सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 617 bölüm

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Podcast'in sitesini ziyaret etmeyi ve yapımcısını desteklemeyi unutma: sambhashanasandesha.in

Yazar

सम्भाषणसन्देशः

Kategori

Kids

Podcast web sitesi

sambhashanasandesha.in

Son bölüm

11 Tem 2026

Nereden dinlenir?

Uygulamada podcast'ler Replaio Radio Çok yakında

Podcast'ler çok yakında uygulamaya geliyor. Şimdi yükle ve podcast'lere yepyeni bir bakışı ilk gören sen ol

Google Play'den indir Ücretsiz yükle Android 5 Mn+ indirme · 4,8 puan iOS yakında

Bölümler

विवेकः जयति सर्वदा 13.12.2024

कस्मिंश्चित् ग्रामे कश्चन वणिक् धनिकात् स्वीकृतम् ऋणं प्रत्यर्पयितुम् अशक्तः अभवत् । सः धनिकः वृद्धः क्रूरः च वणिक्कन्यां वञ्चनया परिणेतुम् इच्छति । परन्तु, सा दक्षा कन्या उपायेन व्यवहृत्य अपायं निवार्य, पितरम् अपि ऋणात् कथं रक्षितवती इति अनया कथया जानीमः । अतः विवेकः एव सर्वत्र जयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, a mercha...

उपकारः तु स्वभावः 12.12.2024

केनचित् कृषिकेन कश्चन सज्जनः चक्रावाततः रक्षितः । प्राणापायमपि अविगणय्य रक्षणरूपम् उपकारं कृतवतः कृषिकस्य परोपकारस्वभावं दृष्ट्वा सः सज्जनः पारितोषिकं दातुम् इच्छति । 'अपाये स्थितवतः रक्षणं मानवधर्मः । तत् कर्तव्यबुद्ध्या मया कृतं, न तु पारितोषिकेच्छया' इति उक्त्वा पारितोषिकं निराकरोति सः कृषकः । एतादृशानां जनानां कारणात् एव लोके वृष्ट्यादयः भवन्ति इति मनसि एव चिन्तयति सः सज्जनः । (“केन्द्रीयसंस्क...

कुटिलः कूपः 11.12.2024

एकदा धारायाः अधिपतेः भोजस्य सभायां दूरदेशात् कश्चन पण्डितः आगत्य एकां समस्यां प्रस्तुतवान् । किन्तु पण्डितेषु श्रेष्ठः वाग्विभूषणः अपि उत्तरं दातुं न शक्तवान् । अतिथिपण्डितेन सप्ताहं यावत् समयः दत्तः । तावता श्रेष्ठः पण्डितः वाग्विभूषणः समस्यायाः परिहारं स्वयमेव अन्विषति उत अन्येन उत्तरं प्राप्यते ? कः सः प्रश्नः? तस्य उत्तरं किं भवितुम् अर्हति? इति सर्वैः कथां श्रुत्वा ज्ञायताम् । (“केन्द्रीयसंस्...

वरद्वयम् 10.12.2024

कस्यचित् राज्ञः समीपे केनचित् तपस्विना दत्तः कश्चन विशिष्टः खड्गः असीत् येन सः सर्वेषु अपि युद्धेषु जयं लभते स्म । कदाचित् कश्चन असूयापरः राक्षसः निद्रासमये तं खड्गं चोरयित्वा राजानं कारागृहे स्थापयति । स्वप्ने काचित् देवी द्विवारम् आगत्य वरं ददाति येन आगामिषु दिनेषु सः पुनरपि राज्यं प्राप्नोति । तदा देवी प्रत्यक्षीभूय – 'इतः परं खड्गः युद्धाय न, अपि तु शान्तिपालनाय उपयोक्तव्यः' इति उक्त्वा अदृश्य...

अपूर्व: अभ्यासक्रमः 09.12.2024

सङ्गीतक्षेत्रे करीमखानवर्यः सुविख्यातः । एकलव्यः इव कश्चन युवकः करीमखानवर्यस्य ध्वनिमुद्रिकां श्रावं श्रावं सङ्गीताभ्यासं करोति स्म । अग्रे करीमखानवर्येण मिलित्वा, 'सम्यक् अभ्यासं कृत्वा प्रगतिं ख्यातिं च प्राप्नुहि' इति आशीर्वादं प्राप्तवान् । सः एव कुन्दनलालसेहगलवर्यः यः भाविनि काले चलनचित्रगायकत्वेन चित्रनटत्वेन च ख्यातः अभवत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...

अल्पोपि उपकारः भवेत् महते फलाय 08.12.2024

१८८५ तमे वर्षे नेल्सन् नाम्नः कश्चन निवृत्तः सेनाधिकारी यदा वायुविहारार्थं गतवान् तदा समुत्पन्नेन चक्रवातेन तस्य शिरस्त्रं वायुना नीतम् ।  चक्रवातबाधाम् उपेक्ष्य शिरस्त्रम् आनीय दत्तवत्यै पुष्पानामिकायै बालिकायै सः सेनाधिकारी कृतज्ञतां समर्प्य, तस्याः‌ नामसङ्केतादिकं स्वीये लघुपुस्तके लिखित्वा ततः निर्गतः। अनन्तरं यदा पुष्पायाः पतिः प्लेग्रोगेण ग्रस्तः असीत् तदा चिकित्सालये कश्चन वैद्याधिकारी तस्य...

महासाहसी विधिचन्दः 07.12.2024

ताराचन्द-वख्तमलनामानौ गुरुहरिगोविन्दशिष्यौ गुरवे अश्वौ उपायनीकर्तुं स्वस्थानात् यदा प्रस्थितवन्तौ तदा मध्यमार्गे यवनराजः शाहजहानः अश्वौ वशीकृत्य तौ शिष्यौ ताडयित्वा च प्रेषितवान् । प्रवृत्तं सर्वं विदित्वा अन्यः कश्चन शिष्यः विधिचन्दः अश्वौ आनेतुं प्रतिज्ञाम् अकरोत् । शूरः उपायचतुरः च सः विधिचन्दः केनोपायेन अश्वौ अपहृत्य गुरोः हरिगोविन्दवर्यस्य पुरतः प्रत्यक्षः भवति इति पश्यामः । (“केन्द्रीयसंस्कृ...

अध्ययनं ज्ञानसङ्ग्रहाय 06.12.2024

परीक्षायाम् अधिकान् अङ्कान् प्राप्तवतः सत्काराय कार्यक्रमः आयोजितः आसीत् कस्मिंश्चित् सर्वकारीये विद्यालये । मुख्यातिथिः पारितोषिकं यच्छन् कांश्चन प्रश्नान् पृष्टवान् ।  किन्तु एकस्यापि प्रश्नस्य उत्तरं दातुम् असमर्थः बालकः कारणे पृष्टे, केवलं कण्ठस्थीकृत्य उत्तरं लिखामि इति उक्तवान् । तत्रैव स्थितः अन्यः बालकः सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत् श्रुत्वा अतिथिः तस्मै स्वयं पारितोषिकं ददाति ।...

इर्ष्यादय: खलु भाराय 05.12.2024

केवलेन प्रवचनेन कार्यं न सिद्ध्यति । अतः केनचित् निदर्शनेन शिष्यान् दर्शयति कश्चन महात्मा - कथम् ईर्ष्याद्वेषादिकं अन्यान् पीडयति, कथम् ईर्ष्याद्वेषादिकं परित्यक्तं चेत् जीवनं निर्मलं स्वच्छं स्यात्, ईर्ष्याद्वेषादिकं सदा मनसि स्थापयेम तर्हि मनसः अस्वास्थ्यं ततः जीवनस्य दुर्गतिः च कथं भवति इति । किं तत् निदर्शनमिति शृण्मः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध...

कर्तव्यबोधः 04.12.2024

प्रथमस्वातन्त्र्यसङ्ग्रामस्य प्रमुखस्य नानासाहेबस्य उपस्थितिं सूचितवन्तं प्रति पञ्चाशत्सहस्रं दास्यन्ते इति आङ्ग्लसर्वकारेण घोषितमासीत्। कदाचित् बुभुक्षया पिपासया श्रान्त्या च किञ्चित् गृहम् आगतवन्तं नानसाहेबं, गृहस्वामिनी ससन्तोषेण भोजनं परिवेषितवती । तावता आरक्षाधिकारी तस्याः पतिः गृहं प्रविश्य नानासाहेबं बन्धुं प्रयतते । पतिपत्न्योः मध्ये वादविवादे आरब्धे पतिः लघुभुषुण्डिकां हस्तेन गृह्णाति । प...

गर्वभङ्गः शनिदेवस्य 03.12.2024

कदाचित् रामनामजपं कुर्वन्तम् आञ्जनेयं शनिदेवः गर्वेण युद्धाय आह्वयते । गुरुपुत्रेण सह अहं युद्धं न करोमि इति युद्धप्रस्तावननिराकुर्वन्तम् आञ्जनेयं शनिः मुष्ट्या प्रहृतवान् । अनन्यगतिकया आञ्जनेयः स्वपुच्छेन शनिं बद्ध्वा शिलानाम् उपरि गर्तेषु च नीतवान् । शनेः देहः क्षतविक्षतः जातः । शनेः प्रार्थनानन्तरं तं मोचयित्वा, तैलमर्दनेन पीडाम् अपनीतवान् आञ्जनेयः । ततः प्रभृति शनिदेवस्य तैलसमर्पणप्रथा आरब्धा...

कर्तव्यपालने विघ्नः 02.12.2024

महादेवरानडे इति ख्यातः न्यायधीशः आसीत् । सः कोल्हापुरे स्थानान्तरणं प्राप्तवान् यत्र तस्य बहवः बान्धवाः आसन् । कदाचित् तस्य बन्धुः महादेवस्य पितरं यदि न्यायलयस्य व्यावहारः मदनुकूलः भविष्यति तर्हि उपकृतः भविष्यामि इत्यवदत् । महादेवः अवदत् - यदि अस्माकं बान्धवाः न्यायप्रक्रियायां बाधां जनयेयुः तर्हि निष्पक्षतया कर्तव्यपालनं न भवेत् । अपि च कर्तव्यच्युतिकारणात् मनसः अशान्तिः, स्वास्थ्यहानिः च भवेदिति...

श्लोकात् परिवृत्तं जीवनम् 01.12.2024

काशीराज्ये राज्ञः ब्रह्मदत्तस्य पुत्रः बोधिसत्त्वः यदा जन्म प्राप्तवान् तदा एव दिने काचित् दासी अपि कटाहकनामकाय पुत्राय जन्म दत्तवती ।  कालक्रमेण कटाहकः पार्श्वराज्यस्थस्य धनिकस्य कन्यया विवाहं कृतवान् । बोधिसत्त्वः कटाहकेन मेलितुं तस्य गृहं गच्छति । कटाहकः स्वपत्नीं बहुधा पीडयति इति ज्ञात्वा बोधिसत्त्वः तस्य पत्नीं उपदिशति "तव पतिः कुपितः चेत् एतं श्लोकम् उच्चैः पठ" इति । कटाहकेन पत्न्यां निन्दित...

देवदर्शनम् 30.11.2024

कस्मिंश्चित् आश्रमे कश्चन तरुणः छात्रः दश वर्षाणि अधीत्य भगवद्दर्शनार्थम् आशावान् आसीत् । गुरुः तस्य इच्छां ज्ञातवान् । उद्विग्नेन छात्रेण भगवतः दर्शनं कदा इति पृष्टे गुरुः शान्ततया श्वः इति प्रत्युत्तरं ददाति स्म । द्वितीयदिने गुरुं प्रति गतं छात्रं गुरुः उक्तवान् - “यः भगवतः स्वरूपं तथा तस्य तत्त्वं स्पष्टं न जानाति, तस्य भगवतः दर्शनं कथं संभवति? तत् तु ध्यानमार्गेण एव साध्यम्” इति । (“केन्द्रीय...

शोधकार्ये आस्था 29.11.2024

आयुर्वेदविद्वान् चरकः एकदा गुरुकुले विद्याध्ययनकाले रोगग्रस्तः अभवत् । तदा तस्य गुरुः तस्य रोगं परीक्ष्य कस्यचन दुर्लभस्य औषधीयं सस्यस्य गुणविशेषान् वर्णितवान् । तत् अन्वेष्टुं चरकः वनं प्रविष्टवान् । तेन अनेकानि सस्यानि परिशीलितानि, किन्तु निर्दिष्टं सस्यं न प्राप्तम् । आश्रमं प्रत्यागतं तं गुरुः उक्तवान् – “अस्माकं आश्रमस्य पृष्ठे एव तत् सस्यम् अस्ति ।” ततः निर्मितम् औषधं सेवित्वा रोगात् मुक्तः...

सर्वः सर्वमपि कर्तुं सज्जः स्यात् 28.11.2024

ईश्वरचन्द्रविद्यासागरः समयपालने अतीव अनुशासितः अन्यस्मादपि तदेव अपेक्षते स्म । सः कस्याश्चित् सभायाः अध्यक्षत्वेन आहूतः सन् समयात् पूर्वमेव स्थानं प्राप्तवान् । सभास्थले आसन्दाः मलिनाः आसन् । स्वच्छताकर्मिणः नासन् इत्यतः सः त्वरया सम्मार्जनीं गृहीत्वा स्वयं स्वच्छताकार्यम् आरब्धवान् । एतद् दृष्ट्वा आयोजकाः लज्जिताः स्वच्छतायां संलग्नाः अभवन् । शीघ्रं सभास्थलं स्वच्छं जातम् । स्वस्य भाषणे, विद्यासा...

अपूर्वा वरदक्षिणा 27.11.2024

मदनमोहनमालवीयः यदा विश्वविद्यालयनिर्माणाय धनसङ्ग्रहणकार्ये निरतः आसीत् तदा कश्चन धनिकः स्वपुत्र्याः विवाहनिमन्त्रणपत्रं तस्मै दत्तवान् । मालवीयस्य शिष्यः एव तस्य कन्यायाः वरः आसीत् । सः धनिकः विवाहं वैभवपूर्णं कर्तुम् इच्छति स्म । मालवीयः तम् आडम्बरव्ययस्य व्यर्थत्वं सूचितवान्, एवं कृत्वा तदर्थं यत् धनं व्ययीक्रियेत तत् विश्वविद्यालयाय दानरूपेण समर्प्यताम् इति तेन निर्दिष्टम् । धनिकः तस्य अभिप्राय...

भगवतः प्रियः 26.11.2024

कश्चन परोपकारी सज्जनः केवलं दरिद्राणां दीनानां च सेवायामेव मग्नः भवति स्म । एकदा स्वप्ने देवदूतः तमवदत्- “ये जनाः भक्त्या भगवन्तं प्रार्थयन्ते तेषाम् आवल्यां तव नाम नास्तीति ।" सज्जनः प्रत्यवदत्, "मम भक्तिः सेवारूपेण अस्ति, न तु प्रार्थनारूपेण । अनन्तरं पुनः देवदूतः स्वप्ने समागत्य अवदत् – ये निस्वार्थररूपेण कार्यं कुर्वन्ति तेषामुपरि भगवतः महती प्रीतिः भवतीति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...

शत्रुणापि प्रशंसितः लाचितः 25.11.2024

असमे चक्रधरसिंहस्य शासने लाचितवराफुकनः सेनापतिः आसीत् । दिल्लीनगरस्थः औरङ्गजेबः असमस्य वशीकरणं लक्ष्यीकृतवान् । लाचितः गुवाहाटीसमीपे दुर्गस्य निर्माणस्य आदेशं दत्तवान् । सः सर्वदा सैनिकान् प्रेरयति स्म । ज्वरपीडितः अपि लाचितः औरङ्गजेबस्य सेनापतिं रामसिंहं पराजितवान् इत्यतः तस्य शौर्यं सर्वे सादरं स्मरन्ति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्...

आशीर्वादः 24.11.2024

रामकृष्णपरमहंसस्य पत्नी शारदादेवी सर्वजनवत्सला आसीत् । एकदा एका महिला तां द्रष्टुं आगता । सा शारदादेवीं अवदत्, "मम पतिः कश्चित् वैद्यः, सः धनं सम्पादयतु इति आशीर्वादं कुरुतु ।" शारदादेवी विचार्य अवदत्, "अहम् आशीर्वादं कर्तुं न समर्था ।" कारणे पृष्टे शारदादेवी उक्तवती, "धनं प्राप्यते चेत् सुखं न लभ्यते । अनेके जनाः धनवन्तः अपि दुःखिताः सन्ति ।" अन्यच्च "यदि तव पतिः धनं सम्पादयेत्, तर्हि रोगिणां सङ्...

वनस्पतयः शान्तिः 23.11.2024

चित्रकूटप्रदेशे दीर्घजीवी नाम ऋषिः आश्रमे निवसति । तत्र जनाः वृक्षच्छेदनं कृत्वा गृहाणि निर्मितवन्तः, अङ्गारनिर्माणं च कृतवन्तः, येन वनं वृक्षशून्यं जातम् । कालेन अनावृष्ट्या जलाशयाः शुष्काः अभवन्, जनाः, पशवः च मरणासन्नाः सन्तः महतीं पीडां अनुभवन्ति स्म । तत्प्रदेशे निवसन् कश्चन काष्ठोपजीवी पिपासया क्लान्तः आश्रमे दीर्घजीविनं दृष्ट्वा जलं भोजनं च प्राप्तवान् । तेन देशस्य दुःस्थितेः कारणे पृष्टे दी...

जनादरपात्रता कथम्? 22.11.2024

कश्चन राजा महाकोपशीलः आसीत् । तस्य मन्त्री सुबुद्धिः तु शासनदक्षः । एकदा राज्ञः मूर्तिप्रतिष्ठायाः विचारो अभवत् किन्तु सुबुद्धिः तं विचारं न अन्वमन्यत । प्रजोपकारकं कार्यं करणीयमिति तस्य मतमासीत् । राजा कुपितः तं मन्त्रिस्थानात् निष्कास्य क्षामग्रस्तं प्रदेशं प्रति प्रेषितवान् । सुबुद्धिना तत्र जनहिताय कासारनिर्माणादिकं कृतम्, येन जनसमृद्धिः जाता। अन्ते राजा जनप्रियस्य सुबुद्धेः कार्यदक्षतायाः प्र...

किं व्यर्थव्ययेन आडम्बरेण वा? 21.11.2024

कश्चन राजा उत्तमं शासनं कुर्वन् चिन्तितवान् यत् मरणानन्तरम् अपि जनैः स्मरणीयः स्याम् इति । अतः सः रमणीये उद्याने एकं सुन्दरं मण्डपं स्मारकसहितं स्थापयितुम् इच्छुः मन्त्रिणः पुरतः प्रस्तावम् अकरोत्, सभासदाः सहर्षं स्वीकृतवन्तः । तदा प्रधानमन्त्री शिलाखण्डं दर्शयित्वा अपृच्छत् यथा शिलायाः उत्पत्तिः, अवस्थां भविष्यत् वा ज्ञातुं न शक्यते । सर्वमपि अस्थिरम्। अस्माकं जीवनं तु उत्तमकार्यार्थं स्यात् न तु...

तदर्थमेव तव सृष्टिः 20.11.2024

कश्चन धनिकः दानार्थं प्रसिद्धः आसीत् । सः एकदा एकस्याः दुःखितायाः बालिकायाः सन्दर्शनं कृत्वा तस्याः कल्याणं प्रार्थितवान् । तस्याः गृहं गत्वा सः तस्याः अत्यन्तं दारिद्र्यं ज्ञात्वा तां चिकित्सायै चिकित्सालयं नीतवान् । एतेन अनुभवेन सः अल्पभाग्यानां साहाय्यार्थम् अधिकं समयं, साधनानि च समर्पयितुम् उद्यतः अभवत् । तेषां दुःखनिवारणाय तेषां जीवने सार्थकं परिवर्तनं कर्तुं च सः प्रतिबद्धः जातः। (“केन्द्रीय...

श्रेष्ठः कः? 19.11.2024

कश्चन गर्वितः विद्वान् स्नानार्थं गच्छन् स्वीयां पादरक्षापट्टिकां समीकर्तुम् चर्मकारम् आज्ञापितवान् । चर्मकारेण पादरक्षां समीकृत्य दत्तायां विद्वान् चर्मकारदिशि नाणकं क्षिप्तवान् । तत् तिरस्कुर्वन् चर्मकारः पूगफलं दत्वा गङ्गामात्रे दातुं सूचितवान् । गङ्गामाता तु चर्मकाराय दीयताम् इत्युक्त्वा एकं सुवर्णकङ्कणं दत्तवती । परन्तु सः विद्वान् तस्य पत्न्यै अददात् । अन्ते तत् कङ्कणं राज्ञा प्राप्तम् । राज...

बालमोदिनी podcast'ini Replaio'da dinle

Radyo ve podcast'ler tek uygulamada - ücretsiz, kayıt gerektirmez. Bugün yükle ve lansmanı kaçırma

Google Play'den indir

Replaio bir podcast yayıncısı değildir; program adları, kapak görselleri ve ses içerikleri yazarlarına aittir ve herkese açık RSS beslemeleri aracılığıyla dağıtılır