सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Bezoek zeker de website van de podcast en steun de maker: sambhashanasandesha.in
Auteur
सम्भाषणसन्देशः
Categorie
Website van de podcast
Nieuwste aflevering
11 jul. 2026
Waar luisteren?
Podcasts in de app Replaio Radio Binnenkort beschikbaarPodcasts komen binnenkort naar de app. Installeer nu en zie als eerste een compleet nieuwe kijk op podcasts
Afleveringen
तल्लीनता 16.04.2025 2:54
कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति । छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः महाराजं द्र्ष्टुं गतवन्तः । कक्ष्यायां केवलं एकः छ...
आज्ञापालकः शिष्यः 15.04.2025 3:31
समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् । अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः कूपे अपतत्। पतनसमये श्रीरामस्य स्मरणं अकरोत् । क...
परिवर्तनम् 14.04.2025 4:09
अमरावतीनगरे कस्मिंश्चित् आश्रमे बहवः शिष्याः अध्ययनं कुर्वन्ति स्म । एकः शिष्यः चौर्याभ्यासे लिप्तः आसीत् । अन्यैः शिष्यैः सः द्विवारं चौर्यसमये गृहीतः । तदा सर्वे तं बहिष्कर्तुं गुरुं प्रार्थितवन्तः । किन्तु गुरुः तस्य बहिष्करणं न अनुमोदितवान् । 'एषः आश्रमात् बहिष्कृतः चेत् को वा एतम् आहूय विद्यां बोधयेत् ?’ इति अवदत् । एतानि वचनानि श्रुत्वा चोरशिष्यस्य मनः परिवृत्तम् । सः गुरोः पादौ गृहीत्वा अश...
भगवतः कार्ये हस्तक्षेपः 13.04.2025 3:19
कश्चन कृषिकः महादेवभक्तः आसीत् । तस्य ज्येष्ठा पुत्री कृषिकाय, कनिष्ठा पुत्री कुम्भकाराय च दत्ता तेन । सः यदा ज्येष्ठपुत्र्याः गृहम् अगच्छत्, तदा पुत्र्या वृष्टेः प्रार्थनां कर्तुम् उक्तम् । तदनन्तरं सः कनिष्ठपुत्र्याः गृहम् गतवान् । कनिष्ठा तु पितरं वृष्टिः न भवेत् इति प्रार्थनां कर्तुं प्रार्थयति । तयोः अपेक्षयोः परस्परविरोधे सति सः कृषिकः गुरोः समीपं गत्वा मार्गम् अपृच्छत् । गुरुः तं लोकहितं मन...
योग्यः उत्तराधिकारी 12.04.2025 6:19
कस्यचित् राज्यस्य महाराजस्य त्रयः पुत्राः आसन् । तेषु कस्मै देयम् इति प्रश्ने मन्त्रिणा सूचितं यत् अपत्यानि परीक्षितव्यानि इति । अपरस्मिन् दिने पुत्रान् आहूय शतं रूप्यकाणि दत्त्वा सायङ्कालाभ्यन्तरे स्वप्रासादः पूरणीयः इति अवदत् राजा । प्रथमः पुत्रः, तैः रूप्यकैः इष्टानि वस्तूनि क्रीतवान् । द्वितीयः पुत्रः पितुः आज्ञा पालनीया एव इति धिया धूल्या प्रासादम् अपूरयत् । तृतीयः पुत्रः चतुरः आसीत् । सः क...
सुहृदयः महाशयः 12.04.2025 6:46
कश्चित् आजीविकाम् अन्विष्यन् ग्रामतः मुम्बापुरीम् आगत्य श्रमिकैः सम्मिल्य कस्याञ्चित् निर्माणशालायां कार्यं करोति स्म। स्वकीयधारणाय अपेक्षितं धनं स्वसमीपे संरक्ष्य शेषं ग्रामे निवसन्त्यै मात्रे प्रेषयति स्म । कदाचित् सः शतरूप्यकाणि मात्रे प्रेषयितुम् इच्छन् एकं संक्षिप्तं लखं विलिख्य रूप्यकैः सह पत्रम् एकस्मिन् पुटके निधाय गृहगमनाय लोकयानम् आरूढवान् । लेखेन आर्जितद्रव्येण च सहितं पुटकं केनापि चात...
सो Sपि अहमेव 12.04.2025 4:05
गोस्वामी तुलसीदासः यदा जगन्नाथस्य दर्शनं कर्तुं गतवान् तदा तस्य हस्तपादविहीनां काष्ठमयीं मूर्तिं दृष्ट्वा निराशतां प्राप्तवान् । नीलाम्बुदश्यामरूपस्य देवस्य दर्शनम् इच्छन् भगवतः प्रार्थनायां निरतः जातः । दिनद्वयम् अन्नं जलं च विना तेन एवमेव विलपनं कृतम् । तावता कश्चित् बालकः जगन्नाथस्य प्रसादं तुलसीदासाय दत्त्वा - 'अहमेव रामः । जगन्नथरूपमपि ममैव' इति वदति । भक्त्या प्रसादं सेवित्वा अनन्तरदिने यद...
कर्तव्यपरायणता 12.04.2025 3:05
कदाचित् पूणास्थेन केनचित् विद्यालयेन महादेवगोविन्दरानडेवर्यः मुख्यातिथित्वेन निमन्त्रितः आसीत् । जनसम्मर्दस्य निवारणाय कार्यक्रमे निमन्त्रणपत्रेण सह आगतवतामेव प्रवेशः इति निश्चितम् आसीत् । तस्याः व्यवस्थायाः निर्वहणाय नियुक्तः कश्चन स्वयंसेवकः रानडेवर्यम् अपि विना आमन्त्रणपत्रम् अन्तः प्रवेष्टुम् न अनुमतवान् । तावता कश्चन व्यवस्थापकः कुतश्चित् पत्रमेकं रानडेवर्यस्य हस्ते स्थापितवान् । तस्य स्वयंस...
अपूर्वं भिक्षापात्रम् 12.04.2025 3:23
प्रातः प्रथमं राजगृहं प्रविष्टवते भिक्षुकाय सुवर्णमुद्राः, तदनन्तरं आगतेभ्यः भिक्षुकेभ्यः रजतमुद्राः दीयन्ते स्म भोजमहाराजस्य शासनकाले । एकस्मिन् दिने अगवते भिक्षुकाय राज्ञा दत्ताभिः सुवर्णमुद्राभिः लघु भिक्षापात्रं पूर्णं न अभवत् । एतेन राज्ञा ज्ञातं यत् आगतः भिक्षुकः सामान्यः न, अपि च परीक्षार्थमेव आगतः इति । अतः तं पादस्पर्शपूर्वकं नमस्कृत्य तत् पात्रं केन निर्मितमिति पृष्टवान् । तदा हसन् सः भि...
श्रमात् ऋते प्राप्तं न एष्टव्यम् 12.04.2025 5:11
'श्रमं विना निश्शुल्कं यत् प्राप्येत तत् न स्वीकरणीयम् । भगवान् हस्तपादं यत् दत्तवान् तस्य उपयोगेन जीवनं चिन्तनीयं, न तु निश्शुल्कं प्राप्यमाणस्य स्वीकरणे प्रवृत्तिः दर्शनीया' इति मातुः वचनानुसारं काचित् बालिका गुजरातप्रदेशे रविशङ्करमहाराजेन वितीर्यमाणं गुडं न स्वीकृतवती । बालिकायाः वचनम् आश्चर्येण शृण्वन् रविशङ्करः बालिकया सह गृहं गत्वा स्वाभिमानपाठं बोधितवतीं मातरं दृष्ट्वा नमस्कृतवान् । (“केन्द...
अदृष्टदेवता 11.04.2025 4:21
चीनादेशे शिष्योकिनामकस्य कस्यचित् युवकस्य स्वप्ने काचित् देवी आगत्य - ‘'हवाङ्गो' नद्याः तीरे कस्माच्चित् प्रभूतं सुवर्णं लप्स्यते' इति अवदत् । अपरदिने आदिनं प्रतीक्षायां कृतायामपि शिष्योकिना किमपि न प्राप्तम् । पुनः देव्या उक्ते सति सः गत्वा आदिनं प्रतीक्षां कृतवान् किन्तु किमपि न लब्धम् । यदा ततः निर्गन्तुम् उद्यतः तत्रैव विद्यमानः शाकविक्रेता तस्य आगमनस्य कारणं पृच्छति । स्वप्नवृतान्तं यदा अश्रा...
शिष्टाचारः न त्याज्यः 05.04.2025 3:52
कदाचित् चरकाचार्यः शिष्यैः सह ग्रामप्रदेशे सञ्चरन् कस्यचित् कृषिक्षेत्रे एकम् अपूर्वं सस्यम् अपश्यत् । कश्चित् शिष्यः उत्साहेन पर्णकाण्डमूलानां सङ्ग्रहणाय यदा उद्यतः तदा चरकाचार्यः तं निवार्य सस्यादीनां सङ्ग्रहाय क्षेत्रस्वामिनः अनुज्ञा प्राप्तव्या इति अवदत् । लोकोपकराय सस्यसङ्ग्रहणाय कस्यापि अनुज्ञा प्राप्तव्या नास्ति इति राजाज्ञा अस्ति खलु इति शिष्येण उक्ते अचार्यः वदति - ‘राजाज्ञा अन्या, शिष्ट...
पुण्यस्य फलम् 04.04.2025 6:03
कदाचित् समुद्रे झञ्झावातप्रहारं प्राप्तायाः महानौकायाः जनान् रक्षितुम् कश्चित् युवकः मातरम् अनुज्ञा याचते । षड्भ्यः वर्षेभ्यः पूर्वं समुद्रप्रयाणाय निर्गतः तस्य पतिः न प्रत्यागतः इति कारणतः पुत्रं कथं प्रेषयामि इति चिन्तयति माता । किन्तु सः कथञ्चित् मातरं समाधाय अनुज्ञां प्राप्य च चातुर्येण नौकां चालयन् महानौकासमीपं गत्वा तत्रत्यान् सर्वान् तीरं प्रापयत् सः । तीरं प्रापितेषु जनेषु तस्य पिता अपि अ...
भवता कति प्रहाराः प्राप्येरन् ? 03.04.2025 5:46
कस्मिंन्श्चित् प्रासादे काचित् सेविका राज्ञः शय्यागृहस्य स्वच्छतासमये राज्ञः मृदुलां स्थूलां शय्यां दृष्ट्वा शयनसुखानुभवेच्छया शय्याम् आरूढवती । महान्तं हितानुभवे प्राप्ते अचिरात् एव तया निद्रा प्राप्ता । अल्पे एव काले राजा राज्ञी च तत्र आगतौ । शयानां सेविकां दृष्ट्वा राज्ञः कोपः नितरां प्रवृद्धः । राजा कशाम् आनाय्य प्राहारम् आरब्धवान् । सेविका हसितुम् आरब्धवती । किमर्थम् अयं व्यवहारः इति पृष्टे...
रक्षणीयः कार्योत्साहः 02.04.2025 5:22
साधारणतया ज्येष्ठैः चिन्त्यते यत् अपूर्वा सिद्धि केवलं तरुणैः एव प्राप्तुं शक्या, वयोज्येष्ठाः किं वा कुर्युः इति । तरुणाः चिन्तयन्ति यत् ज्येष्ठानां जीवनानुभवः विवेचनशक्तिः च अपारा । अतः तैः एव विशिष्टा सिद्धिः सम्पादयितुं शक्या इति । कथायाम् अस्यां कश्चन प्रवचनकारः वदति यत् - ‘वस्तुतः दैहिकवयसः, सिद्धेः च न विशेषसम्बन्धः । केचन तारुण्ये एव अनासक्तिनाशं प्राप्य निरुत्साहाः भवन्ति । अन्ये के...
उत्तङ्कमेघाः 01.04.2025 4:24
कुरुक्षेत्रयुद्धानन्तरं द्वारकां प्रति प्रस्थितेन श्रीकृष्णेन मार्गे महर्षिः उत्तङ्कः मिलितः । वादविवादयोः अनन्तरं मुनिः भगवतः यथार्थं स्वरूपं ज्ञात्वा विश्वरूपं दर्शयितुं प्रार्थयते । विश्वरूपं दृष्टवान् हृष्टः च मुनिः कृष्णं स्तोत्रैः तोषयति । कृष्णः 'वरं याच' इति यदा वदति तदा मुनिः 'अस्यां मरुभूमौ यदा अहम् अपेक्षां कुर्यां तदा जलं प्रत्यक्षीभवतु' इति वदति । कृष्णस्य वाक्यानुसारम् इदानीमपि उत्...
भगवति विश्वासः 31.03.2025 3:41
सद्योविवाहितः युवकः पत्न्या सह यदा समुद्रयात्रां कुर्वन्नासीत् तदा हठात् झञ्झावातः समुत्पन्नः । सर्वे प्रयाणिकाः भीतवन्तः देवं रक्षणार्थं प्रार्थितवन्तः च । किन्तु सः युवकः निश्चिन्ततया उपविष्टः आसीत् । तं दृष्ट्वा पत्नी 'कथं निश्चिन्ततया तिष्ठति?’ इति पृच्छति । झटिति सः उत्थाय कोषात् खड्गम् आकृष्य पत्न्याः शिरसः उपरि गृहीत्वा पृच्छति भवती भीता वा इति । 'किमर्थं भीतिः ? भवान् आत्मीयः। कदापि मम प्...
सन्तोषस्य प्राप्तिः 30.03.2025 4:04
सर्वविधानि आनुकूल्यानि भोगसाधनानि च सन्ति चेदपि कस्यचित् धनिकस्य जीवने सन्तोषस्य अभावः आसीत् । कदाचित् स्वनगरं प्रति आगतवते संन्यासिने स्वस्य दुःखं निवेदयति । तदा संन्यासी दर्शयति यत् केवलं धनसङ्ग्रहणमात्रेण सन्तोषः न प्राप्यते । धनस्य वितरणं करणीयम् । दीनानां सेवा करणीया । परोपकारः चिन्तनीयः । तस्मात् अपारः सन्तोषः प्राप्स्यते इति । तस्मात् दिनात् सः धनिकः सम्पत्तेः वितरणम् आरब्धवान् । ततः तस्य...
हस्ते प्रकाशः 29.03.2025 4:24
कश्चन युवकः पर्वते स्थितं संन्यासिनं द्रष्टुं पर्वतारोहणं कर्तुमारब्धवान् । यदा सूर्यास्तः जातः अन्धकारकारणेन अग्रे गन्तुं बिभ्यन् तत्रैव स्थितवान् । हस्तेन दीपं गृहीत्वा उपरि गच्छन्तं कञ्चन वृद्धम् अनुसृत्य उपरि आगत्य पृच्छति 'लघुदीपं स्वीकृत्य अन्धकारे कथं गच्छति?’ इति । तदा सः वृद्धः वदति -’अग्रे गमनाय हस्ते दीपः, पादयोः प्रकाशः भवति चेत् अन्यत् किमपि न आवश्यकम् । यत् दूरम् अतिक्रान्तम्, अग्र...
सञ्जीविनी नाम....... 28.03.2025 4:29
पूर्वम् अनुशिर्वः नाम्नः पर्शियादेशस्य राज्ञः आस्थानवैद्यः 'बुर्जोयः' भारतपर्वतप्रदेशात् 'सञ्जीविनी' नामकम् ओषधिसस्यम् आनेतुं प्रस्थितवान् । भारते पर्वतप्रदेशेषु सर्वत्र तेन अन्विष्टेSपि कुत्रापि तत् सस्यं न लब्धम् इति कारणतः यदा सः प्रतिगन्तुम् उद्यतः तावता कश्चन पण्डितः तेन मिलितः । पण्डितः उक्तवान् - ‘सञ्जीविनिसस्यं पर्वते प्राप्येत इत्येतत् किञ्चन आलङ्कारिकं वचनम् । पर्वाताः नाम ज्ञानिनः । म...
अनन्यशरणता 27.03.2025 3:39
कदाचित् केचन दुष्टाः एकतन्त्रीं वादयन्तं कृष्णस्य परमभक्तं पाषाणैः प्रहरन्तः आसन् । प्रहारजन्यां वेदनाम् असहमानः सः भक्तः कृष्णस्य रक्षणं प्रार्थितवान् । भक्तस्य आर्तरवं सोढुम् अशक्नुवन् कृष्णः भोजनस्य मध्ये एव उत्थाय भक्तस्य रक्षणाय प्रस्थितवान् । किन्तु यावत् तत्समीपं गतवान् तावता सः भक्तः पाषाणान् स्वीकृत्य तान् दुष्टान् प्रहर्तुम् उद्यतः । सः स्वस्य रक्षणं स्वयमेव विचिन्त्य योग्यम् उपायं चिन...
मन्दहासपूर्णं तत् मुखम् 26.03.2025 4:23
कञ्चित् ग्रामम् आगतवते भगवते बुद्धाय तत्रत्याः जनाः सर्वविधां व्यवस्थां कल्पितवन्तः । तत्र कश्चित् जयः नाम बालः सर्वं महता कुतूहलेन अपश्यत् । बुद्धस्य मदहासपूर्णं मुखं बालस्य मनः अहरत् । बुद्धस्य उपदेशः निरन्तरं प्रवृतः । प्रस्थानोद्यताय बुद्धाय जनाः किमपि उपायनं यथाशक्ति समर्पयन्तः आसन् । सः बालः किमपि दातुम् अशक्नुवन् अञ्जलिमितां मृत्तिकां गृहीत्वा बुद्धम् अर्पितवान् । बालेन उपायनीकृतां मृत्त...
सर्वं प्राप्तुं शक्यम् 25.03.2025 3:08
कयाचित् महिलया स्वप्ने आपणिकत्वेन स्थितः भगवान् दृष्टः । कीदृशानां वस्तूनां विक्रयणं भवति इति महिलया पृष्टे भगवान् वदति यत् सर्वमपि लभ्यते बीजरूपेण । तत् उप्त्वा पोषणं कृतं चेत् गच्छता कालेन फलानि प्राप्यन्ते इति । स्वप्नतः जागरिता महिला चिन्तयति - ‘स्वप्ने भगवान् येषां बीजानां विषये अवदत् तानि बीजानि जीवने मया अन्यैः च प्राप्तुं शक्यनि एव । एतत् तथ्यम् अजानत्या मया एतावन्ति वर्षाणि व्यर्थतया याप...
मोक्षस्य कः मार्गः ? 24.03.2025 4:11
कदाचित् मुक्तिप्राप्तीच्छवे ज्येष्ठाय कश्चन गुरुः - 'आशाव्यामोहादयः यावत् अस्मदन्तः स्युः तावत् प्रापञ्चिकबन्धनं स्यात् एव । अतः अन्तर्मुखतां प्राप्य अशादित्यागाय निरन्तरं श्रमः करणीयः । अशादिबन्धमोक्षतः जीवनं बाह्यसम्पर्कहीनं भविष्यति । एतदेव मोक्षं प्रातुं प्रथमं सोपानम् । आशाबाहुल्यं क्रमशः न्यूनीकृतं चेत् क्षणिकलाभचिन्ता अपगच्छेत् । तदा जीवने विकासः स्यात्' इत्यादिभिः वचनैः बोधयति । (“केन्...
परिश्रमेण साध्यं सर्वम् 23.03.2025 5:01
वयं सर्वे ईश्वरचन्द्रविद्यासागरं जानीमः एव । बाल्ये दरिद्रतायाः कारणेन सः शालां गन्तुम् अशक्नुवन् अन्येभ्यः बालेभ्यः अक्षराणि विज्ञाय अक्षराभ्यासं कृत्वा उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् । पिता उपवासादिकम् आचरन् पुत्रं विद्यालयं प्रति प्रेषितवान् । ग्रामविद्यालयस्य अध्ययनानन्तरं सः नगरीयविद्यालये सर्वेषां साहाय्येन विद्यार्थिवेतनादिप्राप्त्या च अध्ययनम् अनुवर्तितवान् । कलक...
Replaio is geen uitgever van podcasts; namen van shows, covers en audio zijn eigendom van hun makers en worden verspreid via openbare RSS-feeds