Kumar Vembu
Nārāyaṇīyaṃ - Learn to Chant
हरि ओम् || Hari Om This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ. Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas Reciting Narayaneeyam is said to have many benefits, including: Divine fervor : It is said to create divine fervor. Peace, happiness, and prosperity : It is said to bring peace, happiness, and prosperity to those who recite it. Health and longevity : It is said to be a tonic for longevity, health, and happiness. Relief from ph...
Where to listen?
Podcasts in the app Replaio Radio Coming soonPodcasts are coming to the app soon. Install now and be the first to see a whole new take on podcasts
Episodes
Dasakam 100 - Sloka 11 10.12.2024 7:14
अज्ञात्वा ते महत्वं यदिह निगदितं विश्वनाथ क्षमेथा: स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥११॥ अज्ञात्वा ते महत्वं not knowing Thy greatness यत्-इह निगदितं what ever here is said विश्वनाथ क्षमेथा: O Lord of the Universe! Pardon me स्तोत्रम् च-एतत्- and this hymn सहस्र-उत्तरम्-अधिकतरं...
Dasakam 100 - Sloka 10 10.12.2024 6:52
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥१०॥ योगीन्द्राणां for the great yogis त्वत्-अङ्गेषु- among Thy body parts अधिक-सुमधुरं most beloved मुक्तिभाजां निवास: for the liberated ones, (they) are the residence भक्तानां काम-वर्ष- for...
Dasakam 100 - Sloka 09 10.12.2024 6:16
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां सन्तापध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥९॥ मञ्जीरं मञ्जु-नादै:-इव the anklets, by their sweet sound, as if पद-भजनं श्रेय (Thy) feet worship is excellent इति-आलपन्तं thus saying पाद-अग्रं भ्रान्ति-मज्जत्- the forefeet, at the time of del...
Dasakam 100 - Sloka 08 10.12.2024 7:16
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया: विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग- च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥८॥ ऊरू चारू तव-ऊरू stout handsome Thy thighs घन-मसृण-रुचौ solid and soft and charming चित्त-चोरौ रमाया: stealing Ramaa's heart विश्व-क्षोभं विशङ्क्य the whole world excitement, fearing ध्रुवम्-अनिशम्-उभौ...
Dasakam 100 - Sloka 07 10.12.2024 7:36
अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्किणीमण्डितं त्वां ॥७॥ अङ्गे पञ्च-अङ्ग-रागै:- on Thy body, of five ingredients, the uguent अतिशय-विकसत्-सौरभ- very much spreading fragrance आकृष्ट-लोकं (and so) attracting the whole world लीन-अनेक-त्रिलोकी holding the whole...
Dasakam 100 - Sloka 06 10.12.2024 6:44
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं वक्ष: श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल- ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥६॥ उत्सर्पत्-कौस्तुभ- emitting (from the) Kaustubha श्री-ततिभि:-अरुणितं lustrous ray collection (by which) rendered red कोमलं कण्ठ-देशं delicate neck area वक्ष: श्रीवत्स-रम्यं chest with Shreevatsa mark beaut...
Dasakam 100 - Sloka 05 10.12.2024 7:19
बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले- नोपात्तां वेणुनाली प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानै: शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनै: सिञ्च मे कर्णवीथीम् ॥५॥ बाहु-द्वन्द्वेन by two hands रत्न-उज्ज्वल-वलय-भृता studded shining bangles wearing शोण-पाणि-प्रवालेन- red hands like corals उपात्तां वेणुनाली holding the flute प्रसृत-नख-मयूख- spreading f...
Dasakam 100 - Sloka 04 10.12.2024 6:39
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली- व्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् । उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्त:- प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥४॥ उत्तुङ्ग-उल्लासि-नासं high prominent beautiful nose हरि-मणि-मुकुर- emerald mirror प्रोल्लसत्-गण्ड-पाली- reflecting cheek area व्यालोलत्-कर्ण-पाश- dangling near the ears अञ्चित-मकर-मणी- marke...
Dasakam 100 - Sloka 03 10.12.2024 5:30
हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै- रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते । सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥३॥ हृद्यं पूर्ण-अनुकम्पा- attractive, full of compassion's अर्णव-मृदु-लहरी- oceans' gentle waves चञ्चल-भ्रू-विलासै:- playful eyebrows tremulous play आनील-स्निग्ध-पक्ष्म- bluish glistening eyelashes आवलि-पर...
Dasakam 100 - Sloka 02 10.12.2024 7:08
नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकै: पिञ्छजालै: । मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं स्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥२ नीलाभं कुञ्चिताग्रं dark and curly in front घनम्-अमलतरं thick and very clean संयतं चारु-भङ्ग्या held together in a beautiful manner रत्न-उत्तंस-अभिरामं bejewelled very beautifully वलयितम्-उदयत्-चन...
Dasakam 100 - Sloka 01 10.12.2024 7:10
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै- रावीतं नारदाद्यैर्विलसदुपनिषत्सुन्दरीमण्डलैश्च ॥१॥ अग्रे पश्यामि तेज: in front (of me) I see a radiance निबिडतर-कलाय- (like that of) very thick Kalaaya (blue lily) अवली-लोभनीयं array, charming पीयूष-आप्लावित:-अहं in the nectar bathed am I तत्-अनु तत्-उदरे then i...
Dasakam 099 - Sloka 010 10.12.2024 7:22
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥१०॥ अव्यक्तं ते स्वरूपं non-manifested Thy nature (the Nirguna form) दुरधिगमतमं is very difficult to grasp तत्-तु शुद्ध-एक-सत्त्वं that also pure and Sattvic व्यक्तं च-अपि- graspable and a...
Dasakam 099 - Sloka 09 10.12.2024 7:12
यत्तु त्रैलोक्यरूपं दधदपि च ततो निर्गतोऽनन्तशुद्ध- ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् । स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥९॥ यत्-तु त्रैलोक्य-रूपं दधत्- because of, the three world's form, taking on अपि च तत: निर्गत:- and also from that transcending अनन्त-शुद्ध-ज्ञान-आत्मा Eternal Pure Knowledge Consciousnes...
Dasakam 099 - Sloka 08 10.12.2024 6:43
मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि । भूतं भव्यं च सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादि- ष्वाविष्टोऽप्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥८॥ मूर्ध्नाम्-अक्ष्णां of heads, of eyes पदानां वहसि खलु of feet, undertake indeed सहस्राणि thousands सम्पूर्य विश्वं filling the universe तत्-प्रोत्क्रम्य-अपि that transc...
Dasakam 099 - Sloka 07 10.12.2024 7:13
हे लोका विष्णुरेतद्भुवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपै: प्राणप्रीत्येकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥७॥ हे लोका O men! विष्णु:-एतत्-भुवनम्-अजनयत्- Vishnu this world created तत्-न जानीथ यूयं that do not know you all युष्माकं हि-अन्तरस्थं of you all inside resides किमपि तत्-परं another indescribable विद्यत...
Dasakam 099 - Sloka 06 10.12.2024 6:49
आप: सृष्ट्यादिजन्या: प्रथममयि विभो गर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवा जलशयन हरे सङ्गता ऐक्यमापन् । तस्याजस्य प्रभो ते विनिहितमभवत् पद्ममेकं हि नाभौ दिक्पत्रं यत् किलाहु: कनकधरणिभृत् कर्णिकं लोकरूपम् ॥६॥ आप: सृष्टि-आदि-जन्या: water, in the creations beginning was created प्रथमम्-अयि विभो at first, O Lord of the Universe! गर्भ-देशे दधु:-त्वां inside themselves held Thee यत्र त्वयि-एव जीवा: where...
Dasakam 099 - Sloka 05 10.12.2024 6:23
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देव श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो । तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या- प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥५॥ नो जात:-जायमान:-अपि च not,those born and also those being born now समधिगत:-त्वत्-महिम्न:- have understood Thy majesty (glory) अवसानं the limit (limitlessness) देव श्रेयांसि विद्वान् O Lo...
Dasakam 099 - Sloka 04 10.12.2024 6:55
विष्णो: कर्माणि सम्पश्यत मनसि सदा यै: स धर्मानबध्नाद् यानीन्द्रस्यैष भृत्य: प्रियसख इव च व्यातनोत् क्षेमकारी । वीक्षन्ते योगसिद्धा: परपदमनिशं यस्य सम्यक्प्रकाशं विप्रेन्द्रा जागरूका: कृतबहुनुतयो यच्च निर्भासयन्ते ॥४॥ विष्णो: कर्माणि Mahaa Vishnu's deeds सम्पश्यत मनसि reflect on, in the mind सदा यै: स always, by which He धर्मान्-अबध्नात्- Dharma (righteousness) established यानि-इन्द्रस्य-एष which (...
Dasakam 099 - Sloka 03 10.12.2024 7:40
हे स्तोतार: कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभि: । जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥३॥ हे स्तोतार: कवीन्द्रा:- O you poet laudators तम्-इह खलु Him, here indeed यथा चेतयध्वे तथा-एव in which ever way you understand, in that way only व्यक्तं वेदस्य सारं प्रणुवत the clear essence of t...
Dasakam 099 - Sloka 02 10.12.2024 7:09
आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- र्भक्तात्मा विष्णवे य: प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णाद्यं जन्म यो वा महदिह महतो वर्णयेत्सोऽयमेव प्रीत: पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमन्ते पदं ते ॥२॥ आद्याय-अशेष-कर्त्रे for the Eternal, (the one) who created everything प्रति-निमिष-नवीनाय (one who is) every moment new भर्त्रे विभूते:- (one who is) Lord of all majesties भक्तात्मा वि...
Dasakam 099 - Sloka 01 10.12.2024 7:18
विष्णोर्वीर्याणि को वा कथयतु धरणे: कश्च रेणून्मिमीते यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् योसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां त्वद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाह: ॥१॥ विष्णो:-वीर्याणि the glories of Vishnu क: वा कथयतु who can recount धरणे: क:-च रेणून्-मिमीते and of the earth, who, the sand particles, can count, यस्य-एव-अङ्घ्रि-त्रयेण by the three strid...
Dasakam 098 - Sloka 011 10.12.2024 6:55
दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं सम्भ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥११॥ दुर्वारं द्वादश-आरं irreversible, with twelve spokes (12 months) त्रिशत-परिमिलत्-षष्टि- with three hundred combined sixty पर्व-अभिवीतं limbs, (360 teeth or days) constituting सम्भ्राम्यत्...
Dasakam 098 - Sloka 010 10.12.2024 6:45
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त- र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥१०॥ सत्यं शुद्धं विबुद्धं eternal, pure, ever awake जयति तव वपु:- shines Thy form नित्य-मुक्तं निरीहं ever free, desireless निर्द्वन्द्वं निर्विकारं beyond opposites, changeless निखिल गुण...
Dasakam 098 - Sloka 09 10.12.2024 7:07
त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥९॥ त्रैलोक्यं भावयन्तं the three worlds creating त्रिगुणमयम्-इदं comprising of three gunas, this त्र्यक्षरस्य-ऐकवाच्यं of the three letters one and only meaning त्रि-ईशानाम्-ऐक्यरूप...
Dasakam 098 - Sloka 08 10.12.2024 7:10
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीता: पद्मजाद्या: पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिता: प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्म: प्रणामम् ॥८॥ यत्-भीत्या-उदेति सूर्य: by whose fear rises the sun दहति च दहन: and burns fire वाति वायु:-तथा-अन्ये blows wind, and others यत्-भीता: पद्मज-आद्या: by fearing (whom) Brahmaa and others प...
Similar podcasts
Replaio is not a podcast publisher; show names, artwork and audio belong to their authors and are distributed through public RSS feeds.