सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Besuch unbedingt die Website des Podcasts und unterstütze die Macher: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategorie
Podcast-Website
Neueste Folge
17. Okt 2026
Wo hören?
Podcasts in der App Replaio Radio Bald verfügbarPodcasts kommen bald in die App. Installiere sie jetzt und erlebe als Erster einen ganz neuen Blick auf Podcasts
Folgen
रोदनस्य कारणम् 15.01.2026 3:28
गुरोः विरजानन्दस्य उटजस्य स्वच्छता दयानन्दस्य दायित्वम् आसीत् । एकदा यदा दयानन्दः उटजं सम्मार्जयन् अवकरान् द्वारसमीपे राशीकृतवान् आसीत् तदा कश्चित् तम् आहूतवान् इति कारणतः अवकरान् अक्षिप्त्वा एव ततः निर्गतवान् । तावता तत्र आगतवतः क्षीणदृष्टिशक्तेः विरजानन्दस्य अवकरस्पर्शतः महान् कोपः जातः । सः दयानन्दम् आनाय्य दण्डेन निरन्तरं ताडितवान् । यदा दयानन्दः उच्चैः रोदनं कृतवान् तदा त्यक्तकोपः सन् गुरुः '...
दरिद्रतायाः भ्रान्तिः 14.01.2026 4:42
कदाचित् कश्चन दरिद्रः अब्राहंलिङ्कन्-महोदयस्य समीपम् आगत्य 'किमपि ददातु' इति अपृच्छत् । तदा लिङ्कनवर्यः 'भवतः हस्तद्वयं मह्यं ददातु । अहं लक्षडालर्-परिमितं धनं दास्यामि' इति उक्तवान् । 'मम अमूल्यहस्तौ भवते दत्त्वा अहं किं करिष्यामि?’ इति अवदत् दरिद्रः । ततः पादद्वयं, नेत्रद्वयं ददातु इति यदा लिङ्कनवर्यः अवदत् तदा कोपेन दरिद्रः 'अहं अत्यमूल्यानि अङ्गानि कदापि न ददामि' इति अवदत् । अन्ते लिङ्कवर्यः व...
वृक्षादपि न हीनोsहम् 13.01.2026 6:10
आसीत् पुरा रणजितसिंहनामकः कश्चन प्रजानुरक्तः राजा यः न्यायेन धर्मेण च राज्यं परिपालयति स्म । कदाचित् वनविहारार्थं गच्छतः राज्ञः ललाटे कुतश्चित् कश्चन शिलाखण्डः पतितः । तस्य कारणान्वेषणे कृते ज्ञातं यत् काचित् वृद्धा बुभुक्षिताय पुत्राय वृक्षे विद्यमानं बहुबीजफलं प्राप्तुम् एकं शिलाखण्डम् अक्षिपत् । दौर्भाग्यवशात् सः शिलाखण्डः राज्ञः ललाटे पतितः । जडः वृक्षः अपि पाषाणघातं प्राप्य फलं ददाति, सचेतनः...
सत्यनिष्ठा 12.01.2026 2:23
श्रीमतः गोपालकृष्णगोखलेवर्यस्य बाल्ये प्रवृता घटना एषा । कदाचित् शिक्षकः कांश्चन प्रश्नान् दत्तवान् । यद्यपि सर्वे छात्राः प्रश्नानाम् उत्तराणि अलिखन् तथापि गोखलेवर्यस्य एव सर्वेषां प्रश्नानाम् उत्तराणि उत्तमरीत्या अलिखत् । एतेन सन्तुष्टः शिक्षकः भूरि प्रशंसां कृत्वा तस्मै पुरस्कारं दातुं यदा उद्युक्तः तदा रोदनम् आरब्धं गोखलवर्येण । 'किमर्थं रोदिति ?’ इति शिक्षकेण पृष्टे अवदत् गोखलेवर्यः 'एतेषु उत...
श्रीदेव्याः कौशलम् 11.01.2026 4:40
केरले पूर्वं कश्चन नम्पूतरिः दरिद्रः चेदपि अतिथिसत्कारप्रियः । सः प्रतिदिनं कमपि जनं भोजनार्थम् आह्वयति स्म । किन्तु पत्न्यै श्रीदेव्यै पत्युः एषः स्वभावः दारिद्र्यकारणात् न रोचते स्म । एकस्मिन् दिने यदा नम्पूतरिः त्रिभिः अथितिभिः साकं गृहम् आगच्छत् तदा पत्युः एतादृशस्य शीलस्य अन्त्यं कर्तुम् ऐच्छत् श्रीदेवी । पतिः स्नानार्थम् अगच्छत् अतिथयः च बुभुक्षिताः सन्तः उपविष्टवन्तः आसन् । पाकशालायां मुसलं...
क्षुल्लकम् अपि न त्याज्यम् 10.01.2026 3:44
कदाचित् गान्धिवर्यः स्वस्य आश्रमे कस्मिंश्चित् कार्ये व्यस्तः आसीत् । तस्य लेखन्याः मषी समाप्तप्राया जाता । अन्येद्युः सः लेखनार्थम् आगत्य यदा उपाविशत् तदा सा लेखनी तत्र न असीत् । सहोद्योगिनं यदा अपृच्छत् तदा सः अवदत् यत् यतः सा लेखनी अतिप्राचीना जाता अतः तां बहिः अक्षिपम् इति । तत्क्षणे एव गान्धिवर्यः अतीवक्रुद्धः जातः । आश्रमे सर्वे अपि लेखन्याः अन्वेषणम् आरब्धवन्तः । अन्ते आश्रमस्य पुरतः केदारख...
वृषभयोः स्पर्धा 09.01.2026 3:49
सरयूनद्याः उत्तरभागः गङ्गोली इति नाम्ना ख्यातः । दक्षिणभागश्च कुमू इति नाम्ना प्रसिद्धः । गङ्गोलीक्षेत्रवासिनः अतीव चतुराः कुमूक्षेत्रस्य जनाः सरलाः विनीताश्च भवन्ति । कदाचित् सरयूनद्याः तटे द्वयोः क्षेत्रयोः वृषभौ सम्मिलितौ । परिचयानन्तरं तयोः स्पर्धा प्रवृता यत् कः वृषभः सरयूनद्याः जलम् अधिकं पातुं समर्थः इति । कुमूक्षेत्रस्य वृषभस्तु जलं पीत्वा पीत्वा किञ्चित्कालानन्तरम् अचेतनत्वं गतः । गङ्गोल...
यानपेटिका पाचकश्च 08.01.2026 4:39
बेङ्गलूरुनगरे कस्मिंश्चित् पञ्चतारापेते उपहारमन्दिरे केनचन युवकपाचकेन अनुजायाः विवाहनिमित्तं उपहारमन्दिरस्य स्वामिने दशसहस्ररूप्यकाणि ऋणरूपेण प्रार्थितानि। किन्तु तस्य प्रार्थना निराशतायां पर्यवसिता । कदाचित् सुखासने त्यक्ता यानपेटिका दृष्टा युवकेन । ताम् उपहारमन्दिरस्य स्वामिनः समीपे अनयत् । सप्ताहः अतीतः चेदपि पेटिकायाः विचारणार्थं कोऽपि न आगतः इत्यतः स्वामी यानपेटिकातः दशसहस्ररूप्यकाणि निष्कास्...
पितृभक्तिः 07.01.2026 3:11
१८५७ तमे वर्षे कोलकाताविश्वविद्यालयतः बि.ए परीक्षायाम् अधिकान् अङ्कान् प्राप्तवन्तं बङ्किमचन्द्रवर्यं तदानीन्तनः राज्यपालः हालेण्ड्-वर्यः स्वगृहम् आहूतवान् । ततः 'भवान् अद्य आरभ्य उपदण्डाधिकारिरूपेण कार्यारम्भं करोतु' इति बङ्किमचन्द्रम् उक्तवान् । परन्तु बङ्किमचन्द्रः राज्यपालाय धन्यवादान् समर्प्य अवद्त् 'उद्योगस्वीकारविषये मया मम पिता प्रष्टव्यः । तस्य विचारानुसारम् एव निर्णयं करिष्यामि' इति । पु...
धनं तु तव पार्श्वे अस्ति 06.01.2026 6:59
कदाचित् मोहननामकः कश्चित् यदा धनार्जनं कृत्वा स्वग्रामं प्रति आगच्छन् आसीत् तदा कश्चन वञ्चकः तम् अनुसृतवान् । रात्रौ कस्यांचन धर्मशालायांं भोजनं कृत्वा शयनम् अकुरुताम् । मध्यरात्रे वञ्चकः मोहनस्य पोटलीवस्त्रम् उद्घाट्य ज्ञातवान् यत् तत्र धनं नास्ति इति । एवमेव अग्रिमदिने अन्यस्यां धर्मशालायाम् अपि वञ्चकेन मोहनस्य धनं न प्राप्तम् । एतस्य समीपे धनमेव नास्ति इति मत्वा यदा वञ्चकः अन्यस्मिन् मार्गे गमन...
भगवद्दर्शनम् 05.01.2026 11:37
महाविद्यालयस्य कश्चन अध्यापकः देवदत्तः ईश्वरदर्शनं कर्तुं वाञ्च्छन् कस्यचन साधोः समीपं गच्छति । साधुः देवदत्तस्य सहनाशक्तेः परीक्षां करोति । यतः सहनां विना किमपि सिद्ध्यति न लोके । अन्ते महात्मना 'भगवान् बहिः कुत्रापि नास्ति । स तु निर्धनानां रुग्णानां पीडितानां च हृदये निवसति.....’ इत्यादि वचनैः देवदत्तः बोधितः । तस्मात् क्षणात् देवदत्ते विवेकः समुद्भूतः। सर्वां सम्पत्तिं निर्धनेषु वितीर्य रुग्णा...
प्रसादात्तु प्रसन्नता 04.01.2026 4:27
कस्यचन धनिकस्य गृहे विवाहप्रसङ्गे कश्चन लघुः बालकः रोदिति स्म । रोदनं कुर्वतः बालस्कय कर्मकरी माता पात्राणि प्रक्षालन्ती आसीत् । केचन आगत्य तस्य समाधानं कर्तुं प्रायतन्त । किन्तु तस्य बालकस्य रोदनं न समाप्तम् । तदनन्तरं तस्य माता आगत्य पुत्रम् उन्नीय तस्य केशेषु हस्तं प्रसार्य 'हुलुलुलु' इति उक्तवती येन सः शीघ्रमेव प्रसन्नः जातः । तदा तत्र स्तिथः कश्चन यदा 'हुलुलुलु' इत्यस्य अर्थम् अपृच्छत् तदा तय...
सत्यं चैव परं वदेत् 03.01.2026 2:19
कदाचित् राजसभायां मरणदण्डं प्राप्तवता बन्धिना राजा अवाच्यशब्दैः निन्दितः । तस्य वचनानि अनवगच्छन् राजा पार्श्वस्थान् अपृच्छत् 'किं वदन्नस्ति सः?’ इति । कश्चन चतुरः मन्त्री अवदत् 'स्वस्य आक्रोशम् असमाधनञ्च निगृह्य अन्येषां दोषं यः क्षामयति स एव श्रेष्ठः' इति । राज्ञि करुणा उत्पन्ना । मरणदण्डनम् अपाकृतवान् च । अपरः मन्त्री अवदत् 'राज्ञः सन्निधौ असत्यं न वक्तव्यम् । सः बन्धी अवाच्यैः शब्दैः अनिन्दत्...
अन्तर्भागे क्रियाशक्तिः 02.01.2026 5:11
कदाचित् किञ्चन विशालम् उद्यानं वातगोलकविक्रेता आगच्छत् । विविधवर्णीयानि चित्रयुतानि अनिलगोलकानि बालकाः क्रीत्वा, उड्डीयमानानि तानि दृष्ट्वा हसन्ति नृत्यन्ति च । तत्रत्याः बालकाः, वृद्धा, विक्रेता इत्यादयः सर्वे जनाः श्वेतवर्णीयाः एव । तस्मिन्नेव उद्याने कश्चन कृष्णवर्णीयः सप्तवर्षीयः निग्रोबालकः दूरतः एव वातगोलकानि पश्यति । अमेरिकादेशे गौरवर्णीयाः निग्रोजनानाम् अवलेहनां कुर्वन्ति स्म । सः विक्रेतु...
याचकः नृपः 01.01.2026 3:18
कदाचित् आखेटाय गतवता चन्दनपुरस्य दयावता राज्ञा उसमानेन किञ्चिदपि न लब्धम् । पिपासया व्याकुलेन तेन कुत्रापि जलं न प्राप्तम् । सः भूमौ पतितः । कश्चन कृषिकः राजानं गृहम् आनाय्य जलभोजनादिकम् अयच्छत् । कृषकस्य सेवातः सन्तुष्टः राजा तस्मै किमपि दातुम् ऐच्छत् । यदि किमपि आवश्यकं भविष्यति तर्हि भवतः प्रासादम् आगमिष्यामि इति उक्तवान् कृषकः । अग्रे कदाचित् राजा हस्तौ उपरि गगनदिशि प्रसार्य 'कुरान' नामकस्य धर...
सहसा विदधीत न क्रियताम् 31.12.2025 2:22
कदाचित् किञ्चन यात्रिकदलं मरुस्थलम् अतिक्रामत् आसीत् । तस्मिन् मरुस्थले जलं, भोजनादिकं किमपि न असीत् तस्य दलस्य सदस्यानां निकटे । एकस्मिन् स्थले ते बहूनि फलानि धारयतः वृक्षान् दृष्ट्वा सर्वे अपि वृक्षं प्रति अधावन् । तदा दलनायकः तान् निरुद्ध्य तानि फलानि उपयोगयोग्यानि वा न वा इति परीक्षां कृतवान् । तदा तैः ज्ञातं यत् तानि फलानि विषयुक्तानि इति । एवंप्रकारेण दलनायकस्य योग्यताकारणतः दलस्य रक्षणम् अभ...
अनुकम्पः 30.12.2025 2:02
कदाचित् लुण्ठाकाः कञ्चित् बौद्धभिक्षुम् आक्रम्य दण्डेन विध्यन्तः कर्णम् आकर्षन्तः विचित्रं मनोरञ्जनं प्राप्नुवन्ति स्म । तद् दृष्टवतः भिक्षोः नेत्रे अश्रुधारापूर्णे जाते । रोदनशीलं भिक्षुं दृष्ट्वा ते उपहासं कृतवन्तः । तदा भिक्षुः अवदत् 'अहं भवतः निमित्तीकृत्य रोदिमि । आरोग्यवन्तः बुद्धिमन्तः अस्य देशस्य निर्मातारः भवन्तः । तत्कार्यं विहाय ईदृशेषु दुष्कार्येषु मग्नाः सन्तः जीवनं व्यर्थं कुर्वन्तः...
यथा चिन्तनं तथा फलम् 29.12.2025 4:56
कस्यचन वृद्धस्य एकः पुत्रः अलसः अपरः च श्रमजीवी असीत् । मरणात् पूर्वमेव गृहक्षेत्रादीनां विभागं कृत्वा पुत्रौ आहूय यथाशक्ति बोधितवान् - छायायां चैव गन्तव्यम् आगन्तव्यमं तथैव च । मिष्टान्नं भक्षयेन्नित्यं ततो लक्ष्मीकृपा भवेत् ।। पित्रा बोधिता नीतिः एका एव । उभौ अपि पुत्रौ स्वमत्यनुगुणं तस्य अर्थम् अवगत्य तदनुगुणम् एव फलं प्राप्तवन्तौ । यः उत्तमं जीवनं करोति सः उत्तममेव फलं प्राप्नोति । (“केन्द्रीय...
अनपेक्षिता सेवा 28.12.2025 7:50
चीनादेशस्य कैसाकनामकस्य श्रेष्ठचर्मकारस्य एकमात्रपुत्रः चुवाङ्गः कुलवृत्तिम् उपेक्ष्य स्वच्छन्दं मित्रैः सह अटति स्म । तेनैव मनोरोगेण पीडितः सन् अल्पेषु एव दिनेषु कैसाकः दिवं गतः । स्वेच्छाचारी चुवाङ्गः कैसाकस्य अर्जितं सर्वं धनं व्ययीकृतवान् । कदाचित् राजा तम् आनाय्य 'राज्ञीवासजनेभ्यः सुन्दरीः पादरक्षाः सीवयित्वा ददातु' इति अवदत् । पितृवाक्यस्य उपेक्षा या कृता तदर्थं पश्चात्तापम् अनुभवन् अञ्जलिं...
सङ्घे शक्तिः कलौ युगे 27.12.2025 7:24
कदाचित् निर्धनः देवदत्तः धनार्जनाय पत्नीपुत्रैः सह वनं गत्वा एकस्य वृक्षस्य अधः उपविश्य रज्जुनिर्माणम् आरब्धवान् । पत्नी पुत्रौ च विविधानां वृक्षाणां त्वचः सङ्गृह्य आनीतवन्तः। स्वकार्ये दत्तचित्तान् जनान् दृष्ट्वा तस्मात् वृक्षात् एकः यक्षः प्रत्यक्षीभूय अपृच्छत् 'भवन्तः अत्र किं कुर्वन्ति?’ इति । यद्यपि देवदत्तः भीतः तथापि धैर्येण अवदत् 'भवतः पादबन्धनार्थं रज्जुनिर्माणं कुर्वन्तः स्मः' इति । भीतः...
अतिलोभः विनाशाय भवति 26.12.2025 4:59
भगवान् बुद्धः पूर्वस्मिन् जन्मनि बोधिसत्त्वनामकः क्रीडनकविक्रेता आसीत् । अन्यः अपि विक्रेता आसीत् यः स्वभावेन दुष्टः वञ्चकः च । कदाचित् दुष्टः क्रीडनकविक्रेता एकस्य गृहस्य पुरतः आगतः तदा काचित् बाला 'क्रीडनकं दापयतु' इति वृद्धाम् अपृच्छत् । वृद्धा एकां पुरातनीं स्थालिकाम् आनीय स्थालिकायाः विनिमयेन एकं क्रीडनकं यच्छ इति क्रीडनकविक्रेतारम् अयाचत । 'तुच्छम् अपि क्रीडनकं न प्राप्यते अनेन स्थालिकाविनि...
सद्भक्तः अम्बरीषः 25.12.2025 5:05
कदाचित् महान्-विष्णुभक्तः राजा अम्बरीषः साधनद्वादशीव्रतम् आरब्धवान् । इन्द्रः तस्य व्रतस्य भङ्गार्थं महातपस्विनं दूर्वासमुनिं नियोजितवान् । सप्तसहस्रेण शिष्यैः सह आगतस्य मुनिवरस्य विशेषसत्कारं कृतवान् अम्बरीषः । दूर्वासमुनिः शिष्यैः सह आह्निकादिकं कर्तुं नदीं गत्वा सोद्देशम् एव शीघ्रं न आगतः । द्वादश्याः सूर्योदयसमयः आसन्नः आसीत् । व्रतभङ्गः न भवेदिति कारणतः अम्बरीषः देवाय नैवेद्यम् अर्पयित्वा स्व...
सहकारस्य महिमा 24.12.2025 6:37
कदाचित् प्रसीदः प्रजापतिः सहभोजम् आयोजितवान् यत्र देवाः दानवाः चा निमन्त्रिताः । परस्परं कलहादिकं कुर्युः इति भीत्या तेषां पृथक्-पृथक् भोजनव्यवस्था कृता । प्रासादस्य प्रवेशद्वारे आगन्तुकानां द्वावपि हस्तौ एकैकेन काष्ठपट्टकेन हस्तं वस्त्ररज्जुभिः च बद्धवा तेषां तेषां भोजनस्थलस्य मार्गं दर्शितवन्तः । प्रथमं दानवभोजनकक्षं गतवान् प्रजापतिः । स्वमुखे ग्रासम् अर्पयितुम् असमर्थाः दानवाः तारस्वरेण प्रजापत...
शापिता पुष्पिकाराज्ञी 23.12.2025 5:23
कस्मिंश्चित् वनप्रदेशे पुष्पिकाणां राज्ञी अतीव लावण्यवती अपि रूपगर्विता, व्यवहारेण सा अतिक्रूरा च आसीत् । मायया सा अप्सरसः रूपं धृत्वा मृगयार्थं वनप्रदेशम् आगतान् राजकुमारान् विलोभ्य तान् अङ्गुष्ठमात्राकारेण कृत्वा स्वर्णपञ्जरे स्थापयति स्म । तान् विविधान् नृत्यप्रकारान् अध्यापयति स्म । यदि नृत्यं न कुर्वन्ति तर्हि स्वर्णसूचिकया विद्ध्वा पीडयति स्म । अथ कदाचित् वनप्रदेशम् आगतायाः वनदेवतायाः दृष्टि...
चोरः पेटिका च 22.12.2025 4:48
कदाचित् कश्चन चोरः राजभटेभ्यः आत्मानं रक्षितुं किञ्चित् गृहं प्रविष्टवान् । स्वेन नीतां ग्रन्थिं मञ्चस्य उपरि संस्थाप्य, आत्मानं कम्बलेन आच्छाद्य तत्र शयितेन जनेन सहैव शयितवान् । तौ द्वौ अपि राजभटैः महाराजस्य समीपं नीतौ । द्वौ अपि 'अहं चोरः न' इति अवदताम् । महाराजः महान् प्राज्ञः न्यायप्रियश्च । अस्यां समस्यां परिहारः कथं करोति ? केनोपायेन दोषिणं गृह्णाति ? एतां स्वारस्यकारिणीं कथां श्रुत्वा जानन्...
Replaio ist kein Herausgeber von Podcasts; die Namen der Sendungen, Cover und Audioinhalte gehören ihren Autoren und werden über öffentliche RSS-Feeds verbreitet