सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
Husk å besøke podkastens nettsted og støtte skaperen: sambhashanasandesha.in
Forfatter
सम्भाषणसन्देशः
Kategori
Podkastens nettsted
Siste episode
14. okt 2026
Hvor kan du lytte?
Podkaster i appen Replaio Radio Kommer snartPodkaster kommer snart til appen. Installer nå, og bli den første som ser en helt ny tilnærming til podkaster
Episoder
धूर्तः वृद्धः 19.09.2026 4:26
कस्मिंश्चित् ग्रामे कश्चन धूर्तः वृद्धः निवसति स्म । आजीवनं तेन तत्रत्याः ग्रामीणाः नानाप्रकारेण पीडिताः वञ्चिताः च । कदाचित् सः सन्निपातज्वरेण ग्रस्तः जातः । चिकित्सा व्यर्था जाता इत्यतः सः आसन्नमरणः जातः । तदा सः पुत्रम् आहूय किमपि कर्णे अवदत् । ततः यत् प्रवर्तते तेन ज्ञायते यत् सः वृद्धः कियान् धूर्तः अस्ति इति । सः मरणकाले अपि ग्रामीणान् कथं पीडितवान् इति कथायाः वस्तु वर्तते । (“केन्द्रीयसंस्...
प्रतीक्षा 18.09.2026 10:05
ईश्वरः मनुष्येण क्रियमाणं धर्मम् अधर्मं, न्याय्यम् अन्याय्यं च सर्वं जानाति । तदनुसारमेव तेभ्यः शुभाशुभफलानि ददाति । ईश्वरस्य मानदण्डं ज्ञातुं मनुष्याः न शक्नुवन्ति । किन्तु मनुष्यः चिन्तयति यत् ईश्वरस्य कर्माणि सर्वाणि मानवानुगुणानि भवन्ति इति । कथा इयम् उक्तानां तत्त्वानाम् उत्तमम् उदाहरणं वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)...
आत्मघातिका प्रशंसा 17.09.2026 4:24
गुणाकारः नाम कश्चन शिल्पकारः यः स्वकलायाम् अतीव निपुणः आसीत् । मनुष्यस्य मूलशरीरं यथा अस्ति तादृशीमेव प्रतिमां सः निर्माति । कदाचित् गुणाकारः जौतिषिकस्य समीपं गत्वा स्वस्य जन्मपत्रिकां दर्शयित्वा आयुष्यविषयम् अपृच्छत् । तदा सूक्षमतया परिशील्य अस्मिन् शुक्रवासरे पुनश्च अग्रिमशुक्रवासरे च मृत्युयोगः अस्ति इति अवदत् जौतिषिकः । कमपि परिहारं सूचयतु इति यदा गुणाकारः अपृच्छत् तदा जौतिषिकः एकम् उपायं सूचय...
ईश्वरः सर्वव्यापी 16.09.2026 2:46
तिरुपादः कश्चन महान् शिवभक्तः । अथ कदाचित् दूरस्थं किञ्चन मन्दिरम् अगच्छत् । वयोवृद्धः सः यात्राक्लेशेन मन्दिरसोपाने एव शयितवान् । प्रभाते यदा अर्चकः आगतः तं वृद्धं दृष्ट्वा कुपितः सन् अभिषेकपात्रात् जलं स्वीकृत्य तिरुपादस्य मुखे अक्षिपत् । जागरितं तिरुपादम् अर्चकः तर्जयति । 'निश्चलौ ममं पादौ तत्र स्थापयतु यत्र ईश्वरः न स्यात् । यदा निश्चलत्वम् अपगच्छेत् तदा अहम् उत्थाय गमिष्यामि' इति तुरुपादः अवद...
विचक्षणस्य गुरोः विलक्षणः शिष्यः 15.09.2026 3:46
महाप्राज्ञः प्रज्ञाचक्षुः दण्डिवरेण्यः मधुरानगर्यां निवसति स्म । कदाचित् कश्चन युवा संन्यासी तदीयं कुटीरम् आगछत् । तस्य नाम आसीत् दयानन्दः । सरस्वतादयः ग्रन्थाः अपि पठिताः आसीत् तेन । 'यदि मम अनुशासनम् इष्यते तर्हि तान् अनार्षान् ग्रन्थान् यमुनायां प्रवाह्य अत्र आगम्यताम्' इति गुरुः अवदत् । तथैव अकरोत् सः संन्यासी । सन्तुष्टः गुरुः दयानन्दस्य पाठम् आरब्धवान् । सकृत् द्विः वा श्रुतं पाठं स्मृतिपथे...
उपदेशवचनमात्रस्य पालनम् 14.09.2026 4:19
नामदेवमहाराजः कदाचित् तीर्थाटनं कुर्वन् राजधानीं अगच्छत् । तत्र तस्य उपदेशं श्रोतुं कश्चन चोरः अपि आगतवान् आसीत् । सः नामदेवम् उपसर्प्य 'अहम् उत्तमं जीवनं कर्तुम् इच्छामि किन्तु यदि चौर्यवृत्तिं परित्यज्येयं तर्हि जीवनं कष्टकरं भवेत्' इति । तदा नामदेवः अवदत् 'जीवनाधारभूतां चौर्यवृत्तिं मा त्यजतु । किन्तु सत्यकथनव्रतं पालयतु' इति । ततः तेन परिपालितेन सत्यव्रतकथानेन राज्ञः आस्थाने मन्त्रिपदम् अपि प्...
यथा वेषः तथा आचारः 13.09.2026 3:17
कदाचित् कश्चन बहुरूपः भोजराजस्य आस्थानम् आगत्य उदरपूरणाय पञ्चरूप्यकाणि अयाचत । किन्तु राजा वदति यत् 'अहं दानं न करोमि । कलाकारान् पुरस्करोमि । कापि कला यदि भवति स्यात् तर्हि सा दर्श्यताम्' इति । बहुरूपेण दिनत्रयं सन्यासिवेषः प्रभावितया दर्शितः । यदा राजा आगत्य लक्षं सुवर्णनाणकानि समर्पितवान् चेदपि सन्यासिवेषधारी बहुरूपः नेत्रे न उद्घाटितवान् । वेषानुगुणं व्यवहरणीयम् इति धिया तत् धनं तुच्छत्वेन पर...
सैनिकेषु उत्साहवर्धनाय 12.09.2026 2:47
सेतुं निर्माय समुद्रम् अतिक्रम्य वानरैः सह लङ्कासमीपे श्रीरामः उपस्थितः यत् तस्मात् नितरां चिन्ताक्रान्तः आसीत् रावणः । कथम् एतत् सम्भवम् इति पृष्टे मन्त्री अवदत् 'वानराः शिलानाम् उपरि रामनाम लिखित्वा ताः शिलाः समुद्रे अक्षिपन् । रामनामबलात् ताः प्लवमानाः जाताः' इति । सन्धिप्रस्तावः एव वरम् इत्यपि अवदत् मन्त्री । कथञ्चित् सैनिकेषु आत्मविश्वासः पूरणीयः इति विचिन्त्य सः एकं तन्त्रम् आश्रितवान् । कि...
तृप्तिः अवलम्बते मनस्सन्तिष्टिम् 11.09.2026 3:21
भगवान् बुद्धस्य प्रवचनं श्रोतुं बहवः जनाः आगच्छन्ति स्म । प्रतिदिनं जनाः स्वकष्टकथां श्रावयन्ति स्म । अथ कदाचित् कस्यचन शिष्यस्य मनसि अयं विचारः आगतः यत् तस्मिन् नगरे सुखी सन्तृप्तः वा किं कोऽपि नास्ति ? इति । यदा सः स्वस्य विचारं बुद्धस्य पुरतः प्रस्तौति तदा बुद्धः केनचित् निर्दर्शनेन दर्शयति कथं कश्चन भृतकः परमसुखी अस्ति इति । शिष्येण अवगतं यत् जीवने तृप्तिः तु मनस्सन्तुष्टिम् अवलम्बते, न तु धना...
याचच्छक्यम् एतस्मिन् जन्मनि 10.09.2026 3:11
पूर्वं कदाचित् टोकियोनगरे प्रयागविश्वविद्यालयस्य डा. आर् के त्रिवेदीवर्यस्य भाषणानन्तरं कश्चन वयोवृद्धः तं चायपानानार्थं गृहम् अनयत् । सः वयोवृद्धः वेदानां विषये, संस्कृतग्रन्थानां विषये च बहून् प्रश्नान् अपृच्छत् । किन्तु त्रिवेदीवर्येण कस्यापि उत्तरं दातुं न शक्तम् । ततः ज्ञातं यत् सः ८५ वर्षीयः वयोवृद्धः संस्कृतस्य अध्ययनम् आरब्धवान् इति । 'एतस्मिन् जन्मनि यावत् शक्यं तावत् अध्ययनं करिष्यामि ।...
दीनसेवा एव देवीसेवा 09.09.2026 4:11
पूर्वं कश्चन सन्तानहीनः राजा आसीत् । अथ कदाचित् दुःखम् अनुभवन्तं राजानं 'राजधानीतः अनतिदूरे कश्चन वटवृक्षः अस्ति इति मन्त्री अवदत् । तत्र वसन्ती देवी पूज्येत तर्हि भवतः इष्टम् अवश्यं सिद्ध्येत्' इति मन्त्री अवदत् । ततः राजा कथं देव्याः पूजनं करोति, कथं दीनसेवा एव देवीसेवा इति ज्ञातं तेन इत्येव कथायाः वस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्...
लक्ष्यपथे बधिरता 08.09.2026 3:06
कदाचित् मण्डूककुलेन स्पर्धा आयोजिता । समुच्चस्य स्तम्भस्य शिखरं यः आदौ प्राप्नुयात् सः विजयी भवेत् इति निर्णीतम् । बहवः मण्डूकाः अल्पस्य भागस्य आरोहणमात्रेण एव पतिताः अभवन् । किन्तु कश्चन लघुकायः मण्डूकः मन्दं मन्दं स्तम्भस्य आरोहणम् आरब्धवान् । अन्ये मण्डूकानां मुखात् नैराशपूर्णानि वचनानि निर्गतानि । तथापि सः निरन्तरम् अग्रे अगच्छत् लक्ष्यं च प्राप्तवान् । अन्ते ज्ञातं यत् सः मण्डूकः बधिरः इति ।...
नन्दिनः प्रमादः 07.09.2026 6:24
इयं तु चिरपरिचिता एव कथा । शिवेन नन्दी उक्तः आसीत् यत् मानवैः कृषिकार्यं करणीयं, द्विवारं स्नानं कर्तव्यम्, एकवारं भोक्तव्यम् इति । किन्तु नन्दिना प्रमादः आचरितः । सः आगत्य मानवान् विपरीतम् अवदत् 'भवद्भिः कृषिकार्यं कृत्वा दिने द्विवारं भोक्तव्यम्, एकवारं स्नानं कर्तव्यम्' इति । प्रतिदिनं द्विवारं भोजनं कृतम् इत्यतः तैः जनितं धान्यम् अल्पेनैव कालेन समाप्तम् अभवत् । यदा शिवेन नन्दिनः प्रमादः ज्ञातः...
शिलाखण्डायते स्पर्शमणिः अपि 06.09.2026 3:19
कदाचित् परशुरामभागवता स्पर्शमणिः लब्धः । गृहम् आगत्य पत्न्यै अयच्छत् । सख्याः नामदेवस्य पत्न्याः गृहे महती निर्धनता अस्ति इति कारणतः सा सख्यै 'अपेक्षितप्रमाणेन सुवर्णं प्राप्य मणिं प्रत्यर्प्यताम्' इत्युक्त्वा मणिम् अयच्छत् । सखी मणेः साहाय्येन सुवर्णं प्राप्य तं विक्रीय तण्डुलादिकम् आनीय पाकं सज्जीकृतवती । प्रवृत्तं सर्वं ज्ञात्वा नामदेवः दुराशामूलं मणिं नद्यां क्षिप्तवान् । तत् ज्ञात्वा यदा भगवा...
असदृशं देशप्रेम 05.09.2026 2:51
वयं सर्वे महापुरुषं सुभाषचन्द्रं जानीमः एव । लघुनि एव वयसि देशप्रेम्णा, धर्मप्रेम्णा च सम्पन्नः आसीत् सः । आङ्ग्लमाध्यमशालायां पठन् अपि सः सूट् बूट् इत्यादिकं परित्यज्य भारतीयां वेष्टीं, युतकं, शिरस्त्रं च धर्तुम् आरब्धवान् । अपि च सः सर्वान् सहपाठिनः प्रेरयित्वा भारतीयेषु विद्यालयेषु प्रवेशितवान्, स्वयं च प्रविष्टवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्...
स्पर्शमणितः अपि श्रेष्ठम् 04.09.2026 5:01
कश्चन स्वाभिमानी शास्त्रज्ञः च ब्राह्मणः गर्वं प्रदर्शयतः धनिकान् दृष्ट्वा 'मया अपि प्रभूतं सुवर्णं सम्पादनीयम्' इति विचिन्त्य द्वादशवर्षाणि कठोरं तपः आचरितवान् शिवं तोषययितुम् । शिवः सन्तुष्टः भूत्वा तस्य स्वप्ने प्रत्यक्षीभूय 'वरः याच्यताम्' इति अवदत् । 'स्पर्शमणिं प्राप्तुम् इच्छामि' इति अवदत् ब्राह्मणः । क्षणं विचिन्त्य शिवः 'तस्य प्राप्त्यर्थं वृन्दावने यमुनातीरे वसन्तं सनातनगोस्वामिमुनिम्...
विचित्रा अपेक्षा 03.09.2026 3:24
वीरपुरस्य राजा जयसिंहः शान्तिप्रियः प्रजावत्सलः च आसीत् । तस्य देशः सम्पत्समृद्धः आसीत् । प्रतिवेशी राजा विजयसिंहः युद्धप्रियः । तस्य सैन्यं महत् आसीत् । कदाचित् विजयसिंहः स्वस्य सामन्तत्वम् अङ्गीकर्तुं जयसिंहाय वार्तां प्रेषयति । जयसिंहः चिन्ताक्रान्तः जातः । किन्तु तस्य मन्त्री सुबुद्धिः तं सान्त्वयन् 'अहम् उपायेन कार्यं साधयिष्यामि' इति उक्त्वा विजयसिंहस्य आस्थानं प्रति गच्छति । तत्र उपायेन वि...
धीरा बाला 02.09.2026 2:52
काचित् पञ्चदशवर्षीया धीरा बालिका पित्रा सह नौकायाम् उपविश्य रथोत्सवार्थं गच्छति स्म । नद्याः अपरस्मात् भागात् कौचित् भीत्या त्वरया च जले तरन्तौ आगच्छन्तौ दृष्टौ । तयोः भयहेतुः आसीत् - कश्चन अनुधावन् मकरः । सा धीरा बालिका नौकातः जले कूर्दित्वा तौ नौकां प्रति आनीतवती । बाल्यावस्थायामेव एतादृशं साहसं प्रदर्शितवती सा एव झान्सीराज्ञी लक्ष्मीबाई । तस्याः बालायाः पिता एव भारतस्य प्रातःस्मरणीयेषु देशभ...
कुशला पत्नी 01.09.2026 4:36
कश्चन गृहस्थः प्रतिदिनं भोजनसमये स्वस्य पात्रस्य पार्श्वे एकां सूचीम्, एकं जलपात्रं च स्थापयति स्म । तस्य कारणं किम् इति तस्य गृहस्थस्य गुणवती कार्यकुशला च पत्नी सुशीला न जानाति स्म । एवमेव वर्षाणि अतीतानि । अथ कदाचित् मरणावस्थां प्राप्तवतीं सुशीलां कापि अपेक्षा अस्ति चेत् वदतु इति पतिः अवदत् । तदा सा सूच्याः जलपात्रस्य च विषयम् अपृच्छत् । तदा पतिः अवदत् 'भवती परिवेषणसमये यदि अन्नपुलकान् पातयेत्...
तृष्णासर्पस्य दंशनम् 31.08.2026 2:55
कौशम्ब्याः राजपुरोहितस्य पुत्रः अभिरूपकपिलः अध्ययानाय आचार्यस्य इन्द्रदत्तस्य समीपं गतः । तस्य गृहे काचित् सेविका अभिरूपस्य सेवाम् अकरोत् येन सः सन्तुष्टः जातः । कदाचित् सा सेविका उत्तमानि वस्त्राणि आभरणानि च अयाचत । किन्तु अभिरूपः अकिञ्चनः आसीत् । सा एकम् उपायम् अवदत् 'प्रातःकाले यः प्रथमम् अभिवादनं करोति तस्मै द्विमाषमितं सुवर्णं ददाति राजा' इति । किं अभिरूपः तस्याः सेविकायाः कथनानुसारं करोति ?...
क्व गतं धनम्? 30.08.2026 3:22
कश्चन सुहृदयः दयालुः च राजा दरिद्राः अपि धनवन्तः स्युः इति विचिन्त्य धनिकेभ्यः धनं स्वीकृत्य दरिद्रेभ्यः दत्तवान् । किन्तु देशस्य दुस्स्थितिः अनुवर्तमाना एव अस्ति इति राजा अवगतवान् । राज्ञः चिन्ता आसीत् 'दरिद्रेभ्यः दत्तं धनं क्व गतम्?' इति । तदा मन्त्री तस्य कारणम् अवदत् । अपि च अग्रे किं किं करणीयम् इत्यपि अवदत् । तस्मात् अल्पे एव काले तदीयं राज्यं निर्धनतारहितं जातम् । (“केन्द्रीयसंस्कृतविश्ववि...
वन्यपशवः भ्रातरः इव 29.08.2026 4:28
अरुणाचलप्रदेशे रूपग्रामे उभौ सहोदरौ निवसतः स्म । तयोः ज्येष्ठः बौद्धसंन्यासी, कनीयान् च व्याधवृत्तिम् आश्रित्य गृहपोषणं करोति स्म । बौद्धसंन्यासिने मांससेवनं न रोचते स्म अतः कदाचित् सः मांसभक्षणं परित्यक्तवान् । सः व्याधवृत्तिं त्यक्तुम् अनुजम् प्रेरयति । अनुजः कथं तां वृत्तिं त्यज्यति इति कथायाः वस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...
कार्याणि तु यथाकालम्..... 28.08.2026 2:45
कृषौ यथाकालं कार्याणि करणीयानि । अन्यथा कृषिः विनश्यति । यथाकालम् अकृतं कार्यं फलं न दादाति । कस्मिंश्चित् राज्ये यद्यपि विशालं कृषिक्षेत्रम् आसीत् तथापि तत् शुष्कम् । कश्चन कृषिकः भूमिगुणम् अधीत्य कृषिम् आरब्धवान् । अन्यान् अपि प्रेरितवान् । तस्मात् पञ्चवर्षाभ्यन्तरे राज्यस्थानि सर्वाणि कृषिक्षेत्राणि धान्यसम्पन्नानि जातानि । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथाना...
मृतोSपि जीवति 27.08.2026 5:53
कथायाम् अस्यां देवराजरामदेवयोः स्वभावः विवृतः अस्ति । यः समाजहितं चिन्तयति सः मृतोऽपि जीवति । अतः रामदेवः तु विंशतेः वर्षेभ्यः पूर्वमेव दिवं गतः चेदपि जनाः तं प्रतिदिनं स्मरन्ति । यः स्वार्थमात्रं चिन्तयति सः तु जीवन् अपि मृतः एव । अतः देवराजे जीवति सति अपि कोऽपि तस्मिन् आदरवान् न । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) This story descri...
नूनता कच्छपबककथा 26.08.2026 3:34
काचित् पुत्री शयनसमये जनकम् एकां कथां श्रावयितुम् अवदत् । तदा पिता कच्छपबककथां वक्तुम् आरभते । तदा पुत्री तम् अवरुणद्धि । यतः तत्र कच्छपस्य मरणं भवति इति कारणतः । किन्तु पिता वदति यत् नूतनां कच्छपबककथां वदामि इति । कथायां तस्यां कच्छपस्य हानिः न भवति इति श्रुत्वा आनन्दिता पुत्री निद्रां कृतवती । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) One...
Replaio er ikke podkastutgiver; programnavn, omslag og lyd tilhører opphavspersonene og distribueres via offentlige RSS-feeder.