सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 617 episodi

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Visita il sito del podcast e sostieni chi lo crea: sambhashanasandesha.in

Autore

सम्भाषणसन्देशः

Categoria

Kids

Sito del podcast

sambhashanasandesha.in

Ultimo episodio

11 lug 2026

Dove ascoltare?

I podcast nell'app Replaio Radio In arrivo

I podcast stanno per arrivare nell'app. Installala ora e scopri per primo un modo tutto nuovo di vivere i podcast

Scaricala su Google Play Installala gratis Android quasi 10 mln di download · valutazione 4,8 iOS in arrivo

Episodi

मातुः उपदेशः 20.08.2025

मातुः उपदेशानुसारं सुप्रसिद्धः राजा गोपीचन्दः राज्यस्य त्यागं कृत्वा गोरखनाथस्य शिष्यः जातः । प्रथमदिने एव गुरुः गोपीचन्दं भिक्षायाचनार्थं प्रेषितवान् । ततः भिक्षाटनार्थं गतवान् । सः मातुः समीपम् अपि गत्वा भिक्षाम् अयाचत । माता त्रीणि गूढवचनानि भिक्षारूपेण अवदत् - ‘सर्वदा सुरक्षिते दुर्गे तिष्ठतु । स्वादिष्टं भोजनं एव खादतु । सुखमये सुगन्धिते तल्पे एव शयनं करोतु' इति। तेषां अर्थः च - 'गुरुसन्निधिः...

कतमः योग्यः ? 19.08.2025

कस्यचित् देशस्य राज्ञः त्रयः पुत्राः आसन् । ते च युवकाः जाताः । एकदा राजा चिन्तामग्नः आसीत् यत् तस्य अनन्तरं कतमः पुत्रः राज्यपालनं कुर्यात् इति । कारणं ज्ञातवता मन्त्रिणा कश्चन उपायः सूचितः – पुत्राः यं कमपि जनं तोषयित्वा आगच्छन्तु । ते तत् कार्यं कथं सम्पादयन्ति इति आधारेण कतमः योग्यः इति निर्णायं कुर्मः' इति । तदनु राजा पुत्रान् आहूय मन्त्रिणा यदुक्तं तथैव अवदत् । ततः पुत्राः गतवन्तः । त्रयः अप...

महावीरस्य धैर्यम् 18.08.2025

जैनधर्मस्य अन्तिमः तीर्थङ्करः महावीरः । सः शुद्धोदनमहाराजस्य त्रिशलायाः च पुत्रः । तस्य जन्मानन्तरं महाराजस्य प्रासादे राज्ये च धनधान्यादीनाम् अतीव वृद्धिः जाता इति कारणेन तस्य 'वर्धमानः' इति नाम कृतं मातापितृभ्याम् । सः बाल्यतः‌ एव धैर्यवान् आसीत् । इयं तस्य बाल्यकाले प्रवृत्ता कथा अस्ति । एतस्याः घटनायाः अनतरं सः वर्धमानतः महावीरः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया...

सर्वमेव भवतः विधानम् 17.08.2025

कदाचित् सुप्रसिद्धस्य साधुश्रेष्ठस्य चैतन्यदेवस्य भक्तः श्रीवासपण्डितः स्वस्य गृहे चैतन्यदेवस्य सङ्कीर्तनसभाम् आयोजितवान् आसीत् यत्र सर्वे अत्यन्तं भक्त्या भागं वहन्तः आसन् । तन्मध्ये अकस्मात् श्रीवासस्य पुत्रः‌ मृतः । नितरां दुःखितः अपि सः सभायाः भङ्गं कर्तुं न इष्टवान् । अत्रान्तरे चैतन्यदेवेन अत्र किमपि अशुभं घटितं स्यात् इति अनुभूतम् । चैतन्यदेवः अवदत् 'भवान् पुत्रशोकं परित्यज्य मम सेवासुखमेव...

सुविचार्य हि कर्तव्यम् 16.08.2025

कस्यचिदपि उपदेशस्य कण्ठस्थीकरणे न किमपि प्रयोजनम्, अपि तु तस्मिन् निहितं तथ्यं सम्यक् विचारणीयं भवति । ये तत् न कुर्वन्ति ते पुनः सङ्कटे पतन्ति, कष्टानि च अनुभवन्ति । तादृशी एव परिस्थितिः कथायाम् अस्याम् अभवत् शुकानाम् । यत् ऋषिः पाठितवान् तत् केवलं कण्ठस्थीकृतवन्तः । किन्तु व्याधेन एकः प्रयोगः कृतः येन ते शुकाः जाले आगत्य निपतिताः । सद्य एव आगतवता ऋषिणा शुकानां मूर्खता अवगता । सः व्याधं प्रतिबोध्...

सर्वे चोराः 15.08.2025

नागार्जुनः प्राचीनभारतस्य सुप्रसिद्धः गुरुः । सः कदाचित् कस्यचित् नगरस्य मध्यभागे सञ्चरन् आसीत् । तस्य राज्यस्य राज्ञी तं सुवर्णमयं भिक्षापात्रम् अयच्छत् । तत् पात्रं स्वीकृत्य गच्छन्तं नागार्जुनम् एकः चोरः दृष्ट्वा तं पात्रं चोरयितुं नागार्जुनम् अनुसृतवान् । एतत् अवलोक्य नागार्जुनः भिक्षापात्रम् अक्षिपत् । तदा आश्चर्यान्वितः चोरः नागार्जुनस्य समीपं गत्वा 'एतादृशं बहुमूल्यं वस्तु क्षेप्तुं यथा शक्...

ज्ञानोदयः 14.08.2025

कदाचित् कश्चन संन्यासी दूरयात्रां कुर्वन् रात्रिः जातः इति कारणेन नर्तक्याः कलावत्याः गृहस्य अङ्गणं प्रविश्य वितर्दिकायां शयनम् अकरोत् । अनन्तरदिने उषसि कञ्चन कोलाहलं श्रुत्वा संन्यासी जागरितः अभवत् । कोऽपि जनः मृतः आसीत् । कलावती षड्वर्षीयां पुत्रीम् आहूय 'भवती गत्वा ज्ञात्वा आगच्छतु यत् इदानीं मृतः स्वर्गं गतः उत नरकम्' इति । संन्यासी आश्चर्येण कलावत्यां पृच्छति कथं एतत् ज्ञातुं शक्यते इति । तदा...

बुद्धिर्यस्य धनं तस्य 13.08.2025

कस्मिंश्चित् न्यायप्रियराजस्य देशे सर्वेऽपि कर्मकराः मनोयोगपूर्वकं राज्यकार्यं निर्वहन्ति स्म । कदाचित् वैरिणः अस्य देशस्य कर्मकराणां मनसि असन्तोषं जनयित्वा आन्दोलनं कारितवन्तः । ते महाराजम् उक्तवन्तः 'अस्माभिः अहोरात्रं परिश्रमः क्रियते, तथापि अस्माकं वेतनम् अतीव न्यूनं वर्तते । किन्तु एषः मन्त्री किमपि न करोति, तथापि तस्य वेतनं महत् अस्ति' इति । ततः सः राजा कर्मकराणां मन्त्रिणः च परीक्षामेकां कृ...

आदिमः ऋषिः 12.08.2025

एषा आदिमानवकाले प्रवृत्ता कथा कथयति 'कथं शनैः शनैः मानवः ज्ञातुं प्रारभते यत् एकः एव ईश्वरः भिन्नैः भिन्नैः रूपैः अवतरति । एषा सृष्टिः तु ईशमयूरस्य अद्भुतकरः अनन्तः अनादिः पिच्छकलापः एव । एकः एव शुभ्रकिरणः सप्तवर्णेषु परिवर्तितः । एकः एव प्रणवः सप्तस्वरेषु प्रकटितः । एका एव उदकस्य रुचिः भिन्नासु रुचिषु अभिव्यक्ता । एकः एव मृद्गन्धः यस्मात् अवतीर्णा विविधा गन्धमाला । एवम् ईश्वरः गोचरः भवति, श्रुतः...

परिहासपरिणामः 11.08.2025

सकलगुणोपेतः अपि ऋषिकुमारः सहस्रपादः अन्येषाम् उपाहासं करोति स्म । एकदा शुष्कतृणैः सर्पं कृत्वा सः सहपाठिनः स्वगमस्य उपरि अक्षिपत् । अकस्मात् पतितात् सर्पात् स्वगमः भीतः मूर्छितः च जातः । यदा मूर्छाभङ्गः जातः तदा स्वगमः सहस्रपादं शप्तवान् 'भवान् निर्विषसर्पयोनिं प्राप्स्यति' इति । क्षमां याचितवन्तं सहस्रपादं स्वगमः अवदत् 'भविष्यत्काले भृगुवंशे प्रमतेः पुत्रः यदा भवता मेलिष्यति तदा भवान् तम् उपदिश्य...

सत्सङ्गतिः सुखाय 10.08.2025

कस्मिंश्चित् ग्रामे मुकुन्दः गोविन्दः च मित्रद्वयम् आसीत् । गोविन्दः बुद्धिमान् परन्तु मुकुन्दः मन्दबुद्धिः । गोविन्दः स्वबुद्धेः उपयोगः स्वार्थलाभाय करोति स्म । सः द्विवारं मुकुन्दं वञ्चयति । किन्तु मुकुन्दः किमपि कर्तुम् अशक्तः । कदाचित् ग्रामम् आगतः महापुरुषः एतयोः वृत्तान्तं ज्ञात्वा मुकुन्दं कमपि उपायं सूचितवान् । अनन्तरदिने मुकुन्दः तम् उपायम् उपयुज्य गोविन्दं पाठितवान् । तदनन्तरं गोविन्दः म...

आत्मश्लाघा नैव श्रेयसे 09.08.2025

कदाचित् कबीरपुत्रः कमालः गङ्गातटे कञ्चित् श्वेतकुष्ठरोगेण पीडितम् आत्महत्यार्थम् उद्युक्तं च पुरुषम् अपश्यत् । सः श्रेष्ठिनः शिरसि स्वहस्तं संस्थाप्य रामनाम जपित्वा गङ्गायां निमज्जितुम् अवदत् । सः श्रेष्ठी यदा बहिः आगतवान् तदा श्वेतकुष्ठः न्यूनतरः जातः । गृहमागत्य प्रवृत्तं सर्वम् उक्त्वा 'अहं सिद्धिं प्राप्तवान्' इति कमालः यदा अकथयत् तदा कबीरः एतस्य अहङ्कारः कथमपि निवारणीयः इति विचिन्त्य तुलसीदास...

जठरे धराम्यहम् 08.08.2025

कदाचित् यमुनानद्याः अन्यत् तीरं‌ गन्तुम् इष्टवान् महामुनिः व्यासः बुभुक्षां निवारयितुं तत्रत्याः गोपीः नवनीतं दुग्धं च अपृच्छत् । खादनानन्तरं व्यासदेवः करौ संयोज्य 'हे यमुने! यदि अहं अद्य किमपि न खादितवान्, तर्हि भवती नदीजलस्य विभागद्वयं करोतु येन वयं सुखेन अन्यत् तीरं गन्तुं शक्नुयाम' इति प्रार्थयते । यदा यमुना भागद्वयेन विभक्ता जाता तदा गोपीनां महत् आश्चर्यं सञ्जातम् । तदनन्तरं व्यासः अवदत् 'मनु...

चमत्कारः 07.08.2025

'पुत्रस्य मस्तिष्कस्य चिकित्सार्थं प्रभूतं धनम् अपेक्षितम् । कश्चन चमत्कारः एव पुत्रं रक्षितुं शक्नोति' इति पितुः वचनं श्रुत्वा काचन अष्टवर्षीया पुत्री एकस्मिन् करण्डके स्थापितानि नाणकानि स्वीकृत्य अनुजस्य कृते चमत्कारं क्रेतुम् औषधापणम् अगच्छत् । तत्रैव स्थितः कश्चन बालिकया सह सम्भषणं कृत्वा ज्ञातवान् यत् तस्याः अनुजाय शस्त्रक्रिया आवश्यकी इति । सः आसीत् विख्यातः मस्तिष्कशल्यक्रियाविशारदः । शीघ्र...

घटस्य मौनम् 06.08.2025

विसनामके नगरे कश्चन कुम्भकारः आसीत् । कदाचित् मङ्गलगीतानि गायन्त्यः स्त्रियः तस्य आपणम् आगत्य विवाहनिमित्तं कञ्चन घटं सपादरूप्यकं दत्त्वा नीतवत्यः । किञ्चित्कालानन्तरं द्वित्राः जनाः आगत्य बन्धोः अन्त्येष्टिकर्मनिमित्तम् आवश्यकमिति यदा उक्तवन्तः तदा कुम्भकारः एकं घटं विना मूल्यम् अयच्छत् । सर्वं पश्यन् आपणे स्थितः घटः स्वजातिबान्धवयोः भिन्ना भिन्ना गतिः जाता इति समीपस्थं घटं स्वाभिप्रायम् असूचयत्...

लोकज्ञानमेव वरम् 05.08.2025

रामस्य एकः विशेषगुणः आसीत् यत् श्रुतां लोकोक्तिं सूक्तिं वा सर्वदा स्मरति स्म । सन्दर्भानुसारं सः स्वानुभावेन पुरजनेभ्यः मार्गदर्शनं करोति स्म । ग्रामजनाः तस्य समीपं मार्गदर्शनार्थं गच्छन्ति स्म । एकदा तस्य देशस्य राजा अल्पसैन्येन सामन्तान् विरुद्ध्य युद्धार्थं प्रस्थितः । मार्गमध्ये ज्ञातवान् यत् एषः रामः वयसा कनिष्ठः चेदपि अस्य महान् अनुभवः अस्तीति । राजा युद्धस्य विषये यदा अभिप्रायम् अपृच्छत् त...

भगवद्भक्तः कुलशेखरः 04.08.2025

'मुकुन्दमाला' नामकस्य उत्कृष्टस्य स्तोत्रस्य रचयिता अस्ति भगवद्भक्तः कुलशेखरः । केरलदेशस्य राज्ञः दृढव्रतस्य पुत्रः अयं राज्ये सुसमृद्धिं सम्पाद्य सदा रामध्याने निरतः भवति स्म । कदाचित् रामकथाश्रवणसमये कथाकारः वदति '.....श्रीरामः एकाकितया खरदूषणाभ्यां सह युद्धाय गतवान्’ इति । कुलशेखरः कथाश्रवणे तावत् तन्मयः आसीत् यत् मया श्रूयमाणा कथा इत्यपि विस्मृत्य झटिति उत्थाय प्रासादं गत्वा श्रीरामस्य साहाय्य...

बुद्धिवन्तः पशुपक्षिणः 03.08.2025

कस्मिंश्चित् वने सर्पाः निवसन्ति इति कारणेन तत्र मानवाः न गच्छन्ति स्म । किन्तु कदाचित् कश्चन शशशावकः केनचित् व्याधेन नीतः । तम् अन्विश्य यदा पिता अगच्छत् तदा एकः वानरः मिलितः । वानरः सर्वान् पशुपक्षिणः आहूय एतं विचारम् अकथयत् । तदा ते सर्वे मिलित्वा एकम् उपायम् अकुर्वन् । ते मिलित्वा लतादिभिः आच्छन्नस्य कूपस्य उपरि बहूनि तृणानि प्रसार्य, तन्मध्ये वानरेण आनीतां शशप्रकृतिं स्थापितवन्तः च । पुनः सः...

नम्रस्वभावः एव श्रेष्ठः 02.08.2025

नद्याः तीरे एकः बलिष्ठः शाल्मलीवृक्षः स्थितः आसीत्, यः जलेन सिक्तः महाबलवान् अभवत् । तस्य समीपे अन्ये वृक्षाः अपि आसन्, किन्तु ते नम्राः आसन्, अर्धशरीरं जले निमग्नम् आसीत् । एकदा तीव्रेण प्रचण्डेन च वायुना बलवान् अपि शाल्मलीवृक्षः भूमौ अपतत् । परम् अन्येषां वृक्षाणां काऽपि हानिः न अभवत् । शाल्मलीवृक्षः आश्चर्यम् अनुभवन् अन्यान् वृक्षान् अपृच्छत् "कथं भवतां हानिः न अभवत्?" इति । ते अवदन् "भवान् अहङ...

अश्रुतपूर्वः श्लोकः 01.08.2025

शाकडालः पाटलीपुत्रस्य नन्दनृपस्य सुशीलः सदाचारी च मन्त्री आसीत् । तस्य सप्त पुत्र्यः आसन् । नन्दराजः नूतनश्लोकान् श्रावयद्भ्यः प्रभूतं पारितोषिकं ददाति स्म । एतेन राजकोषागारमेव रिक्तं भवति इति विचिन्त्य शाकडालः कञ्चन उपायं करोति । कदाचित् कश्चन कविः यदा नूतनश्लोकं श्रावितवान् तदा शाकडालः 'सः नूतनश्लोकः न, मम पुत्रीणां मुखात् श्रुतवान् अस्मि' इति अवदत् । यदा ताः पुत्र्यः राजसभां प्रति आनीताः, तदा क...

विवेकोदयः 31.07.2025

संस्कृतपुरे गौतमनामा कश्चन दरिद्रः कृषकः तर्कनामानं वणिजं ऋणं प्रार्थयते । किन्तु वणिक् निराकरोति । कथञ्चिदपि तर्कात् ऋणं स्वीकरणीयमेव इति विचिन्त्य केनचित् उपायेन पञ्चाशत् रूप्यकाणि स्वीकृतानि गौतमेन । यदा धनं प्राप्तं तदा गौतमः उच्चैः हसित्वा पञ्चविंशतिं रूप्यकाणि प्रत्यर्पयन् अवदत् 'भवन्तं पाठयितुम् अहम् एवम् अभिनयं कृतवान् । अवशिष्टं पञ्चविंशतिं रूप्यकाणि ऋणरूपेण दत्तम् इति भावयतु' इति । एतेन...

गुरुदक्षिणा 30.07.2025

पूर्वकाले गुरवः शिष्यान् बोधयितु, तेभ्यः गुरुदक्षिणां स्वीकर्तुं वा बहुधा परीक्षाः कुर्वन्ति  स्म । गुरुतः चतस्रः विद्याः प्राप्तवान् कश्चन शिष्यः गुरुदक्षिणा का इति पृष्टे, गुरुः अवदत् 'उच्छिष्टं, वान्तं, काकविष्ठातः आगतं, शवस्योपरि आच्छादितं वस्त्रं चेति चत्वारि वस्तूनि आनीय ददातु' इति ।  गुरुणा पृष्टानि वस्तूनि अपवित्राणि सन्ति चेदपि अन्तरार्थः कोऽपि स्यात् इति विचिन्त्य वस्तूनाम् अन्वेषणाय ततः...

नन्दीश्वरः 29.07.2025

आसीत् कश्चन शिलादनामा धर्मात्मा मुनिः यः अयोनिजस्य मरणरहितस्य पुत्रस्य प्राप्त्यर्थं तपः तेपे । प्रसन्नः महादेवः प्रकटीभूय 'वरं वृणीष्व' इति अकथयत् । यदा मुनिः 'भवत्समम् अयोनिजपुत्रम् इच्छामि' इति अवदत् तदा शिवः 'अचिरात् एव कञ्चित् अवतारं ग्रहीष्यामि । अहं तव अयोनिजपुत्रः भविष्यामि । तदा मम नाम नन्दी इति भविष्यति' इति उक्त्वा अन्तर्हितः जातः । कदाचित् मुनयः यज्ञाय यज्ञक्षेत्रं तर्पयन्ति स्म तदा यज...

पातिव्रत्यप्रभावः 28.07.2025

प्रतिष्ठानपुरे सुदती पतिव्रतपरा स्वं कुष्ठरोगपीडितं पतिं कौशिकं श्रद्धया असेवत । एकदा तं स्कन्धे आरोप्य रात्रौ अनयत् । तदा प्रमादवशात् राजभटाः माण्डव्यमुनिं चोरत्वेन शूलारोपणाय नीतवन्तः । कौशिकस्य पादस्पर्शात् माण्डव्यमुनिः क्रुद्धः भूत्वा तम् अशपत् 'सूर्योदयात् पूर्वं पञ्चत्वम् आप्नोतु' इति । व्याकुला सुदती सूर्यदेवं प्रार्थितवती, परन्तु कौशिकः सपदि मृतः अभवत् । सूर्यदेवः शापग्रस्तः उदयं प्राप्तु...

गुरुतरं कार्यम् 27.07.2025

राजसूययज्ञे श्रीकृष्णः समागतः । सर्वे पाण्डवाः तस्य स्वागते संलग्नाः सञ्जाताः । श्रीकृष्णः युधिष्ठिरम् अकथयत् 'मया किं कार्यं करणीयम्?’ इति । युधिष्ठिरः तम् आदरपूर्वकम् आसनग्रहणाय आमन्त्रितवान्, किन्तु श्रीकृष्णः कार्यं कर्तुम् दृढसङ्कल्पं कृतवान् । पाण्डवानां प्रतिरोधेऽपि श्रीकृष्णः ततः गत्वा अतिथीनां भोजनपत्राणाम् अपनयने संलग्नः सञ्जातः । एतत् दृष्ट्वा कश्चन अतिथिः अकथयत् 'श्रेष्ठः जनः स्वकीयं ग...

Ascolta il podcast बालमोदिनी su Replaio

Radio e podcast in un'unica app - gratis e senza registrazione. Installala oggi e non perderti il lancio

Scaricala su Google Play

Replaio non è un editore di podcast; i nomi dei programmi, le copertine e l'audio appartengono ai rispettivi autori e vengono distribuiti tramite feed RSS pubblici