सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 617 epizód

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Mindenképp látogasd meg a podcast oldalát, és támogasd a készítőjét: sambhashanasandesha.in

Szerző

सम्भाषणसन्देशः

Kategória

Kids

A podcast weboldala

sambhashanasandesha.in

Legutóbbi epizód

2026. júl. 11.

Hol hallgathatod?

Podcastok az alkalmazásban Replaio Radio Hamarosan

A podcastok hamarosan megérkeznek az alkalmazásba. Telepítsd most, és láss elsőként egy teljesen új megközelítést a podcastokhoz

Letöltés a Google Play-ről Telepítsd ingyen Android közel 10 M letöltés · 4,8-as értékelés iOS hamarosan

Epizódok

जिह्वालम्पटः साधुः 03.02.2025

कस्यचन साधोः तपस्यायाः ख्यातिः देवलोके प्रसृता । स्वर्गे देवानां मध्ये अपि चर्चा आरब्धा । कथञ्चित् तस्य तपसः भङ्गः करणीयः इति कश्चन देवः पृथिवीं प्रति समागत्य साधोः व्यवहारं सुसूक्ष्मं परीक्षितवान् । उपायं कृत्वा अल्पे एव काले तस्य साधोः तपोभ्रष्टतां सम्पादितवान् । कथम् इति स्वारस्यकारिणीं कथां श्रुत्वा ज्ञास्यामः ।  (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्र...

तपश्शक्तिः पण्डितस्य 31.01.2025

यवनाः यदा काशीविश्वेश्वरमन्दिरस्य नाशं कृतवन्तः तदा तस्मिन्नेव वर्षे तत्परिसरे क्षामः समुत्पन्नः । 'क्षामस्य कारणं किम् ? ' इति यवनैः पृष्टे तेजःसम्पन्नः महात्मा नारायणभट्टः वदति यत् भगवतः विश्वेस्वरस्य कोपः एव कारणम् अपि च मन्दिरस्य पुनर्निर्माणेन वृष्टिः भवेत् इति । 'स्वप्रभावेण आदौ वृष्टिः अनीयताम् ' इति यदा यवनाः कुप्यन्ति तदा नारायणभट्टः प्रायोपवेशनव्रतं आरब्धवान् सुवृष्टिः च आगता । महत् आश्च...

वाचः व्रणः 30.01.2025

कस्यचित् सरोवरस्य समीपे उपविष्टवन्तं चिन्ताग्रस्तं निर्धनं रामदीनं कश्चन सिंहः प्रभूतं धनं यच्छन् पुत्र्याः विवाहाय मामपि निमन्त्रयतु इति वदति । विवाहदिने सिंहः उपस्थितः । गृहपरिसरे कमपि दुर्गन्धम् अनुभूय वरपक्षीयाः तस्य कारणं अपृच्छन् तदा 'गृहे कश्चन मूषकः मृतः‌ स्यात्'  इति रामदीनः वदति । अग्रे कदाचित् धनस्य आवश्यकताम् अनुभवतः रामदीनस्य साहाय्यं कर्तुं निराकृत्य सिंहः वदति  - 'त्वं स्वपुत्रीविवा...

नमः अमृतादेव्यै ! ! 29.01.2025

१८३० तमे वर्षे राजस्थाने जोधपुरे प्रवृत्ता घटना एषा । अद्यापि राजस्थाने बहुत्र भाद्रपदशुक्लदशम्याम् अमृतदेव्याः वीरगाथा पठ्यते गीयते च । भारतसर्वकारस्य अरण्यपरिसररक्षणविभागेन श्रेठाय परिसरसंरक्षकाय 'अमृतदेवीप्रशस्तिः' दीयते । का सा अमृतदेवी ? किं कार्यं च कृतवती इति अस्यां कथायां विद्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) This event...

मन्दस्मितता कुतः न ? 28.01.2025

कश्चन बौद्धाचार्यः बुद्धप्रतिमां कारयितुम् इच्छन् प्रत्येकं गृहतः धनसङ्ग्रहं कुर्वन्तु इति शिष्यान् आदिशति । धनसङ्ग्रहसमये काचित् बाला शिष्याय एकं रूप्यकं दातुम् इच्छति किन्तु सः उपेक्षया पश्यन् ततः गच्छति । शिल्पिभिः महता प्रयासेन निर्मितायाः मूर्तेः मुखे प्रसन्नता तु न दृष्टा । बौद्धगुरुः ज्ञातवान् यत् कश्चन शिष्यः निर्धनबालातः अल्पत्वात् एकं रूप्यकं न स्वीकृतवान् इति ।  बालातः रूप्यकनाणके स्वीक...

सङ्कल्पमात्रेण किम् ? 27.01.2025

कस्मिंश्चित् गुरुकुले बहुधा स्मारितं चेदपि पञ्चषाः छात्राः तत्तदिनस्य पाठं तद्दिने एव न पठन्ति स्म । तथापि गुरुः तान् न अतर्जयत् । कदाचित् गुरुः नदीतीरे सञ्चरन् दर्शयति यत् त्रिषु मण्डूकेषु एकः जलं प्रति कूर्दनं करणीयम् इति सङ्कल्पमात्रं करोति न तु कूर्दनम् । यस्य सङ्कल्पः दृढः सः एव कार्ये प्रवृत्तः भवेत् । तत्तदिनस्य पाठं तत्तदिने एव पठित्वा तस्य मननं कुर्यात् । अनन्तरदिनतः ते शिष्याः अध्ययने श्...

समयोचिता युक्तिः 26.01.2025

कदाचित् मरुप्रदेशे कश्चन स्पेन्-देशीयः वञ्चनया भारतीयस्य अश्वं हृत्वा तम् आरुह्य वेगेन गतवान् । भारतीयः कथञ्चित् स्पेनीयस्य दुर्बलम् अश्वम् आरुह्य स्पेनीयम् अनुसरन् समीपवर्तिग्रामं प्राप्य तत्रत्य न्यायाधीशं दृष्ट्वा स्पेनीयस्य दुष्कृत्यं सर्वं निवेदितवान् । न्यायाधीशेन पृष्टे सः स्पेनीयः आरोपं निराकरोति । तावता चतुरेण भारतीयेन काचित् युक्तिः प्रदर्शिता स्पेनीयः असत्यवादी इति निरूपितं च । भारतीयस्...

गुणैः एव शोभते जनः 25.01.2025

कदाचित् सम्भाषणावसरे मगधदेशस्य राजा चन्द्रगुप्तः प्रधानामात्यं चाणक्यं दृष्ट्वा पृच्छति - ‘रूपमेव प्रशस्यते लोके । रूपवेषादिकं दृष्ट्वा एव खलु आदरम् अनादरं वा दर्शयन्ति जनाः ?’ । तदा चाणक्यः सुवर्णमृदोः घटे जलं संपूर्य आदौ सुवर्णघटस्य जलं राज्ञे ददाति यत् उष्णम् आसीत् । तावता राज्ञा अवगतं यत् सुन्दरे स्वर्णघटे अपि स्थितं जलम् उष्णम्, असुन्दरे मृद्घटे स्थितं जलं च शीतलम् । तथा जनाः‌ गुणैः शोभन्ते न...

आशयः तु इत्थम् 24.01.2025

कदाचित् शिष्यः आनन्दः प्रसङ्गत्रयविषये वर्तमानां जिज्ञासां परिहर्तुं भगवन्तं बुद्धं पृच्छति - ‘भगवान् अस्ति इति कदाचित् वदति । भगवतः‌ पूजा मास्तु इत्यपि वदति । भगवतः अस्तित्वस्य विषये यदा कश्चन शिष्यः प्रष्टुम् आगतः तदा भवान् किमपि उत्तरं न ददाति । किमर्थम् एवम् ?’ इति । तदा बुद्धः यथाक्रमं तस्य प्रश्नस्य उत्तरं यच्छति (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप...

विलक्षणम् वाक्पाटवम् 23.01.2025

कदाचित् बाबरः तेनालिरामस्य बुद्धेः परीक्षणार्थं स्वस्य आस्थानं प्रति तं निमन्त्रितवान् । विभिन्नैः कौतुकैः निजवार्ताभिश्च तत्रत्यान् सभासदः हासयितुं स असमर्थः अभवत् यतः बाबरेण आज्ञा कृता आसीत् यत् कोऽपि न हसेत् इति ।  एवमेव पञ्चदशदिनानि अतीतानि । किन्तु अन्ते तेनालिरामः तस्य वाक्पाटवं साधितवान् । कथम् इति इयं कथा कथयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वन...

विचित्रोपकरणम् 22.01.2025

पूर्वकाले यदा सर्वत्र दर्पणः व्यवाहारे न आसीत् तदा कदाचित् कण्णदासनामा कश्चित् वणिक् कुतश्चित् दर्पणम् एकं प्राप्तवान् । स्वस्यैव प्रतिबिम्बम् इति अज्ञात्वा कस्यचित् महापुरुषस्य भवेदिति विचिन्त्य सः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं दृष्ट्वा तं महापुरुषं नत्वा पेटिकायां स्थापयति स्म । पत्न्याः रोहिण्याः मनसि सन्देहे जाते कदाचित् कण्णदासस्य निर्गमनस्य अनन्तरं प्रकोष्ठं प्रविश्य दर्पणे महिलामुखं दृष्...

भक्तः कुलशेखरः 21.01.2025

चेरराज्यस्य राजा ईश्वरभक्तः कुलशेखरः प्रतिदिनं हरिकथां श्रावयितुं कमपि पण्डितं स्वकीयप्रासादम् अनाययति स्म । एतत् अनिच्छन्तः राज्ञ्यः अमात्यः च मिलित्वा श्रीरामविग्रहस्थं हारं पण्डितस्य स्यूते स्थापयन्ति । कालसर्पदंशः एव दण्डः इति घोषयित्वा कालसर्पयुक्ते घटे यदा पण्डितः हस्तं निक्षेप्तुम् उद्युतः तावता राजा स्वयं हस्तं प्रवेशितवान् । विस्मयः‌ नाम राज्ञः करस्पर्शनेन सर्पः‌ स्वयं बहिः आगतवान् । न तु...

आहो, साहसम् 20.01.2025

इङ्ग्लेण्ड्देशे केण्ट्नामकस्य प्रदेशस्य समुद्रतीरे महतः चण्डमारुतस्य कारणेन काचन बृहती नौका पीड्यमाना नुद्यमाना भग्नप्राया अभवत् । समुद्रतीरस्य जनसम्मर्दे केनचित् महनीयेन सह पालितः कश्चन बलशाली अप्रतिमशूरः धीरश्च शुनकः आसीत् । शुनकस्य स्वामी किञ्चित् चिन्तयित्वा नौकारक्षणाय एकम् उपायं कृत्वा शुनकं प्रेषयति । शुनकस्य साहाय्येन सर्वे नाविकाः तीरं प्राप्नुवन्ति । कथम् इति जिज्ञासया कथां शृणुमः । (“के...

कूपः कस्य ? 19.01.2025

काचन वृद्धा गृहस्य पार्श्वे स्थितस्य कूपस्य जलम् आनीय दैनन्दिनकार्याणि निर्वर्तयति स्म । भैरवनामा कश्चन दुष्टः वृद्धायाः‌ कूपः मदीयः इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान् । खिन्नया वृद्धया राज्ञि निवेदिते कथं राजा चातुर्येण न्यायनिर्णयं करोति इति शृणुमः । तेनैव राज्ञा रणजितसिंहेन अमृतसरसि सुवर्णालयः निर्मितः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपण...

पठने आसक्तिः 18.01.2025

भूतपूर्वराष्ट्रपतिः मान्यः के आर् नारायणन्वर्यः बाल्यकाले सर्वदा शालां प्रति विलम्बेन आगच्छति स्म यतः सः प्रतिदिनं मातुः साहाय्यं कृत्वा अष्ट कि.मी. दूरतः  पादाभ्यामेव आगच्छति स्म । किन्तु पठने सः अन्ये छात्राः इव एव आसीत् । एकदा विलबेन आगतवन्तं तं अध्यापकः तर्जयित्वा कक्ष्यायां प्रवेष्टुं न अनुमतवान् । बालः म्लानमुखः सन् कक्ष्यातः बहिः तिष्ठन् कक्ष्यायां बोधितान् सर्वान् अंशान् पुस्तके लिखितवान्...

कृष्णभक्तः रसखानः 17.01.2025

कश्चन मुसल्मानः रसखानः गुरुणा सह मक्कामदीनायात्रार्थं प्रस्थिते मध्यमार्गे वृन्दावनं प्राप्तवान् । यमुनानद्याम् आसन्नायां सुमधुरः वेणुध्वनिः तस्य मनः पूर्णतः अहरत् । तत्र सुन्दरः वृन्दावनाधीशः दृष्टिगोचरतां गतः । पुनः अदृश्यः जातः च । पुनर्दर्शनार्थं रसखानः दिनत्रयं निराहारं श्रीकृष्णनाम्नः जपं कृतवान् । तृतीयदिने रात्रौ भगवान् स्वयमेव आगत्य नैवेद्यरूपेण अर्पितं क्षीरान्नं आनीय स्वहस्ताभ्यां तं भो...

वेदप्रामाण्यम् 16.01.2025

दार्शनिकः कुमारिलभट्टः कदाचित् बौद्धदार्शनिकेन धर्मकीर्तिना पराजितः । तदा कुमारिलभट्टेन निश्चितं यत् बौद्धसिद्धान्ते तलस्पर्शि पाण्डित्यं प्राप्य एते बौद्धाः जेतव्याः इति । अग्रे सः वेदानां श्रेष्ठतां सयुक्तिकं प्रतिपाद्य बौद्धमतस्य दौर्बल्यं सप्रमाणं निरूपितवान् च । कुपिताः बौद्धाः 'यदि वेदाः प्रमाणं स्युः तर्हि पर्वतशिखरात् कूर्दनं क्रियताम्' इति वदन्ति । कुमारिलभट्टः वेदमातरं क्षणं ध्यात्वा सधै...

व्याघ्रायत 15.01.2025

'उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै: । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ।।' - एतत् सुभाषितं बहु प्रसिद्धम् । काष्ठविक्रेतुः देवदत्तस्य स्वकार्ये प्रवृत्तिः कथं जाता इति बोधयन्ती इयं कथा एतस्य सुभाषितस्य उदाहरणं भवितुम् अर्हति इति पश्यामः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) We all know the famous saying, 'उद्यमेन हि स...

कार्यसंस्कृतिः 14.01.2025

कश्चन अमेरिकीयः घण्टामात्रं कार्यं कृत्वा घण्टाद्वयस्य निमित्तं वेतनं प्राप्तुं नेच्छति । खिन्नः सः यदा मित्रं वदति तदा 'तद्विषये संस्था चिन्तयतु, शिष्टं समयं सुखेन यापयतु' इति वदति । तदा अमेरिकीयः वदति - ‘तेन संस्थायाः हानिः भवति । तेन देशस्य अर्थस्थितेः हानिः भवति । अतः देशस्य उन्नतिः साधनीया चेत् देशस्थैः सर्वैः कार्यसंस्कृतिविषये अवधानवद्भिः भवितव्यम् एव’ इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस...

देवदर्शनाय योग्यता 13.01.2025

कदाचित् कश्चन राजा 'ईश्वरः कुत्र अस्ति' इत्यस्य प्रश्नस्य उत्तरं मासाभ्यन्तरे दातव्यम् इति सभायाम् आदिशति। चिन्ताक्रान्तेन मन्त्रिणा कश्चित् तीक्ष्णमतिः उत्तरं जानन् बालकः प्राप्तः । अनन्तरदिने राजस्थाने बालकः दर्शयति यत् कथं केवलेन दुग्धस्य आलोडनेन नवनीतं न भवति । आदौ क्षीरेण दधि करणीयम्, अनन्तरं दध्नः मथनात् नवनीतं प्राप्यते । तद्वदेव देवविषये अपि भक्तिं विना, त्यागतपस्यादिकं विना च भगवान् न् दृ...

ऋणप्रत्यर्पणं कष्टाय 12.01.2025

कश्चित् वणिक् वाणिज्ये महतीं हानिम् अनुभूय भोजराजं प्रचुरं धनं ऋणरूपेण अयाचत  "यावच्छक्यम् अस्मिन् जीवनकाले एव प्रत्यर्पयिष्यामि । यत् शिष्टं स्यात् तत् जन्मान्तरे प्रत्यर्पयिष्यामि" इति अवदत् च । गमनावसरे सायङ्काले सम्प्राप्ते कस्यचित् तिलकस्य गृहे न्यवसन्, रात्रौ बलीवर्दयोः सम्भाषणं श्रुतवान् । पशुभाषाभिज्ञः सः ज्ञातवान् यत् तौ द्वौ पूर्वस्मिन् जन्मनि एतस्मात् तिलकात् ऋणं स्वीकृतवन्तौ आस्ताम् ।...

वास्तविकाः साधवः 11.01.2025

कदाचित् ऊर्ध्वपुण्ड्रधारिणः जटाभिः शोभमानाः दशमिताः विरागिसाधवः चिटिकां विना रेल्यानम् आरूढवन्तः । सर्वेSपि साधवः कारागारं प्रति नेयाः इति चिटिकानिरीक्षदलेन आरक्षिणः आदिष्टाः यतः तेषु असाधवः अपि आसन् केचन । आरक्षकनिरीक्षकः सर्वान् साधून् आहूय - 'ये त्रिपुण्ड्रम् अपसारयेयुः, ये कण्ठे धृतां रुद्राक्षमालां भञ्जयेयुः च तान् कारागारतः मोचयिष्यामः' इति वदति । अष्ट साधवः तथैव कृतवन्तः । किन्तु उभौ साधू त...

वस्त्रस्य उपयोगः 10.01.2025

कदाचित् बुद्धस्य कस्यचन शिष्यस्य वस्त्राणि सर्वथा जीर्णानि जातानि इति कारणतः नूतनवस्त्राणि दाप्यतामिति प्रार्थितवान् । तेन नूतनवस्त्राणि लब्धानि च । नूतनवस्त्रधारिणं शिष्यं कांश्चन प्रश्नान् पृच्छति बुद्धः । यथाक्रमम् उत्तरमपि प्राप्य - 'मम तत्त्वानाम् आन्तर्यं सम्यक् एव गृहीतम् अस्ति भवता' इत्युक्त्वा निर्गच्छति । किं तत् प्रश्नोत्तरम् जिज्ञासया कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य...

अल्लावुदीनस्य दीपः 09.01.2025

कदाचित् कैश्चित् बालकैः अल्लावुदीनस्य दीपः प्राप्तः । ततः निर्गताय अल्लावुदीनाय द्वितीयतृतीयबालकौ स्वस्वकार्याणि कर्तुं आदिष्टवन्तः । अल्लावुदीनेन चतुर्थे बालके पृष्टे - देशस्य कृते कष्टग्रस्तानां कृते च साहाय्यं करोतु इति उत्तरम् आगतम् । प्रथमः बालकः - मम बुद्धेः उपयोगं करोमि । स्वप्रयत्नेन एव कार्याणि करिष्यामि इत्युक्तवान्। तद्श्रुत्वा द्वितीयतृतीयबालाकयोः बुद्धिपरिवर्तनं जातम् । तौ अपि तथैव उक...

आज्ञापालनस्य मर्म 08.01.2025

ब्रह्मचैतन्यस्य श्रीगोन्दवलेकरमहाराजस्य वचनं कदापि वितथं न भवति इति जनानां विश्वासः आसीत् । एकदा, 'सत्वरं गोन्दवलेग्रामम् आगच्छतम्' इति सन्देशः पुण्यपत्तनस्थौ द्वौ अनुयायिनौ प्रति प्रेषितः । तौ प्रस्थितवन्तौ च । अनन्तरदिने एव 'रैण्डसाहेब' नाम्नः क्रूरकर्मणः आङ्ग्लेयस्य हननं पुण्यपत्तने जातम् । यदि तौ पुण्यपत्तने स्यातां तर्हि ताभ्यां महती विपत्तिः सम्मुखीकरणीया अभविष्यत् इति चिन्तयन्तौ तौ, दूरदर्श...

Hallgasd a(z) बालमोदिनी podcastot a Replaióban

Rádió és podcastok egy alkalmazásban - ingyen és regisztráció nélkül. Telepítsd még ma, és ne maradj le a premierről

Letöltés a Google Play-ről

A Replaio nem podcastkiadó; a műsorok nevei, borítóképei és hanganyagai a szerzőiket illetik, és nyilvános RSS-csatornákon keresztül terjednek.