सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Episoade: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Vizitează neapărat site-ul podcastului și susține-i creatorul: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Categorie

Kids

Site-ul podcastului

sambhashanasandesha.in

Cel mai nou episod

11 iul. 2026

Unde asculți?

Podcasturi în aplicație Replaio Radio În curând

Podcasturile ajung în curând în aplicație. Instaleaz-o acum și fii primul care descoperă o abordare complet nouă a podcasturilor

Descarcă din Google Play Instalează gratuit Android aproape 10 mil. descărcări · nota 4,8 iOS în curând

Episoade

मातृऋणम् 09.10.2025

सुप्रसिद्धः राजा देवव्रतः कदाचित् स्वमातरं पद्मावतीम् अवदत् 'पितुः आज्ञानुसारेण राज्यस्य उत्तरदायित्वं निर्वहन् अस्मि । गुरुणा प्रदत्तायाः शिक्षायाः सदुपयोगं कृतवान् अस्मि । अतः अहं भूमेः, गुरोः, पितुः, मातुः च ऋणात् मुक्तः अस्मि' इति । पुत्रस्य एतादृशीं वार्तां श्रुत्वा पद्मावती अहसत् । अनन्तरं सा एकेनैव उदाहरणेन दर्शयति यत् कथं मातुः ऋणात् मुक्तः भवितुं न अर्हति इति । ततः सः‌ मातुः क्षमां प्रार्...

स्वतन्त्रतायाः महत्त्वम् 08.10.2025

कदाचित् कश्चन बालकः चिन्मयः सुमधुरं कूजन्तं पक्षिशावकं गृहीत्वा पञ्जरे स्थापितवान् । चिन्मयः आदिनं शावकं किमपि खादयितुं प्रयतमानः आसीत् किन्तु शावाकः किमपि अस्पृष्ट्वा मातरं स्मरन् व्याकुलतया क्रन्दनं कुर्वन् आसीत् । अनन्तरदिने प्रातः एकः पक्षी एतं शावकं किमपि खादयन् आसीत् । तद् दृष्ट्वा यदा चिन्मयः पञ्जरसमीपं गतः तावता शावकः मृतः आसीत् । अनन्तरं केनचित् पक्षितज्ञेन ज्ञातं 'यदि कश्चन पक्षी दुर्दैव...

यद्यदाचरति श्रेष्ठः 07.10.2025

'यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः' इत्यस्य वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कदाचित् स्काट्लेण्डदेशस्य एडिम्बरानगरस्य दण्डाधिकारी जार्ज् ड्रुमण्डः, वायुविहारसमये काञ्चन शवयात्राम् अपश्यत् । किन्तु पेटिकां परितः चतुरः जनान् विहाय अन्ये केऽपि न आसन् । कारणं तस्य दरिद्रस्य बान्धवाः, स्नेहिताः च न आसन् । अतः ड्रुमण्डः 'दरिद्राणां सेवां करोमि' इति विचिन्त्य तैः सह प्रस्थितवान् । ड्रुमण...

अपरिवर्तनीयः‌ विधिनियमः 06.10.2025

कदाचित् सर्वे देवताः स्ववाहनेन कैलासम् आगताः । गोष्ठी च आरब्धा । अत्रान्तरे बहिः महिषारूढः  यमधर्मराजः पुरतः‌ वृक्षस्य उपरि उपविष्टं कपोतं तीक्ष्णदृष्ट्या दृष्ट्वा अन्तः गतवान् । गरुडः एतत् सर्वं दृष्ट्वा कथञ्चिदपि एषः कपोतः यमधर्मराजतः रक्षणीयः इति विचिन्त्य कपोतं गृहीत्वा रामेश्वरक्षेत्रम् आनीय वटवृक्षस्य उपरि उपवेश्य वेगेन कैलासं प्रत्यागतवान् । सभातः‌ निष्क्रामन् यमराजः रामेश्वरक्षेत्रे कपोतस्...

वीरतारापोरः 05.10.2025

१९६५ तमे वर्षे भारतपाकिस्थानयोः मध्ये युद्धं प्रचलत् अस्ति । लेफ्टिनेण्ट तारापोरः अस्य सेनानीः आसीत् । केषाञ्चन दिनानामनन्तरं फिल्लोरनगरस्य समीपे स्थितानि शत्रुयानानि नाशितानि । पाकिस्थानस्य  एका क्षिपणिः तारापोरस्य युद्धवाहनस्य विध्वंसम् अकरोत् । तारापोरः व्रणितः जातः चेदपि चिकित्साम् उपेक्ष्य अग्रे गत्वा वीरावेशेन युद्धं कृतवान् । अन्यथा गतिः नास्ति इति शत्रवः पलायनं कृतवन्तः । (“केन्द्रीयसंस्कृ...

चक्रवत् परिवर्तन्ते दुःखानि च सुःखानि च 04.10.2025

यदा वणिजः माधवस्य सुदिनानि समाप्तानि दुर्दिनानि सन्निहितानि तदा सः आर्तस्वरेण देवं प्रार्थितवान् । तदा देवः ब्राह्मणवेषं धृत्वा 'स्वस्य दुःखमेव अधिकम् इति कदापि अस्माभिः चिन्तनं न करणीयम् । अन्येषाम् इतोऽप्यधिकानि दुःखानि भवन्ति एव' इति केनचित् निर्दर्शनेन बोधितवान् । ततः सः धैर्येण एव कष्टानि सोढवान् । अन्ते च सुखं प्राप्तवान् ।  (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां क...

न्यायस्य महिमा 03.10.2025

ग्रीक्-देशस्य स्पार्टानगरे एकं देवीमन्दिरम् आसीत् । देव्याः विग्रहे एकः खड्गः लम्बमानः असीत् । सः खड्गः न्यायनिर्णये सहकरोति स्म । विवादः उत्पन्ने वादिनः विवादिनः च मन्दिरं गत्वा खड्गस्य अधः हस्तं स्थापयन्ति । तदा खड्गः स्वयमेव अधः पतति येन यः अन्याय्यं कृतवान् भवति तस्य हस्तः कर्तितः भवति । अल्विनः नाम कश्चन कृषकः काञ्चित् विधवामहिलां न्यासरूपेण स्थापितानां सुवर्णनाणकानां विषये वञ्चयति । न्याय्या...

बुद्धिमान् शशः 02.10.2025

कदाचित् आहारान्वेषणं कुर्वता शृगालेन एकः शशः दृष्टः । शृगालस्य आगमनं दृष्ट्वा शशः 'कथमपि एतं वञ्चयित्वा आत्मानं संरक्षामि' इति अचिन्तयत् । यदा शृगालः समीपम् आगतवान् तदा शशः 'अन्यः एकः विशिष्टः शृगालः एकस्यां गुहायां वसति । सः शृगालं विना अन्यं प्राणिनं न खादति एव' इति अवदत् । तत् श्रुत्वा तं द्रष्टुं गुहां प्रति प्रस्थितवन्तौ । शशः सिंहस्य गुहायाम् अन्तः शृगालं प्रेषितवान् । अनन्तरं किं जातम् इति...

मध्वपतिः 01.10.2025

कर्णाटकसङ्गीतक्षेत्रे पुरन्दरदासः अतीव प्रसिद्धः । कदाचित् तेन दिनचतुष्टयं नगरान्तरं गन्तव्यम् आपतितम् । अतः तस्य चतुर्थं पुत्रं लघुबालं मध्वपतिं मारुतेः पूजाकार्यं करोतु इत्युक्तवान् । परेद्यवि नैवेद्यविधेः अनन्तरमपि मारुतिः नैवेद्यं न कृतवान् इत्यतः भक्त्या नैवेद्यं स्वीकर्तुं प्रार्थितवान् । मध्वपतेः हठं दृष्ट्वा मारुतिः मुखम् उद्घाटितवान् । मध्वपतिः स्वल्पं स्वल्पं नैवेद्यं मुखे क्षिप्तवान् ।...

शिवाजेः औदार्यम् 30.09.2025

बर्हानपुरे दरिद्रः केशवशास्त्री पुत्रस्य चिकित्सार्थं धनम् अपेक्षते इति देवं प्रार्थयमाणः आसीत् । तदा एव देवालयात् बहिः कोलाहलं श्रुत्वा ज्ञातवान् यत् आगरादुर्गात् पलायितः शिवाजिमहाराजः, चत्वारः अनुचराः च सन्ति इति । सः अचिन्तयत् यत् 'एनं विषयं यवनाधिकारिणं सूचयामि । तदा यत् पारितोषिकं लभ्यते तेन मम पुत्रं रक्षामि' इति । एतत् सर्वं गृहजनेभ्यः उक्त्वा यदा गृहतः प्रस्थितः तदा तस्य स्नुषा 'हिन्दूनां...

ज्ञानतो ज्येष्ठत्वम् 29.09.2025

एकदा अङ्गिरसस्य पुत्रस्य कवेः समीपं तस्य मातुलः पितृव्यः इत्यादयः सर्वे वृद्धाः गत्वा 'भवान् तु अस्माकं पुत्रः इव । अस्माकं वेदाध्ययनं कारयतु' इति अवदन् । ततः कविना वृद्धवर्गाय वेदाध्यापनम् आरब्धम् । कदाचित् पाठनावसरे कविना उक्तम् 'हे पुत्राः! मह्यं जलम् आनयन्तु' इति । तं सम्बोधनं श्रुत्वा खिन्नाः वृद्धजनाः देवनां समीपं गतवन्तः । देवाः अवदन् 'अज्ञानी मनुष्यः बालः एव । वेदज्ञः एव पिता इति शास्त्रं...

त्रयः पाषाणखण्डाः 28.09.2025

कश्चन पथिकः मरुप्रदेशे सञ्चरन् आसीत् । रात्रौ कश्चित् ध्वनिः श्रुतः 'अत्र पतितान् पाषणखण्डान् चिनोतु । श्वः ते सुवर्णमयाः भवेयुः' इति । किन्तु पथिकस्य विश्वासः न आसीत् । तथापि तेन त्रयः पाषाणखण्डाः स्वीकृताः । अनन्तरदिने त्रयः अपि पाषाणखण्डाः सुवर्णरूपेण परिवृत्ताः आसन् । पथिकः हर्षोत्फुल्लः अभवत् । किन्तु द्वितीयक्षणे 'कुतो मया बहवः पाषाणखण्डाः न चिताः?’ इति चिन्तयन् हतोत्साहः दु:खितश्च अभवत् । त...

अखण्डः विश्वासः 27.09.2025

कुरुक्षेत्रस्य युद्धे कदाचित् भीष्मः प्रतिज्ञातवान् 'अहं श्वः अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि' इति । तां प्रतिज्ञां श्रुत्वा पाण्डवपक्षे सर्वेऽपि भीताः चिन्तिताः च अभवन् । भगवान् श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् । सः अर्जुनस्य सेनाशिबिरं गतवान् । अर्जुनः तु गाढनिद्रायां मग्नः आसीत् । साश्चर्यं कृष्णः तम् उत्थाप्य प्रतिज्ञायाः विषये चिन्तितः नास्ति वा इति यद...

जीवनपथः 26.09.2025

कदाचित् कश्चन मनुष्यः बहुभिः दुःखैः पीडितः सन् ईश्वरसमीपं गत्वा उच्चैः आक्रोशम् कृतवान् । तदा ईश्वरः चित्रगुप्तम् आहूय 'भवतः पुस्तकात् एतस्य जीवनपथप्रदर्शकं चित्रं दर्शयतु' इति अवदत् । यत्र यत्र तस्य मनुष्यस्य पदचिह्नानि आसन् तत्र तत्र ईश्वरस्यापि पदचिह्नानि आसन् । कदाचित् यदा सः मनुष्यः दुःखपीडितः सन् चलितुमपि असमर्थः जातः, तदा ईश्वरः स्वस्य स्कन्धयोः तम् आरोप्य चलितवान् इति ज्ञात्वा मनुष्यः भृशं...

महादाता 25.09.2025

कश्चित् महाराजः धर्मबुद्धिः सुशीलः च आसीत् । तस्य प्रासादे सहस्राधिकाः जनाः भोजनं कृत्वा सन्तृप्त्या गच्छन्ति स्म । कदाचित् तस्य मनसि स्वस्य दानस्य विषये अहङ्कारः जातः । भोजनं कृत्वा आगच्छन्तं प्रत्येकं जनम् अपृच्छत् 'आतृप्ति भोजनं कृतं वा ? अस्य कार्यस्य कृते मां स्मरति वा ?’ इति । सर्वे आम्, स्मरामः इति अवदन् । किन्तु कश्चित् संन्यासी अवदत् 'अहम् इतोSपि महत्तरं दानं कृतवन्तं प्रथमं स्मृत्वा अनन्...

भीमभक्तिः 24.09.2025

युधिष्ठिरः धनुर्मासे प्रतिदिनं शिवपूजां करोति स्म । 'परेद्युः समाप्तिदिनम् । अतः श्रीकृष्णेन सह भोजनं कर्तुम् इच्छामि' इति यदा युधिष्ठिरः अवदत् तदा सर्वे चिन्ताग्रस्ताः आसन् । अल्पेन समयेन कथं गमनागमनं शक्यम् इति । तदा भीमसेनः आगत्य 'श्वः सूर्योदयात् पूर्वम् अहं कृष्णम् अत्र आनेष्यामि' इति अवदत् । परेद्यवि भीमः स्नानादिकं कृत्वा पाकशालां गत्वा भोजनस्य सिद्धतां अकरोत् । तस्य पुरतः स्थित्वा द्वारकाभ...

गुरुसन्निधिः 23.09.2025

कदाचित् कश्चन युवकः गृहं त्यक्त्वा अन्यत्र गतवान् । मातापितरौ पुत्रस्य अन्वेषणार्थं सर्वविधान् प्रयत्नान् कृतवन्तौ । दश वर्षाणि अतीतानि । कदाचित् पिता काशीयात्राम् अगच्छत् । तत्र गङ्गातटे कस्यचन साधोः समीपे उपविश्य पठन्तं कञ्चित् तरुणं दृष्ट्वा एषः स्वस्यैव पुत्रः इति निश्चित्य तम् आलङ्गितुं तस्य समीपं धावितवान् । किन्तु पुत्रः तं वारयन् 'क्षणं प्रतीक्षताम्' इति यदा अवदत् तदा क्रुद्धः पिता तं गुरु...

निष्ठा 22.09.2025

कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः प्रामाणिकः निष्ठावान् च  शिन्धेवर्यः नीतः । राजा प्यारिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्धेवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्धेवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शिन्धेवर्यः । तदा प्रतिनिधिः 'निष्ठा...

रोटिकाद्वयम् 21.09.2025

कदाचित् पुत्रस्य पुस्तकानां निधानिकातः पिपीलिकाः पङ्क्तिशः आगच्छन्ति स्म । पुस्ताकानि निष्कास्य माता तत्र रोटिकाद्वयम् दृष्टवती । विद्यालयतः आगवन्तं पुत्रं माता अपृच्छत् । तदा म्लानमुखः पुत्रः‌ अवदत् 'इतः परं रोटिकानाम् आवश्यकता नास्ति । विद्यालयस्य मार्गे उपविष्टायै वृद्धायै अहं प्रतिदिनं रोटिकाद्वयं ददामि स्म । ह्यः सा न आसीत् इत्यतः निधानिकायां स्थापितवान् आसम् । अद्य ज्ञातवान् यत् सा वृद्धा मृ...

वीरवनिता 20.09.2025

दुर्गादासः महाराष्ट्रराज्यस्य अप्रतिमशूरेषु अन्यतमः यः मोगलराजानां सिंहस्वप्नायते स्म । मोगलराजाः तं हन्तुं सर्वदा प्रयतन्ते स्म । कदाचित् तीर्थयात्रासमये दुर्गादासः कस्यचित् मराठनायकस्य गृहे उषितवान् । सः मराठनायकः मोगलराजस्य सेवकः आसीत् । दुर्गादासं हत्वा प्रभूतं पारितोषिकं प्राप्यते इति विचिन्त्य स्वपत्नीम् उक्तवान् । परन्तु अतिथिरूपेण आगतं देशभक्तं मारयितुं सा अनिच्छां प्रकटयति । तां नुदित्वा...

अपूर्वः विजयः 19.09.2025

कदाचित् कश्चन याचकः युधिष्ठरं नमस्कृत्य शतं नाणकानि याचितवान् । 'श्वः दास्यामि' इत्युक्त्वा तं प्रेषितवान् युधिष्ठिरः । एतत् दृष्टवता स्मितहासेन भीमसेनेन विजयघण्टा वादिता । विजयस्य कारणं किम् इति यदा युधिष्ठिरः अपृच्छत् तदा भीमसेनः अवदत् 'श्वः दास्यामि इत्युक्तस्य अर्थः यत् श्वः पर्यन्तं भवान् निश्चयेन जीविष्यति इति । मृत्योः उपरि एव दिनपर्यन्तकः विजयः किं सामान्यः ?’ इति । युधिष्ठिरः भीमेन उक्तस्...

जयदेवस्य औदार्यम् 18.09.2025

गीतगोविन्दस्य रचयिता जयदेवः सुप्रसिद्धः महाकविः । कदाचित् तीर्थयात्रां कुर्वतः तस्य सम्माननं कृत्वा जनाः तस्मै धनमपि दत्तवन्तः । केचन लुण्ठकाः जयदेवस्य पाणिपादं कर्तयित्वा एकस्मिन् कूपे प्रक्षिप्य धनम् अपहृतवन्तः । तस्मिन् एव मार्गे गच्छता गौडेश्वरेण लक्ष्मणसेनेन मनुष्यस्य ध्वनिः श्रुता । कूपतः जयदेवम् आनाय्य राजधानीं नीतवान् । बहुवारं पृष्टः अपि जयदेवः स्वस्य पाणिपादं कर्तितवतां लुण्ठकानां विषये...

वणिजः कृपणता 17.09.2025

कस्यचन कृपणस्य वणिजः धनस्यूतः च्युतः जातः । तस्मिन् चतुस्सहस्ररूप्यकाणि आसन् । ग्रामप्रमुखस्य द्वारा घोषणं कारितवान् यत् यः तं धनस्यूतं यच्छति तस्मै चतुश्शतं रूप्यकाणि ददामि इति । कयाचित् वृद्धया सः धनस्यूतः प्राप्तः । ग्रामप्रमुखं गत्वा दत्तवती । कृपणः वणिक् वृद्धायै चतुश्शतं रूप्यकाणि दातुं नेच्छत् । सः अवदत् 'अस्मिन् धनस्यूते चतुश्शताधिकचतुस्सहस्रं रूप्यकाणि आसन् । एषा वृद्धा पूर्वमेव चतुश्शतं...

तृतीयं नेत्रम् 16.09.2025

सदाचारसम्पन्नः नरहरिः सुवर्णकारः आसीत् । सः शिवेतरदेवानां देवालयं कदापि न गच्छति स्म । कदाचित् धनिकेन कनकदासेन विठ्ठलमन्दिरं निर्माप्य विठ्ठलाय एका सुवर्णमेखला समर्पणीया इति इच्छा प्रकटिता । तदर्थं सुवर्णकारं नरहरिं यदा अपृच्छत् तदा नरहरिः नेत्रयोः उपरि वस्त्रपट्टिकाबन्धनं कृत्वा विठ्ठलस्य कटेः मापनं कर्तुम् अङ्गीकृतवान् । मापनसमये त्रिवारम् अपि शिवस्य मूर्तिः इव प्रतिभासते तस्मै ।  तृतीयवारं नेत्...

सत्यप्रियता 15.09.2025

विधानचन्द्रः श्रेष्ठः राजनीतिज्ञः चिकित्सकश्च आसीत् । भारतरत्नबिरुदभाक् सः पश्चिमबङ्गालस्य मुख्यमन्त्री आसीत् । अत्यन्तं बुद्धिमान् सः छात्रदशायां प्रत्येकं परीक्षायामपि प्रथमस्थानं प्राप्नोति स्म । परं च एकदा सः महाविद्यालये परीक्षायाम् अनुत्तीर्णः जातः । तत् कथम् इति जानन्ति वा‌ ? तस्य सत्यप्रियतायाः कारणेन । इयं कथा विधानचन्द्रस्य सत्यप्रियतां कथयति ।  (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादश...

Ascultă podcastul बालमोदिनी în Replaio

Radio și podcasturi într-o singură aplicație - gratuit și fără înregistrare. Instaleaz-o azi și nu rata lansarea

Descarcă din Google Play

Replaio nu este editorul podcasturilor; numele emisiunilor, coperțile și materialul audio aparțin autorilor lor și sunt distribuite prin fluxuri RSS publice