सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Bezoek zeker de website van de podcast en steun de maker: sambhashanasandesha.in
Auteur
सम्भाषणसन्देशः
Categorie
Website van de podcast
Nieuwste aflevering
11 jul. 2026
Waar luisteren?
Podcasts in de app Replaio Radio Binnenkort beschikbaarPodcasts komen binnenkort naar de app. Installeer nu en zie als eerste een compleet nieuwe kijk op podcasts
Afleveringen
आचारानुगुणं फलम् 28.11.2025 3:41
कदाचित् वङ्गप्रदेशात् कालिचरणनामकः कश्चन भगवद्भक्तः चम्पानगर्यां स्थितं विष्णुदेवालयम् आगतः । महत्याः वृष्ट्याः उपशान्तेः अनन्तरं सः भक्त्या कर्दमपूर्णे मार्गे नृत्यं कुर्वन् अग्रे अगच्छत् । तदवसरे तस्य पादक्षेपेण उत्थितः कर्दमः कस्याश्चित् महिलायाः शाटिकां पतितः इति कारणेन तस्याः पतिः क्रोधेन दुर्वचनानि वदन् कालिचरणं प्रहृतवान् । कालिचरणः कारणम् अवगत्य दुःखितः भूत्वा धर्मशालां प्रति प्रस्थितः । स...
उज्ज्वलः भाषाभिमानः 27.11.2025 4:26
कदाचित् डा.रघुवीरः प्रवासावरे एकस्मिन् फ्रेञ्च्-जनस्य गृहे अतिथित्वेन वासम् अकरोत् । तदवसरे भारतात् आगतम् आङ्ग्लभाषया लिखितं पत्रं दृष्ट्वा गृहस्वामिनः पुत्री पृच्छति 'किमर्थं आङ्ग्लभाषया व्यवह्रियते ? स्वीया लिपिः भाषा वा नास्ति वा?’ इति । एतां घटनां ज्ञातवत्या बालिकायाः मात्रा उक्तम् - 'देशाभिमानः भाषाभिमानः च यस्य न स्यात् तं बर्बरं भावयामः वयम् । इतः परं भवान् अन्यस्मिन् गृहे अतिथित्वेन वासं...
वृक्षस्य अङ्गानां श्रेष्ठता 26.11.2025 2:41
कस्याञ्चित् कक्ष्यायां कश्चन अध्यापकः छात्रान् अपृच्छत् 'वृक्षस्य एकैकः भागः अपि भवति महते प्रयोजनाय । भवत्सु कः कीदृशः वृक्षभागः भवितुम् इच्छति ?’ इति । तदा एकैकः छात्रः अपि तस्य इच्छानुगुणं कीदृशः भागः भवितुम् इच्छति इति । तस्य भागस्य प्रयोजनं किम् इत्यपि वदति । कश्चन पर्णं, कश्चन पुष्पं, कश्चन फलं, कश्चन शाखा भवितुम् इच्छामि इति वदति । कक्ष्यायां कश्चन अन्धः छात्रः वृक्षस्य मूलं भवितुम् इच्छाम...
अपव्ययः न सोढव्यः 25.11.2025 2:39
मदनमोहनमालवीयः विश्वविद्यालयस्य संस्थापनाय कृतनिश्चयः सन् धनसङ्ग्रहाय सर्वत्र भ्रमित्वा कदाचित् कोलकातापत्तने कस्य श्रेष्ठिनः गृहं प्राप्तवान् । श्रेष्ठिनः बालेन काचित् अग्निशलाका प्रज्वालिता । विना कारणं अग्निशलाका व्यर्थीकृता इति कारणतः असः श्रेष्ठी बालस्य मुखे चपेटिकां दत्तवान् । शलाकामात्राय बालं ताडयितु उद्यतात् एतस्मात् दानस्य प्राप्त्याशा व्यर्था एव इति विचिन्त्य यदा निवर्तनाय उद्यतः मालवीय...
कथनस्य आशयः 24.11.2025 2:28
कदाचित् भगवान् बुद्धः प्रवचनावसरे 'अयि भक्ताः! समयः अतिक्रामति, जागृत' इति अवदत् । तदा कयाचित् नर्तक्या कुत्रचित् नर्तनं करणीयम् इति स्मृतम् । केनचित् लुण्ठाकेन लुण्ठनं करणीयम् इति स्मृतम् । केनचित् वृद्धेन इतः परं वा पुण्यं सम्पादनीयम् इति स्मृतम् । यतः आजीवनं धनार्जनमात्रमेव चिन्तितम् आसीत् । प्रवचनावसरे केवलम् एकं वाक्यम् उक्तं बुद्धेन किन्तु एकैकः अपि स्वमत्यनुगुणं तात्पर्याथं गृहीतवान् । (“के...
शान्तचित्ततायाः मार्गः 23.11.2025 2:57
कदाचित् कश्चन शिष्यः मनसः शान्तिप्राप्तिमार्गं गुरुः पृच्छति । तदा सः गजभृङ्गयोः कथां श्रावयित्वा वदति 'अस्मान् परितः यद्यत् प्रवर्तेत तत्र अस्माकं दृष्टिः तु भवेत् । किन्तु ते अंशाः अस्माकं मनसि चाञ्चल्यं न जनयेयुः । यत् क्रियते तत्र मनसः पूर्णमग्नता स्यात् । अस्माकं निर्णयः बाह्यांशप्रभावयुक्तः न भवेत् । अयमेव शान्तचित्ततायाः मार्गः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गत...
वचनानि कीदृशानि भवेयुः? 22.11.2025 2:41
कदाचित् गुरुशिष्याणां मध्ये 'वचनानि कीदृशानि भवेयुः' इति सम्भाषणं प्रचलति । तदा गुरुः वदति 'यत् वचनं कमपि न व्यथयेत्, यतः श्रोतॄणां मनः विकसेत्, यत् वचनं स्नेहादिसद्भाववृद्ध्यै स्यात्, यस्य श्रवणात् सद्व्यक्तित्वम् अभिव्यज्येत तदेव वचनं नाम । तादृशानि एव वचनानि यस्य मुखात् सर्वदा निर्गच्छेयुः सः एव सम्भाषणं जानाति इत्यर्थः' । पुनः सः वायोः, आतपस्य, नद्याः च उदाहरणानि यच्छति । 'यस्य वचनानि मधुराणि,...
योग्यतापरीक्षा 21.11.2025 3:06
कश्चित् तरुणः आत्मानं शिष्यत्वेन स्वीकर्तुम् आचार्यं निवेदयति । तस्य योग्यतासामर्थ्यादिकं बहुधा परीक्ष्य सः उत्तीर्णः इति वदन् अपि एकसप्ताहानन्तरं निर्णयं श्रावयिष्यामि इति आचार्यः अवदत् । अनन्तरदिने एव आचार्यः कञ्चित् धनिकम् आहूय तरुणम् उन्नतस्थाने अधिकं वेतनम् दत्त्वा नियोजय इति अवदत् । तद्वदेव सः धनिकः अकरोत् । सप्ताहानन्तरं तं तरुणम् आहूय 'तव शिष्यत्वम् अङ्गीकृतं मया' इति यदा आचार्यः अवदत् तदा...
कार्यनीतेः आन्तर्यम् 20.11.2025 3:01
कदाचित् श्रीकृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् आप्तः सेवकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः सेवकः वदति यत् 'भवता किमर्थं तत्र गम्यते ? सः एव अत्र आनाय्यताम्' इति । तदा कृष्...
धनस्य कारणतः 19.11.2025 2:47
गोवल्लभनामकः कश्चन महाधनिकः भोगजीवनं यापयन् वार्धक्ये रोगग्रस्तः जातः । कदाचित् चिन्तामग्नेन तेन किञ्चित् मधुरं गीतं श्रुतम् । तेन आनन्दः प्राप्तः गोवल्लभः तं चर्मकारम् आनाय्य किञ्चित् धनं दत्त्वा श्वः अपि आगत्य एवम् एव एकं गीतं श्रावय इति अवदत् । किन्तु अनन्तरदिने सः चर्मकारः आगत्य धनं प्रत्यर्प्य 'धनस्य रक्षणविषये चिन्तां प्राप्तवता मया भगवतः स्मरणं कर्तुं न शक्तम् । धने सति आनन्दप्राप्तिः क्लेश...
भिक्षुकस्य दानम् 18.11.2025 2:45
कदाचित् मार्गे स्थितेन केनचित् खिन्नेन भिक्षुकेन स्वर्णरथेन सह अकाशात् आगतः देवपुरुषः दृष्टः । भिक्षुकः तं दृष्ट्वा हृष्टः सन् चिन्तितवान् यत् अद्य मम दरिद्रता समाप्ता भविष्यति इति । किन्तु देवः स्वयं भिक्षुकात् भिक्षां याचितवान्, येन सः विस्मितः अभवत् । तिरस्कारभावेन सः केवलम् एकं तण्डुलकणं देवाय दत्तवान् । देवः तं स्वीकृत्य अन्तर्हितः अभवत् । रात्रौ भिक्षुकः स्वस्य भिक्षाराशौ एकं सुवर्णतण्डुलकण...
ज्ञानप्राप्तीच्छा 17.11.2025 2:30
कस्यचन आचार्यस्य उभौ शिष्यौ आस्ताम् । तयोः एकः अध्ययने विशेषतया आसक्तः, अपरः च मन्दप्रवृत्तिः । कदाचित् अपरः गुरुं पृच्छति यत् किमर्थं प्रथमम् एव आधिक्येन पाठयति इति । तदा गुरुः बोधकथां श्रावयित्वा दर्शयति यत् प्रथमस्य ज्ञानप्राप्तीच्छा तीव्रा अस्ति अतः सः परिश्रमं करोति, परिश्रमानुगुणं फलं प्राप्नोति च । अपरस्य ज्ञानप्राप्तीच्छा तु दुर्बला अस्ति । अतः प्रयत्नः अपि मन्दः । तस्मात् फलम् अपि अल्पम्...
अभिमानधनः कविः 16.11.2025 2:47
राजा मानसिंहः एकदा वेषान्तरं धृत्वा कवेः कुम्भनदासस्य गृहम् अगच्छत् । तदवसरे प्रस्थानाय उद्यतः कविः तिलकं धर्तुं दर्पणम् आनेतुं पुत्रीम् अवदत् । अनवधानात् दर्पणः हस्तात् च्युतः सन् भग्नः जातः । तद् दृष्ट्वा कविः एकेन विशालमुखेन पात्रेण जलम् अनेतुम् उक्त्वा जले स्वमुखं दृष्ट्वा तिलकं धृत्वा प्रकोष्ठात् बहिः अगच्छत् । वेषान्तरं धृतवान् राजा एतत्सर्वं दृष्ट्वा परेद्यवि यदा कविः आस्थानम् आगतवान् तदा स...
अमृतपुत्राः 15.11.2025 3:50
सिक्खानां गुरोः गोविन्दसिंहस्य चत्वारः पुत्राः मोघलैः सह प्रवृत्ते युद्धे वीरमरणं प्राप्तवन्तः आसन् । एतत् वचनं श्रुत्वा पत्नी पुत्रवियोगेन नितरां दुःखसन्तप्ता भूत्वा उच्चैः रोदनम् अकरोत् । तदा गोविन्दसिंहः अवदत् ये धर्मयुद्धे वीरगतिं प्राप्नुवन्ति ते अमृतपुत्राः । तस्य विषये गर्वं भवतु । पुत्रवियोगं प्राप्तवन्तः जन्मदातारः सान्त्वनीयाः अस्माभिः । प्रजाः एव अस्मत्पुत्राः इति चिन्तय । चिन्तनपरिवर्त...
वरुणमन्त्रः 14.11.2025 3:02
अष्टादशवर्षपूर्वं स्यानन्दपुरे पद्मतीर्थनामा तडागः निर्जलः जातः । कथञ्चित् अयं तडागः जलपूर्णः स्यात् इति जनाः अचिन्तयन् । तदा तस्य कार्यार्थं डा. साम्बशिवनामकः कश्चन सज्जनः जनान् प्रेरितवान् । साम्बशिवस्य न केवलं वैद्यकीये विषये, अपि तु वेदोपनिषत्सु अपि अध्ययनम् आसीत् । अग्रिमदिने सर्वे ब्राह्मे मुहूर्ते अनशनपूर्वकान् आर्द्रवस्त्रान् जनान् वरुणमन्त्रं बोधितवान् । ऋग्वेदस्य वरुणमन्त्रः श्रद्धया एक...
शिल्पिनः चयनम् 13.11.2025 2:59
कश्चित् राजा राजधान्याम् एकं भव्यं मन्दिरं निर्मातुं सङ्कल्पं कृतवान् । वृद्धः आस्थानशिल्पी राजानं यौवनशिल्पिनः चयनाय उपदिष्टवान् । राजा स्पर्धाम् आयोज्य उत्कृष्टं शिल्पं निर्मातुं शिल्पिनः आमन्त्रितवान् । तेषु शिवमूर्ति-धनपालाभ्यां निर्मितं शिल्पम् उत्कृष्टम् इति तु घोषितम्, किन्तु तयोः नाम न प्रकाशितम् । एतत् दृष्ट्वा धनपालः खिन्नः जातः, रात्रौ रहसि शिवमूर्तेः शिल्पं विरूपीकृतवान् । तस्य कृत्यं...
मूल्यवत् उपायनम् 12.11.2025 3:29
कदाचित् राष्ट्रपतिना अब्दुलकलाममहोदयेन कस्मिंश्चित् समारम्भे अध्यक्षस्थानं वोढव्यम् आसीत् । तस्य भाषणस्य अनुवादः गुरुराजकरजगिवर्यस्य । तेन रुदन्ती लघुबालिका दृष्टा । कारणे पृष्टे तस्याः पितरौ उक्तवन्तौ यत् 'कलाममहोदयेन भाषणं कर्तुम् एतस्याः इच्छा अस्ति' इति । अध्यक्षभाषणसमाप्तेः अनन्तरं गुरुराजवर्यः कलाममहोदयं लघुबालिकायाः इच्छाम् अवदत् । अनुक्षणमेव एकम् आरक्षकम् आहूय बालिकाम् आनेतुम् अवदत् । कलाम...
दर्शनमात्रेण उपेक्षा न उचिता 11.11.2025 3:17
पुरा ऋचीकनामा कश्चन ऋषिः, गाधिनाम्नः राज्ञः पुत्रीं सत्यवतीं परिणेतुम् ऐच्छन् माहाराजम् उपसर्प्य स्वस्य इङ्गितं निवेदितवान् । मुनये पुत्रीं दातुं राजा तु न इष्टवान् । बाह्यावलोकनतः अयं मुनिः सामान्यः इति विगणय्य राजा अस्मै साधारणं कार्यं ददामि इति अचिन्तयत् । ततः अवदत् यत् 'अस्माकं कुले विशिष्टा वरपरीक्षा अस्ति । यः एकतः श्यामकर्णान् सहस्रम् अश्वान् आनयेत् तस्मै एव पुत्री दीयेत' इति । राज्ञः अभिप्...
उत्कृष्टं प्रशासनं कीदृशम्? 10.11.2025 3:03
राजसूययगानन्तरं महता दानेन धर्मराजस्य मनसि अहं महादाता अस्मि इति भावः आगतः। एतत् अवगतेन श्रीकृष्णेन धर्मराजस्य एतं भावम् अपनेतुम् इच्छता सः बलिचक्रिवर्तिनः आस्थानं प्रति नीतः । कृष्णं दृष्ट्वा हर्षेण स्वागतवचनानि उक्त्वा बलिः अपृच्छत् 'आगमनावसरे भवता किमर्थम् अयम् अयोग्यः राजा अपि आनीतः' इति । कृष्णः 'एषः महान् दानशूरः अस्ति' इति यदा प्रत्युत्तरति तदा बलिः वदति 'मम राज्ये मदीयैः जनैः गृहं गृहं गत्...
महिलानां मानरक्षणम् 09.11.2025 3:53
कदाचित् भारतीयसेनाधिकारिणः तत्पत्न्यः च रेल्स्थानकं गतवन्तः आसन् । तदवसरे केचन दुष्टाः माहिलाः बहुधा अपीडयन् । ते अधिकारिणः दुष्टान् बद्ध्वा युतकादिकम् अपनीय अन्तर्वस्त्रमात्रतया मुख्यमार्गे तेषां शोभायात्रां कारितवन्तः । तेषां दुष्टानां नायकः आसीत् मुख्यमन्त्रिणः पुत्रः एव । अतः यदा मुख्यमन्त्री सेनाशिबिरं प्रति अगच्छत् तदा तस्य प्रवेशाय अनुमतिः एव न लब्धा । क्रुद्धः मुख्यमन्त्री प्रधानमन्त्रिणं...
मित्रस्य निमित्तम् 08.11.2025 2:07
काचित् वृद्धा भिक्षया यत् प्राप्यते तत् नारायणाय नैवेद्यत्वेन समर्प्य एव स्वयं खादति स्म । कदाचित् प्राप्तचणकान् जले संस्थाप्य मृदूकृत्य वस्त्रेण बद्ध्वा शयनम् अकरोत् । तस्यां रात्रौ चोराः आभरणग्रन्थिः इति मत्वा तं चणकग्रन्थिम् चोरयित्वा सान्दीपनिमुने आश्रमे नीलीय अतिष्ठन् । चणकग्रन्थिम् अप्राप्य दुःखिता वृद्धा शापं दत्तवती यत् ये तान् चणकान् खादेयुः ते महादरिद्राः भवेयुः इति । चोराः सः चणकग्रन्थि...
पुण्यकार्यपरम्परा 07.11.2025 2:24
कश्चन संन्यासी प्रयाणेन श्रान्तः सन् कस्यचित् गृहस्य पुरतः स्थित्वा भोजनं याचितवान् । गृहस्वामी सादरं तम् अन्तः नीत्वा भोजनं प्रदत्तवान् । किञ्चित्कालं विश्रान्तिसुखम् अनुभवन् प्रस्थानसमये संन्यासी गृहस्वामिने धनं दातुम् उद्युक्तः । किन्तु गृहस्वामी धनप्राप्तीच्छया न, अपि तु बुभुक्षिताय अन्नदानं पुण्यम् इत्यतः भोजनं दत्तम् इति अवदत् । संन्यासी उक्तवान् यत् 'दीयमानं धनं तु स्वार्थाय न, अपि तु पुनरप...
भागवतपारायणस्य प्रभावः 06.11.2025 2:53
षोडशे शतके केरले पून्ताननामा कश्चन गुरुवायूरुपुरेशभक्तः कदाचित् कोट्टियूरस्थे शिवमन्दिरे भागवतपारायणम् आरब्धवान् । तत्र कृष्णरुक्मिणीसंवादस्य कथां विवृत्य एकं पुटचिह्नं संस्थाप्य मन्दिरात् निर्गतः । परन्तु आश्चर्यं नाम अग्रिमे दिने तस्य अध्यायस्य आरम्भे एव तत् पुटचिह्नं दृष्टम् । एवम् अवशिष्टेषु दिनेषु अपि तेन सः एव कथाभागः पुनः पुनः पठितः । अन्तिमे दिने यदा पून्तानः मन्दिरात् भागवतपुस्तकम् आनेतुम...
प्रतिमानां सन्देशः 05.11.2025 2:49
कदाचित् कश्चन गुरुः लवणेन वस्त्रेण शिलया च निर्मिताः तिस्रः प्रतिमाः जले निमज्जयन् तासां तत्त्वं बोधयति । शिलानिर्मिता प्रतिमा जले निमज्ज्य अपि अल्पमपि विकारं न प्राप्नोत् । केचन शिलाप्रतिमा इव । जलं ज्ञानम् इव । केचन ज्ञाने निमज्ज्य अपि स्वस्मिन् किमपि परिवर्तनं न प्राप्नुवन्ति अहङ्कारादिकारणतः । वस्त्रनिर्मिता प्रतिमा तु जलं स्वस्य अन्तः स्वीकरोति । तादृशाः ज्ञानं सम्पादयन्तः तदनुगुणम् आचरन्तः व...
ध्यानात् सिद्ध्यति अभीष्टम् 04.11.2025 2:26
कश्चन महात्मा ध्यानविषये बोधयन् मण्डूकस्य दृष्टान्तं वदति — 'मण्डूकेन इव तदेकनिष्ठया ध्यानं करणीयम् । मण्डूकः क्षुद्रजीवी अपि श्रद्धया एकनिष्ठया ध्यानं करोति । सः वृष्टिं प्रार्थयमानः भूमेः अन्तः स्थित्वा प्रतीक्षां करोति । तस्य अपेक्षां निसर्गः पूरयति । श्रद्धया सहनया च अपेक्षितस्य तत्त्वस्य प्रतीक्षणम् एव ध्यानं नाम । तादृशः स्वभावः मानवेषु स्यात् चेत् ते अपि अपेक्षितं प्राप्तुं शक्नुवन्ति । उद...
Replaio is geen uitgever van podcasts; namen van shows, covers en audio zijn eigendom van hun makers en worden verspreid via openbare RSS-feeds