सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Besuch unbedingt die Website des Podcasts und unterstütze die Macher: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategorie
Podcast-Website
Neueste Folge
17. Okt 2026
Wo hören?
Podcasts in der App Replaio Radio Bald verfügbarPodcasts kommen bald in die App. Installiere sie jetzt und erlebe als Erster einen ganz neuen Blick auf Podcasts
Folgen
चिकित्सा बधिरतायाः 21.12.2025 4:10
कदाचित् जन्मना बधिरः कश्चन आचार्यः स्वस्य बधिरतायाः औषधार्थं शान्तिशिवनामकं स्वभावमूढं शिष्यम् आहूय 'वैद्यसमीपं गत्वा मम बधिरत्वस्य औषधम् आनयतु' इति अवदत् । शान्तिशिवः यदा वैद्यस्य गृहं प्राप्तवान् तदा विलम्बेन आगतं पुत्रं दृष्ट्वा क्रुद्धः वैद्यः हस्तपादं रज्ज्वा बद्ध्वा स्तम्भे बन्धनं कृत्वा दण्डेन ताडनम् आरब्धवान् । सर्वं दृष्ट्वा शान्तिशिवः आचार्यम् अपि रज्ज्वा बद्ध्वा ताडनम् आरब्धवान् । द्रष्...
ज्ञानेन नम्रभावः 20.12.2025 3:05
कदाचित् इन्द्रः अन्येषाम् अपेक्षया मया सहस्राधिकानि पुस्तकानि पठितानि इति गर्वितः जातः । तद्दिनादारभ्य सः कमपि न परिगणयति स्म । इन्द्रस्य गर्वं दूरीकर्तुं भगवान् नारायणः नारदं स्वर्गलोकं प्रति प्रेषितवान् । नारदमहर्षेः स्वागतं कृतम् इन्द्रेण । तयोः सम्भाषणावसरे तालग्रन्थानां राशिः उद्भूतः तत्र । 'किमिदम्?’ इति इन्द्रेण पृष्टे नारदः अवदत् 'एतानि भवता पठितानि पुस्तकानि' इति । ततः क्षणाभ्यन्तरे मेरुप...
नृपस्य न्यायः 19.12.2025 4:01
कश्चन दयावान् न्यायप्रियः राजा तस्य पत्नी च स्वप्रजाजनान् पुत्रान् इव प्रीत्या पालयतः । नृपस्य प्रासादसमीपस्थस्य आम्रवृक्षस्य फलानि अत्यन्तं मधुराणि रसपूर्णानि च भवन्ति स्म । एकदा राज्ञ्याः दासी नृपं स्वमात्रे एकं फलम् अयाचत । तस्य फलस्य खादनेन अतीव सन्तुष्टा सा वृद्धा 'सः वृक्षः मम उद्याने भवतु' इति विचिन्त्य द्वौ मल्लौ तथैव आज्ञापितवती । रात्रौ वृक्षकर्तनसमये सैनिकाः तयोः बन्धनं कृतवन्तः । सैनिक...
विचित्रवाञ्छा 18.12.2025 2:01
कस्मिंश्चित् उत्सवे साम्प्रदायिकरीत्या भोजनालये भूमौ पङ्क्तिरूपेण कदलीदलानि स्थापितानि आसन् । भोजनम् आरब्धम् । भोज्यपदार्थानां भागत्वेन बीजोपेतपक्वाम्रफलनिर्मितः कश्चन पदार्थविशेषः आसीत् । कश्चित् भक्ष्यलोलुपः आम्रफलं हस्तेन सम्पीड्य तस्य रसं यदा आस्वादयन् आसीत् तदा आम्रफलस्य बीजं तस्य हस्तात् स्खलितं सत् पार्श्वे उपविष्टस्य दले न्यपतत् । यदा भक्ष्यलोलुपस्य मुखं म्लानं जातं तदा पार्श्वस्थः अवदत् य...
श्रीरामस्य महिमा 17.12.2025 3:55
श्रीरामः वनवासगमनात् पूर्वम् अयोध्यावासिभ्यः भूरिदानं कर्तुम् ऐच्छत् । दानविषये श्रुतवती त्रिजटनामकस्य निर्धनब्राह्मणस्य पत्नी श्रीरामं दानं याचतु इति पतये सानुरोधम् उक्तवती । झटिति त्रिजटः गत्वा यदा दानम् अयाचत तदा श्रीरामः विहस्य तस्मै एकं दण्डं दत्त्वा 'दण्डं बलात् क्षिपतु । यत्र पतिष्यति तावतपर्यन्तायां भूम्यां स्थिताः गावः भवदीयाः भविष्यन्ति' इति । कृशशरीरः दुर्बलः च त्रिजटः अचिन्तयत् यत् दण्...
चन्द्रक्षयः 16.12.2025 3:00
भगवान् चन्द्रः अतीव मनोहरः इति कारणेन दक्षप्रजापतिः स्वस्य सप्तविंशतिं पुत्रीः चन्द्रेण सह परिणायितवान् । पत्नीषु अन्यतमायां रोहिण्यां चन्द्रस्य गाढा प्रीतिः अस्ति इति कारणतः अन्याः स्वपितुः समीपं गत्वा चन्द्रः अस्मान् उपेक्षते इति अवदन् । पुत्रीणां विषये चन्द्रेण क्रियमाणम् अन्यायपूर्वकं व्यवहारं दृष्ट्वा 'भवान् क्षयरोगग्रस्तः सन् क्षीयताम्' इति शप्तवान् कुपितः दक्षः । क्षयरोगेण पीड्यमानं पतिं दृ...
साक्षी गोपालः 15.12.2025 3:47
तीर्थयात्रासमये कश्चन धनिकः वृद्धः कस्यचन निर्धनस्य युवकस्य सेवातः सन्तुष्टः भूत्वा स्वकन्यां तुभ्यं ददामि इति वृन्दावने गोपालस्य पुरतः अवदत् । गृहगमनानतरं एतत् प्रस्तावं वृद्धस्य पुत्रः निराकरोत् । अतः यदा तरुणः विवाहविषये अपृच्छत् तदा वृद्धः 'अहं किमपि न स्मरामि' इति अवदत् । वृद्धस्य पुत्रः दोषारोपणं यदा अकरोत् तदा तरुणः अवदत् यत् भवतः पिता गोपालस्य पुरतः एव प्रतिज्ञा कृता इति । 'तर्हि गोपालः ए...
दृढः विश्वासः 14.12.2025 2:13
मिथिलायाम् ईश्वरस्य गङ्गामातुः च आराधकः विद्यापतिनामकः कश्चन कविः । स्वस्य अन्तिमकालः सन्निहितः इति तेन ज्ञातम् । गङ्गायाम् एव देहत्यागः भवतु इति तस्य प्रार्थना आसीत् इत्यतः चत्वारः तं दोलायां संस्थाप्य 'सिमारिया घट्टं' प्रति प्रस्थितवन्तः । इतोऽपि किलोमीटर् -त्रयम् अतिक्रान्तव्यमिति विद्यापतिना ज्ञातम् । किन्तु अन्तिमकालः सन्निहितः इति ज्ञात्वा तत्रैव अवतारयन्तु इति उक्तम् तेन । सः दोलातः अवतीर्...
सिद्धिः चिन्तनानुरिणी 13.12.2025 2:56
काचन लोकोक्तिः श्रूयते -’सिद्धिः सदा अस्माकं चिन्तनम् अवलम्बते' इति । कदाचित् अनावृष्ट्या सरोवरस्थानां जलचराणां मरणम् आरब्धम् । तत्रत्याः भीताः त्रयः मण्डूकाः अन्यत् जलस्थानम् अन्विष्यतः अग्रे अचलन् । किन्तु तैः कुत्रापि जलस्रोतः न प्राप्तम् । अग्रे कश्चन कूपः दृष्टः । प्रथमः वदति अत्र अवतरामः इति । द्वितीयः वदति अन्धकारकारणतः कूपे जलम् अस्ति वा न वा इति न ज्ञायते इति । अतः पूर्वतनं सरोवरं प्रति ग...
प्रजाहितचिन्तकः देवापिः 12.12.2025 3:30
पूर्वं कश्चन प्रतीपनामा राजा आसीत् यस्य देवापिः, शन्तनुः, बाह्लीकः चेति त्रयः पुत्राः आसन् । ज्येष्ठः देवापिः श्वेतकुष्ठरोगग्रस्तः इति कारणतः प्रतीपे दिवङ्गते द्वितीयः पुत्रः शन्तनुः सिंहासनम् आरूढवान् । शन्तनुः यद्यपि धर्मेण एव राज्यं पालितवान् तथापि द्वादशवर्षाणि यावत् वृष्टिः एव न जाता । कारणम् आसीत् यत् ज्येष्ठपुत्रे सति अनन्तरजः सिंहासनम् आरूढवान् यत् तत् धर्मलोपाय । इदम् एव क्षामस्य कारणम् इ...
बीजभूतं सम्भाषणम् 11.12.2025 3:41
डा. राजेन्द्रप्रसादस्य गान्धिवर्यस्य च एकदा मेलनं जातम् । गान्धिविषये विशेषाभिमानः आसीत् राजेन्द्रप्रसादस्य । चम्पारणीयकृषिकाणां विषये शुल्कं विना न्यायालये वादं कृत्वा राजेन्द्रप्रसादः तेषां पक्षे समुचितं कार्यं करोति इति गान्धिना ज्ञातम् । सम्भषणसमये 'समग्रे देशे जनाः दुराचारविषयतां गताः सन्ति । तेषां विषये कः सङ्घर्षं कुर्यात् ....’ इति राजेन्द्रप्रसादः अवदत् । तदा क्षणं विचिन्त्य गान्धिः 'अह...
आसन्दस्य न्यायनिर्णयः 10.12.2025 2:41
रोमहर्षनामा कश्चन वणिक् विदेशगमनात् पूर्वं स्वधनं रक्षितुं मित्रं लोभनाथं याचितवान् । दीर्घकालानन्तरं रोमहर्षः प्रत्यागत्य स्वधनं प्रत्यर्पितुम् अवदत् किन्तु धनं बहोः कालात् पूर्वमेव प्रत्यर्पितवान् इति असत्यम् अवदत् लोभनाथः । ततः ताभ्यां न्यायालयं प्रति गतम् । तत्र कस्यचन आसन्दस्य दक्षिणभागे प्रतिनिबद्धः तीक्ष्णः खड्गः अपराधिनः सत्यतायाः परीक्षां कृत्वा असत्यवादिनः हस्तं कर्तयति । आसन्दे रोमहर्...
शक्तिशाली कः? 09.12.2025 3:06
कश्चन पिता पुत्रस्य अध्ययनाय उत्तमं प्रयासं कृतवान् । पुत्रः अपि उत्तमम् अध्ययनं कृत्वा उद्योगे सफलः अभवत् । विवाहः अपि सम्पन्नः । सः संस्थायाः प्रमुखः अपि अभवत् । कदाचित् पिता कार्यालयं गत्वा पुत्रं दृष्ट्वा सन्तुष्टः अभवत्, प्रश्नम् अपृच्छत् 'एतस्मिन् प्रपञ्चे शक्तिशाली जनः कः?'। पुत्रः स्वम् एव शक्तिशालिनम् अवदत्, यत् श्रुत्वा पितुः मुखं म्लानं जातम् । कारणं पिता एव शक्तिशाली इति वदेत् पुत्रः इ...
अभ्यर्थिनः परीक्षा 08.12.2025 2:26
कस्मिंश्चित् गुरुकुले शिक्षकस्य आवश्यकता आसीत् । तदर्थं त्रयः अभ्यर्थिनः उपस्थिताः । आचार्यः जवनिकायाः पृष्ठतः स्थित्वा प्रश्नं कृतवान् "ज्ञानं प्रमुखम् उत छात्रप्रीतिः?" प्रथमः ज्ञानस्य प्राधान्यम् उक्तवान्, द्वितीयः उभयोः महत्त्वम् अङ्गीकृतवान् । तृतीयः छात्रप्रीतिः प्रमुखा इति मत्वा, ज्ञानं प्रयत्नेन अपि वर्धयितुं शक्यम् इति अवदत् । गुरुणा पुनः प्रश्नः कृतः "किमर्थं जवनिकायाः पृष्ठतः स्थित्वा म...
कर्मयोगिनी अहल्याबाई 07.12.2025 3:48
कदाचित् मालवादेशस्य नृपतिः सुबेदारः मल्हाररावहोलकरः, पट्टमहिषी गौतमबायी, तनयः खण्डेरावहोलकरः च 'चौण्डि' नामके ग्रामे प्रवासरतः आसन् । तदा कस्यचन देवालयस्य कलशस्थापनार्थं राज्ञी समाहूता । यदा पूजाकार्याणि आरब्धानि तदा सहसा तत्र जलोद्भवः अभवत् । यदा राज्ञी अर्चकैः सूचिते गर्ते पवित्रां शिलां स्थापयितुम् ऐच्छत् तदा कस्याश्चित् बालिकायाः ध्वनिः श्रुतः 'स्थग्यतां महाराज्ञि ! ग्रामे कुत्रापि पेयजलस्य स्...
पितुः विषये श्रद्धा 06.12.2025 2:33
कश्चन महाधनिकः कस्यचन रत्नविक्रेतुः आपणं गत्वा अधिकमूल्ययुक्तानि रत्नानि दर्शयितुम् उक्तवान् । रत्नविक्रेता दर्शितवान् । इतोSपि अमूल्यानि रत्नानि दर्शयताम् इति पृष्टे विक्रेता अवदत् यत् अन्यस्मात् प्रकोष्ठात् आनयामि इति । यदा अन्यस्मिन् प्रकोष्ठे विक्रेता प्रविष्टः, सुप्तः पिता दृष्टः तेन । सुप्तः पिता यावत् न जागृयाद् तावत् कवाटोद्घाटनं कर्तुं न शक्यम् इति कारणतः सः रिक्तहस्ततया प्रत्यागतः । तथै...
दानसंस्कारः 05.12.2025 2:16
कदाचित् कश्चन महात्मा कस्यचन निर्धनगृहस्य पुरतः स्थित्वा भिक्षां याचितवान् । तदा तस्मिन् गृहे काचित् बालिका अवदत् 'गृहे दानयोग्यं किमपि नास्ति' इति । महात्मा अवदत् 'दानक्रिया एव मुख्या । मूल्यं वस्तुनि नास्ति, भावे एव अस्ति । गृहस्य पुरतः स्थितां धूलिमपि दातुं शक्यते' इति । बालिका श्रद्धया धूलिं गृहीत्वा महात्मनः पात्रे न्यवेशयत् । एतत् दृष्ट्वा शिष्यः पृष्टवान् यत् धूलिदानेन किं प्रयोजनम् अस्ति इ...
आहारसेवनक्रमः पशूनाम् इव स्यात् 04.12.2025 4:25
कश्चन महात्मा आश्रमम् आगतान् भक्तान् स्वागतीकृत्य भोजनाय निमन्त्रितवान् । भोजनसमये सः महात्मा अवदत् 'मानवस्य आहारसेवनक्रमः पशूनामिव स्यात् । पशवः केवलं बुभुक्षायां सत्याम् एव खादन्ति । भगवता विहितम् आहारम् एव सेवन्ते । मानवः तु बुभुक्षायाम् अजातायाम् अपि खादति, विवाहादौ मितम् अतिक्रम्य भोजनं करोति, स्वस्य आरोग्यं नाशयति । स्वास्थ्यरक्षणं मानवाधीनम् अस्ति, किन्तु तत्र आदरः न दृश्यते । व्यायामेन च...
सादृश्यरहिततया 03.12.2025 3:01
कदाचित् कश्चन धनिकः कस्यचन उत्कृष्टकलाकारस्य समीपं गत्वा स्वस्य चित्रं लेखयितुम् प्रार्थितवान् । चित्रकारेण चित्रं लिखितं, किन्तु धनिकः सादृश्यरहितताम् आरोप्य चित्रं न क्रीतवान् । चित्रकारेण द्वितीयम् उत्कृष्टं चित्रम् अपि लिखितम् । तदपि चित्रं धनिकः निराकृतवान् दोषान् प्रदर्श्य । खिन्नः चित्रकारः मित्रेण सह विचार्य धनिकस्य गृहं गत्वा अवदत् 'यतो हि चित्रद्वये अपि भवतः सादृश्यं नास्ति, बहवः दोषाः स...
सूक्ष्मांशज्ञानम् 02.12.2025 2:59
राज्यस्य उत्तराधिकारिणं प्राप्तुं योग्यतापरीक्षार्थं कश्चन राजा तस्य पुत्रं कस्यचन महात्मनः समीपं प्रेषयति । समग्रं दिनम् अरण्ये उषित्वा राजकुमारः अनुभवम् अकथयत् - 'गजानां घीङ्कार श्रुतः, महावृक्षस्य पतनं दृष्टं, मेघघर्जनं श्रुतं, तडितः दृष्टाः च' इति । अग्रिमवर्षे आगच्छ इति महात्मा वदति । अनन्तरवर्षे राजकुमारः वदति 'मूषकं गिलन् सर्पः दृष्टः, मूषकस्य चीत्कारः दृष्टः, चिक्रोडस्य चिंव्कारः श्रुतः' इ...
वासुदेवस्य भक्तिः 01.12.2025 3:24
एषा कथा पञ्चदशे अथवा षोडशे शतके घटिता, यत्र श्रीकृष्णचैतन्यनामकः कश्चन मेधावी न्यायशास्त्रविद् भागवतभक्तः वैष्णवाचार्यः अभवत् । सः चैतन्यमहाप्रभुः इत्यपि प्रसिद्धः । तस्मिन्काले वासुदेवनामकः कश्चन कृष्णभक्तः कुष्ठरोगेण पीडितः आसीत् । एकदा चैतन्यमहाप्रभुः दक्षिणभारतयात्रां कुर्वन् कूर्मनामकस्य ब्राह्मणस्य गृहे वासं कृतवान् । श्रुतवार्तः वासुदेवः परिश्रमेण तत्र आगतः, किन्तु महाप्रभुः तावता ततः निर्ग...
संविभज्य सेवनीयम् 30.11.2025 3:10
काचित् माता पनसफलं कर्तयित्वा फलदलानि पञ्च द्रोणेषु स्थापयति । तस्याः पुत्रः अचिन्तयत् यत् माता मह्यम् एकं द्रोणं ददाति इति । किन्तु एकं द्रोणं भगवते समर्प्य आगच्छ इति वदति माता । अवशिष्टेषु द्रोणत्रयं ज्येष्ठपितृव्यायै कनिष्ठपितृव्यायै प्रतिवेशिन्यै वृद्धायै च दत्त्वा आगच्छ इति वदति । म्लानमुखः बालकः यदा प्रत्यागच्छति तदा अन्तिमद्रोणतः एकं फलदलं पुत्राय ददाति । यदा पुत्रः वदति 'अल्पमेव मह्यं दत्...
मनुष्येषु विभिन्नता 29.11.2025 2:38
मनुष्येषु विभिन्नता भवत्येव । केषुचित् दोषरूपाणि छिद्राणि भवन्ति । तेषां छिद्राणां द्वारा दुष्प्रवृत्तयः तान् प्रविशन्ति । ततः तेषां पतनं भवति । ये दोषरहिताः स्युः, येषु दुष्प्रवृत्तीनां प्रवेशाय अवसरः न स्यात्, ते कामपि हानिम् अप्राप्नुवन्तः उत्तमं जीवनं यापयन्ति । एकैकस्यापि जनस्य आन्तरस्वरूपं विभिन्नं भवति इत्यतः तत्तस्य जीवनम् अपि विभिन्नं भवति । उन्नतिः अधोगतिः च तत्तस्य स्वरूपस्य अनुगुणं भ...
आचारानुगुणं फलम् 28.11.2025 3:41
कदाचित् वङ्गप्रदेशात् कालिचरणनामकः कश्चन भगवद्भक्तः चम्पानगर्यां स्थितं विष्णुदेवालयम् आगतः । महत्याः वृष्ट्याः उपशान्तेः अनन्तरं सः भक्त्या कर्दमपूर्णे मार्गे नृत्यं कुर्वन् अग्रे अगच्छत् । तदवसरे तस्य पादक्षेपेण उत्थितः कर्दमः कस्याश्चित् महिलायाः शाटिकां पतितः इति कारणेन तस्याः पतिः क्रोधेन दुर्वचनानि वदन् कालिचरणं प्रहृतवान् । कालिचरणः कारणम् अवगत्य दुःखितः भूत्वा धर्मशालां प्रति प्रस्थितः । स...
उज्ज्वलः भाषाभिमानः 27.11.2025 4:26
कदाचित् डा.रघुवीरः प्रवासावरे एकस्मिन् फ्रेञ्च्-जनस्य गृहे अतिथित्वेन वासम् अकरोत् । तदवसरे भारतात् आगतम् आङ्ग्लभाषया लिखितं पत्रं दृष्ट्वा गृहस्वामिनः पुत्री पृच्छति 'किमर्थं आङ्ग्लभाषया व्यवह्रियते ? स्वीया लिपिः भाषा वा नास्ति वा?’ इति । एतां घटनां ज्ञातवत्या बालिकायाः मात्रा उक्तम् - 'देशाभिमानः भाषाभिमानः च यस्य न स्यात् तं बर्बरं भावयामः वयम् । इतः परं भवान् अन्यस्मिन् गृहे अतिथित्वेन वासं...
Replaio ist kein Herausgeber von Podcasts; die Namen der Sendungen, Cover und Audioinhalte gehören ihren Autoren und werden über öffentliche RSS-Feeds verbreitet