Kumar Vembu
Nārāyaṇīyaṃ - Learn to Chant
हरि ओम् || Hari Om This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ. Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas Reciting Narayaneeyam is said to have many benefits, including: Divine fervor : It is said to create divine fervor. Peace, happiness, and prosperity : It is said to bring peace, happiness, and prosperity to those who recite it. Health and longevity : It is said to be a tonic for longevity, health, and happiness. Relief from ph...
Kde poslouchat?
Podcasty v aplikaci Replaio Radio Už brzyPodcasty míří do aplikace už brzy. Nainstaluj si ji teď a jako první uvidíš úplně nový pohled na podcasty
Epizody
Dasakam 096 - Sloka 02 10.12.2024 7:29
ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित् प्रपञ्चे ॥२॥ ब्रह्मण्यानां बलि:-त्वं of the ones devoted to the holy, Thou are Bali क्रतुषु च जप-यज्ञ:-असि and among sacrifices, are Japayoga वीरेषु पार्थ: among heroes are Arjun भक...
Dasakam 096 - Sloka 01 10.12.2024 7:18
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । प्रह्लादो दानवानां पशुषु च सुरभि: पक्षिणां वैनतेयो नागानामस्यनन्तस्सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥१॥ त्वं हि ब्रह्म- Thou alone are Brahmaa एव साक्षात् परम्- indeed perceptible Supreme उरु-महिमन् O Thou of Infinite Glory! अक्षराणाम्-अकार: among letters (Thou are) 'A' तार: मन्त्रेषु O...
Dasakam 095 - Sloka 010 10.12.2024 7:27
इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता: दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे । त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं त्वामेवानन्दपूर्णं पवनपुरपते पाहि मां सर्वतापात् ॥१०॥ इत्थं त्वत् in this manner, in Thy ध्यान-योगे सति पुन:- meditation having mastered, again अणिमा-आदि- Animaa etc., अष्ट-संसिद्धय:-ता: the eight bodied Sidhdhis, they दूर-श्रुति-आदय:-अपि from f...
Dasakam 095 - Sloka 09 10.12.2024 7:06
सर्वाङ्गेष्वङ्ग रङ्गत्कुतुकमिति मुहुर्धारयन्नीश चित्तं तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे तत्रालीनं तु चेत: परमसुखचिदद्वैतरूपे वितन्व- न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥९॥ सर्व-अङ्गेषु-अङ्ग on all Thy limbs, O Beloved! रङ्गत्-कुतुकम्-इति with growing eagerness, thus मुहु:-धारयन्-ईश चित्तं again and again concentrating, O Lord! My mind तत्र-अपि-एकत्र युञ्जे there also...
Dasakam 095 - Sloka 08 10.12.2024 6:44
आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास- स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं चारुस्निग्धोरुमम्भोरुहललितपदं भावयेऽहं भवन्तम् ॥८॥ आनील-श्लक्ष्ण-केशं blue and lustrous hair ज्वलित-मकर-सत्कुण्डलं shining fish shaped beautiful earrings मन्द-हास-स्यन्द-आर्द्रं gentle smile with compassion flowing कौस्तुभ-श्री-परिगत- the lustrous beau...
Dasakam 095 - Sloka 07 10.12.2024 7:50
ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- न्यस्ताक्ष: पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम्। ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिन: संविचिन्त्योपरिष्टात् तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥७॥ ध्यानं ते शीलयेयं meditation on Thee (I) will practice सम-तनु-सुख-बद्ध-आसन: with body erect and sitting in sukhaasana नासिका-अग्र-न्यस्त-आक्ष: on the nose tip gazing eyes पूरक-आद्यै:-जित-पव...
Dasakam 095 - Sloka 06 10.12.2024 7:36
चित्तार्द्रीभावमुच्चैर्वपुषि च पुलकं हर्षवाष्पं च हित्वा चित्तं शुद्ध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्ते: । त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाऽभ्यस्तया तर्ककोट्या॥६॥ चित्त-आर्द्री-भावम्- the mind's melting in love उच्चै:-वपुषि च पुलकं standing on end on the body, the hair हर्ष-वाष्पं च हित्वा and joyous tears flooding, without these चित्तं...
Dasakam 095 - Sloka 05 10.12.2024 7:46
त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो- र्भक्त्यैवाक्रम्यमाणै: पुनरपि खलु तैर्दुर्बलैर्नाभिजय्य: । सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मद: क्वेन्द्रियाणाम् ॥५॥ त्वत्-भक्त: and Thy devotee बाध्यमान:-अपि च ensnared, though विषय-रसै:-इन्द्रिय- by sense pleasures, (because of) the senses अशान्ति-हेतो:- not in control because of भक्...
Dasakam 095 - Sloka 04 10.12.2024 6:59
त्वत्भक्त्या तुष्टबुद्धे: सुखमिह चरतो विच्युताशस्य चाशा: सर्वा: स्यु: सौख्यमय्य: सलिलकुहरगस्येव तोयैकमय्य: । सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या: नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीह: ॥४॥ त्वत्-भक्त्या तुष्ट-बुद्धे: in Thy devotion (whose) satisfied is the mind सुखम्-इह चरत: happily in this world moving about विच्युत-आशस्य whose all desires have dropped च-आशा: सर्वा:...
Dasakam 095 - Sloka 03 10.12.2024 7:22
सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानन्दाश्च सान्ता बहुविधगतय: कृष्ण तेभ्यो भवेयु: । त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानन्दतुल्य: खलु विषयजुषां सम्मद: केन वा स्यात् ॥३॥ सन्ति श्रेयांसि भूयांसि-अपि there are for welfare many (paths) also रुचि-भिदया कर्मिणां suited to taste of people निर्मितानि क्षुद्र-आनन्दा:- and are created trivial joy g...
Dasakam 095 - Sloka 02 10.12.2024 7:11
सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् भूयोऽप्येषु प्रवृत्तिस्सतमसि रजसि प्रोद्धते दुर्निवारा । चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं तुर्ये त्वय्येकभक्तिश्शरणमिति भवान् हंसरूपी न्यगादीत् ॥२॥ सत्त्व-उन्मेषात् when Sattva upsurges (predominates) कदाचित् खलु sometimes indeed विषय-रसे in sense enjoyments दोष-बोधे-अपि harmfulness is realised even भूमन् O Infinite Being!...
Dasakam 095 - Sloka 01 10.12.2024 9:00
आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने । तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥१॥ आदौ हैरण्यगर्भीं तनुम्- in the beginning as Hiranyagarbha form अविकल-जीवात्मिकाम्- undivided (collective) state of all jivas आस्थित:-त्वं manifested Thou जीवत्वं प्राप्य becoming (separate) jiv...
Dasakam 094 - Sloka 010 10.12.2024 8:57
ऐक्यं ते दानहोमव्रतनियमतपस्सांख्ययोगैर्दुरापं त्वत्सङ्गेनैव गोप्य: किल सुकृतितमा प्रापुरानन्दसान्द्रम् । भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण वातालयेश ॥१०॥ ऐक्यं ते union with Thee दान-होम-व्रत-नियम-तप:- charity, sacrifice, vows, discipline, austerities सांख्य-योगै:-दुरापं and by methods of Saankhya Yoga, is difficult to get त्वत्-सङ्गेन-एव...
Dasakam 094 - Sloka 09 10.12.2024 8:32
यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहं त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहु: कर्म निर्मायमेव । सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोग: ॥९॥ यत्-यत्-लभ्येत what what ever I get तत्-तत्-तव समुपहृतं that that for Thee I offer देव दास:-अस्मि ते-अहं O God! Servant am of Thee I त्वत्-गेह-उन्मार्जन-आद्यं Thy temple cleaning etc...
Dasakam 094 - Sloka 08 10.12.2024 8:55
यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम्- न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् । त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादि- र्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥८॥ य: यावान् that, of that sort यादृश: वा त्वम्- or of that type, are Thou इति किम्-अपि न-एव- this, what so ever, not at all अवगच्छामि भूमन्- do I understand, O Lord of the Universe! न...
Dasakam 094 - Sloka 07 10.12.2024 7:36
शब्द्ब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् । यस्यां विश्वाभिरामास्सकलमलहरा दिव्यलीलावतारा: सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥७॥ शब्द-ब्रह्मणि-अपि-इह in Vedas and other scriptures, also here, प्रयतित-मनस:- totally devoted minds त्वां न जानन्ति केचित् Thee do not know, some (such people) कष्टं वन्ध्य-श्रमा:- त...
Dasakam 094 - Sloka 06 10.12.2024 7:54
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेर्न च लघु मनसश्शोधनं भक्तितोऽन्यत् । तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं येन स्यां मङ्क्षु किञ्चिद् गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥६॥ जीवन्-मुक्तत्वम्- while living, liberation एवं-विधम्-इति वचसा like this, such words किं फलं दूर दूरे what is the use, far fetched तत्-नाम-अशुद्ध-बुद्धे:- that concept (is) to an...
Dasakam 094 - Sloka 05 10.12.2024 8:29
याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥५॥ याथार्थ्यात्- in reality त्वत्-मयस्य-एव of Thy selfness only हि मम न विभो certainly , my is not O Lord! वस्तुत: बन्ध मोक्षौ in fact bondage or liberation माया-विद्या-तनुभ्यां (by Thy) Ma...
Dasakam 094 - Sloka 04 10.12.2024 9:00
त्वल्लोकादन्यलोक: क्वनु भयरहितो यत् परार्धद्वयान्ते त्वद्भीतस्सत्यलोकेऽपि न सुखवसति: पद्मभू: पद्मनाभ । एवं भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धि बन्धं वरद् कृपणबन्धो कृपापूरसिन्धो ॥४॥ त्वत्-लोकात्-अन्य-लोक: Thy loka (world) (Vaikuntha), other worlds क्व-नु भय-रहित: where indeed is (which is) fearless यत् परार्ध-द्वय-अन्ते because at the end of two Paraardhaas त्वत्-भीत:- fro...
Dasakam 094 - Sloka 03 10.12.2024 8:47
एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगा: । दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता मत्तास्त्वां विस्मरन्त: प्रसजति पतने यान्त्यनन्तान् विषादान्॥३॥ एवं त्वत्-प्राप्तित:-अन्य: thus Thy attainment, besides it (other than it) न-हि खलु most certainly not निखिल-क्लेश-हाने:-उपाय: all sufferings' eradicating means न-एकान्त-अत्यन्ति...
Dasakam 094 - Sloka 02 10.12.2024 8:46
आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥२॥ आचार्य-आख्य- teacher's teachings अधरस्थ-अरणि- are the lower fire stick समनुमिलत्-शिष्य-रूप- coming in a disciple form उत्तर-अरणि- is the upper fire stick आवेध:-उद्भासितेन striking (which) is lit (glows)...
Dasakam 094 - Sloka 01 10.12.2024 7:28
शुद्धा निष्कामधर्मै: प्रवरगुरुगिरा तत्स्वरूपं परं ते शुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते । नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥१॥ शुद्धा: निष्काम-धर्मै: purified minded people, by their desireless actions प्रवर-गुरु-गिरा by competent teacher's instructions तत्-स्वरूपं परं ते that aspect supreme of Thine शुद्धं देह-इन...
Dasakam 093 - Sloka 010 10.12.2024 7:16
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष । नूनं नानाभवान्ते समधिगतममुं मुक्तिदं विप्रदेहं क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥१०॥ दुर्वार: देह-मोह: difficult to remove, attachment to body यदि पुन:-अधुना if again it is now तर्हि निश्शेष-रोगान् हृत्वा then, all ailments removing भक्तिं द्रढिष्ठां कुरु devotion firm co...
Dasakam 093 - Sloka 09 10.12.2024 7:29
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतो- र्गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नेश्शुनो वा परमिह परत: साम्प्रतञ्चाक्षिकर्ण- त्वग्जिह्वाद्या विकर्षन्त्यवशमत इत: कोऽपि न त्वत्पदाब्जे ॥९॥ ही ही देह मोहं त्यज alas! May infatuation to my body rid me पवनपुराधीश O Lord of Guruvaayur! यत्-प्रेम-हेतो:- because of love for which गेहे वित्ते कलत्र-आदिषु in the house, wealth...
Dasakam 093 - Sloka 08 10.12.2024 7:25
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् । विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥८॥ त्वयि-एव त्वत्-कृतं in Thee alone, created by Thee त्वं क्षपयसि जगत्- Thou do absorb the Universe इति-ऊर्णनाभात् प्रतीयां this, from the spider I learnt त्वत्-चिन्ता त्वत्...
Podobné podcasty
Replaio není vydavatelem podcastů; názvy pořadů, obálky a audio patří jejich autorům a šíří se přes veřejné RSS kanály