सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Episoade: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Vizitează neapărat site-ul podcastului și susține-i creatorul: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Categorie

Kids

Site-ul podcastului

sambhashanasandesha.in

Cel mai nou episod

11 iul. 2026

Unde asculți?

Podcasturi în aplicație Replaio Radio În curând

Podcasturile ajung în curând în aplicație. Instaleaz-o acum și fii primul care descoperă o abordare complet nouă a podcasturilor

Descarcă din Google Play Instalează gratuit Android aproape 10 mil. descărcări · nota 4,8 iOS în curând

Episoade

यत् यदा, तत् तदैव 27.04.2026

इयं कथा राजचोरयोः विषये अस्ति। चौर्यार्थम् आगतः चोरः राज्ञः प्राणरक्षणं करोति । तदर्थं राजा तस्मै दश सुवर्णनाणकानि उपायनत्वेन दत्त्वा प्रेषयति । अपि च चौर्यार्थं दश रजतनाणकानि दण्डत्वेन दातव्यम् इति दण्डयति च । कोषाधिकारी कुतूहलत्वेन चोरम् अपृच्छत् 'चौर्यार्थम् आगतेन त्वया चौर्यप्रवृत्तिं परित्यज्य राज्ञः प्राणरक्षणाय किमर्थम् उद्यतम्?’ इति । तदा चोरः 'परेषां प्राणरक्षणाय प्रयासः मानवमात्रस्य आद्य...

विग्रहः तु मदीयः 26.04.2026

पूर्वं कश्चन कृष्णभक्तः आसीत् । सः सदा भगवतः ध्याने पूजायां च निरतः‌ भवति स्म । तस्य भक्त्या सुप्रीतः श्रीकृष्णः कदाचित् तस्य पुरतः प्रत्यक्षः अभवत् । तं दृष्ट्वा भक्तः नितरां सन्तुष्टः जातः । आनन्दाश्रूणि स्रावयन् साष्टाङ्गं नमस्कृतवान् । ततः श्रीकृष्णः तं परीक्षते । भक्तः परीक्षायां सफलः भवति । अन्ते भक्तम् आशिषा अनुगृह्य ततः अन्तर्हितः भवति भगवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयो...

दिग्भ्यः नमस्कारार्पणम् 25.04.2026

आश्रमे गुरुः प्रतिदिनं प्रातः अष्टसु दिक्षु नमस्कारं करोति स्म । तत् दृष्ट्वा कश्चन शिष्यः अष्टानां दिशानां नमस्कारस्य उद्देशम् अपृच्छत् । तदा सः सर्वाः दिशः किं किं तत्त्वं सङ्केतयन्ति इति वदति । दिग्भ्यः नमस्कारार्पणम् एवं विशिष्टेन उद्देशेन भवति इति ज्ञात्वा इतः परम् अहमपि दिशः नमस्करिष्यामि इति अवदत् शिष्यः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षे...

ज्ञानप्रकाशस्य उद्दीपनम् 24.04.2026

कश्चन शिष्यः आचार्यम् अपृच्छत् यत् ज्ञानात् केवलं वृत्तिप्राप्तिः, मानसम्मानप्राप्तिः च एव प्रयोजनं वा? इति । तदा आचार्यः केनचित् निर्दर्शनेन शिष्यं बोधयति 'अज्ञानस्य कारणतः अस्मासु अनेकविधाः भ्रान्तयः जायन्ते । तासां निवारणाय अन्तरङ्गदीपः उद्दीपनीयः । सर्वे अन्तरङ्गोद्दीपनं कर्तुं न अर्हन्ति । भ्रमजालस्य अपसारणाय आत्मप्रकाशस्य प्राप्त्यै च निरन्तरगभीराध्ययनम् एव शरणम्' इति । (“केन्द्रीयसंस्कृतविश...

सत्कार्याणि कानि ? 23.04.2026

'फलप्राप्तीच्छां विना यानि उत्तमानि कार्याणि क्रियेरन् तानि एव सत्कार्याणि भवेयुः । यत् क्रियेत तत् निःस्वार्थभावनया कर्तव्यम् । जनानाम् उपकारः यतः स्यात् तादृशानि कार्याणि करणीयानि । येभ्यः कार्येभ्यः मनसः आत्मनः च संस्कारः‌ भवेत् तानि एव उत्तमकार्याणि । प्रशंसाप्राप्तीच्छा विकृतिरूपा एव । अतः तादृशीम् इच्छां परित्यज्य शुद्धेन हृदयेन प्रजाहितकार्याणि कुरु' इति कश्चन संन्यासी कञ्चन राजानं बोधयति अ...

निर्लिप्तभावेन प्रशासनम् 22.04.2026

व्यासपूजादिने गुरोः रामदासस्य आश्रमं प्रति भक्ताः आगत्य गुरुपूजां निमित्तीकृत्य किमपि समर्पयन्ति स्म । राजा शिवराजः अपि तत्र आगत्य साष्टाङ्गप्रणामं कृत्वा एकं कागदं स्थालिकां संस्थाप्य गुरुदेवस्य पुरतः‌ अस्थापयत् । तत्र लिखितम् आसीत् 'मम राजपदवीं, राज्यं, सम्पत्तिं च गुरुदेवस्य पदतले अर्पितम् अस्ति' इति । सः संन्यासी भूत्वा गुरोः सेवां कर्तुम् इच्छति स्म । तदा गुरुः अवदत् 'स्वराज्यं सुराज्यं क्रिय...

सन्तोषप्राप्त्यै मार्गः 21.04.2026

सन्तोषप्राप्तिमार्गम् इच्छन्तं कञ्चन गृहस्थं कश्चन महात्मा स्वस्य आश्रमे कूपखननकार्ये नियोजयति । सः गृहस्थः काञ्चित् नीतिम् अनुसृत्य कूपखननं करोति । जलम् अपि उद्भवति । तदा परस्परसम्भाषणावसरे महात्मा वदति 'कूपखननस्य या नीतिः सा एव सन्तोषप्राप्त्यै अपि । ऊर्ध्वभागे विद्यमानाः विघ्नकारकाः अंशाः अपनीताः चेत् सन्तोषः स्वयमेव उद्गच्छति । निरन्तरप्रयासः अपि अपेक्ष्यते तदर्थम् । मनसः नैर्मल्यं सम्पादितं च...

देशीया विदेशीया च संस्कृतिः 20.04.2026

भारतीयः कश्चन युवा संन्यासी विदेशम् अगच्छत् । काषायं कञ्चुकं शिरोवेष्टं धृत्वा सर्वत्र अटति स्म । एकदा कश्चन विदेशी तम् उपसर्प्य अवदत् 'सर्वदा इदमेव वस्त्रं धृतवता भवता लज्जा न अनुभूयते वा? कीदृशी दारिद्र्योपेता संस्कृतिः स्यात् भवताम्' इति । तदा सः युवा संन्यासी अवदत् 'भवतां संस्कृतेः निर्माणं भवद्देशस्य सौचिकाः कुर्युः । किन्तु अस्माकं सनातनीं संस्कृतिम् अस्माकं चारित्र्यं निर्माति । कस्यचन देशस...

स्वरक्षणं स्वयमेव करणीयम् 19.04.2026

कस्मिंश्चित् अरण्ये उषितवतः कस्यचन शशस्य विश्वासः आसीत् यत् सर्वे प्राणिनः मम सुहृदः इति । यश्च विश्वासः परावलम्बनं द्योतयति स्म । एकदा क्रीडाङ्गणे खेलता शशकेन दूरात् शुनकानां भषणं श्रुतम् ।  शशः ततः न अधावत् । तस्य चिन्तनम् आसीत् कश्चन सुहृद् मम साहाय्यं करिष्यति इति । ततः सः अश्वं गर्दभं मेषं च उपसर्प्य स्वं रक्षितुं प्रार्थयते । किन्तु ते सर्वे किञ्चन कारणम् उक्त्वा सहकर्तुं निराकुर्वन्ति । एता...

अपराधकृत्येषु न्यूनता 18.04.2026

कदाचित् वेषान्तरं धृतवान् राजा पङ्क्तिबद्धतया एव चलतः दशाधिकान् गर्दभान् अपश्यत् । कारणे पृष्टे रजकः अवदत् यत् यः गर्दभः पङ्क्तिभङ्गं करोति तं सम्यक् ताडयामि इति । राजा स्वपरिचयम् उक्त्वा देशे प्रवृत्तानाम् अपराधकृत्यानां निग्रहः कर्तुं शक्यः वा इति । तदा रजकः अवदत् 'द्वित्राः कठोरदण्डनेन दण्डनीयाः । ततः सहजतया अपराधकृत्ये न्यूनता भविष्यति' इति । ततः राजा तं न्यायनिर्णायकत्वेन नियोजयति । आदौ चौर्य...

सुयोग्यः पुत्रः 17.04.2026

कदाचित् जलपूर्णं‌ घटं वहन्तीनां तिसृणां महिलानां पुत्राणां श्रेष्ठताविषये चर्चा आरब्धा । प्रथमायाः पुत्रः महाविद्वान् । द्वितीयायाः पुत्रः उत्तमः वणिक् । तृतीयायाः पुत्रः तु शास्त्रम् अधीत्य, विरामसमये अन्यान् शास्त्रग्रन्थान् अध्यापयति स्म । तावता राजधानीं गच्छन् प्रथमायाः पुत्रः ताः नमस्कृत्य अग्रे अगच्छत् । अनन्तरं द्वितीयायाः पुत्रः अपि ताः प्रणम्य वेगेन अधावत् । तावता तृतीयायाः पुत्रः आगत्य त...

अभिनन्दनं कस्मै ? 16.04.2026

रवीन्द्रनाथटागोरवर्यः यदा गीताञ्जलिनिमित्तं नोबेल्प्रशस्तिं प्राप्नोत् तदा शान्तिनिकेतने अभिनन्दनसभा प्रवृता । बङ्गालस्य वरपुत्रः' साहित्यक्षेत्रे ध्रुवनक्षत्रम्' ‘भारतमातुः कीर्तिहेतुः' इत्यादिभिः वचनैः तस्य प्रशंसा बहुभिः कृता । रवीन्द्रनाथवर्येण न अत्युत्साहः प्राप्तः, न वा नीरसप्रतिस्पन्दः दर्शितः । कश्चन आप्तः अपृच्छत् 'सर्वे महता सन्तोषेण आसन् । किन्तु भवान् तु स्थितप्रज्ञः इव व्यवहृतवान्' इ...

कष्टनिवारणं सर्वादौ स्यात् 15.04.2026

कदाचित् रामकृष्णपरमहंसेन सह प्रबन्धकः मथुराबाबुः अन्ये केचन च तीर्थयात्रां कुर्वन्तः देवघरप्रदेशं प्राप्तवन्तः । तस्मिन् काले महान् क्षामः प्रसृतः आसीत् । आहाराभावकारणतः जनाः महत् कष्टम् अनुभवन्तः आसन् । तत्रापि सन्थालजातीयाः वनवासिनः भोक्तुम् अन्नं, धर्तुं वस्त्रं च अप्राप्नुवन्तः किङ्कर्तव्यताविमूढाः आसन् । रामकृष्णवर्यः एतेषां कष्टस्य निवारणाय दृढनिश्चयम् अकरोत् । तीर्थयात्रायै रक्षितं धनं, धनव...

कष्टकाले व्यवहारः 14.04.2026

निरन्तरं कष्टम् अनुभवन्तीं काञ्चित् पौत्रीं तस्याः पितामही एकेन निर्दशनेन दर्शयति यत् कष्टे प्राप्ते धैर्यच्युतिप्राप्तिः न उचिता । कष्टकाले दृढतां प्राप्य कष्टं धैर्येण सम्मुखीकरणीयम् । कष्टं सम्मुखीकृत्य कालानुगुणतया आत्मनि परिष्कारम् आनीय अन्येषु अपि तादृशस्य गुणस्य आनयनाय प्रयासः तु उत्कृष्टः व्यवहारः इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...

प्रीतिः परस्परावगतिः च मुख्या 13.04.2026

कश्चन कृषिकः तरुणः विवाहार्थं बह्वीः कन्याः दृष्टवान् चेदपि तासु कापि तस्य तृप्तये न जाता । अतः तेन अग्रे किं क्रियेत इति धिया कञ्चन गुरुम् उपसर्पति । तदा गुरुः अवदत् 'भवता उत्कृष्टं बृहदाकारकम् आम्रफलम् एकम् अन्विष्य आनेतव्यम् । पूर्वं यत्र गतं तत् स्थलं‌ प्रति न गन्तव्यम्' इति । ततः निर्गतेन तरुणेन एकस्यां वाटिकायाम् उत्कृष्टानि आम्रफलानि दृष्टानि चेदपि अग्रे इतोSपि उत्कृष्टानि आम्रफलानि प्राप्य...

प्रयत्नः न परित्यक्तव्यः 12.04.2026

श्रान्तः पुत्रः नौदण्डचालनं परित्यज्य गृहं गच्छाम इत्यवदत् यतः बलवद्भ्यः तरङ्गेभ्यः नौका अग्रे न गच्छति स्म । तदा पिता अवदत् 'समुद्रस्य गभीरता यावत् वर्धेत तावता प्रमाणेन तरङ्गाघातः अपि न्यूनः भवेत् । गभीरस्थलप्राप्तिपर्यन्तमपि प्रयत्नः न परित्यक्तव्यः । ये शान्तस्थितिं प्राप्तवन्तः ते सर्वे सहस्रशः प्रयत्नान् कृतवन्तः एव । यः‌ प्रयत्नकारणात् भीतः भवेत् सः‌ कदापि अग्रे न गच्छेत्, प्रगतिं न प्राप्न...

विजयस्य मार्गः 11.04.2026

कश्चन जनः कञ्चित् गुरुम् उप्सर्प्य विजयप्राप्तिमार्गम् अपृच्छत् । तदा गुरुः बोधयति – ’विजयप्राप्तिमार्गः पार्थक्येन न भवति । स्थिरतया स्थित्वा कष्टपरमपरां सम्मुखीकृत्य यः अग्रे गच्छेत् सः एव विजयं प्राप्नुयात्' इति । एवमेव सम्भाषणम् अनुवर्तते तयोः मध्ये । सन्तोषसन्तृप्तादयः कथं प्राप्येरन् ? सन्तोषस्य जयपराजयोः च किं न कोSपि सम्बन्धः? तेषां सर्वेषां प्रश्नानां समाधानं बोधयति सः गुरुः । (“केन्द्रीय...

यशस्वितासूत्रम् 10.04.2026

कश्चन गुरुः यशस्वितामार्गं ज्ञातुम् इच्छन्तं शिष्यं महाराजस्य समीपं प्रेषयति । सुखभोगवातावरणे लीनः राजा कथं मां बोधयति इति चिन्तयति शिष्यः । भटाः शिष्यम् अतिथिप्रकोष्ठं नीतवन्तः । तत्र मृदुतल्पः, विविधाः फलखाद्यादिव्यवस्थाः आसन् । यदा शिष्यः शयनम् अकरोत् तदा तेन स्वशिरोभागे लम्बमानः कश्चन तीक्ष्णः खड्गः लक्षितः । समग्रां रात्रिं खड्गं पश्यन् एव अयापयत् सः शिष्यः । परेद्यवि राजा अवदत् 'आस्थाने भोगम...

का नाम भीतिः‌? 09.04.2026

फ्रान्स्-देशस्य कश्चन लघुग्रामः महता अरण्येन आवृतः आसीत् । ततः अनतिदूरे कश्चित् महापर्वतः विराजते स्म । कदाचित् तद्ग्रामस्य अष्टवर्षीयः बालं तं पर्वतम् आरुह्य एकस्यां महाशिलायाम् उपविश्य निसर्गसौन्दर्यम् आस्वादयन् आसीत् । अन्धकारः प्रसृतः चेदपि बालः गृहं न आगतः इति चिन्तायां सत्यां तस्य पितामही प्रतिवेशिजनैः सह पौत्रस्य अन्वेषणं कुर्वती पर्वतसमीपम् अगच्छत् । तत्र कस्याञ्चित् महाशिलायां तूष्णीम् उप...

धर्मतत्त्वम् 08.04.2026

इयं कथा धर्मत्त्वं बोधयति । कस्यचन वणिजः जिज्ञासा आसीत् । सा च लोके स्थितानां बहूनां मतानां मध्ये परस्परं कलहाः भवन्ति । सर्वाणि अपि मतानि स्वचिन्तानुगुणं धर्मस्य स्वरूपं विवृण्वन्ति । किन्तु धर्मस्य वास्तविकं स्वरूपं किम् इति न ज्ञायते इति । अथ कदाचित् सः वणिक् कञ्चित् तत्त्वज्ञानिनम् उपसर्प्य स्वजिज्ञासां कथयित्वा तत्त्वज्ञानिना ज्ञातं धर्मत्त्वं बोधयितुं प्रार्थयते । स च तत्त्वज्ञानी स्वस्य अनु...

छात्रस्य निःस्पृहता 07.04.2026

शैत्यकालस्य रात्रिः । केचन बालाः छात्रावासस्य पुरतः अग्निं प्रज्वाल्य तस्य पार्श्वे उपविश्य पुस्तकानि पठन्ति स्म । तदवसरे कश्चन पान्थः आगत्य अग्निपार्श्वे उपविशति शैत्यकारणेन । किञ्चित्कालं तत्र उपविश्य शैत्यनिवारणम् अनुभूय छात्रेभ्यः कृतज्ञतां समर्प्य ततः निर्गच्छति । किञ्चित्कालानन्तर्म् अध्ययनरतः कश्चन छात्रः पान्थस्य ग्रन्थिम् पश्यति । तस्मिन् प्रभूतं धनम् आसीत् । सः धावित्वा तस्मै पान्थाय धनग...

हृदयस्य अवगमनम् 06.04.2026

रामः यदा वनवासं प्रति प्रस्थितवान् मार्गे एकं कण्टकं रामस्य पादे लग्नम् । वेदनाम् अनुभवन् सः भूदेवीं प्रार्थितवान् 'मातः! यदा भरतः मम अन्वेषणं कुर्वन् अत्र आगच्छेत् तदवसनरे मार्गे कण्टकानि शिलाखण्डाः च यथा न भवेयुः तथा अनुगृहाण' इति । 'किमर्थम् एवं प्रार्थितम्?’ इति कुतूहलेन सीता अपृच्छत् । तदा रामः अवदत् 'अन्वेषणसमये यदि भरतेन कण्टकवेधः प्राप्येत तर्हि सः चिन्तयेत् यत् मम अग्रजः एतादृशैः कियद्भिः...

राष्ट्रश्रद्धा 05.04.2026

कस्यचन राज्ञः सभायाम् 'अस्मिन् राज्ये जनानां सन्तोषजीवनस्य कारणं किं भवितुम् अर्हति?’ इति विषयम् अधिकृत्य चर्चा जाता । अन्ते निर्णीतं यत् सेना, देशसमृद्धिः, राष्ट्रश्रद्धा चेति त्रीणि तत्त्वानि मुख्यानि इति । एतेषु अपि मुख्यं किम् इति जिज्ञासायां राजा कञ्चन संन्यासिनं दृष्ट्वा स्वस्य जिज्ञासां तस्य पुरतः उपस्थापितवान् । सुदीर्घायाः चर्चायाः अनन्तरं राज्ञा ज्ञातं यत् राष्ट्रश्रद्धा एव सर्वातिशायिनी...

यत् अस्ति तदेव परमप्रियम् 04.04.2026

कदाचित् कश्चन भक्तः कस्यचन माहात्मनः कुटीरे एकस्यां रात्रौ वासम् अकरोत् । इष्टिका एव उपाधानम्, जीर्णः च कटः एव शय्या आसीत् तस्य माहात्मनः । एतत् दृष्ट्वा सः भक्तः तस्य कष्टमयं जीवनं दृष्ट्वा उत्तमव्यवस्थां व्यवस्थापयिष्यामि इति अवदत् । किन्तु भगवता यत् दत्तं तत् एव परमप्रियम् इति महात्मा मन्यते स्म । इदानीं यावत् स्यात् तावता एव सः नितरां सन्तुष्टः आसीत् । एतादृशस्य कारणतः एव सः महात्मा जाता इति व...

लक्षितम् अन्यत् 03.04.2026

शरीरहीनताकारणतः कश्चन दुर्बलकायजनः भृतिकार्यं न प्राप्नोति स्म । यदा सः देवं प्रार्थितवान् तदा देवः स्वप्ने प्रत्यक्षीभूय 'शिलानोदनं कुरु' इत्यवदत् । मासत्रयम् अतीतं चेदपि तां महाशिलां कम्पयितुम् अपि न शक्तवान् सः । अतः सः खिन्नः जातः । कदाचित् स्वप्ने यदा देवः दृष्टः स्वस्य दौर्भाग्यम् अकथयत् सः जनः । तदा देवः अवदत् 'भवता सा महाशिला कम्पयितुं न शक्या इति जानामि अहम् । किन्तु मासत्रयं यावत् यः नोद...

Ascultă podcastul बालमोदिनी în Replaio

Radio și podcasturi într-o singură aplicație - gratuit și fără înregistrare. Instaleaz-o azi și nu rata lansarea

Descarcă din Google Play

Replaio nu este editorul podcasturilor; numele emisiunilor, coperțile și materialul audio aparțin autorilor lor și sunt distribuite prin fluxuri RSS publice