सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Epizody: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Určitě navštivte web podcastu a podpořte jeho tvůrce: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Kategorie

Kids

Web podcastu

sambhashanasandesha.in

Nejnovější epizoda

11. čvc 2026

Kde poslouchat?

Podcasty v aplikaci Replaio Radio Už brzy

Podcasty míří do aplikace už brzy. Nainstaluj si ji teď a jako první uvidíš úplně nový pohled na podcasty

Stáhnout z Google Play Nainstaluj zdarma Android téměř 10 mil. stažení · hodnocení 4,8 iOS už brzy

Epizody

देवसृष्टिः 26.07.2025

कदाचित् काचित् काकमाता शुकस्य इव मम रूपैश्वर्यं नास्ति इति हीनभावनया सर्वदा खिद्यते स्म । अथ कदाचित् पञ्चवर्णशुकः आगत्य वृक्षशाखायाम् उपविष्टवान् । तं दृष्ट्वा एतादृशं सौन्दर्यं मम नास्ति इति काकमाता चिन्तयन्ती आसीत् तावता कुतश्चित् आगतः कश्चन बाणः शुकस्य कण्ठे लग्नः । एतत् दृष्ट्वा काकमाता भीतवती । चिन्तयति च 'देवस्य सृष्टिः व्यवस्थिता वर्तते । अव्यवस्थितं तु अस्माकं मनः एव' इति । एतेन सत्यज्ञाने...

पश्य मे रूपाणि .... 25.07.2025

महाभारते विद्यते अयं श्लोकः - 'न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ।। ' कथायाम् अस्यां श्रीपतिः नाम कश्चित् कृषिवलः यद्यपि श्रीविठ्ठलस्य परमभक्तः तथापि तस्य साहाय्यार्थम् आगतवन्तं देवं न परिज्ञातवान् । अतिवृष्टेः कारणतः समीपवर्तिनी नदी मर्यादाम् उल्लङ्घ्य ग्रामं प्राविशत् । सर्वे ततः पलायितवन्तः श्रीपतिं विहाय । ' श्रीविठ्ठलः मां रक्षति'  इति तस्य च...

प्रकृतिं यान्ति भूतानि 24.07.2025

कदाचित् अकबर-बीरबलयोः संवादसमये बीरबलः अवदत् यत् मार्जारस्य शिक्षणं कष्टम् इति । किन्तु अकबरः प्रयत्नेन सर्वं साधयितुं शक्यं इति विचिन्त्य षड् मासान् यावत् षड् मार्जारान् शिक्षितवान् । भोजनसमये तेषां मार्जाराणां मस्तकेषु दीपं‌ संस्थाप्य अकबरः तद्दीपप्रकाशे भोजनं करोति स्म । कदाचित्  स्वीयभोजनसमये बीरबलः समाहूतः । एतत् सर्वं दृष्ट्वा बीरबलः अपि विस्मितः । बीरबलः परेद्युः अपि भोजनसमये अगच्छत् । यदा...

न नीयते सूची अपि 23.07.2025

लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । कदाचित् दर्शनार्थं आगतवन्तं दुलीचन्दं दृष्ट्वा गुरुनानकः अवगतवान् यत् एतस्य धनमदः अधिकः अस्ति इति । अतः सः एकां सूचीं दुलीचन्दाय दत्त्वा अग्रिमजन्मनि प्रत्यर्पणीया इति अवदत् । किञ्चित्कालानन्तरं दुलीचन्दः अवदत् यत् कथं सूचीम् अग्रिमजन्मनि प्रत्यर्पयितुं शक्यते इति । तदा गुरुनानकः अवदत् 'मरणसमये येन एका सूची अपि नेतुम् अशक्या, भवान् स्वस...

नीलमाधवः 22.07.2025

भारतस्य पूर्वतटे 'जगन्नाथपुरी' नाम महत् पवित्रं क्षेत्रमस्ति इति तु वयं जानीमः एव ।  राजा इन्द्रद्युम्नः एव तस्य मन्दिरस्य निर्माणं कृतवान् । जगन्नाथस्य मूर्तिः नेत्रमात्रयुक्ता अस्ति । किमर्थं हस्तपादविरहिता मस्तकयुक्ता मूर्तिः तत्र दृश्यते इति जानन्ति वा ? सा मूर्तिः अधुना अपि भक्तान् 'यः प्रभुकार्यं कर्तुम् इच्छति, सः अहङ्कारं त्यजेत् एव' इति उपदिशति । एवं किमर्थम् इति सर्वम् इमां स्वारस्यकारीं...

जनप्रीतिः 21.07.2025

कश्चन अविवेकी, उद्धतः, कोपशीलः, विलासी च राजा प्रजाभ्यः अधिकं करं स्वीकरोति स्म । अथ कदाचित् सञ्चरन्तौ राजपुत्रौ अश्वाभ्याम् पतितवन्तौ । राजपुत्रौ इति ज्ञात्वा जनाः तयोः साहाय्यं न कृतवन्तः । 'भवतोः पिता अस्मान् पीडयन् अस्ति । निर्गच्छताम् इतः' इति अवदन् । अग्रे गच्छन्तौ तौ वृषभेन तुम्फनं प्राप्य व्रणितं निर्धनं बालकमेकं शुश्रूषया सत्कृत्य गृहं प्रापितवतः जनान् दृष्टवन्तौ । प्रासादम् आगतौ पुत्रौ र...

अत्याज्या जन्मभूमिः 21.07.2025

पुरा कौशिकीनद्याः जलौघकारणात् बहवः ग्रामाः जनशून्याः‌ जाताः । कस्यचन वृद्धकृषकस्य कुटुम्बजनाः अपि कष्टम् अनुभूतवन्तः । ग्रामम् अपि त्यक्तुम् इच्छन्ति स्म । कदाचित् शौचार्थं गतेन वृद्धेन पत्रविहीने शुष्के आम्रवृक्षे एकः काकः दृष्टः । तत् दृष्ट्वा वृद्धः अचिन्तयत् यत् शुष्केऽपि वृक्षे अयं काकः वृक्षमेतं परित्यज्य अन्यत्र न गतः । किं वयं काकादपि अधमाः जाताः?’ इति । एतत् सर्वं ज्ञात्वा गृहजनाः ग्रामत्...

अमृतं प्राप्तुम् अर्हति सः एव 21.07.2025

आसीत् रामदासः नाम कश्चित् गुरुः यः शिष्याणां परीक्षां कर्तुम् ऐच्छत् । तदर्थं सः एकं फलं पादे संस्थाप्य, तं वस्त्रपट्टिकया बद्धवान् च । वेदनायाः शान्त्यर्थं तस्मात् पिटकात् स्वमुखेन पूयं चूषणीयम् इति यदा गुरुः शिष्येभ्यः वदति तदा शिष्याः स्तब्धाः अभवन् । 'गुरुः प्राणरक्षणार्थं किं भवत्सु कोऽपि नास्ति किम्?’ इति गुरुः यदा पृच्छति तदा सहसा एव कश्चन शिष्यः पिटकात् मुखेन पूयस्य चूषणम् आरब्धवान् । आश्च...

यथा सूचितं तथैव कृतम् 21.07.2025

कदाचित् ज्वरेण ग्रस्तः कश्चन मूर्खः पण्डितः वैद्यसमीपम् अगच्छत् । 'भवता लङ्घनं करणीयम्' इति वैद्यः उक्तवान् । मूर्खः पण्डितः गृहस्य पुरतः‌ स्थितायाः कुल्यायाः उल्लङ्घनम् अकरोत् । ज्वरः अधिकः जातः । पुनः सैन्धवलवणं सेवनीयम् इति वैद्यः अवदत् । कोषे तस्य अर्थः आसीत् अश्वमलम् इति । सः तम् असेवत । पुनः वैद्यः अवदत् कण्टकारिकषायः सेवनीयः इति । कोषे तस्य अर्थः पादरक्षा इति आसीत् । जीर्णया पादरक्षया कषायं...

करुणाशाली 17.07.2025

पूर्वं तमिळुराज्यं द्विधा विभक्तम् आसीत् । तयोः राज्ययोः राज्ञोः किल्लबलवन-मलयमानयोः मध्ये कदाचित् वैमनस्यम् उत्पन्नं, युद्धं च प्रवृत्तम् । युद्धे मलयमानः पराजयं प्राप्य अरण्यं प्रति अधावत् । तस्य त्रीन् पुत्रान् भटाः धृतवन्तः । किल्लबलवनः निर्दोषबालान् गजस्य पादतले पातयित्वा मारणीयमिति निश्चितवान् । बालानां दयनीयावस्थां दृष्ट्वा जनाः मौनेन स्थितवन्तः । किन्तु महाकविः कोवूरकिलारः न केवलं विरोधं अ...

दैवचित्तस्य गतिः अनूह्या 16.07.2025

कृष्णचन्द्रनामकस्य कस्यचन महाधनिकस्य सर्वविधानि आनुकूल्यानि सन्ति चेदपि सः अनित्यस्य जीवनस्य चिन्तया व्याकुलः आसीत् । कदाचित् प्रवचनकारेण उक्तम् - ‘देवाः अमृतसेवनात् चिरञ्जीविनः नित्यसुखिनः......’। एतत् श्रुत्वा अमृतलाभाय कृष्णचन्द्रः इन्द्रदर्शनार्थं तपः आचरितवान् । सन्तुष्टः इन्द्रः अमृतपूर्णं घटमेकम् तस्मै दत्त्वा उक्तवान् यत् घटः अधः न स्थापनीयः इति । किन्तु सः शौचशङ्कां प्राप्य तडागस्य समीपे...

गुरूणां पूजा 15.07.2025

कदाचित् वेदनिधिः महर्षिं व्यासं पृष्टवान् "भगवन्, मानवाः भवता भृशम् उपकृताः । अतः मानवा: भवद्विषये केन प्रकारेण श्रद्धां समर्पयेयुः?" इति । महर्षिः व्यासः अवदत् "केवलं मम पूजनं वा स्तुतिं वा कृत्वा मम प्रीतिः न भवति । सर्वत्र धर्मेषु, सम्प्रदायेषु, गुरुषु च मम अंशः विद्यते । अतः स्वस्य स्वस्य गुरुणां पूजा एव मम पूजा । एषा पूजा आषाढपूर्णिमायाम् आचर्येत" । तस्मात् दिनात् आषाढपूर्णिमा 'व्यासपूर्णिमात...

यथा भावः तथा फलम् 14.07.2025

कस्मिंश्चित् कुटुम्बे उभौ भ्रातरौ आस्ताम् । तयोः पिता मध्यपानं कृत्वा गृहे सर्वदा कोलाहलं करोति स्म । एतत् दृष्ट्वा तयोः अन्यतरः अचिन्तयत् यत् मया स्वीये जीवने एवं न भवितव्यमिति । अतः सः सर्वाः बाधाः अविगणय्य अध्ययने निरतः अभवत् । उच्चपदवीं च प्राप्तवान् । किन्तु अन्यः भ्राता गृहस्य कलहपूर्णेन वातावरणेन अध्ययने अनासक्तः जातः । अनुचितेषु कार्येषु प्रवृत्तः चौर्यस्य कारणेन कारागारे प्रविष्टः । एकम्...

सर्वे भवन्तु सुखिनः 13.07.2025

सम्राजः अशोकस्य जन्मदिनम् आचर्यमाणम् आसीत् । तस्मिन् महोत्सवे बहवः अधीनराजाः स्वस्वराज्यस्य प्रगतिं गर्वेण निवेदितवन्तः। केचन करशुल्कवृद्ध्या, केचन शत्रुविजयेन, केचन कर्मकराणां वेतनकर्षणेन अधिकं धनं सञ्चितवन्तः इति गर्वेन अवदन् । केवलं मगधराजः विनयेन अशोकं प्रति अवदत् – "मम कोषे गतवर्षस्य अपेक्षया अर्धम् अपि धनं नास्ति । मया कर्मकराणां सुखाय, प्रजानां हिताय, चिकित्सालयानां, कूपानां, वसतिशालानां, प...

शङ्करः करुणाकरः 12.07.2025

भगीरथप्रयत्नं गङ्गावतरणकथां च वयं जानीमः । दक्षिणे भारते शङ्करभक्तः सुकेशी नामा राजा तपसा शङ्करं तोषयामास । तेन गङ्गायाः दक्षिणदेशे तीर्थरूपेण आगमनं प्रार्थितम् । शङ्करः एकं फलं दत्त्वा गुप्तरूपेण गङ्गायाः आगमनं कथितवान् । तस्य आराधनाय विशेषविधिं च दर्शितवान् । तस्मात् दिव्यं फलं नारिकेलरूपेण, गङ्गाजलेन पूर्णं, पावनतायाः प्रतीकम् अभवत्। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एत...

त्रयः प्रश्नाः 11.07.2025

कश्चित् राजा प्रश्नत्रयात् चिन्ताक्रान्तः आसीत् । तत् च 'सत्कार्यं कर्तुं कः कालः उचितः? महत् कार्यं किम्? सर्वस्मात् उत्कृष्टः क:?’ इति । सः कञ्चन आश्रमं गत्वा तत्रत्यं साधुं पृष्टवान् । सः साधुः किमपि उनुक्त्वा सस्यानाम् आलवालनिर्माणकार्ये मग्नः आसीत् । तदनन्तरं यत् प्रचलितं तेन प्रश्नानाम् उत्तराणि प्राप्तानि राज्ञा । किं प्राचलत् तत्र? तदनन्तरं साधुः राजानम् किं बोधयति ? इति सर्वं सावधानतया कथ...

सर्वं सुष्ठु 10.07.2025

कदाचित् निद्रामग्नस्य पान्थस्य पार्श्वे स्थितात् पात्रात् कश्चन शुनकः अन्नम् अखादत् । जागरितः पान्थः पात्रे किमपि नास्ति इति ज्ञात्वा परमेश्वरं साहाय्यं याचित्वा रोदनम् आरब्धवान् । कैलासे स्थिता पार्वती पान्थस्य साहाय्यं कर्तुं परमेश्वरं वदति ।  तदा शिवः वदति यत् 'सः पान्थः तत् अन्नं निद्रामग्नायाः वृद्धायाः शिरोमूलतः अपहृतवान् अस्ति । अनुचितं कार्यं कृतम् अनेन इदानीम् अनुभवन् अस्ति' इति । तथापि प...

वणिजः बुद्धिमत्ता 09.07.2025

कदाचित् गृहे उपविश्य नाणकानि गणयन्तं वणिजं  दृष्ट्वा अद्य एतस्मात् गृहात् चोरणीयम् इति चोरः अचिन्तियत् । तम् चोरम् अकस्मात् वणिक् दृष्ट्वा 'एषः चोरः स्यात्, अद्य मम गृहमागत्य चोरयेत्' इति विचिन्त्य कमपि उपायं कृत्वा पत्नीम् अपि सूचितवान् । रात्रौ यदा चोरः आत्मानं गोपयित्वा गृहात् बहिः स्थितवान् आसीत् तदा पतिपत्न्योः मध्ये प्रचलितं सम्भाषणं श्रुत्वा चोरेण ज्ञातं यत् धनयुक्तः घटः निम्बवृक्षशाखायाम्...

किं न साध्यम् अभ्यासेन ? 08.07.2025

मिथिलानगरे महाराजेन हरसिंहदेवेन आयोजिते वीरप्रदर्शनकार्यक्रमे कश्चन पालनामकः ब्राह्मणः तस्य चतसृभिः पुत्रीभिः सह आसीत् । किशोरचौधरीनामकस्य मल्लस्य वीरप्रदर्शनं दृष्ट्वा महाराजः तम् अभिनन्द्य, तस्मै उपायनानि च अयच्छत् । पालस्य कनिष्ठा पुत्री उत्थाय 'अनेन महत् कार्यं किं कृतम् ? अभ्यासेन मानवः किमपि साधयितुं शक्नोति' इति अवदत् । क्रुद्धः राजा सा राज्यात् निष्कासनीया इति अवद्त् । सा बालिका प्रतिज्ञां...

दृढा मातृभक्तिः 07.07.2025

आशुतोषमुखर्जी कोलकाताविश्वविद्यालयस्य कुलपतिः कोलकातायाः उच्चन्यायालयस्य न्यायाधीशश्च आसीत् । एतम् इङ्गलेण्डं प्रति प्रेषयितुम् ऐच्छत् तत्कालीनः सर्वकारः । किन्तु धार्मिकैः कारणैः मात्रा न अनुमन्यते ।  मातुः आज्ञां शिरसा वहन् आशुतोषमुखर्जी सर्वकारं सूचयति । एतत् ज्ञात्वा कठोरमनस्कः लार्ड् कर्झनः कोपाविष्टः जातः । तस्य आदेशस्य तिरस्कारं कोऽपि कर्तुं न अर्हति स्म । तथापि आशुतोषः अल्पाम् अपि भीतिम् अ...

सा योग्यता 06.07.2025

यद्यपि बहवः ऋषयः जनकमहाराजस्य आगमानात् पूर्वमेव आगच्छन्ति स्म तथापि महर्षिः याज्ञवल्क्यः  जनकमहाराजस्य अगमानानन्तरमेव उपदेशस्य आरम्भं करोति स्म । 'जनकमहाराजे अस्मासु अविद्यमाना का योग्यता अस्ति?’ इति ऋषीणां परस्परं वार्तालापः याज्ञवल्क्येन ज्ञातः । सः तेषां बोधनाय एकम् उपायं चिन्तितवान् ।  कदाचित् धर्मोपदेशसमये कश्चन वटुः आगत्य 'कुटीराणि अग्निना ज्वलन्ति अस्ति' इति यदा वदति तदा सर्वे ऋषयः धावित्वा...

सद्यः प्रक्षालकवृत्तिः 05.07.2025

कश्चन दैवभक्तः महाराजः तस्य परमसुन्दरीं भक्तिमतीं च पुत्रीं भगवति यस्य सम्पूर्णः विश्वासः भवति तस्मै दातुम् इच्छति । कदाचित् सुप्रसन्नं, कौपीनधारिणं,  भगवतः पुरतः स्थित्वा ध्यायन्तं च तरुणं दृष्ट्वा कांश्चन प्रश्नान् राजा अपृच्छत् । तस्य उत्तराणि श्रुत्वा सानन्दं तेन सह पुत्र्याः विवाहं कारितवान् । गृहगमनसमये कस्यचित् वृक्षस्य कोटरे स्थापितं जलं रोटिकाखण्डं च तरुणः पत्न्यै अयच्छत् । पतिः भगवति विश...

यद्यदाचरति श्रेष्ठः..... 04.07.2025

कश्चन वृद्धः प्रतिदिनं प्रवचनं श्रोतुं गृहस्य समीपस्थम् आश्रमं गच्छति स्म । गच्छता कालेन तस्य श्रवणशक्तिः न्यूना जाता चेदपि सः प्रवचनं श्रोतुं गच्छति स्म । एकदा प्रवचनकारेण कारणे पृष्टे वृद्धः वदति 'अहं परिवारस्य प्रमुखः अस्मि । अहम् अत्र आगच्छामि इति ज्ञात्वा मम परिवारजनाः अपि आगच्छन्ति । तेन तेषां हृदये भगवतः विषये श्रद्धा जीविता तिष्ठति । अतः श्रोतुम् अशक्तः अपि अहम् अत्र आगच्छामि' इति । प्रवचन...

कुटीरपरिवर्तनम् 03.07.2025

कस्यचन वणिजः गृहम् उभयतः द्वौ लोहकारौ कुटीरं निर्माय प्रतिदिनं प्रातः आरभ्य रात्रिपर्यन्तं कार्यं कुरुतः । आदिनं कर्कशं लोहकुट्टनशब्दं सोढुम् अशक्नुवन् वणिक् एकम् उपायं करोति । परेद्यवि ताभ्यां लोहकाराभ्याम् अन्यकुटीरगमनार्थं सहस्रं रूप्यकाणि अयच्छत् । उभौ अपि अङ्गीकृतवन्तौ । किन्तु अग्रिमदिवसे पुनः कुट्टनशब्दं श्रुत्वा यदा वणीक् तौ पृच्छति तदा तौ वदतः 'आवां कुटीरपरिवर्तनं कृतवन्तौ । वामभागे कुटीर...

सः एव साधुः 02.07.2025

कदाचित् कश्चन शिष्यः बौद्धधर्मप्रसारणार्थं सूनप्रातपरिषदं गन्तुम् इच्छामि इति बुद्धं वदति ।  बुद्धः सर्वदा गमनसमये शिष्याणां मनोबलं सम्यक् परिशील्य एव तान् अन्यत्र प्रेषयति । अतः बुद्धः एतं शिष्यं  परीक्षते ।  बुद्धः बहून् प्रश्नान् पृच्छति, भाययति च ।  किन्तु शिष्यः किञ्चिदपि विचलितः न अभवत् ।  शिष्यस्य मुखात् निर्गतानि वचनानि श्रुत्वा तस्य ज्ञानं धैर्यं च ज्ञात्वा बुद्धः अत्यन्तं सन्तोषम् अनुभूत...

Poslouchej podcast बालमोदिनी v Replaio

Rádio a podcasty v jedné aplikaci - zdarma a bez registrace. Nainstaluj si ji ještě dnes a nepropásni premiéru

Stáhnout z Google Play

Replaio není vydavatelem podcastů; názvy pořadů, obálky a audio patří jejich autorům a šíří se přes veřejné RSS kanály