सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 617 episódios

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Não deixe de visitar o site do podcast e apoiar quem o produz: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Categoria

Kids

Site do podcast

sambhashanasandesha.in

Último episódio

11 de jul de 2026

Onde ouvir?

Podcasts no app Replaio Radio Em breve

Os podcasts estão chegando ao app. Instale agora e seja o primeiro a descobrir um jeito totalmente novo de curtir podcasts

Baixe no Google Play Instale grátis Android 5 mi+ downloads · nota 4,8 iOS em breve

Episódios

अहो! उदारता 22.05.2026

रवीन्द्रनाथवर्येण यदा नोबेल्पुरस्कारः प्राप्तः तदा असङ्ख्याः जनाः तम् अभिनन्दितवन्तः । किन्तु कश्चन प्रतिवेशी तस्य अभिनन्दं न कृतवान् इति तस्य दुःखम् आसीत् । कदाचित् वायुविहारार्थं रवीन्द्रनाथवर्यः समुद्रतीरम् अगच्छत् । समुद्रे पतिताः सूर्यकिरणाः रमणीयतया शोभते स्म । अत्रान्तरे तस्य दृष्टिः एकस्मिन् गर्ते पतिता । सः अचिन्तयत् 'सूर्यकिरणाः प्रसारविषये गर्तसमुद्रादिभेदभावं न प्रदर्शयन्ति.......’ इति...

स्वीकरणे योग्यता 21.05.2026

पूर्वं कश्चन राजा कस्यचन संन्यासिनः समीपं गत्वा 'उत्कृष्टं तत्त्वं किञ्चन उपदिश्यताम्' इति प्रार्थितवान् । 'अपेक्षिता योग्यता नास्ति इदानीं भवतः' इति संन्यासिना उक्तम् । खिन्नः राजा स्वभवनं गत्वा कोपेन मन्त्रिणम् अवदत् 'एकः पण्डितः, सः संन्यासी च अनीयेताम्' इति । यदा तौ आगतवन्तौ तदा राजा अवदत् यत् अहं पण्डितस्य मुखात् उपदेशं प्राप्स्यामि इति । तदा संन्यासी क्षणमात्रेण एव भवतः योग्यतापरीक्षणं भवितु...

स्वातन्त्र्यम् आनन्दः च 20.05.2026

कदाचित् प्रजानुरागी राजा अरण्यमार्गे गच्छन् आसीत् । कश्चन अजापालकः वृक्षस्य अधः उपविश्य वेणुवादने मग्नः आसीत् । राजा अपृच्छत् 'साम्राज्यमेव प्राप्तवान् इव महति आनन्दे मग्नः भवान् वेणुवादनं करोति' इति । तदा अजापालकः अवदत् 'वस्तुतः वेणुवादनस्य साम्राज्यप्राप्तेः च न सादृश्यम् । अहं तु भगवच्चिन्तनं कुर्वन् सर्वचिन्ताभ्यः मुक्तः सन् मनोवाक्कायकर्मसु स्वतन्त्रः । धनस्य स्वातत्न्त्र्यस्य आनन्दस्य च न को...

का शक्तिः श्रेष्ठा ? 19.05.2026

कदाचित् लक्ष्मीसरस्वत्योः मध्ये का श्रेष्ठा इति विवादः उत्पन्नः । संन्यासिनीरूपेण भूलोकं गत्वा स्वस्य श्रेष्ठता प्रतिष्ठापनीया इति निर्णयं कृत्वा आदौ लक्ष्मीः एकं ग्रामम् अगच्छत् । स्वीयेन सुवर्णपात्रेण यस्मिन् गृहे सा भोजनं करोति तत्रैव भोजनपात्रं परित्यज्यते लक्ष्म्या । जनाः तां स्वगृहं प्रति निमन्त्रयितुम् अहमहमिकया प्रवृताः अभवन् । ग्रामे सर्वत्र ईर्ष्या, असूया, कलहः इत्यादयः आरब्धाः । तदनन्तर...

अलसानां भविष्यम् 18.05.2026

कदाचित् कश्चन आङ्ग्लाधिकारी कृत्रिमं विनयं दर्शयन् दयानन्दसरस्वतीवर्यम् अपृच्छत् 'अधुना भारते आङ्ग्लानां भविष्यं कथं स्यात्?’ इति । तदा दयानन्दवर्यः अवदत् 'आङ्ग्लाः अलसाः जाताः सन्ति । अलसानां भविष्यं सदा निराशदायकम् एव भवति' इति उक्त्वा आङ्ग्लानां दिनचरीं विस्तृतरूपेण अवदत् । दयानन्दवर्यस्य वचनं वास्तवद्योतकम् अप्रियसत्यज्ञापकं च आसीत् इति कारणतः आङ्ग्लाधिकारी प्रतिवचनं किमपि अनुक्त्वा मुखम् अवनम...

मानवीयता 17.05.2026

कदाचित् जम्मूकश्मीरस्य चक्रवर्ती प्रतापसिंहः प्रजानां सुखदुःखानि स्वयं ज्ञातुम् इच्छन् वेषान्तरं धृत्वा देशपर्यटनम् आरब्धवान् । एकदा सः ज्वरेण पीडितस्य युवकस्य सेवां कृत्वा, युवकस्य गम्यस्थानं प्रति अपि प्रापयति । तस्य श्वश्रूः लक्ष्मीमेहता या प्रतापसिंहस्य प्रासादे कर्मकरी आसीत्, महाराजेन साकम् अश्वम् आरुह्य आगतं‌ जामातरं दृष्ट्वा भीता सती 'जामात्रा कृतः अपराधः क्षन्तव्यः । भवान् अस्य देशस्य राजा...

अपूर्वा सृष्टिः 16.05.2026

जगतः‌ सृष्टिं कर्तुम् उद्यतः ब्रह्मा कौमुदीसदृशं हासं, चम्पकस्य सुगन्धम्, अमृतस्य माधुर्यं च संयोज्य एकां मृत्तिकामूर्तिं निर्मितवान् । सा मूर्तिः तु अपूर्वा आसीत् । कान्त्या शोभते स्म । 'मृन्मयी मूर्तिरेषा कथम् अपूर्वा भवितुम् अर्हति?’ इति यदा कश्चन देवदूतः ब्रह्मदेवम् अपृच्छत् तदा ब्रह्मदेवः मन्दहासपूर्वकं तस्य मृन्मय्याः मूर्तेः वैशिष्टयं, तस्य आकारस्य (शरीरस्य) प्राधान्यं च विवृणोति । (“केन्द्...

विनयः महात्मनः 15.05.2026

कदाचित् कश्चन आधुनिकः तरुणः रेलयाने महाभारतपुस्तकं पठितवन्तं कञ्चन सहयात्रिकम् अपश्यत् । वैज्ञानिकयुगे अपि एतादृशं पठ्यते किम् इति तरुणः सहायात्रिकम् अपृच्छत् । तदा सहायात्रिकः 'महाभारतादिषु प्रतिपादितानि तत्त्वानि अद्यापि सङ्गतानि भवन्ति' इत्यवदत् । तथापि सः तरुणः विज्ञानस्य महत्त्वं, विज्ञानकारणतः जातानाम् आविष्काराणां विषये कथनम् अनुवर्तितवान् । यदा उभौ अपि यानात् अवतीर्णवन्तौ तदा परस्परं सङ्के...

वास्तविकं शूरत्वम् 14.05.2026

महान् शूरः अस्मि अहम् इति मन्यमानं सिकन्दरमहाराजं कश्चन महात्मा शूरः कः भवति इति बोधयति । लोके सप्त प्रकाराः शूराः भवन्ति इति विवृणोति । अन्ते सः पृच्छति 'एतेषु सप्तसु प्रकारेषु भवान् कीदृशप्रकारकः‌ शूरः?’ इति । महात्मनः निष्ठुराणि वचनानि श्रुतवतः महाराजस्य ज्ञानोदयः अभवत् । सः महात्मानं प्रणम्य मौनेन ततः प्रत्यगच्छत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनि...

होलिका 13.05.2026

होलिकापर्वणः पृष्ठभूमिकायाम् अस्ति काचित् कथा । होलिका हिरण्यकशिपोः भगिनी । अग्निः यथा न दहेत् तथा वरः प्राप्तः आसीत् होलिकया । अतः हिरण्यकशिपुः होलिकायाः साहाय्येन पुत्रः प्रह्लादः दग्धव्यः इति अचिन्तयत् । प्रह्लादेन सह सा अग्निं प्रविष्टवती । वरस्य नियमः आसीत् यत् एकाकितया प्रविष्टा ताम् अग्निः न दहति इति । अतः सा दग्धा जाता । विष्णोः अनुग्रहस्य कारणतः प्रह्लादः कामपि पीडाम् अप्राप्य हसन् अग्नित...

पठितः पाठः 12.05.2026

वसन्तः कश्चन विख्यातः मल्लः । कदाचित् सः गुरुणा बलभीमेन सह मल्लयुद्धं कृत्वा विजयं प्राप्तुम् इच्छति । यद्यपि तस्य वचनम् अकल्पितम् अनुचितं च आसीत् तथापि गुरुः तेन सह मल्लयुद्धं करोति । मल्लयुद्धे केनचित् कालेन एकां विलक्षणां चातुरीम् उपयुज्य बलभीमः वसन्तं पराजयति । क्रुद्धः वसन्तः 'या नूतना चातुरी विद्या प्रयुक्ता सा भवता न पाठिता एव' इति यदा वदति तदा गुरुः वदति 'सा चातुरी मया एतस्य दिनस्य कृते रक...

आत्मविश्वासः 11.05.2026

इयं कथा आत्मविश्वासस्य उत्तमम् उदाहरणं भवितुम् अर्हति । यः परेषां साहाय्येन विना स्वकार्ये उद्यतः भवेत् सः एव सफलतां प्राप्नोति । यः आत्मस्थैर्येण स्वप्रयत्नेन कार्यतत्परः सन् अग्रे सरेत् सः विफलतां न प्राप्नोति कदाचिदपि । अस्यां कथायां कश्चन राजा सैनिकेषु अन्यतमस्य कस्यचन सैनिकस्य परीक्षां करोति । प्रथमं भीतिम् अनुभवति सः सैनिकः । अनन्तरं सः धैर्यं प्राप्य परीक्षायां सफलः भवति । (“केन्द्रीयसंस्कृ...

निगृहीतः कः आसीत् ? 10.05.2026

कदाचित् स्वातन्त्र्यान्दोलने कस्यचन उच्चाधिकारिणः मृत्युः सञ्जातः । अनेन रुष्टे सर्वकारेण आन्दोलननेता निगृह्य न्यायालये उपस्थापितः । अयम् आसीत् क्रान्तिकारी ऊधमसिंहः । अस्मिन् सेनाधिकारिणः डायरस्य हननस्य आरोपः अवर्तत । काचित् युवत्याः प्रयासेन एव सः निगृहीतः आसीत् । ऊधमसिंहः जानाति स्म सा का इति । तथापि नार्याम् अस्त्रोत्थापनम् अस्माकं भारतीयसंस्कृतौ नास्ति इति ज्ञातवान् सः तस्यै युवत्यै कोपम् अकृ...

दृष्टिशोधनम् 09.05.2026

कदाचित् ब्रह्मविदम् आचार्यम् उपसर्प्य कौचित् ब्रह्मचारिणौ ब्रह्मविद्याम् उपदेष्टुं प्रार्थितवन्तौ । तदा आचार्यः तयोः परीक्षां कृतवान् । तयोः एकः एव परीक्षाम् उत्तीर्णः सन् ब्रह्मविद्यालाभार्थम् अधिकारी जातः । ततः आचार्यः 'सर्वत्रापि सर्वस्मिन्नपि वस्तुनि भगवन्तं पश्येत् । कस्मिंश्चिपि असत्कर्मणि प्रवृत्तिं न दर्शयेत् । तदा एव भगवान् तव सम्मुखे तिष्ठेत् .....’ इत्यादिभिः वचनैः तं ब्रह्मचारिणं ब्रह्...

मन्त्रिणः चातुर्यम् 08.05.2026

राजा विक्रमसिंहः कलापोषकः आसीत् । प्रजापालने राज्ञः अधिकावधानं नास्ति इति कारणतः दुःखितः मन्त्री महाराजः विवेकमार्गं प्रति अनेतव्यः इति दिवानिशम् अचिन्तयत् । सः कञ्चन उपायं कृत्वा महाराजं कृषिकक्षेत्रं प्रति अनयत् । 'एते कृषिकाः परोक्षरीत्या कलाकाराः एव । एतषां साहाय्यं करणीयम्' इति अवद्त् मन्त्री । ततः ग्रामेषु सर्वत्र जलाशयाः, कूपाः, तडागाः च निर्मिताः राज्ञा । सर्वे अपि जनाः सन्तुष्टाः सन्तः मन...

कामनाहङ्कारयोः जयाय 07.05.2026

कस्यचन परोपकारस्य साधकस्य अनुष्ठानक्रमं व्यवहारं च जनाः बहुधाः प्रशंसन्ति स्म । तस्य साधकस्य पार्श्वे सर्वदा जलपूर्णः कलशः, अग्निपूर्णा अङ्गारधानी च भवति स्म । तस्य कारणं यदा कश्चन भक्तः अपृच्छत् तदा साधकः अवदत् 'अहं मम कामनाः जले मज्जयितुम् इच्छामि । अहङ्कारश्च दग्धुम् इच्छामि । जलकलशस्य अग्नेः च दर्शनात् आत्मना करणीयस्य कार्यस्य स्मरणं भवति । दुर्गुणाः निवारणीयाः इत्येतत् कदापि विस्मृतं न भवेत्'...

श्रमस्य मूल्यम् 06.05.2026

कदाचित् वेषान्तरं धृत्वा अटितवतः राज्ञः अश्वशकटस्य नेमिः चक्रात् पृथक् अभवत् । यदा लोहकारम् अन्विष्यन् गच्छति राजा तदा अद्य विरामदिनं, सहायकः नास्ति इति अवद्त् लोहकारः । अतः साहाय्यार्थं राजा एव भस्रिकादण्डचालनम् अङ्गीकृतवान् । जीवने ऐदम्प्राथम्येन श्रमः कृतः, श्रमस्य आनन्दः च ज्ञातः राज्ञा । श्रमस्य महत्त्वं बोधितवते लोहकाराय राजा गुरुदक्षिणारूपेण षट् सुवर्णनाणकानि दत्त्वा ततः निर्गतः । (“केन्द्र...

दुष्टनिग्रहः 05.05.2026

काचित् मूषिका पत्या सह ग्रामे न्यवसत् । कश्चन धूर्तः‌ बिडालः काननात् आगत्य तस्याः‌ शिशून् भक्षयति स्म । अनेन दुःखिता मूषिका इदं गृहं परित्यज्य अन्यत्र गच्छामः इति पतिम् अवदत् । किन्तु सः मूषकः पत्नीं कष्टेन समाधाय एतस्याः समस्यायाः निवारणाय कमपि उपायं चिन्तयाम इति अवदत् । सः एकम् उपायं कृत्वा तस्य दुष्टबिडालस्य निग्रहम् अकरोत् । सर्वे मूषकाः प्रसन्नाः अभवन् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्...

गर्वः न उचितः 04.05.2026

दम्भोद्भवः इति कश्चन राजा 'मत्सदृशः वीरः त्रिषु लोकेषु अपि नास्ति' इति भावयन् गर्वेण व्यवहरति स्म । कदाचित् कश्चन सज्जनः अवदत् 'गन्धमादनपर्वते उभौ तपोनिरतौ नरनारायणौ स्तः । तौ जेतुं कोऽपि न शक्नुयात्' इति । अथ कदाचित् गन्धमादनपर्वतम् अगच्छत् दम्भोद्भवः ताभ्यां सह युद्धं कर्तुम् । नरः कांश्चन दर्भान् अभिमन्त्र्य भूमौ अक्षिपत् । तदनन्तरक्षणे एव दम्भोद्भवस्य मुखं नासिका कर्णौ नेत्रे च दर्भाङ्कुरैः पू...

मूल्यवर्धनम् 03.05.2026

कदाचित् कश्चन वणिक् स्वस्य तरुणं पुत्रम् अहूय एकं मलिनं वस्त्रं दत्त्वा एकं रजतनाणकम् आनेतव्यम् इति अवदत् । पुत्रः तत् वस्त्रं स्वच्छतया प्रक्षाल्य महता श्रमेण विक्रीय रजतनाणकद्वयं प्राप्तवान् । एवं रीत्या पिता अनेकवारं पुत्राय मलिनवस्त्राणि दत्त्वा तानि विक्रेतुं रजतनाणकानि सुवर्णनाणकानि वा अनेतुम् अवदत् । पुत्रः अनेकान् उपायान् आश्रित्य तानि सर्वाणि विक्रीतवान् । एतस्मात् प्रयत्नेन सर्वमपि साधयि...

प्रीत्यादरपूर्णः व्यवहारः 02.05.2026

कश्चन युवकः पत्न्या सह विपणिं गत्वा सर्वदा एकस्याः वृद्धातः एव फलानि क्रीणाति स्म । तस्याः निर्धनतां ज्ञात्वा साहाय्यार्थं धनं‌ दातुं तेन यदा उद्यतं तदा तया विनयेन तत् निराकृतम् । तस्मात् तेन युवकेन कश्चन उपायः कृतः । तेन यः उपायः कृतः तम् उपायं ज्ञात्वा वृद्धा अन्यम् उपायं करोति । युवकेन कः उपायः कृतः ? वृद्धया कृतः उपायः कः ? इति कुतूहलेन इमां कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...

महामूर्खः कः‌? 01.05.2026

ध्यानचन्दः वणिक् चेदपि सः जिज्ञासुः भगवद्भक्तः च आसीत् । कदाचित् नगरस्य महाश्रेष्ठी लक्ष्मीपतिः तं गृहम् आहूय तस्य शिरसि एकं शिरस्त्रं निधाय अवदत् 'एतत् महामूर्खाय दातुं कारितम्' इति । ध्यानचन्दः प्रतिवचनं किमपि न अवदत् । अथ कदाचित् लक्ष्मीपतिः अस्वस्थः जातः । तदा ध्यानचन्दः आगत्य तत् शिरस्त्रं लक्ष्मीपतेः शिरसि स्थापयित्वा अवदत् 'परलोकं प्रति किमपि नेतुं न शक्यते इति जानता अपि भवता आजीवनं प्रभूतं...

ज्ञानम् अपारम् 30.04.2026

स्वगुरोः अपारस्य ज्ञानस्य प्रशंसां कुर्वते शिष्याय गुरुः एवं बोधयति 'अलं प्रशंसया । मया प्राप्तम् अल्पमेव । यथा सागरः अपारः तथैव ज्ञानराशिः अपि अपारः । वयं महता श्रमेण यत् अध्ययनं कुर्याम तत् तु तावदेव भवेत्, सागरे दण्डस्य मज्जनात् यावत् सङ्गृह्येत । यत् ज्ञानं प्राप्तं तत् अधिकम् इति तु भ्रमः एव । प्राप्तव्यमस्ति अपारम् । ज्ञानसागरस्य अपारतां मनसि निधाय प्राप्तस्य मापनं करणीयम् अस्माभिः, न तु स्व...

पुत्रात् ख्याता इतरा 29.04.2026

मण्डूकमुनि-इतरयोः पुत्रः महीदासः सर्वदा द्वादशाक्षरमन्त्रं जपन् लौकिककर्मसु अनासक्तिं वहति स्म । अतः महीदासे इतरायां च मुनेः अनादरः प्रवृद्धः । खिन्ना इतरा पुत्रेण सह अन्यत्र वासम् आरब्धवती । कदाचित् जपेन सन्तुष्टः विष्णुः महीदासस्य स्वप्नम् आगत्य 'गुरूपदेशं विना एव सकलवेदवेदाङ्गज्ञानं तव भविष्यति' इति अवत् । तथैव ज्ञानं सम्पाद्य ऋग्वेदभाष्यं कर्मकाण्डबोधकं ब्राह्मणग्रन्थं च सः अरचयत् । 'मम माता प...

सदाचारस्य अनुष्ठानम् 28.04.2026

पूर्वं वारणास्यां स्थितस्य बनारसहिन्दुविश्वविद्यालयस्य कुलपतिः आसीत् आचार्य: नरेन्द्रदेवः । अस्वस्थं बन्धुं द्रष्टुं कदाचित् सः सैकल्-रिक्षायानेन गच्छन् आसीत् । तं दृष्ट्वा कश्चन सुहृद् पृच्छति यत् सर्वकारस्य कार्-यानेन गन्तुम् अर्हति खलु इति । तदा आचार्यः वदति 'उन्नतस्थाने तिष्ठता मया आचारशुद्धिः परिरक्षणीया । यदि मादृशानाम् आचारे एव शुद्धिः न भवेत् तर्हि समाजे सदाचारः कथं तिष्ठेत्? अतः मया वैयक्...

Ouça o podcast बालमोदिनी no Replaio

Rádio e podcasts em um só app - grátis e sem cadastro. Instale hoje e não perca o lançamento

Baixe no Google Play

O Replaio não é o publicador dos podcasts; os nomes dos programas, as capas e o áudio pertencem aos seus autores e são distribuídos por feeds RSS públicos