सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 758 episoder

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Husk å besøke podkastens nettsted og støtte skaperen: sambhashanasandesha.in

Forfatter

सम्भाषणसन्देशः

Kategori

Kids

Podkastens nettsted

sambhashanasandesha.in

Siste episode

29. nov 2026

Hvor kan du lytte?

Podkaster i appen Replaio Radio Kommer snart

Podkaster kommer snart til appen. Installer nå, og bli den første som ser en helt ny tilnærming til podkaster

Last ned på Google Play Installer gratis Android 10 mill.+ nedlastinger · 4,7+ i vurdering iOS snart

Episoder

सा अवध्या वन्द्या च 27.07.2026

प्रसिद्धः कथाकारः प्रेमचन्दः गोरक्षपुरे यदा अध्यापनरतः आसीत् तदानीन्तनी घटना एषा । प्रेमचन्दवर्येण काचन गौः पालिता आसीत् । कदाचित् चरणाय प्रेषिता सा गौः जनपदाधिकारिणः गृहपरिसरं प्राविशत् । तद् दृष्ट्वा सः अधिकारी तस्याः गोः मारणाय भुषुण्डिकाम् आनीतवान् । तावता तत्र प्रेमचन्दः आगत्य तस्य मूकजीविनः प्राणं रक्षति । गोमातुः विषये प्रेमचन्दस्य श्रद्धाम् अतिशयप्रीतिं च दृष्ट्वा जनपदाधिकारी महत् आश्चर्यं...

पापभीतेः मुक्तिः 26.07.2026

रावणस्य दिवङ्गतेः अनन्तरं लङ्कायाः उत्तराधिकारितां स्वीकर्तुं रामः विभीषणं बोधयति । रामस्य अनुरोधात् विभीषणः पट्टाभिषेकम् अङ्गीकृतवान् । यदा सर्वे पट्टाभिषेकविधयः सम्पन्नाः अभवन् तदा विभीषणः अग्रजस्य रावणस्य अन्याय्यमार्गेण अर्जितस्य सम्पत्तेः उत्तराधिकारी सन् पापभीतिम् अनुभवामि इति रामम् अवदत् । तदा रामः विभीषणं पापभीतेः मुक्तिमार्गम् अबोधयत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर...

चतुरः टोडरमलः 25.07.2026

राजा टोडरमलः सम्राजः अकबरस्य आस्थानस्य मन्त्रिषु अन्यतमः । वित्तवाणिज्यादिविभागान् प्राधान्येन सः निर्वहति स्म । 'नरनौल'नामके नगरे तस्य सुहृद् कश्चन श्रेष्ठी आसीत् यस्य गृहं सः सर्वदा गच्छति स्म । कदाचित् श्रेष्ठी दिवं गतः । तस्य सम्पत्तिः दायादैः वञ्चनया वशीकृता । अतः श्रेष्ठीपत्नी दारिद्र्यदशाम् आपन्ना । पूर्वं तस्य पुत्रस्य निमित्तं वधूः निश्चिता आसीत् । इदानीं वधूपक्षीयाः चिन्ताग्रस्ताः अभवन्...

सुखं मृगमरीचिकायते 24.07.2026

कश्चन राजा वार्धक्ये राज्यं पुत्राय समर्प्य एकाकी वनं प्रति प्रस्थितवान् । तदा कश्चन महात्मा तं राजानं संसारस्य विषये, संसारे सुखस्य विषये च बोधयति - संसारे सुखं मृगमरीचिकायते । सा मृगमरीचिका अस्मान् इतस्ततः भ्रामयति । सत्कर्मानुष्ठानात्, भगवतः ध्यानात् शरणागतितः च सुःखं प्राप्येत इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A king, in ol...

वास्तविकः सुहृत् 23.07.2026

बलभद्रनामा कश्चन वणिक्पुत्रः आसीत् । तस्य सम्पदं दृष्ट्वा अनेके जनाः तस्य सुहृदः अभवन् । तस्य आपणे सर्वदा सम्यक् खादन्तः जल्पन्तः मद्यं पिबन्तः च कालं यापयन्ति स्म । अथ कदाचित् दूरस्थात् ग्रामात् बलभद्रं द्रष्टुम् आगतः मातुलः सम्पत्तेः दुरुपयोगं दृष्ट्वा सुहृदां विषये पूर्वसूचनां ददाति यत् एते वास्तविकाः सुहृदः न इति । तेषां सुहृदां लघुपरीक्षां करोति । तया  बलभद्रेण ज्ञायते कः वास्तविकः सुहृद् इति...

जयस्य कारणम् 22.07.2026

कश्चन बुद्धिमान् तरुणः सुशीलः अन्नदानस्य निराकरणं करोति । किमर्थम् इति पृष्टे 'एतादृशं दानं दातुः अहङ्कारस्य वृद्ध्यै भवेत्, न तु देशहिताय' इति वदति तरुणः । यदा सः राज्ञः समीपं नीतः तदा तरुणः वदति 'अन्नदानस्य कारणतः युवकाः अलसाः जाताः सन्ति । एतस्य प्रत्यक्षपरिणामः सैनिकेषु जायते । अतः देशे उद्योगावसराः वर्धनीयाः, न तु अन्नदानव्यवस्था' इति । तदनन्तरं यत् अग्रे भविष्यति तेन राजा बोधं प्राप्य यत् आव...

सूत्रद्वयम् 21.07.2026

यदा रावणः अन्तिमश्वासोच्छ्वासं कुर्वन् आसीत् तदा रामः सुव्यवस्थितजीवनसञ्चालनस्य सूत्राणि कानि इति ज्ञातुं लक्ष्मणं रावणस्य अन्तिकं प्रेषयति । लक्ष्मणः गत्वा जीवनस्य महत्त्वपूर्णमन्त्रः भव्यसूत्रं च किमस्ति इति रावणं पृच्छति । तदा रावणः स्वस्य जीवनस्य अनुभवाधारेण कथयति 'शिष्टाचारजीवनस्य द्वे सूत्रे स्तः । प्रथमं तु - श्रेष्ठं कार्यं कर्तुं कदापि विलम्बः न करणीयः । द्वितीयं - कुत्सितकार्ये शीघ्रता न...

विदेशगमने स्पृहा 20.07.2026

विदेशगमने स्पृहा जनैः किं किं कारयति इति अनया कथया ज्ञातुं शक्यते । कदाचित् कस्यचन विश्वविद्यालयस्य भौतशास्त्रविभागाय रशियादेशतः एकं निमन्त्रणपत्रम् आगतम् आसीत् । किन्तु तस्य विद्यालयस्य कुलसचिवः तां वार्तां न भौतविभागप्रमुखम् अवदत्, न वा कुलपतिम् । सः कदाचित् सभायां 'रशियादेशस्य विश्वविद्यालयः मां निमन्त्रितवान् अस्ति' इति उद्घोषितवान् । यदा सः देहलीम् अगच्छत् तदा कस्यचन अधिकारिणः मनसि संशयः उत्प...

निरशनम् इष्टसिद्धिपर्यन्तम् अपि 19.07.2026

हरियाणाराज्ये माहराग्रामे निवसन् फूलसिंहः निम्नजातीयानाम् उद्धरणम् एव जीवनस्य लक्ष्यं भावयति स्म । अथ कदाचित् पार्श्वस्थे 'मोट'नामके ग्रामे चर्मकारबान्धवाः स्वीयोपयोगार्थं कूपं खातवन्तः । किन्तु तत् असहमानाः यवनाः मृत्तिकाभिः तं कूपं पिहितवन्तः । भक्तः फूलसिंहः इदम् अन्याय्यं प्रतिरुद्ध्य सङ्ग्रामम् आरब्धवान् । यावत् पर्यन्तं कूपखननं न भविष्यति तावत् पर्यन्तं आहारसेवनं न करिष्यामि इति प्रतिज्ञातवा...

देशभक्तिः 18.07.2026

भारतस्य स्वातन्त्र्यसङ्ग्रामकाले बहवः देशभक्ताः यथाशक्ति सङ्ग्रामे भागं वहन्तः स्वस्य देशभक्तिं प्रकटितवन्तः । तेषु अन्यतमः आसीत् कश्चन नापितः यः चेन्नैनगरे (पूर्वं मद्रास् इति तस्य नाम आसीत्) वसति स्म । अनया कथया सः कथं सङ्ग्रामे भागम् ऊढवान् इति ज्ञातुं शक्नुमः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) During India’s freedom struggle, ma...

न आवश्यकं किमपि 17.07.2026

कश्चन वणिक् केनचन ज्योतिषेण उक्तम् इति कारणेन महता प्रमाणेन अन्नवितरणं कर्तुम् आरब्धवान् । तस्य मनसि चिन्ता आसीत् 'मम षष्ठपरम्परायां जातानां का अवस्था भवेत्?’ इति । कदाचित् अन्नवितरणसमये कञ्चन निर्धनम् अन्नं नेतुम् आह्वयति सः वणिक् । किन्तु मध्याह्नाय यावत् आवश्यकम् तावत् प्राप्तम् अस्ति । सायङ्कलनिमित्तमपि गृहे तण्डुलादिकम् अस्ति इति निर्धनः वदति । तदा वणिक् चिन्तयति 'एषः निर्धनः श्वस्तनव्यवस्थाव...

प्रतिमायां सजीवः देवः 16.07.2026

यद्यपि शिवकुमारेण आ गतेभ्यः विंशतेः वर्षेभ्यः लिपिकाररूपेण कार्यं कृतं तथापि पदोन्नतिः न प्राप्ता आसीत् । सहोद्योगिनः मार्गदर्शनेन सः रामं पूजितवान् । वर्षात् अधिकः कालः अतीतः चेदपि तेन किमपि फलं न प्राप्तम् । अपरस्य सहोद्योगिनः मार्गदर्शनेन श्रीकृष्णस्य पूजनम् आरब्धवान् । अग्रे किं भवति इति कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्...

कृतज्ञताभावः कथम् उह्येत ? 15.07.2026

१८७३ तमवर्षीया घटना एषा । राजप्रतिनिधिः लार्ड् नार्थबुक् नामा कदाचित् स्वामिनः दयानन्दस्य मेलनम् अभिलषितवान् । राजप्रतिनिधिना योग्यः एव सत्कारः व्यवस्थापितः आसीत् । सत्कारस्य समये सम्भाषणावसरे दयानन्दस्वामी निर्भयेन स्वस्य अभिप्रायं प्रकटयति । तस्य निर्भयं वचनं श्रुत्वा राजप्रतिनिधिः क्षणं यावत् आश्चर्येण स्तब्धः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनि...

परमसन्तृप्तः कः? 14.07.2026

काशीराज्ये कस्मिंश्चित् ग्रामे आसीत् सुमतिनामा कश्चन निर्धनः परोपकारनिरतः दैवभक्तः यः भिक्षान्नेन जीवनं निर्वहति स्म । 'जीवने परमसुखी कः' इति ज्ञातुम् इच्छा जाता तस्य । सः जनान् प्रष्टुम् च आरब्धवान् यत् तेषां जीवनं सुखमयं स्यात् वा ? इति । पृष्ट्वा पृष्ट्वा अन्ते कश्चन अवदत् यत् सुमतिः नाम कश्चन यः अविवाहितः परोपकारी भिक्षान्नजीवी च अस्ति सः एव सुखी स्यात् इति । अन्यस्य मुखात् स्वस्य प्रशंसां श्र...

नृगस्य शापः 13.07.2026

कदाचित् वनविहारार्थं गतवन्तः द्वारकावासिनः तरुणाः कस्मिंश्चित् कूपे कृकलासम् एकम् अपश्यन् । कूपात् कृकलासम् उद्धर्तुम् अशक्नुवन् ते एतं विषयं कृष्णं निवेदितवन्तः । कृष्णः कूपसमीपम् आगत्य लीलया तं कृकलासं कूपात् उद्धृत्य भूमौ अस्थापयत् । तावता कृकलासः देवरूपं प्राप्य कृष्णः साष्टाङ्गं नमस्कृतवान् । इक्ष्वाकोः पुत्रः नृगः शापकारणात् कृकलासः जातः आसीत् । कृष्णस्य करस्य स्पर्शनम् एव तस्य शापविमोचनमार्...

दौर्भाग्यकरं मुखम् 12.07.2026

वीरदेवः इति कश्चन दानशीलः राजा । प्रतिदिनं सः उषसि उत्थाय दर्पणे मुखं‌ पश्यति, ततः विहारार्थम् उद्यानं गच्छति च । एवं करणात् सौभाग्यं सिद्ध्येत् इति तस्य चिन्तनम् । अथ एकदा सः स्वमुखम् अदृष्ट्वा एव उद्यानं गतः । ततः किं भवति इति कथायाः विषयः वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Viradeva was a generous king. Every morning he loo...

सज्जनतायाः फलम् 11.07.2026

सुन्दरनामकः कश्चन धनिकः दैवभक्तः सदाचारी च आसीत् । स्वस्य ग्रामे मन्दिरमेकं निर्मापितवान् । धनव्यवस्थायाः देवालयस्य च निर्वहणार्थं कस्यचन निष्कपटस्य योग्यस्य जनस्य आवश्यकता आपतत् । अतः सुन्दरेण तादृशस्य अन्वेषणम् आरब्धम् । तस्य स्थानस्य प्राप्त्यर्थं बहुभिः अहमहमिकया अग्रे आगतम् । किन्तु सुन्दरः‌ सर्वान् तिरस्कृतवान् । अन्ते कश्चन निर्धनः तरुणः चितः सुन्दरेण । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष...

मयि ते, तेषु चाप्यहम् 10.07.2026

कदाचित् नारदः श्रीकृष्णमन्दिरम् अगच्छत् । 'भगवान् पूजां करोति । कृपया प्रतीक्षताम्' इत्यवदत् सेवकः । 'यं त्रैलोक्यं पूजयति, सः श्रीकृष्णः कं वा पूजयेत्?’ इति नारदः अचिन्तयत् । नारदेन अनुरोधे कृते श्रीकृष्णः तं पूजागृहम् अनयत् । एकस्यां लघुतमायां सुवर्णमञ्जूषायाम् अविद्यत अल्पमात्रं मृत्तिका । ये साधुपुरुषाः श्रीकृष्णस्य साहाय्यम् अकुर्वन् तेषां चरणधूलिं मञ्जूषायां संस्थाप्य पूजयति कृष्णः इति ज्ञात...

अप्रतिमशूरः भण्डारीरामः 09.07.2026

भण्डारीरामः द्वितीयजागतिकयुद्धकाले जपानीयान् विरुद्ध्य प्रवर्तमाने युद्धे बलूचीदलस्य सदस्यः सन् सः रणरङ्गम् अगच्छत् । समुन्नते पर्वतशिखरे जपानीयसैन्यस्य एकं शिबिरम् आसीत् । तस्य पर्वतस्य आरोहणम् आसीत् नितरां कष्टसाध्यम् । प्रतिपदं कष्टम् अनुभवन्तः भण्डारीरामः बलूचीदलीयाः च शत्रुशिबिरं वशीकृतवन्तः । सर्वथा असहायकस्थितौ स्वस्य प्राणापायम् अपि अविगण्णय शत्रुशिबिरस्य वशीकरणस्य प्रमुखं पात्रम् ऊढवता भण...

आत्मनः परिष्काराय प्रयासः 08.07.2026

महेन्द्रनाथगुप्तः रामकृष्णपरमहंसस्य शिष्यः । सः वादशीलः । सर्वदा कमपि अंशम् अधिकृत्य सः परमहंसेन सह वादं करोति स्म । अथ कदाचित् सः परमहसम् अपृच्छत् 'भगवान् साकारः उत निराकारः?’ इति । अग्रे तयोः मध्ये सुदीर्घा चर्चा अभवत् । महेन्द्रनाथः परमहंसेन बोधितमेव मनसि आकलयन् ततः निर्गतवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Mahendranath Gupta...

किं भगवन्निन्दया ? 07.07.2026

शाकविक्रयिकस्य रामस्य शकटः मार्गे स्थिते कर्दमे समाश्लिष्टः अभवत् । साहाय्यार्थं न कोऽपि दृष्टः । भगवन्निन्दां कुर्वन् आसीत् । यदा भगवान् प्रत्यक्षः अभवत् तदा सः रामम् अवदत् 'त्वं स्वप्रयासं कृतवान् किम् ? प्रयत्नं कुरु' इति । 'कष्टसमये आदौ स्वप्रयासः करणीयः । आत्मनः‌ प्रयासं विना ईश्वरनिन्दया किं प्रयोजनम् ?’ इति विचिन्त्य रामः भगवन्तं क्षमां सम्प्रार्थ्य स्वस्कन्धेन शकटम् उत्थापयितुं पूर्णबलं प्...

भक्तश्रेष्ठः पुण्डलीकः 06.07.2026

आसीत् कृष्णावतारकाले पुण्डलीको नाम कश्चन मातापित्रोः भक्तः । कदाचित् श्रीकृष्णः तम् अनुग्रहीतुम् इच्छन् चन्द्रभागनदीतीरस्थं पुण्डलीकाश्रमं प्रति निर्गतः । पुण्डलीकस्य पितृसेवां दृष्ट्वा सन्तुष्टः भगवान् 'वरं वृणीष्व' इत्यवदत् । तदा पुण्डलीकेन सविनयम् उक्तः 'लोके पितृभक्तिमहत्त्वं प्रदर्शयितुं भवता अत्रैव देव्या सह स्थातव्यम्' इति । भक्तस्य इच्छां परिपालयता कृष्णेन तत्रैव स्थितम् । तदेव पण्ढरापुरम्...

पुरुषप्रयासः मुख्यः 05.07.2026

कदाचित् उभौ राजानौ युद्धस्य आरम्भात् पूर्वं कस्यचन महात्मनः आशीर्वादं प्राप्तुम् इष्टवन्तौ । पूर्वराजस्य कृते महात्मा अवदत् 'भवतः विजयः सुलभसाध्यः' इति । अन्यस्य देशस्य राज्ञः कृते अवदत् महात्मा 'भवतः विजयः कष्टसाध्यः' इति । सः राजा स्वदेशं गत्वा सर्वविधसन्नाहं कर्तुं सेनाप्रमुखान् अवदत् । युद्धे पूर्वदेशस्य पराजयः अभवत् । यदा सः महात्मानं पराजयस्य कारणम् अपृच्छत् तदा महात्मा अवदत् 'भवता जयप्राप्त...

भगवतः प्रसन्नतायै 04.07.2026

कश्चन धनिकः भगवते अर्पयितुं देवालयस्य पुरतः स्थितात् आपणात् कमलपुष्पम् एकं क्रेतुम् ऐच्छत् । विंशतिरूप्यकाणि अधिकं मूल्यम् अस्ति इत्यतः दशरूप्यकाणि स्वीक्रियन्ताम् इति आपणिकम् अवदत् धनिकः । तावता तत्र आगतः राजकुमारः प्रेयसीनिमित्तं तत् एव कमलपुष्पं क्रेतुम् ऐच्छत् । धनिकराजकुमारयोः मध्ये वादविवादः जायते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रि...

समाजस्य उत्तरदायित्वम् 03.07.2026

हेन्रि ला ग्वार्डिवर्यः जनसेवायां विशेषतया आसक्तः । सः १९३४ तः १९४५ पर्यन्तं न्यूयार्क्-नगरस्य प्रमुखः सन् तस्य नगरस्य सर्वाङ्गीणाम् उन्नतिं साधितवान् । सः कदाचित् न्यायाधीशत्वेन यदा कार्यं करोति स्म तदा प्रवृत्ता घटना एषा । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Henry La Guardia was especially devoted to public service. From 1934 to 1945...

Hør på podkasten बालमोदिनी i Replaio

Radio og podkaster i én app - gratis og uten registrering. Installer i dag, og ikke gå glipp av lanseringen

Last ned på Google Play

Replaio er ikke podkastutgiver; programnavn, omslag og lyd tilhører opphavspersonene og distribueres via offentlige RSS-feeder.