सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 758 episodes

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Be sure to visit the podcast's website and support the creator: sambhashanasandesha.in

Author

सम्भाषणसन्देशः

Category

Kids

Podcast website

sambhashanasandesha.in

Latest episode

Nov 29, 2026

Where to listen?

Podcasts in the app Replaio Radio Coming soon

Podcasts are coming to the app soon. Install now and be the first to see a whole new take on podcasts

Get it on Google Play Install for free Android 10M+ downloads · 4.7+ rating iOS soon

Episodes

न त्वमहं कामये राज्यम्..... 29.11.2026

खाण्डिक्यः केशिध्वजश्च सहोदरौ महापण्डितौ । ज्येठः खाण्डिक्यः श्रौतस्मार्तादिकर्मसु परिणतः, अनुजः च केशिध्वजः ब्रह्मज्ञानी आसीत् । कदाचित् तयोः मध्ये कलहः जातः । केशिध्वजः विजयं प्राप्तवान् । । पराजितः खाण्डिक्यः मन्त्रिपरिवारजनैः सह पलायनं कृत्वा अरण्ये वासम् आरब्धवान् । अग्रे केशिध्वजस्य शास्त्रविषये यदा परिहारः आवश्यकः असीत् तदा सः अग्रजस्य समीपं गच्छति । खाण्डिक्यः अपि समाधानं वदति ।  यदा केशिध...

मोक्षार्थम् इहलोके यत्नः 28.11.2026

मत्स्यध्वजनामकस्य कस्यचन राज्ञः भोगे विशेषासक्तिः आसीत् । कदाचित् सः सर्वालङ्कारभूषितः सन् भोगिनीनां गृहं गच्छन् आसीत् । गमनमार्गे कश्चन पुरोहितः गृहस्य पुरतः उपविश्य उच्चस्वरेण श्लोकान् वदन् आसीत् । तं श्लोकं श्रुतवतः राज्ञः मनसि विवेकः उदितः । "मोक्षप्राप्त्यर्थम् अतिश्रेष्ठः मार्गः कः?” इति ज्ञातुं राजा पण्डितान् मेलितवान् । विष्णुचित्तनामा पण्डितः जयं प्राप्तवान् । तस्य उपदेशं श्रुत्वा भगवतः व...

अन्नानुसारिणी बुद्धः 27.11.2026

कश्चन राजा अनुचितरूपेण प्रजाभ्यः धनं अर्जयित्वा विलासमयं जीवनं यापयति स्म । प्रजाः खिन्नाः आसन् । कदाचित् तत् राज्यम् आगतवन्तं महात्मानं कतिचन दिनानि राजभवने एव वासं कर्तुं प्रार्थितवान् राजा । कदाचित् सः राज्ञ्याः मुक्ताहारं स्नानगृहे दृष्ट्वा चोरितवान् । ततः वनं गतवान् । प्रातः उत्थाय स्वस्य दोषम् अवगत्य राज्ञे तत् प्रत्यर्प्य एवम् अवदत् "अन्नानुसारिणी भवति बुद्धिः । भवतः अन्नस्य खादनतः मम आचारे...

शिरःकम्पनात् समस्या 26.11.2026

पुरातनकाले सर्पाणां कर्णः भवति स्म । एकदा यदा नारदमहर्षिः भगवतः स्तुतिं कुर्वन् वैकुण्ठम् आगतः तदा सर्पराजः अनन्तनागः स्तुतिं श्रुत्वा प्रसन्नः भूत्वा शिरः कम्पितवान् । तस्मात् सम्पूर्णा पृथ्वी कम्पमाना जाता । भीता भूदेवी भगवतः विष्णोः समीपम् आगत्य स्वस्य समस्याम् अवदत् । विष्णुः नारदमहर्षिः मिलित्वा निर्णीतवन्तौ यत् अनन्तस्य श्रवणशक्तिः नाशनीया इति । लक्ष्मीदेवी अनन्तस्य सान्त्वनं करोति "इतः परं...

श्रेष्ठता गुणेन, न जन्मना 25.11.2026

महर्षेः कण्वस्य त्रयः पुत्राः आसन् विशोकः नाभागः वेदाथिथिः च । विशोकः नाभागः च असुरकन्यायां जातौ इत्यतः वेदाथिथिः चिन्तयति स्म "तौ असुरपुत्रौ । अहं तु सद्वंशजातः । अतः अहमेव श्रेष्ठः" इति । कदाचित् विना कारणं विशोकेन सह कलहार्थं प्रवृत्तः । तं बहुधा निन्दितवान् । तथापि विशोकः शान्ततया एव स्थितः आसीत् । अन्ते कः श्रेष्ठः इति निश्चयार्थं परीक्षाः कृताः । विशोकः एव जितः । लज्जितः वेदाथिथिः अवगतवान् य...

प्रकृतेः नियमः 24.11.2026

विजयनगरसाम्राज्ये नरहरिः नाम कश्चित् ग्रामीणः वनं गत्वा बहुकालं यावत् तपः कृतवान् । तपसा सन्तुष्टः देवः त्रीणि फलानि दत्त्वा "भवान् फलं खादन् मनसि यत् चिन्तयति तत् सिद्धं भविष्यति" इति अवदत् । ततः नरहरिः किं किं चिन्तयित्वा फलं खादति, तस्य परिणामः कः जातः, तत् जगतः नियमस्य विरुद्धः अस्ति वा, ततः किं जातम् इति सर्वम् अस्याः कथायाः कथावस्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततय...

विधेः विचित्राणि विचेष्टितानि 23.11.2026

ब्रिटिश्देशे कश्चन अङ्गरक्षकस्य वधदण्डनं आज्ञापितवान् आसीत् महाराजः आर्थरः । किन्तु राज्ञी सूचयति यत् 'अहम् एकं प्रश्नं पृच्छामि । दत्तकालाभ्यन्तरे समीचीनं प्रत्युत्तरं दास्यति चेत् सः दण्डात् मुक्तः भवतु' इति । तस्याः प्रश्नः आसीत् 'स्त्री केन अत्यन्तं सुखं प्राप्नोति?' इति । सः बहून् देशान् अटित्वा अन्ते उत्तरं दत्तसमयाभ्यन्तरे प्राप्नोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गत...

कथं भवेत् लक्षाधिपतिः? 22.11.2026

कदाचित् भगवान् नारायाणः भगवत्याः श्रीदेव्याः इच्छानुसारं कञ्चन भिक्षुकं लक्षाधिपं कर्तुम् ऐच्छत् । किन्तु श्रेष्ठी कुबेरदत्तः 'तद् धनं यथा मदीयं भवेत् तथा करिष्यामि' इति अचिन्तयत् । सः कञ्चन उपायं करोति । किन्तु भगवतः लीलां को वा विज्ञातुम् अर्हति ? तेन अन्यदेव चिन्तितम् आसीत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, Lord Narayana w...

पापस्य कर्ता 21.11.2026

कश्चन चतुरः वाक्पटुः सर्वशास्त्रज्ञः विप्रः आसीत् । कदाचित् क्षीरदोहनसमये धेनुः तं प्रहृतवती । तदा कुपितः विप्रः तां दण्डेन ताडितवान् । तस्य प्रहारं सोढुम् असहमाना सा धेनुः मृता अभवत् । गोहत्यापापं तस्य अनुसरणम् अकरोत् इति विचिन्त्य सः विप्रः एकम् उपायम् अचिन्तयत् । यतः हस्तस्य अभिमानी देवः इन्द्रः, हस्तेन कृतं पापं तु इन्द्रेण कृतं न तु मया इति विचिन्त्य सः पापम् अवदत् यत् भवान् इन्द्रं पीडयतु, न...

अहङ्कारः पराजयाय 20.11.2026

कदाचित् वायोः अहङ्कारः समुत्पन्नः 'मम कारणेन जनाः कम्पन्ते, अतः अहमेव बलवान्' इति । 'सूर्यस्य अपेक्षया अपि अहमेव बलवान्' इत्यपि विचारः तस्य मनसि उत्पन्नः । अतः उभयोः शक्तेः परीक्षा भवतु इति वायुः सूर्यम् अवदत् । तौ उभौ अपि स्वशक्त्याः प्रयोगं कुरुतः । का सा परीक्षा? कः विजयं प्राप्नोति इति स्वयं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप...

अपवित्रः हस्तः 19.11.2026

आनन्दपुरसाहिबमन्दिरे कदाचित् श्रीगुरुनानकदेवस्य प्रवचनं प्रचलति स्म । प्रवचनमध्ये गुरुनानकदेवः 'जलम् आवश्यकम्' इति उच्चारितवान् । अग्रे उपविष्टः कश्चन युवकः त्वरया उत्थाय अन्यत्र गत्वा जलपूर्णं चषकम् आनीय तस्मै दातुम् उद्युक्तः तदा युवकस्य मृदुहस्तस्य स्पर्शः जातः । मृदुतायाः कारणं ज्ञातं यत् सः युवकः धनिकस्य पुत्रः, तस्य गृहे अनेके सेवकाः सन्ति, अयं युवकः किमपि कार्यं न करोति च इति । नानकदेवः चषक...

शुकस्य चातुर्यम् 18.11.2026

कदाचित् अरण्यं गतवता केनचन व्याधेन कश्चन शुकः गृहीतः । सः तं गृहम् आनीय पञ्जरबद्धं कृतवान् । पुनः अरण्यगमनसमये अयं शुकः मित्रेभ्यः कञ्चन सन्देशं प्रापयितुं व्याधं निवेदयति । व्याधः अरण्यं गत्वा शुकसमूहस्य समीपं गत्वा पञ्जरस्थस्य शुकस्य सन्देशं वदति । तदा कश्चन शुकः तद् श्रुत्वा मृतः जातः । खिन्नः व्याधः गृहम् आगत्य प्रवृत्तं सर्वं पञ्जरस्थं शुकं वदति । तदा हा हन्त!! इत्युक्त्वा अयमपि शुकः मृतः जात...

चतुरः मेषपालः 17.11.2026

कदाचित् धनिकः माधवः मेलं गत्वा तिस्रः उत्तमाः अजाः आनीतवान् । प्रतिदिनं दुग्धं यच्छन्ति स्म ताः अजाः । गच्छता कालेन दुग्धदानं स्थगितवत्यः । तदा ताभ्यः आहारदानं वृथा इति अचिन्तयत् सः । सः परेद्यवि ग्रामे उद्घोषयन् 'कोऽपि जनः एताः अजाः आकण्ठं भोजयति, येन अजाः पुनः किमपि खादितुं न इच्छन्ति, तर्हि अहं तस्मै सहस्रं रूप्यकाणि ददामि' इति । बहवः जनाः प्रयत्नं कृतवन्तः । किन्तु असफलाः जाताः । कश्चन बुद्धिम...

रङ्कं करोति राजानम्..... 16.11.2026

अकबरचक्रवर्ती कदाचित् बीरबलं प्रशनत्रयस्य उत्तरं ददातु इति अवदत् 'ईश्वरः कुत्र अस्ति? कीदृशः अस्ति? किं च करोति?' इति । सप्ताहानन्तरम् उत्तरं वदिष्यामि इति बीरबलः अवदत् । षड् दिनानाम् अनन्तरमपि बीरबलेन उत्तराणि न प्राप्तानि । सप्तमे दिने कश्चन गोपालः नदीतीरे उपविष्टस्य बीरबलस्य चिन्तायाः कारणं ज्ञात्वा 'अहम् उत्तरं वदिष्यामि' इति अवदत् । परेद्यवि सः राजसभाम् आगत्य अकबरस्य त्रयाणां प्रश्नानाम् उत्त...

गीतामाहात्म्यम् 15.11.2026

कृष्णदत्तः कश्चन धनिकः । तस्य बहुषु सेवकेषु अन्यतमः आसीत् गोविन्दः यः सर्वदा स्वदारिद्र्यं निन्दति स्म । कृष्णदत्तः स्वस्य जन्मदिनस्य निमित्तं सर्वेभ्यः सेवकेभ्यः उपायनानि दत्तवान् । सन्तुष्टः गोविन्दः उपायनम् उद्घाटितवान् किन्तु तत्र आसीत् भगवद्गीता पुस्तकम् । निराशः सः पुस्तकं पार्श्वे स्थापितवान् ।अनन्तरदिने कृष्णदत्तः गोविन्दम् अपृच्छत् 'भगवद्गीतां पठितवान् वा?’ इति । न इति उत्तरे प्राप्ते पुस...

चत्वारः रक्षकाः 14.11.2026

श्रीनिधिनामकः कश्चन रत्नवणिक् कदाचित् गृहं प्रत्यागच्छन् आसीत् । कुत्रचित् निर्जने प्रदेशे कश्चन आयुधसहितः चोरः आगतः । भयग्रस्तः श्रीनिधिः प्राणरक्षणार्थं स्वस्यूतं दातुम् उद्युक्तः । तावता चोरः अवदत् 'भवतः समीपे ये जनाः सन्ति तान् दूरीकरोति चेदेव भवतः स्यूतं प्राप्तुं शक्नोमि' इति । किन्तु श्रीनिधिः एकाकी एव आसीत् । परन्तु श्रीनिधेः परितः चतुरः जनान् पश्यति स्म सः चोरः । चोरस्य विवरणेन श्रीनिधिः...

ताना - रीरी 13.11.2026

अकबरचक्रवर्तिनः आस्थाने तोडरमल्लः, बीरबलः, तानसेनः इत्यादयः विद्वांसः आसन् । तानसेनः अद्वितीयः गायकः । कदाचित् तानसेनः 'ताना-रीरी इत्यनयोः बालिकयोः नाम शाश्वतं यथा स्यात् तथा करिष्यामि । इतः परं प्रत्येकं रागस्य आलापनसमयेऽपि नियमेन 'ताना-रीरी' इति आलापनं करिष्यामि' इति प्रतिज्ञां कृतवान् । अतः एव अद्यापि सङ्गीतज्ञाः गीतगानात् पूर्वं 'ताना-रीरी' इति आलपनं कुर्वन्ति । तस्य पृष्ठभूमिका अस्ति इयं कथा...

फलम् अविनयस्य 12.11.2026

यादृशं कर्म तादृशं फलम् इति तु सत्यम् एव । कथायाम् अस्यां कश्चन दुष्टस्वभावः मांसलशरीरश्च मर्कटः वने अन्यान् दुर्बलान् जन्तून् पीडयति स्म । एकदा मर्कटेन पीडितः कश्चित् कुक्कुटः शृगालस्य समीपं साहाय्यार्थम् अगच्छत् । तदा शृगालः दुष्टं मर्कटं दण्डयितुम् एकम् उपायम् अचिन्तयत् । तेन उपायेन सः मर्कटः दण्डितः अभवत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...

रोगनिदानम् 11.11.2026

यद्यपि महाराजः अभिनवसेनः समीचीनतया शासनं करोति स्म तथापि सः केषुचित् विषयेषु हठशीलः आसीत् । सः तिन्त्रिणीप्रियः आसीत् । अतः राज्ये यत्र यत्र निम्बवृक्षाः आसन् तान् सर्वान् कर्तयित्वा तेषां स्थाने तिन्त्रिणीवृक्षान् आरोपितवान् । गच्छता कालेन बहवः जनाः कुष्ठरोगपीडिताः जाताः । महाराजः अपि कुष्ठरोगपीडितः जातः । अन्यदेशात् आगतः वैद्य रोगस्य कारणं ज्ञातवान् किन्तु महाराजभयात् किमपि न अवदत् । तत्स्थाने स...

पितृमुक्तिः 10.11.2026

पृथिवीसिंहः अतीव सज्जनः धर्मभीरुः कृषिकः आसीत् । कदाचित् तस्य पुत्री एकमासात् रुग्णा जायमाना  आसीत् । तस्मिन् एव काले प्रतिदिनं कश्चन वृद्धः वृषभः स्वप्नम् आगत्य 'पुत्र !! अहं भवतः पिता । धवलपुरे क्षत्रियवंशजस्य रणवीरसिंहस्य गृहे वृषभरूपेण जन्म प्राप्तवान् अस्मि । पूर्वजन्मनि रणवीरसिंहाय पञ्चसप्ततिः रूप्यकाणि दातव्यानि आसन् । यदि भवान् तानि तस्मै प्रत्यर्पयति तर्हि अहं मुक्तः भवामि' इति । पृथिवीसि...

चत्वारः प्रश्नाः 09.11.2026

मणिपुरनगरे मणिवल्लभः शासनं करोति स्म । सः धार्मिकः नीतिमान् बुद्धिमान् च । परन्तु महान् गर्विष्ठः अपि । कदाचित् महाराजं द्रष्टुम् आगतः कश्चन कविः वदति यत् पार्वतीपुरे ग्रामे सर्वे अतीव आरोग्यशालिनः बुद्धिमन्तश्च इति । कवेः वचनस्य परीक्षां कर्तुं राजा गच्छति । एक मेषपालः मिलति । तं चतुरः प्रश्नान् पृच्छति महाराजः । तस्य उत्तराणि श्रुत्वा महाराजः लज्जाम् अनुभूतवान् । तस्य गर्वः अपगतः । मदपेक्षया बुद...

अनिवारणीयं प्रारब्धम् 08.11.2026

प्रारब्धम् ईश्वरेणापि निवारयितुं न शक्यते । आश्चर्यं ननु ? इयं कथा तस्याः उदाहरणम् अस्ति । कदाचित् शनिदेवः भगवतः शङ्करस्य समीपं गत्वा अवदत् 'श्वः ब्राह्मे मुहूर्ते अहं भवन्तं पीडयितुं ग्रहरूपेण आगमिष्यामि' इति । 'तथैव भवतु' इति अवदत् शिवः । शनिदेवस्य गमनान्तरं शिवः कञ्चन उपायं करोति । यद्यपि तेन उपायः कृतः तथापि शनिदेवस्य पीडातः विमुक्तिः न प्राप्ता । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोज...

आलस्यं हि.... 07.11.2026

सप्त भ्रातरः । सर्वेऽपि अलसाः । कदाचित् पायसं निर्मितवन्तः । अन्ते ज्ञातं यत् गृहे शर्करा नास्ति इति । इदानीं विपणिं गत्वा शर्करां कः अनयति इति विवादः । कश्चन एकम् उपायं असूचयत् ' सर्वे स्थालिकां पायसेन पूरयामः, मौनेन उपविशामः । अस्मासु यः आदौ वदिष्यति सः एव गत्वा शर्कराम् आनेष्यति'। घण्टां यावत् सर्वे मौनेन उपविष्टवन्तः । तावता शुनकाः आगत्य विद्यमानं पायसं सर्वम् खादितवन्तः । अन्ते पित्रा आगत्य ए...

पीठं चलति 06.11.2026

चाङ्गदेवः कश्चन योगी । अनेकाः सिद्धीः प्राप्तवान् आसीत् । जनाः तं बहुधा प्रशंसन्ति स्म । अतः तस्य मनसि अहङ्कारः उत्पन्नः । तस्मिन् एव काले सतः ज्ञानेश्वरस्य कीर्तिः सर्वत्र प्रसृता । भगवतः विठ्ठलस्य परमभक्तः । ज्ञानेश्वरे ईर्ष्याद्वेषादयः विकाराः न आसन् । ज्ञानेश्वरस्य कीर्तिं श्रुत्वा चाङ्गदेवः तेन मेलितुम् इष्टवान् । यदा मेलितुं गतवान्, ज्ञानेश्वरः तस्य अहङ्कारं दूरीकृतवान् । चाङ्गदेवः तस्य शिष्...

उदारता 05.11.2026

कदचित् मिथिलाधिपः कोशलराज्ये आक्रमणम् अकरोत् । युद्धे कोशलनृपः पराजितः जातः, पलायनम् च अकरोत् । तस्य ग्रहणार्थं सहस्रं सुवर्णमुद्राः दीयन्ते इति उद्घोषितवान् मिथिलाधिपः । कोशलनगरे सर्वे युवकाः युद्धेः स्वप्राणान् त्यक्तवन्तः आसन् । इदानीं केवलं महिलाः बालाः वृद्धाः च आसन् । प्राकृतिकप्रकोपकारणेन कृषिः अपि नष्टा । जनानां दुर्दशां ज्ञातवान् कोशलाधिपः तेषाम् आर्थिकसाहाय्यार्थं कोशलनगरं गत्वा जनैः सह...

Listen to the बालमोदिनी podcast in Replaio

Radio and podcasts in one app - free, with no sign-up. Install today and do not miss the launch

Get it on Google Play

Replaio is not a podcast publisher; show names, artwork and audio belong to their authors and are distributed through public RSS feeds.