Kumar Vembu
Nārāyaṇīyaṃ - Learn to Chant
हरि ओम् || Hari Om This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ. Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas Reciting Narayaneeyam is said to have many benefits, including: Divine fervor : It is said to create divine fervor. Peace, happiness, and prosperity : It is said to bring peace, happiness, and prosperity to those who recite it. Health and longevity : It is said to be a tonic for longevity, health, and happiness. Relief from ph...
Where to listen?
Podcasts in the app Replaio Radio Coming soonPodcasts are coming to the app soon. Install now and be the first to see a whole new take on podcasts
Episodes
Dasakam 098 - Sloka 07 10.12.2024 7:12
भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकाव- त्तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टु: प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्व- द्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥७॥ भूषासु स्वर्ण-वत्-वा in ornaments like gold,or जगति घट-शराव-आदिके in the universe, in earthen pots and vessels etc., मृत्तिकावत्- clay like तत्त्वे सञ्चिन्त्यमाने in the nature of...
Dasakam 098 - Sloka 06 10.12.2024 7:16
सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥६॥ सत्त्वेन-असत्तया वा by existing or non existing न च खलु सदसत्त्वेन and not indeed by (both) existing and nonexisting निर्वाच्यरूपा धत्ते inexplicable causes या-असौ-अविद्या which this Avidyaa (igno...
Dasakam 098 - Sloka 05 10.12.2024 6:51
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥५॥ शब्द-ब्रह्म-इति Primeval Sound, as कर्म-इति-अणु-इति Karma as, as Atom, भगवन् Lord! काल इति-आलपन्ति as time, thus speak of त्वाम्-एकं विश्व-हेतुं Thou one only cause of the universe सकल...
Dasakam 098 - Sloka 04 10.12.2024 7:01
मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै- र्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । भूय: संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥४॥ मायायां बिम्बित:-त्वं in Maayaa reflected Thou सृजसि महत्-अहङ्कार- do project Mahat, Ahankaara तन्मात्र-भेदै:- the (five) Tanmaatraas, different भूत-ग्राम-इन्द्रिय-आद्यै:-अपि the elements' gr...
Dasakam 098 - Sloka 03 10.12.2024 7:10
नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुंमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहु: । शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥३॥ नो तिर्यञ्चम्-न मर्त्यं not bird or animal nor human being न च सुरम्-असुरम् and not god or demon न स्त्रियं नो पुंमांसं not a woman or a man न द्रव्यं कर्म जातिं not a substance, fu...
Dasakam 098 - Sloka 02 10.12.2024 7:07
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतये य: स्वयमनुभजते तानि मायानुसारी । विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥२॥ जन्म-अथ: कर्म नाम birth, then activity certainly स्फुटम्-इह clearly here गुण-दोष-आदिकं (comprising of) of Gunas' faults etc., वा न यस्मिन् or in whom (there is) लोकानाम्-ऊतये for the world's protection...
Dasakam 098 - Sloka 01 10.12.2024 6:32
यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत- द्योऽस्मादुत्तीर्णरूप: खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा: नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥१॥ यस्मिन्-एतत्-विभातं on which (base) this (universe) is manifested यत:-इदम्-अभवत्- from which this (universe) became येन च-इदं य एतत्- with which (into which) it merges, which itself is this (u...
Dasakam 097 - Sloka 010 10.12.2024 8:15
त्र्यंशेस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं तेभोऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोक: । तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चित्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥१०॥ त्र्यंशे-अस्मिन् सत्यलोके in three parts in this Satyaloka विधि-हर-पुरभित्- Brahamaa Vishnu and Shiva मन्दिराणि-ऊर्ध्वम्-ऊर्ध्वं abodes one above the other तेभ्य:-अपि-ऊर्ध...
Dasakam 097 - Sloka 09 10.12.2024 7:48
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी सिद्धानेवास्य दत्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥९॥ गौर्या सार्धं with Gauri तत्-अग्रे पुरभित्-अथ in front of him Shiva then गत:-त्वत्-प्रिय-प्रेक्षण-अर्थी went, Thy devotee to see wanting सिद्धान्-एव-अस्य acquired already by him...
Dasakam 097 - Sloka 08 10.12.2024 7:18
दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगत: स्प्रष्टुकामो मुनीन्द्र: श्वासेनान्तर्निविष्ट: पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै- र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥८॥ दृष्ट्वा त्वाम् seeing Thee हृष्ट-रोमा full of horripilation त्वरितम्-उपगत: hastily reaching स्प्रष्टु-काम: मुनीन्द्र: to touch,wanting, the sage श्वासेन-अन्त:-नि...
Dasakam 097 - Sloka 07 10.12.2024 7:18
याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत्- सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटी: । दीन: प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥७॥ याते त्वयि-आशु as Thou left, soon वात-आकुल- the winds were highly disturbed जलद-गलत्- (by them) the clouds broke loose तोय-पूर्ण-अति-घूर्णत्- full of water and full of turmoil सप्त-अर्णो-राशि-मग्...
Dasakam 097 - Sloka 06 10.12.2024 7:36
प्रीत्या नारायणाख्यस्त्वमथ नरसख: प्राप्तवानस्य पार्श्वं तुष्ट्या तोष्टूयमान: स तु विविधवरैर्लोभितो नानुमेने । द्रष्टुं माय़ां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा मायादु:खानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतो: ॥६॥ प्रीत्या नारायण-आख्य:- being pleased, called Naaraayana त्वम्-अथ नरसख: Thou then with Nara as friend प्राप्तवान्-अस्य पार्श्वं reached to his nearness तुष्ट्या तोष्टूयमान: highly jo...
Dasakam 097 - Sloka 05 10.12.2024 7:27
मार्कण्डेयश्चिरायु: स खलु पुनरपि त्वत्पर: पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरति: षट् तु मन्वन्तराणि । देवेन्द्र: सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् क: ॥५॥ मार्कण्डेय:-चिर-आयु: Maarkandeya, ever living स खलु पुन:-अपि त्वत्-पर: he indeed again also towards Thee inclined पुष्पभद्रा-तीरे तपस्यन्- on the banks of Pushpabhadraa (river) medit...
Dasakam 097 - Sloka 04 10.12.2024 7:30
तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु- र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चै: सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥४॥ तं च-एनं भक्ति-योगं and that this Bhakti Yoga द्रढयितुम्-अयि to be firmly established, O Thou! मे साध्यम्- by me is to be pursued आरोग्यम्-आयु:- good health and long life दिष्ट्या तत्र...
Dasakam 097 - Sloka 03 10.12.2024 7:11
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाश- स्तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोज्ञम् ॥३॥ त्वत्-भाव: यावत्- Thy-ness, until एषु स्फुरति न विशदं in all these, does no manifest clearly तावत्-एवं हि-उपास्तिं till then in this way only worship कुर्वन्-ऐकात्म्य-बोधे d...
Dasakam 097 - Sloka 02 10.12.2024 7:10
त्वय्येव न्यस्तचित्त: सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं त्वद्भक्तै: सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् । दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धासूयादिदोष: सततमखिलभूतेषु संपूजये त्वाम् ॥२॥ त्वयि-एव न्यस्त-चित्त: in Thee alone (with) fixed mind सुखम्-अयि विचरन् happily, O Thou! Living सर्व-चेष्टा:-त्वत्-अर्थं all actions to Thee dedicated त्वत्-भक्तै: सेव्यमानान्-अपि by Thy d...
Dasakam 097 - Sloka 01 10.12.2024 6:56
त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत् ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदा: । त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैगुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥१॥ त्रैगुण्यात्-भिन्न-रूपं because of the three gunas, different kinds भवति हि भुवने are indeed there, in this world हीन-मध्य-उत्तमं यत् low, middle and high, that ज्ञानं श्रद्ध...
Dasakam 096 - Sloka 010 10.12.2024 6:50
ऐल: प्रागुर्वशीं प्रत्यतिविवशमना: सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्ण: सुखतरमचरत्तद्वदुद्धूतसङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धि रोगान् ॥१०॥ ऐल: प्राक्-उर्वशीं King Pururavas (son of Ilaa) long ago, (towards) Urvashi प्रति-अति-विवशमना: towards greatly infatuated सेवमान:-चिरं तां enjoying her company for long गाढं निर्वि...
Dasakam 096 - Sloka 09 10.12.2024 7:04
कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघै: प्रागेवं प्राह विप्रो न खलु मम जन: कालकर्मग्रहा वा। चेतो मे दु:खहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशी चित्तशान्तिम् ॥९॥ कश्चित् क्लेश-अर्जित- some one, with hard work earned अर्थ-क्षय-विमल-मति:- money, losing it, the pure minded नुद्यमान: जनौघै: being pestered by the populace प्राक्-एवं प्राह विप्र:...
Dasakam 096 - Sloka 08 10.12.2024 6:48
निर्विण्ण: कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गा: ॥८॥ निर्विण्ण: कर्ममार्गे disinterested in the path of Vedic rituals खलु विषमतमे indeed most difficult त्वत्-कथा-आदौ च and in Thy stories, narrations etc., गाढं जात-श्रद्ध:-अपि firml...
Dasakam 096 - Sloka 07 10.12.2024 6:51
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्ति: कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो- रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥७॥ ज्ञानाय-एव-अति-यत्नं for knowledge alone great effort मुनि:-अपवदते sage Vyaas decries ब्रह्मतत्त्वं तु शृण्वन् to Brahma Tatva listening to गाढं त्वत्-पाद-भक्तिं intense in Thy feet...
Dasakam 096 - Sloka 06 10.12.2024 6:29
अव्यक्तं मार्गयन्त: श्रुतिभिरपि नयै: केवलज्ञानलुब्धा: क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थ: कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥६॥ अव्यक्तं मार्गयन्त: the non-manifest (Brahman) seeking श्रुतिभि:-अपि नयै: through Vedas and also Nyaaya Shaastras etc., केवल-ज्ञान-लुब्धा: only to (the path of) knowledge (who are) attract...
Dasakam 096 - Sloka 05 10.12.2024 6:27
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथा: ॥५॥ ज्ञानं त्वत्-भक्ततां वा knowledge or devotion to Thee लघु सुकृत-वशात् easily as a result of good deeds मर्त्य-लोके लभन्ते in this world of mortals, (people) get तस्मात्-तत्र-एव therefore there...
Dasakam 096 - Sloka 04 10.12.2024 6:46
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव- न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकार: । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता: नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥४॥ ज्ञानं कर्म-अपि भक्ति:- knowledge, action and devotion त्रितयम्-इह these three here भवत्-प्रापकं towards achieving Thee, lead तत्र-तावत्- here then निर्विण्णानाम्-अशेषे altoge...
Dasakam 096 - Sloka 03 10.12.2024 6:56
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकै: सन्त्यजन्तो लभन्ते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥३॥ धर्मं-वर्ण-आश्रमाणां of the (4) castes and the (4) ashramas श्रुति-पथ-विहितं (duties) in the Vedic paths laid down त्वत्-परत्वेन भक्त्या toward Thee with devotion कुर्वन्त:-अन्त...
Similar podcasts
Replaio is not a podcast publisher; show names, artwork and audio belong to their authors and are distributed through public RSS feeds.