः 06.10.2025 5:53
कदाचित् सर्वे देवताः स्ववाहनेन कैलासम् आगताः । गोष्ठी च आरब्धा । अत्रान्तरे बहिः महिषारूढः यमधर्मराजः पुरतः वृक्षस्य उपरि उपविष्टं कपोतं तीक्ष्णदृष्ट्या दृष्ट्वा अन्तः गतवान् । गरुडः एतत् सर्वं दृष्ट्वा कथञ्चिदपि एषः कपोतः यमधर्मराजतः रक्षणीयः इति विचिन्त्य कपोतं गृहीत्वा रामेश्वरक्षेत्रम् आनीय वटवृक्षस्य उपरि उपवेश्य वेगेन कैलासं प्रत्यागतवान् । सभातः निष्क्रामन् यमराजः रामेश्वरक्षेत्रे कपोतस्...
वीरतारापोरः 05.10.2025 3:10
१९६५ तमे वर्षे भारतपाकिस्थानयोः मध्ये युद्धं प्रचलत् अस्ति । लेफ्टिनेण्ट तारापोरः अस्य सेनानीः आसीत् । केषाञ्चन दिनानामनन्तरं फिल्लोरनगरस्य समीपे स्थितानि शत्रुयानानि नाशितानि । पाकिस्थानस्य एका क्षिपणिः तारापोरस्य युद्धवाहनस्य विध्वंसम् अकरोत् । तारापोरः व्रणितः जातः चेदपि चिकित्साम् उपेक्ष्य अग्रे गत्वा वीरावेशेन युद्धं कृतवान् । अन्यथा गतिः नास्ति इति शत्रवः पलायनं कृतवन्तः । (“केन्द्रीयसंस्कृ...
चक्रवत् परिवर्तन्ते दुःखानि च सुःखानि च 04.10.2025 6:11
यदा वणिजः माधवस्य सुदिनानि समाप्तानि दुर्दिनानि सन्निहितानि तदा सः आर्तस्वरेण देवं प्रार्थितवान् । तदा देवः ब्राह्मणवेषं धृत्वा 'स्वस्य दुःखमेव अधिकम् इति कदापि अस्माभिः चिन्तनं न करणीयम् । अन्येषाम् इतोऽप्यधिकानि दुःखानि भवन्ति एव' इति केनचित् निर्दर्शनेन बोधितवान् । ततः सः धैर्येण एव कष्टानि सोढवान् । अन्ते च सुखं प्राप्तवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां क...
न्यायस्य महिमा 03.10.2025 5:51
ग्रीक्-देशस्य स्पार्टानगरे एकं देवीमन्दिरम् आसीत् । देव्याः विग्रहे एकः खड्गः लम्बमानः असीत् । सः खड्गः न्यायनिर्णये सहकरोति स्म । विवादः उत्पन्ने वादिनः विवादिनः च मन्दिरं गत्वा खड्गस्य अधः हस्तं स्थापयन्ति । तदा खड्गः स्वयमेव अधः पतति येन यः अन्याय्यं कृतवान् भवति तस्य हस्तः कर्तितः भवति । अल्विनः नाम कश्चन कृषकः काञ्चित् विधवामहिलां न्यासरूपेण स्थापितानां सुवर्णनाणकानां विषये वञ्चयति । न्याय्या...
बुद्धिमान् शशः 02.10.2025 4:48
कदाचित् आहारान्वेषणं कुर्वता शृगालेन एकः शशः दृष्टः । शृगालस्य आगमनं दृष्ट्वा शशः 'कथमपि एतं वञ्चयित्वा आत्मानं संरक्षामि' इति अचिन्तयत् । यदा शृगालः समीपम् आगतवान् तदा शशः 'अन्यः एकः विशिष्टः शृगालः एकस्यां गुहायां वसति । सः शृगालं विना अन्यं प्राणिनं न खादति एव' इति अवदत् । तत् श्रुत्वा तं द्रष्टुं गुहां प्रति प्रस्थितवन्तौ । शशः सिंहस्य गुहायाम् अन्तः शृगालं प्रेषितवान् । अनन्तरं किं जातम् इति...
मध्वपतिः 01.10.2025 4:51
कर्णाटकसङ्गीतक्षेत्रे पुरन्दरदासः अतीव प्रसिद्धः । कदाचित् तेन दिनचतुष्टयं नगरान्तरं गन्तव्यम् आपतितम् । अतः तस्य चतुर्थं पुत्रं लघुबालं मध्वपतिं मारुतेः पूजाकार्यं करोतु इत्युक्तवान् । परेद्यवि नैवेद्यविधेः अनन्तरमपि मारुतिः नैवेद्यं न कृतवान् इत्यतः भक्त्या नैवेद्यं स्वीकर्तुं प्रार्थितवान् । मध्वपतेः हठं दृष्ट्वा मारुतिः मुखम् उद्घाटितवान् । मध्वपतिः स्वल्पं स्वल्पं नैवेद्यं मुखे क्षिप्तवान् ।...
Replaio er ikke podkastutgiver; programnavn, omslag og lyd tilhører opphavspersonene og distribueres via offentlige RSS-feeder.