सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 617 avsnitt

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Glöm inte att besöka poddens webbplats och stötta skaparen: sambhashanasandesha.in

Skapare

सम्भाषणसन्देशः

Kategori

Kids

Poddens webbplats

sambhashanasandesha.in

Senaste avsnittet

11 jul 2026

Var kan du lyssna?

Poddar i appen Replaio Radio Kommer snart

Poddar kommer snart till appen. Installera nu och bli först med att uppleva ett helt nytt sätt att lyssna på poddar

Ladda ned på Google Play Installera gratis Android nästan 10 mn nedladdningar · betyg 4,8 iOS snart

Avsnitt

मनोधर्मः तु भिद्यते 22.03.2025

कश्चन गुरुः यानि कार्याणि पूर्वं करोति स्म तान्येव कार्याणि ज्ञानोदयप्राप्तेः अनन्तरमपपि करोति स्म । एतत् दृष्ट्वा कश्चन तरुणः पृच्छति - ‘भवतः ज्ञानोदयः अभवत् इत्येतत् कथं सत्यम्?’ इति । तदा गुरुः उपदिशति - ‘ज्ञानोदयात् पूर्वं कर्तव्यबुद्ध्या कार्यं क्रियते स्म । इदानीं तु आत्मतृप्त्यर्थं कार्यं करोमि । आत्मतृप्त्यै यत्र कार्यं क्रियते तत्र महान् आनदः । खेदादयः अपगच्छन्ति । एवं, क्रियमाणे कार्ये उ...

अहो परिशुद्धिः 21.03.2025

कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः न्यायाधीशः शिन्देवर्यः नीतः ।  राजा पेरिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्देवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्देवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शिन्देवर्यः । तदा साश्चर्येण 'महता धनस्य स्वीकारे अ...

ज्ञानी नाम 20.03.2025

कश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति इति पृष्टे बूद्धः विस्तरेण विवृणोति येन सः युवकः स...

यशस्वितायाः रहस्यम् 19.03.2025

कदाचित् कश्चन युवकः साक्रेटीसम् उपसर्प्य यशस्वितायाः रहस्यं पृच्छति । अनन्तरदिने साक्रेटीस् दर्शयति यत् - 'यशस्विता परिश्रमम् अपेक्षते, सङ्घर्षप्रवृत्तिम् अपेक्षते । श्रद्धा, प्रयत्नः, परिश्रमः, सङ्घर्षप्रवृत्तिः इत्येते एव यशस्विताप्राप्तेः उपायाः । एतेषु यदि एकः अंशः न स्यात् तर्हि यशस्विता न प्राप्येत' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...

भारतं नाम ...... 18.03.2025

अलेक्साण्डरः गुरुं नमस्कृत्य 'भारतं जेतुं कृपया आशिषा अनुग्रहीतव्यः अहम्' इति यदा अवदत् तदा गुरुः अरिष्टाटलः क्षणकालं मुखं निर्निमेषं दृष्ट्वा वदति यत् 'भारतं जेतुं सर्वथा न शक्यम् । वस्तुतः भारतत्वं भवति तत्रात्यायाम् आध्यात्मिकतायाम् । सा च तत्रत्यान् निःस्पृहान् संन्यासिनः अवलम्बते । अजय्याः ते । भारतस्थान् देशान् जयन् एव भारतीयं वैशिष्ट्यम् अवगन्तुं प्रयासं कुरु' इति अवदत् गुरुः । तस्य मुखमेव...

प्रशस्तः मार्गः 17.03.2025

कदाचित् कस्यचित् भिक्षोः मनसि आगतानां सन्देहानाम् उत्तरम् अदत्त्वा बुद्धः केवलं मन्दाहासं प्रकटयति ।  तदा भिक्षुः वदति यत् अत्रापि उत्तरं न लभ्यते, लौकिकजीवनं प्रत्येव गमिष्यामि अहम् इति ।  तदा बुद्धः  - 'जीवस्य सत्ता वादं न अवलम्बते ।  भवन्मनसि आगतानां प्रश्नानामुत्तरं गच्छता कालेन गुरुमुखात् ग्रन्थाध्ययनात् वा प्राप्येत । तर्कमार्गः अन्यः, निर्वाणमार्गः अन्यः । निर्वाणमार्गस्य उपदेशमात्रं मम कर्...

दत्ते वस्तुनि न स्यात् ममता 16.03.2025

कश्चन धनिकः भक्तः बहुमूल्यकं राङ्कवं यत् श्रीकृष्णबोधानन्दनाम्ने संन्यासिने उपायनीकृतवान् आसीत् तत् राङ्कवं स्वामी पार्श्वे स्थिताय विदुषे दत्तवान् । एतत् धनिकाय न अरोचत इति ज्ञात्वा स्वामी राङ्कवं धनिकाय प्रत्यर्पयितुं विद्वांसम् असूचयत् । राङ्कवस्य प्रतिस्वीकरणम् अनिच्छन्तं धनिकं प्रति स्वामी वदति - ॑'इदं न मम' इति बुद्ध्या यत् दीयेत तस्य उपयोगः कथं करणीयः इति दात्रा चिन्तनीयं नास्ति । अतः एव तत...

पूर्वयॊजना 15.03.2025

कालपुरनाम्नि राज्ये विशेषनियमः आसीत् यत् यः राजा भवेत् सः षडेव वर्षाणि राजत्वसुखम् अनुभवेत् । तदनन्तरं सरोवरस्य अपरस्मिन् तीरे स्थिते घोरारण्ये सः परित्यज्यते स्म । राज्यात् निर्गमनावसरे केचन राजानः बहुधा आक्रन्दन्ति स्म, विलपन्ति स्म । एवं राज्यात् च्युतः कालेश्वरनामा कश्चन राजा अरण्यं प्रति गमनसमये हसनमुखः सन् उत्साहेन अरण्यदिशि पदानि अस्थापयत् । नाविकः साश्चर्यं तम् अनुसृत्य पश्यति यत् तत्र भव्...

भक्तिरेव गरियसी, न तु क्रमः 14.03.2025

भगवन्तं साकारत्वेन निर्दिश्य प्रार्थनां कुर्वन्तं कञ्चन ग्रामीणकृषिकं कश्चन पण्डितः शास्त्रीयं प्रार्थनाक्रमं बोधयति । अनन्तरदिने पण्डितेन उपदिष्टं प्रार्थनाक्रमं स्मर्तुम् अशक्नुवन् सः कृषिकः नितरां परितप्तः भवति । रात्रौ पण्डितस्य स्वप्ने देवः प्रत्यक्षीभूय वदति - 'कृषिकः स्वीयक्रमम् अनुचितम् इति मन्यते । त्वया बोधितः क्रमः तेन न स्मर्यते । नितरां परिताप्यति । अहमपि परितपामि' इति । प्राप्तविवेकः...

स्वानुकुलतया अर्थकथनम् 13.03.2025

लोके जनाः स्वानुभवानुरूपानेव शास्त्रोपदेशान् गृह्णन्ति इत्यस्य उदाहरणं भवितुमर्हति इयं कथा । कदाचित् तीर्थयात्रां कुर्वन्तौ सुहृदौ मार्गभ्रष्टौ भूत्वा क्षुद्बाधया इतस्ततः अटित्वा अन्ते कस्मिंश्चित् ग्रामे देवपूजानिमित्तं परिकल्पितार्थं भोजनार्थम् उपविष्टवन्तौ । भोजनसमये जनैः उक्तं श्लोकं श्रुत्वा तयोर्मध्ये एकः चिन्तयति यत् भोजने विरलतया लब्धे न अधिकं खादेयम् यतः मम तीर्थयात्रायां विघ्नः भवेत् इति...

त्यज मन्त्रशक्तिम् 12.03.2025

कदाचित् राजगृहनगरे भिक्षाप्राप्त्यर्थं सञ्चरत्सु केषुचित् बुद्धशिष्येषु कश्यपः इति कश्चन अन्यतमः शिष्यः मन्त्रविद्याबलात् स्तम्भस्य उपरि स्थापितं स्वर्णपूर्णं चन्दनकरण्डकं प्राप्तवान् ।  वृत्तं ज्ञात्वा बुद्धः असन्तुष्टः सन् कश्यपं वदति यत् तत् त्वदीयं न, तस्य प्राप्त्यर्थं कृतः प्रयासः अधोगतिं निरूपयति इति ।  सामर्थ्यातिशये प्रदर्शिते कथम् अधोगतिं निरूपयति इति कश्यपेन पृष्टे बुद्धः अवगमयति यत् यः...

जन्मना वेदान्ती 11.03.2025

कदाचित् प्रभाकरः नामा कश्चन गृहस्थः शङ्काराचार्यं दृष्ट्वा प्रार्थयते यत् तस्य द्वादशवर्षीयं जडबुद्धिपुत्रं  आशीर्वादेन अनुगृह्य अस्य जडबुद्धितां निवारयतु इति ।  शङ्काराचार्यः बालकेन सह सम्भाषणं कृत्वा ज्ञातवान् यत् एषः महात्मा अस्ति इति, अपि च पुत्रं मया सह प्रेषयतु इति वदति ।  पितुः अनुज्ञां प्राप्य शङ्कराचार्येण सह निगर्तः सः बालकः गच्छता कालेन महावेदान्ती जातः । आत्मस्वरूपादिकं हस्तस्थम् आमलकम...

रक्षिष्यति सः 10.03.2025

कदाचित् वयं चिन्तयामः यत् 'अहम् एकाकी अस्मि' इति ।  अस्यां कथायाम् अपि पुत्रः तथैव चिन्तयति । किन्तु पिता निदर्शनेन दर्शयति यत् जीवने कोऽपि कदापि न एकाकी ।  भगवान् सदा अस्माभिः सह स्थित्वा अस्मान् रक्षति । सः एव अस्मान् कष्टकाले तारयिष्यति इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Sometimes, we think to ourselves, "I am all alone." In...

न भुज्यते मही सम्पत्तिः वा... 09.03.2025

जगद्देवः इति कश्चन राजा प्रभूतां सम्पत्तिं सम्पादयितुं सर्वदा युद्धे रतः भवति । जगत् एव जेतव्यम् इति तस्य इच्छा । कदाचित् कश्चन संन्यासी आगत्य सुन्दरैः उदाहरणैः राजानं दर्शयति यत् कथं समग्रा भूमिः सम्पत्तिः वा भोक्तुं न शक्यते । अपि च जगदेव जेतव्यमिति मूर्खता अस्ति । राज्ञः आद्य कर्तव्यं भवति यत् जनानां शन्तिं, समृद्धिं, सुखं च चिन्तयेत् ।  तदनन्तरं राजा युद्धादिप्रयासं स्थगयित्वा शासनकार्येषु अवध...

देवः किं दृष्टः ? 08.03.2025

कदाचित् गुरोः प्रवचनानन्तरं शिष्येण आनन्देन मया देवः दृष्टः इति कथिते अन्ये  शिष्याः हसन्ति । एवमेव बहुवारं प्रवृत्ते, एकस्मिन् दिने गुरुः वदति यत् - 'पुनः देवः दृश्यते चेत् गुरुत्वप्राप्तितः पूर्वं किं किं पापकार्यं कृतं मया इति त्वया प्रष्टव्यम् । तदा एव भवता देवः दृष्टः इत्येतत् प्रमाणितं भवेत्‘ इति । अनन्तरदिने तेन देवः दृष्टः इति निरूपितं भवति । तत् कथमिति जिज्ञासायां कथां शृण्वन्तु । (“केन्द...

जीवनदर्शनम् 07.03.2025

सर्वे अपि अपत्यस्य जन्मदिनं निमित्तीकृत्य किमपि उपायनं यच्छन्ति । तत् सर्वं लौकिकम् उपयानं भवति प्रायशः । अस्यां कथायां पुत्र्याः जन्मदिननिमित्तं पिता तिस्रः पेटिकाः ददाति । किं भवितुम् अर्हति तासु पेटिकासु ? कीदृशानि उपायनानि ? लौकिकानि वा तत्त्वबोधकानि वा ? आगच्छन्तु कथां शृण्मः ।  वयम् अपि तादृशानि उपायनानि एव बालेभ्यः दातुं प्रयत्नं कुर्मः  (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्...

मनोबलं सर्वबलातिशयि 06.03.2025

अस्यां कथायां कश्चन आचार्यः मनोबलस्य महत्त्वं छात्रेभ्यः बोधयति । सिंहः गजवत् न महाशक्तिमान्, उष्ट्रवत् न अत्युन्नतः, शृगालवत् न महाबुद्धिमान्, चित्रकवत् अधिकवेगेन न धावितुं शक्तोति, गरुडवत् अत्युन्नते स्थले डयने असमर्थः, तथापि सः मनोबलेन वनस्य राजा अस्ति । मनोबलं सर्वबलातिशायि । शरीरस्य सर्वाणि अङ्गानि अपि यत्र असफलानि तत्र मनोबलम् एकम् एव अस्माकम् आधारः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टा...

दुर्भावः अनुचितः 05.03.2025

समुद्रतीरे पार्श्वे स्थितं पेयं स्तोकं स्तोकं पिबन्तं कञ्चन युवकम्, अपि च तस्य मूर्ध्नि हस्तं प्रसारयन्तीं काञ्चन महिलां दृष्ट्वा भद्रपुरुषः अचिन्तयत् यत् सः युवकः मद्यपः, सा च महिला प्रेयसी गणिका स्त्री इति । तावता समुद्रतः 'रक्षत रक्षत' इति चीत्कारं श्रुत्वा सः युवकः‌ झटिति समुद्रं प्रविश्य परित्राणकार्यम् आरभ्य भद्रपुरुषेण सह सर्वान् रक्षितवान् । तदनन्तरं भद्रपुरुषः ज्ञातवान् यत् सः बालकः रोगस्...

सौभाग्यवती भव 04.03.2025

'ज्येष्ठाः नन्तव्याः‌' इति आचारः लोके अस्ति । स्नेहं, विश्वासं, आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः । इयं कथा तस्य उदाहरणं भवितुम् अर्हति । कुरुक्षेत्रयुद्धे यदा भीष्मः युद्धे पाण्डवान् हनिष्यामि इति घोषणम् अकरोत् तदा कृष्णस्य वचनानुसारं मध्यरात्रे एव द्रौपदी भीष्मावासं प्राप्य नमस्कृतवती । नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा भीष्मः सहजतया 'अखण्डसौभाग्यवती भव' इति आशीर्वादं कृतवान् ।...

अधिकमूल्यकं चित्रम् 03.03.2025

कदाचित् कश्चन राजा स्वस्य चित्रं लेखयितुम् ऐच्छन् अत्युत्तमं चित्रकारम् अन्वेष्टुम् आदिशति लभते च  । यदा राजा चित्रकाराय स्वस्य इच्छां कथयति, तदा सः 'कियन्मूल्यकं चित्रं लेखनीयम्' इति पृच्छति  । कुतूहली सः राजा अल्पमूल्यके चित्रे किं भवति, अधिकमूल्यके चित्रे किं भवति इति पृच्छति । तदा तस्य उत्तरं किं ददाति इत्यादि सर्वं कथां श्रुत्वा जानीयाम । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्ग...

श्रेष्ठानि तत्त्वानिः 02.03.2025

कदाचित् कश्चन पण्डितः नद्यां स्नानं कुर्वन् कञ्चन श्रेष्ठतत्त्वयुतश्लोकम् यदा उच्चारितवान् तदा वस्त्रप्रक्षालानाय आगतवती काचित् महिला हसितवती  । ग्राममुख्यः यदा महिलाम् आनाय्य किमर्थं पण्डितं अपमानितवती इति पृष्टे, 'अपमानं न कृतवती  । लोके अन्यानि अपि श्रेष्ठानि तत्त्वानि सन्ति' इत्युक्त्वा तानि कानि इति विवृणोति  । कथां श्रुत्वा ज्ञास्यामः यत् एकैकः कथं भिन्नरीत्या चिन्तयति इति  । (“केन्द्रीयसंस्...

धैर्यवती महिला 01.03.2025

कदाचित् महापराक्रमी सम्राट् अशोकः साम्राज्यविस्तरणाय दण्डयात्रां‌ कुर्वन् विजयपुरीम् आक्रम्य तस्य शान्तिप्रियराजं वीरसेनं पराजित्य कारागारे स्थापितवान् । कदाचित् अवगुण्ठनधारिणी काचित् महिला आगत्य स्वीयभूमिं सम्पत्तिं च वशीकृत्य, पतिं कारागारे निक्षिप्तवन्तं विरुद्धं न्यायं याचितवती । कः सः?  इति अशोकेन पृष्टे, सा अवगुण्ठनम् अपनीय वदति - सः भवान् एव इति । तस्याः‌ सात्विकं कोपं, धैर्यं च दृष्ट्वा अश...

प्रसन्नतायाः कारणम् 28.02.2025

कदाचित् सम्राट् श्रोणिकः भगवन्तं बुद्धं दृष्ट्वा पृच्छति - ‘सर्वविधानि सुखानि चेदपि कथं मनः प्रसन्नं न भवति इति । तदा बुद्धः वदति - ‘चापल्यत्यागः, विलासिजीवने अल्पप्रवृत्तिः, भोगसाधनानाम् उपयोगे न्यूनतासम्पादनम्, दयास्नेहादीनाम् अवलम्बनं, यावत् प्राप्येत तावता सन्तुष्टिः, दानशीलता इत्यादयाः अंशाः अवलम्बिताः चेत् प्रासादे अपि सन्तोषः प्रातुं शक्यः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीय...

कर्मसु कौशलम् 27.02.2025

कदाचित् महानौकायाम् उत्पन्नायाः समस्यायाः परिहारम् अनवगच्छन्तः तन्त्रज्ञाः असहायकतां दर्शितवन्तः । तावता व्यवस्थापकेन आनीतः कश्चन विशेषतन्त्रज्ञः अनुभवी वृद्धः, अल्पेन कालेन दोषं परिहृतवान्  ।  तेन सर्वैः यन्त्रैः कार्यम् आरब्धम् । कौशलस्य मूल्यमपि अधिकम् इति ज्ञात्वा सः व्यवस्थापकः दशसहस्ररूप्यकाणि विशेषज्ञाय दत्त्वा प्रेषितवान्  । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...

निर्मीयतां चिकित्सालयप्रकोष्ठः 26.02.2025

जनपदचिकित्सालयस्य पुरतः उपविश्य शाकविक्रयणं करोति काचित् वृद्धा बिन्नीबाई इति । चिकित्सालये स्थलाभावात् सञ्चारभूमौ शयनं कुर्वतः रोगिणः दृष्ट्वा सन्तापम् अनुभवन्ती सा मुख्यवैद्याधिकारिणं रोगिणां व्यवस्थां कल्पयितुं शक्यते वा इति पृच्छति । धनाभावात् सर्वकारः प्रकोष्ठनिर्माणे अनासक्तः इति ज्ञात्वा सा स्वस्य ग्रामभूमिं विक्रीय, सञ्चितं धनमपि संयोज्य दशलक्षं रूप्यकाणि वैद्याय ददाति । ततः महता वेगेन प्र...

Lyssna på podden बालमोदिनी i Replaio

Radio och poddar i en och samma app - gratis och utan konto. Installera redan idag och missa inte premiären

Ladda ned på Google Play

Replaio är ingen poddutgivare; programnamn, omslag och ljud tillhör sina upphovspersoner och distribueras via offentliga RSS-flöden