सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Určitě navštivte web podcastu a podpořte jeho tvůrce: sambhashanasandesha.in
Autor
सम्भाषणसन्देशः
Kategorie
Web podcastu
Nejnovější epizoda
11. čvc 2026
Kde poslouchat?
Podcasty v aplikaci Replaio Radio Už brzyPodcasty míří do aplikace už brzy. Nainstaluj si ji teď a jako první uvidíš úplně nový pohled na podcasty
Epizody
वैराग्यस्य महिमा 01.07.2025 4:01
इयं कथा पितापुत्रयोः व्यासशुकदेवयोः मध्ये संवादरूपेण वर्तते । शुकदेवः यदा जन्म प्राप्तवान् तदा एव उत्थाय पितरं नमस्कृत्य वनं गन्तुं सज्जः अभवत् । पुत्रस्य एतादृशं व्यवहारं दृष्ट्वा विस्मितः व्यासः पुत्रस्य मनसि कथमपि संस्कारविषये आसक्तिः जनयितव्या इति मत्वा बहून् विषयान् वदति । परन्तु केनापि शुकदेवः न विचलति । वादप्रतिवादयोः अनन्तरं व्यासः विरक्तः सन् पुत्रस्य वनगमननिर्णयम् अङ्गीकरोति । (“केन्द्री...
यादृशं मनः तादृशः कायः 30.06.2025 2:56
कदाचित् कश्चन काव्यकुशलः जैनाचार्यः किञ्चन महाकाव्यं रचयितुम् आरब्धवान् । कस्मिंश्चित् सर्गे जलधेः वर्णनं कर्तुम् आरभते । जलधेः विषयमेव सर्वदापि सः चिन्तयन् भवति । तन्मधे जलोदररोगेण ग्रस्तः भवति । सर्वं वृत्तान्तं ज्ञात्वा वैद्यः वदति 'जलधेः वर्णनं समाप्य मरुभूमेः वर्णनं करोतु' इति । जैनाचार्यः विस्मितः सन् अपि वैद्यस्य सूचनां श्रद्धया अपालयत् । जलोदररोगः शान्तः भवति । मनसि यादृशः विचारः क्रियते त...
उपदेशाचरणयोः अन्तरम् 29.06.2025 4:42
कदाचित् कश्चन बौद्धभिक्षुः कम्बोजराज्यम् आगत्य महाराजं तिङ्गभिङ्गं प्रति तस्य राज्यस्य राजपुरोहितः भवितुम् इच्छामि इति कामनां प्राकटयत् । किन्तु राजा 'पुनरपि एकवारं धर्मग्रन्थानाम् आवृत्तिं कृत्वा अगच्छेत्' इति अवदत् । कुपितः सन् सः भिक्षुः किमपि अनुक्त्वा धर्मग्रन्थानाम् अध्ययनम् एकवर्षं यावत् कृत्वा पुनरागच्छति । किन्तु राजा 'एकान्तवासम् अनुभवन् पुनरपि धर्मग्रन्थानां पारायणं करोति चेत् उत्तमं भव...
सर्वश्रेष्ठः पुण्यात्मा 28.06.2025 8:24
कदाचित् साक्षात् भगवान् विश्वनाथः मन्दिरस्य पूजकस्य स्वप्नम् आगत्य 'अहं सर्वश्रेष्ठाय पुण्यात्मने कमपि पुरस्कारं दातुम् इच्छामि' इति अवदत् । अनन्तरदिने पूजकः सर्वत्र घोषम् अकरोत् । ततः विभिन्नेषु प्रदेशेषु विद्वांसः, धर्मात्मानः, दातारः, साधकाः च मन्दिरं समागताः । पूजनसमये भगवतः मूर्तेः पुरतः एकं स्वर्णपात्रम् आगतम् । परीक्षार्थं सः पूजकः येषां हस्ते स्वर्णपात्रं ददाति तेषां हस्तं प्राप्य तत्क्षणं...
सङ्गीतं देशरक्षणाय अपि !! 26.06.2025 4:13
भारतीयेतिहासस्य मध्यकाले चित्रदुर्गनामके संस्थाने सैनिककुटुम्बे जयसिंहः नाम कश्चन युवकः खड्गादिभिः योद्धुं नेष्यते स्म । गाने वाद्यसङ्गीते च तस्य महती आसक्तिः । 'देशस्य रक्षणं न केवलं शस्त्रेण एव, अपि तु सङ्गीतेनापि शक्यम्' इति वदति स्म । कदाचित् सः ब्रिटिश्सैनिकैः निगृहीतः । उच्चाधिकारी 'अद्य रात्रौ दुर्गस्य मुख्यद्वारस्य पुरतः गातव्यम्' इति अवदत् । सः दुर्गसैन्यस्य जागरणाय गीतम् आरभत । जागरितं...
खड्गस्य गुणवत्ता 25.06.2025 3:18
अङ्गारदेशस्य राज्ञः अङ्गदस्य पुत्रः अक्षयकुमारः । प्रधानमन्त्रिणा जीमूतेन युवराजस्य अध्यापनाय भानुमित्रः गर्गः चेति उभौ आचार्यौ चितौ । भानुमित्रः सुन्दरः सम्भाषाणचतुरः उत्कृष्टवस्त्रधारी च आसीत् । गर्गः तु सामान्यः वेषभूषादिषु अनासक्तः मितभाषी च आसीत् । अतः राज्ञ्यै गायत्र्यै गर्गः न अरोचत । केषाञ्चित् दिनानाम् अनन्तरं जीमूतः राजानं राज्ञीं च आयुधशालां नीत्वा मूषातः तप्तायःपट्टिकां स्वीकृत्य दर्श...
सर्वं भगवतः लीला 24.06.2025 3:58
कदाचित् प.पू वल्लभदीक्षितः तत्पुत्रः च श्रीधरहर्गेमहाराजः तीर्थयात्रां कुर्वन्तौ गोदावरीनद्याः समीपे स्थितं राजमहेद्रपत्तनम् आगतवन्तौ । सुखसम्पन्नं नगरं दृष्ट्वा वल्लभदीक्षितः सङ्कल्पितवान् यत् सप्त दिनानि भागवतपारायणं कथाश्रवणं च करणीयम्, तदवसरे सर्वजातिबान्धवानाम् अपि भोजनव्यवस्था करणीया इति । किन्तु नगरस्य धनिकाः वणिजः अदृष्टपूर्वे जने अधिकं विश्वासं कर्तुम् अनिच्छन्तः साहाय्यं न कृतवन्तः । यस्...
अकबर-बीरबलयोः स्वप्नः 23.06.2025 3:17
कदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् । किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत् इति जिज्ञासायां कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, A...
आत्मज्ञानप्राप्तिः..... 22.06.2025 2:45
कदाचित् नारदः स्वसोदराणां सनक-सनत्कुमार-सनन्दन-सन्त्सुजातानां वैराग्यम् आत्मज्ञानप्राप्तिजिज्ञासां जानन् 'योग्यं गुरुम् अन्विष्य मुक्तिं प्राप्तुं प्रयत्नं कुर्वन्तु' इति स्मारितवान् । सनकादयः वैकुण्ठं यदा गतवन्तः तत्र लक्ष्मीसहितं विष्णुं, तत्रत्यं वैभवं दृष्ट्वा आत्मज्ञानं कथं लभेत इति अचिन्तयन् । सर्वम् अन्तर्ज्ञानेन जानन् शिवः सनकादीन् अनुग्रहीतुम् इच्छन् दक्षिणामूर्तिरूपेण अवतारं प्राप्य वटवृ...
जयः अमलवर्मणः...... 21.06.2025 4:57
शान्तिपुरं नाम किञ्चन राज्यं शान्तिप्रियः अमलवर्मा परिपालयति स्म । कदाचित् शान्तिपुरस्य प्रतिवेशिराज्यस्य परमक्रूरः लोभी च राजा क्रूरसिंहः पूर्वसूचनां विना युद्धघोषणं कृतवान् । कथञ्चिदपि युद्धं निवारयितुं अमलवर्मा मक्षिकाणां महाराजेन मक्षीशेन मिलित्वा साहाय्यं पृष्टवान् । युद्धतः प्रत्यागमनान्तरं राज्ये वासार्थम् अनुमतिः दातव्या इति मक्षीशः प्रार्थितवान् । मक्षिकाः उपायेन युद्धं जित्वा शान्तिपुरं...
चतुरः वणिक् 20.06.2025 2:37
कस्यचन वणिजः गृहे प्रभूतः कार्पासः अस्तीति ज्ञात्वा कश्चन चोरः तं चोरयितुम् आगतः । कार्पासस्य बन्धनाय यावत् वस्त्रं प्रसारितवान् तावता चतुरेण वणिजा जागरणं प्राप्य मन्दम् उत्थाय वस्त्रम् अपसारितम् । कथञ्चिदपि कार्पासं नेतव्यमिति निश्चित्य स्वस्य युतकम् ऊरुकं च प्रसारितवान् यत् वणिजा अपसारितम् । चोरः निर्वस्त्रः जातः । ततः वणिक् गृहसदस्यान् जागरय्य चोरं बद्धवान् । एवं वणिजा स्वबुद्धिमत्तया चोरः गृह...
यथा कृत्यं तथा फलम् 19.06.2025 4:19
'यथा कृत्यं तथा फलम्' इति वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति एषा कथा । कदाचित् मित्रे गजवानरौ नद्याः अपरस्मिन् तीरे स्थितानि स्वादूनि फलानि खादितुम् उद्युक्तौ । वानरः अङ्कुशं गृहीत्वा गजस्य पृष्ठे उपविष्टवान् । सः कदाचित् अङ्कुशेन गजं ताडयित्वा, पीडयित्वा कार्यं कारयन्तं हस्तिपकं दृष्टवान् आसीत् । गजः नद्यां किञ्चिद्दूरं गतवान् तदा वानरः गजम् अङ्कुशेन पीडयितुम् उद्युक्तः । गजः महतीं वेदनाम् अनु...
वसुधैव कुटुम्बकम् 18.06.2025 5:23
सन्ततुकारामः पुण्यपत्तनसमीपे देहुनामके ग्रामे निवसति स्म । सः प्रातः उत्थाय स्नानादिकं कृत्वा भोजनादिचिन्ताम् अकृत्वा वीणां करतालं च गृहीत्वा निर्जनं पर्वतं गच्छति स्म भजनं कर्तुम् । सः सर्वेषु अपि प्राणिषु स्थितः परमात्मा एव इति विचिन्त्य धान्यक्षेत्रे पक्षिणः न निवरयति । कदाचित् क्षेत्रस्वामिनः प्रेषितं धान्यराशिम् अपि ग्रामजनेभ्यः वितरति । सः आत्मवत् सर्वभूतानि अपश्यत् इति अनया कथया ज्ञायते । (...
बलीयसी भवितव्यता 17.06.2025 4:19
दक्षिणभारते काञ्चिनगरे कस्यचन यज्ञस्य प्रवेशद्वारे मृत्युदेवस्य यमराजस्य वक्रदृष्टिः अपतत् इति कारणेन कश्चन पारवतः म्लानमुखः आसीत् । तत्रैव स्थितः सरलहृदयः सहायमनस्कः च गरुडः कारणं ज्ञात्वा पारवतं पारेयोजनसहस्रं सुमेरुपर्वतस्य कन्दरां प्रापय्य प्रत्यागतः। यज्ञसभातः निष्क्रामन् यमराजः पारवतस्य गहनतामासु सुमेरुकन्दरासु एकेन बिडालेन कथं सम्पाद्यते इति जिज्ञसां गरुडाय प्रकटयति तदा गरुडः प्रवृत्तं सर्...
वर्तमाने वर्तितव्यम् 16.06.2025 2:38
कल्पनालोके विहरन् कश्चन तरुणः कदाचित् स्वप्ने राजत्वं प्राप्तवान् आसीत् । अग्रिमदिनात् आरभ्य सः महाराजवत् व्यवहारम् आरब्धवान् । मातापितरौ किमपि कार्यं वदतः चेत् सः वदति 'अहं महाराजः अस्मि । किं महाराजः स्वयं कार्यं कुर्यात्?’ इति । एषः कथं बोधनीयः इति गृहसदस्याः यदा चिन्ताक्रान्ताः आसन् तदा तस्य अनुजा उपायेन तं समीकरोति । वस्तुस्थितिम् अवगत्य सः तरुणः कल्पनालोके विहारात् कीदृशं कष्टं भवति इति जान...
त्रयः प्रश्नाः 15.06.2025 4:33
कदाचित् राज्ञः विक्रमादित्यस्य मनसि त्रयः प्रश्नाः उदिताः -’ईश्वरात् पूर्वं कः आसीत्?’, 'ईश्वरः कुत्र निवसति?’, 'ईश्वरः किं करोति?’ । 'सन्तोषप्रदानि उत्तराणि यः यच्छति तम् अर्धं राज्यं दास्यामि, असम्यक् उत्तरं यः ददाति तस्मै कठोरदण्डनम्' इति घोषणां कारितवान् । दण्डभयात् कः अपि जनः उत्तरं दातुं साहसं न कृतवान् । किन्तु कश्चन हलवाहकः आगत्य राज्ञः त्रयाणां प्रश्नानाम् उत्तरं निर्दर्शनेन प्रतिपाद्य र...
त्रयः पुत्राः 14.06.2025 4:33
कस्यचित् धनिकस्य अन्त्यकाले पुत्राणां साहाय्यम् अपेक्ष्य एकैकं पुत्रम् आहूय साहाय्यं याचते । त्रयः अपि पुत्राः भिन्नं भिन्नम् उत्तरं अयच्छन् । तृतीयस्य पुत्रस्य उत्तरं श्रुत्वा धनिकः शान्त्या दिवङ्गतः । ते एव त्रयः पुत्राः धनजनपुण्यरूपाः । प्रथमः पुत्रः धनकनकादिसम्पद्रूपः । द्वितीयः आप्तजनः । तृतीयस्तु परोपकारः । एषा कथा परोपकारस्य महत्त्वं सम्यक् प्रकारेण व्यक्तं करोति । मानवजीवनस्य मूल्यं परहिते...
मूर्खः पण्डितः 13.06.2025 3:50
कस्मिंश्चित् ग्रामे शास्त्रग्रन्थादीन् पठितवान् कश्चन गर्वी पण्डितः आसीत् । सः स्वीयां प्रशंसां स्वयमेव सर्वत्र कुर्वन् भ्रमति स्म । कदाचित् कश्चन बुद्धिमान् जनः तं पण्डितं 'अन्यं ग्रामं गत्वा तत्रत्यान् पण्डितान् जयति चेत् भवतः पाण्डित्यस्य मूल्यम् अत्रत्याः जनाः अवगच्छेयुः' इति अवदत् । पण्डितः ससन्तोषं यावत् सः पार्श्वस्थं ग्रामं प्राविशत् कश्चन अजपालः तेन दृष्टः । सम्भाषणावसरे पण्डितः गर्वी इत...
चरणचिह्नचिन्तनम् 12.06.2025 5:22
कदाचित् वनप्रदेशे तृणसेवनमग्नात् मेषसमूहात् एकः मेषशावकः पृथक् जातः । शावकः एकाकी स्वगृहमार्गस्य अन्वेषणं यदा आरब्धवान् तदा निर्झरस्य समीपे विद्यमानासु वालुकासु वनराजस्य सिंहस्य सुचारूणि पदचिह्नानि अपश्यत् । एकाग्रतया भक्त्या च वनराजस्य पदचिह्नानि पश्यन्तं शावकं जम्बूकः, वृकः, व्याघ्रः च यथाक्रमं दृष्ट्वा सौजन्येन व्यवहृत्य ततः पलायनं अकुर्वन् । साक्षात् सिंहः यदा शावकस्य दृढं भक्तिभावं अपश्यत् तद...
भक्तसेवा 11.06.2025 4:57
आसीत् कश्चन नापितः यः प्रतिदिनं भगवतः ध्यानं कृत्वा एव कार्ये प्रवर्तते स्म । अथैकदा भगवन्तं पूजयित्वा ध्यानमग्नः अभवत् । समये तस्य उनुपस्थितिं दृष्ट्वा कुपितः राजा भटान् प्रेषयति । भीता नापितस्य पत्नी पतिः गृहे नास्ति इति अवदत् । असूयावन्तः भटाः भार्या अनृतम् अवदत्, नापितः गृहे एव अस्ति इति अवदन् । तत् श्रुत्वा क्रुद्धः राजा नापितम् आनेतुं भटान् यदा आदिशत् तदा स्वयं देवः नापितवेषं धृत्वा राज्ञः...
भीमावतारः 10.06.2025 2:30
अस्ति भारते हिमालयस्य सन्निकटे बोयलनामकः ग्रामः । अथैकदा अत्रत्याः बहवः ग्रामीणाः यदा कुम्भस्नानाय प्रयागं प्रति प्रस्थिताः तदा मार्गे खड्गहस्ताः लुण्ठकाः आगताः । सर्वे यात्रिणः भीताः । तेषु शिवदेवनामकः अतीव भीतः पर्वतीयभाषया 'ओ.. इ.. जा.. आ.. ज.. मर् यां.. अम्ब ! अद्य मृताः वयम्' इति उच्चैः क्रन्दनं कृत्वा कूर्दितवान् । तत् सर्वं दृष्ट्वा लुण्ठकाः भीताः । भीमकायस्य शिवदेवस्य कूर्दनं दृष्ट्वा लुण्...
मधुरवचनानि 09.06.2025 4:54
कस्मिंश्चित् नगरे विजयरामनामकः कश्चन महाधनिकः अत्यन्तं लोभी आसीत् । सम्पत्तेः सङ्ग्रहणं तस्य विकृतः स्वभावः आसीत् । एकदा कश्चन साधुः धनिकस्य गृहसमीपस्थात् उद्यानात् कस्यचित् पक्षिणः मधुरं गानं श्रुत्वा एकं सुवर्णनाणकं दत्त्वा 'अनेन फलानि बीजानि पक्षिणः प्रियखाद्यानि च क्रीत्वा पक्षिणे ददातु' इति उक्तवान् । किन्तु सः लोभी धनिकः मम पक्षिणः गानश्रवणाय शतं सुवर्णनाणकानि ददातु इति कथयति । तदनन्तरं सः स...
प्रयत्नो विधेयः प्रयत्नो विधेयः 08.06.2025 6:37
सुन्दरपुरनाम्नि ग्रामे कस्यचन कृषकस्य पुत्रः अनिलः अलसः युवकः निरुद्योगी सन् आदिनं मित्रैः सह इतस्ततः भ्रमन् आसीत् । कदाचित् सूर्यास्तसमये समीपस्थात् पर्वतात् अवरोहद्भिः आरुह्यमाण: कश्चन वृद्धः लघुना दीपेन सह दृष्टः । आचर्येण यदा अनिलः अपृच्छत् तदा सः वृद्धः शिखरस्थं शिवालयं गन्तुम् इच्छामि इति अवदत् । तदनन्तरं यानि हितवचनानि वृद्धेन उक्तानि तानि वचनानि हासः च अनिलस्य मनसि मुहुर्मुहुः गुञ्जनम् अ...
मा कुरु गर्वम् 07.06.2025 2:40
कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता । सहसा तस्याः दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च । अग्रिमदिने यदा सा कलिका पुष्पतां गता कश्चन भक्तः तत् पुष्पम् अ...
आदर्शः निरुद्धः 06.06.2025 2:53
कदाचित् घोरे युद्धे प्रवृत्ते उभयपक्षीयाः अपि बहवः मृताः । सर्वत्र मानवानां शवाः एव दृश्यन्ते स्म । कतिपयैः जनैः सह 'आदर्शः' अपि भीतो भूत्वा पलायनम् आरब्धवान् । दैवदुर्वियोगवशात् पलायमानः सः आदर्शः आतङ्कवादिना गृहीतः । यदा आदर्शः वदति 'मानवतारक्षणं मम धर्मः' ततः आरभ्य सः आतङ्कवादिनाम् अज्ञाते स्थले निरुद्धः वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक...
Replaio není vydavatelem podcastů; názvy pořadů, obálky a audio patří jejich autorům a šíří se přes veřejné RSS kanály