सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 758 epizód

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Mindenképp látogasd meg a podcast oldalát, és támogasd a készítőjét: sambhashanasandesha.in

Szerző

सम्भाषणसन्देशः

Kategória

Kids

A podcast weboldala

sambhashanasandesha.in

Legutóbbi epizód

2026. nov. 29.

Hol hallgathatod?

Podcastok az alkalmazásban Replaio Radio Hamarosan

A podcastok hamarosan megérkeznek az alkalmazásba. Telepítsd most, és láss elsőként egy teljesen új megközelítést a podcastokhoz

Letöltés a Google Play-ről Telepítsd ingyen Android 10 M+ letöltés · 4,7+ értékelés iOS hamarosan

Epizódok

सर्वेषु अस्ति ईश्वरः 04.11.2026

कदाचित् गुरुकुलस्थाः छात्राः भिक्षाटनार्थं यदा समीपस्थं नगरं गतवन्तः तदा कश्चन उन्मत्तः गजः दृष्टः तैः । सर्वे छात्राः जनाः च इतस्ततः धावितवन्तः । किन्तु तेषु एकः छात्रः ईश्वरः सर्वेषु प्राणिषु अस्ति इति यद् गुरुणा उक्तमासीत् तत् स्मृत्वा तत्रैव स्थितवान् । गजस्य हस्तिपकः 'मूढ !! अपसरतु अपसरतु' इति उक्ते अपि सः तत्रैव स्थितवान् आसीत् । गजः तं बालं स्वशुण्डया गृहीत्वा दूरे क्षिप्तवान् । यदा गुरुणा...

पाषाणस्य मूल्यम् 03.11.2026

कस्मिंश्चित् गुरुकुले सर्वे शिष्याः ब्रह्मचर्यस्य पालनं कुर्वन्ति स्म । एकदा सुन्दरनामकः बालकः भिक्षाटनस्य अनन्तरं यदा गुरुकुलं प्रति प्रस्थितः तदा मार्गमध्ये एकं सुन्दरं नीलं च पाषाणम् अपश्यत् । द्रष्टुं कन्दुकमिव आसीत् । गुरुकुलम् आनयत्। ततः सर्वे शिष्याः पाषाणेन क्रीडन्ति स्म । कदाचित् गुरुः तस्य पाषाणस्य मूल्यं ज्ञात्वा आगच्छतु इति बहुवारं सुन्दरं प्रेषयति । ततः सुन्दरः ज्ञातवान् यत् सः पाषाणः...

सः एव रक्षकः 02.11.2026

शिवाजिः यद्यपि विनयशीलः, तथापि कदाचित् तस्य मनसि विचारः आगतः 'मया बहूनि प्रजाहितानि कार्याणि कृतानि । अतः प्रजाः सुखेन जीवन्ति । एवं च अहं प्रजापालने दक्षः अस्मि' इति । एवं चिन्तयतः तस्य मनसि अहङ्कारः उत्पन्नः । शिष्यस्य शिवाजेः अहङ्कारः कथमपि निवारणीयः इति  चिन्तितवान् गुरुः समर्थरामदासः । कदाचित् गुरुः शिवाजिं दर्शयति यत् सर्वजीविनामपि पालनपोषणकर्ता भगवान् एव । मनुष्याः तु केवलं निमित्तभूताः एव...

पादुकमहिमा 01.11.2026

कदाचित् बहिर्भागतः आगतः श्रीमन्नारायणः पादुके शयनेप्रकोष्ठे एव विसृज्य शेषशयने शयितवान् । यद्यपि पादुकयोः न कोऽपि दोषः, तथापि अशुचिपादुके दृष्ट्वा नारायणस्य किरीटः पादुके तर्जितवान् । शङ्खचक्रगदादयः अपि पादुके निन्दन्तः किरीटस्य समर्थनं कृतवन्तः । दुःखिते पादुके यदा नारायणस्य प्रार्थनां कृतवत्यौ तदा नारायणः किरीटम् उद्दिश्य 'त्रेतायुगे रामावतारकाले चतुर्दशवर्षाणि यावत् भवान् पादुकयोः उपरि एव तिष्ठ...

अभिशप्ता चातकी 31.10.2026

चातकी मयूरी च वर्षाराज्ञ्याः पुत्र्यौ । रूपवत्यै गुणवत्यै च मयूर्यै चातकी असूयति स्म । तस्याः अमङ्गलम् अपि चिन्तयति स्म । कदाचित् चातकी मयूर्याः अहितं करोति । तद् ज्ञातवत्या मात्रा वर्षाराज्ञ्या चातकी शप्ता जाता । अभिशप्ता चातकी सहसा स्वर्गात् धराम् आगतवती । अद्यापि सा तृषाम् अनुभवन्ती अस्ति । यद्यपि पृथिव्यां जलं भवति तथापि तत् कदापि न पिबति । वर्षाराज्ञ्याः कृपाजलम् एव अपेक्षते । (“केन्द्रीयसंस्...

गुरवे नमः 30.10.2026

पुरा शिवानन्दः इति कश्चन गुरुः आसीत् । यद्यपि सः विद्वान्, तथापि 'सर्वे शिष्याः मयि महत् गौरवं प्रदर्शयेयुः' इति इच्छा आसीत् तस्य । कदाचित् वृक्षम् आरूढवान् कश्चन शिष्यः गुरुं दृष्ट्वा अपि नमस्कारं न कृतवान्, पतनशङ्कया । गुरुः तं ताडयित्वा, अन्यान् शिष्यान् अपि आहूय 'इतः परं यदा मम शिरः दृश्यते तदा भवद्भिः मां नमस्कृत्य, अनन्तरम् एव अन्यद् कार्यं करणीयम्' इति अवदत् । तस्य अयम् आदेशः कथं फलं ददाति...

सर्वदा वन्द्यः शिवः 29.10.2026

कश्चन बालकः मात्रा सह प्रतिदिनं शिवालयं गच्छति स्म । कदाचित् सः बालकः एकाकी देवालयम् अगच्छत् । तत्र शिवलिङ्गस्य उपरि अक्षतान्नं खादन्तं मूषकम् अपश्यत् । सर्वशक्तः अपि शिवः कथं मूषकं न निवारयति इति खेदम् अनुभवन् सः बालकः गृहं गत्वा मातरम् अवदत् यत् अहम् इतः परं शिवालयं न गच्छामि इति । कारणे पृष्टे प्रवृत्तं सर्वम् अवदत् सः । तदा माता सान्त्वनवचनैः तम् उपदिशति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष...

अनुचिता स्पर्धा 28.10.2026

परमात्मनः सृष्टौ जीविनां गुणाः स्वभावश्च भिन्नाः भवन्ति । परं तेन कारणेन जिविनां मध्ये कदाचित् अपि स्पर्धा न भवेत् । यतः सर्वेषामपि जीविनां सृष्टेः फलं जगत्कल्याणमेव । कथायाम् अस्याम् अपि काचित् अनुचिता स्पर्धा भवति । नारिकेलवृक्षस्य अपेक्षया अहम् अधमा अस्मि इति आत्महीनभावना कूष्माण्डलतायाम् उत्पद्यते । नारिकेलवृक्षस्य इव उन्नतजीवनं कामयमाना सा कूष्माण्डलता रात्रौ भक्त्या ईश्वरं प्रार्थयत । अग्रिम...

सेवायाः महत्त्वम् 27.10.2026

कस्यचन नृपस्य पुत्रः प्रतिदिनं कस्यचित् साधोः समीपं गत्वा तस्य सेवां करोति स्म । साधोः सहवासतः राजकुमारस्य मनसि वैराग्यभावः अपि उपन्नः । परन्तु अग्रे केनचित् कारणेन राजकुमारस्य मनः चञ्चलम् अभवत् । साधोः सेवनेन किं फलम् ? इति चिन्तयितुम् आरब्धवान् । एकदा सः साधोः निमित्तं गङ्गानदीतः जलम् आनेतुं गतः । तत्र एका विलक्षणा घटना प्रवृत्ता । तेन राजकुमारस्य मनः परिवर्तनं जातम् । (“केन्द्रीयसंस्कृतविश्वविद...

अन्धेनैव नीयमानः.... 26.10.2026

कस्यचन ग्रामीणस्य कुम्भकारस्य समीपे बहवः गर्दभाः आसन् । तेषु एकः अन्धः आसीत् । सः अन्धगर्दभः प्रतिदिनम् अन्यैः गर्दभैः सह चरणार्थं ग्रामात् अरण्यं गत्वा सुरक्षितरूपेण प्रत्यागच्छति स्म । कदाचित् सः अरण्ये मार्गभ्रष्टः जातः । रात्रिः जाता । कश्चन उलूकः तस्य गर्दभस्य गृहं प्रति गमनाय साहाय्यं कर्तुम् उद्युक्तः । अहो ! किं वक्तव्यम् ? उलूकस्तु अन्धकारे द्रष्टुम् अशक्तः । अतः अन्धेनैव नीयमानः अन्धः लक...

मौनम् 25.10.2026

वयं सर्वे प्रसिद्धं संस्कृतमहाकविं भारविं जानीमः। तस्य प्रमुखं काव्यं ‘किरातार्जुनीयम्’ इति महाकाव्यम् अस्ति। बाल्यकालादेव महामेधावी सः । श्लोकादिरचना बाललीला इव तस्य । इयं कथा तस्य महतः प्रसिद्धस्य च कवेः भारवेः जीवनयात्रां वर्णयति। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) We all know the famous Sanskrit poet Bhāravi. His chief work is the...

आत्मगुणविकासनम् 24.10.2026

कथायाम् अस्यां कदाचित् सर्वेऽपि प्राणिनः अन्ये जीविवेशेषाश्च सृष्टिकर्तुः ब्रह्मणः समीपं गत्वा परगुणानां प्रशंसां कुर्वन्तः स्वविषये अतृप्तिं च प्राकटयन् । गर्दभः शृगालः भवितुम् इच्छति, काकः कोकिलः भवितुम् इच्छति, कुक्कुरः मार्जालः भवितुम् इच्छति च । अन्येऽपि प्राणीनः स्वेच्छां प्राकटयन् । यद् इष्टं तद् सञ्जातमपि । किन्तु तस्य परिणामः कः अभवत् इत्येव अस्याः कथायाः कथावस्तु वर्तते । (“केन्द्रीयसंस्...

बृहस्पतेः चातुर्यम् 23.10.2026

महाराजः नरसिंहः विद्वान् रसिकश्च आसीत् । प्रतिदिनं तस्य आस्थानं प्रति बहवः याचकाः आगत्य स्वकौशलप्रदर्शनं कृत्वा महाराजात् पारितोषिकं प्राप्नुवन्ति स्म । कदाचित् कश्चित् याचकः राजसभाम् आगतः । सः न पण्डितः, न वा कलाकोविदः । धनार्थी आसीत् । सः ज्यौतिषकः इति उक्त्वा महाराजस्य पुरतः उपस्थितः अभवत् । यदा महाराजः नक्षत्राणां नामानि वदतु इति अवदत् तदा केवलं चत्वारि नामानि अवदत् याचकः, तदपि क्रमेण न। आस्था...

किं न उदेति शृङ्गे? 22.10.2026

परिश्रमशीलः कृषकः गणपतिः श्रद्धया कृषिं करोति स्म । तस्य गृहे वृषभाः, धेनवः, कुक्कुराः, पालितः मार्जारः च आसन् । तस्य पुत्रः जयन्तः कृषिविज्ञानविषये उच्चविद्याविभूषितः छात्रवृत्तिं सम्पाद्य अमेरिकादेशं गतवान् । संशोधनकार्यसमाप्तेः अनन्तरं सः मुम्बय्याम् उच्चपदस्थः प्रशासनिकः अधिकारी अभवत् । कदाचित् सः ग्रामम् आगत्य गोवत्सं दृष्ट्वा 'एतम् अहं मत्तं पुष्टं च करिष्यामि' इत्युक्त्वा नूतनप्रयोगान् करोत...

चतुरा वृद्धा 21.10.2026

काचित् वृद्धा आसीत् यस्याः केऽपि बान्धवाः न आसन् । सा एकाकिनी वसति स्म । कदाचित् तस्याः दृष्टिशक्तिः क्षीणा अभवत् । अल्पेन एव काले सा किमपि द्रष्टुम् अशक्ता अभवत् । तां द्रष्टुम् आगतः चिकित्सकः दुष्टस्वभावकः आसीत् । सा वृद्धायाः वञ्चनां कर्तुम् अचिन्तयत् । किन्तु एषा वृद्धा अपि चतुरा आसीत् । सः चिकित्सकः वृद्धायाः चातुर्येण न्यायालये दण्डनम् अपि प्राप्तवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्...

जीवन्तु शत्रुगणाः 20.10.2026

कदाचित् कश्चन छात्रः कक्ष्यायां निद्रां कुर्वन् आसीत् । शिक्षकः यद्यपि तत् न लक्षितवान् तथापि पार्श्वस्थः छात्रः उत्थाय 'एषः निद्रां कुर्वन् अस्ति' इति शिक्षकम् अवदत् । तदा कुपितः शिक्षकः निद्रां कुर्वन्तं छात्रम् उत्थाप्य तस्य कपोले चपेटिकां दत्तवान् । कुपितः दण्डितः छात्रः अन्यं छात्रम् उद्दिश्य प्रतिकारं साधयितुम् ऐच्छत् । कक्ष्यायाः अनन्तरं तयोः मध्ये कलहः जातः । तदा कश्चन शिक्षकः आगत्य दण्डित...

वास्तविकी भक्तिः 19.10.2026

संस्कृतभाषायाः सुप्रसिद्धः शास्त्रज्ञः, कविः अप्पय्यदीक्षितः महान् शिवभक्तः आसीत् । कदाचित् स्वस्य शिवभक्तिं परीक्षितुम् इष्टवान् । लोके प्रसिद्धम् अस्ति यत् मनुष्यः उन्मत्तावस्थायां किमपि निगूहितं न शक्नोति । सः वैद्यविद्याम् अपि जानाति स्म अतः सः द्विविधं रसायनं सज्जीकृतवान् । 'कतिचनघण्टानन्तरं द्वितीयं रसायनंं यच्छन्तु येन अहं पुनरपि स्वस्थः भविष्यामि' इति शिष्यान् अवदत् सः । उन्मत्तावस्थायाम्...

गयः 18.10.2026

भारतीयेषु 'गया' क्षेत्रं पुण्यक्षेत्रम् इति भावना अस्ति । अत्र च जनाः स्वपितृकार्यं कृत्वा कृतकृत्याः भवन्ति । किं भवन्तः जानन्ति तत् क्षेत्रं 'गयः' इति राक्षसस्य नाम्ना एव विख्यातं जातम् इति । सः दुष्टः राक्षसः सुराणां नराणां च कण्टकप्रायः आसीत् । तर्हि तस्य हननं कथं जातम् ? ‘गया' इति क्षेत्रस्य नामकरणं कथं जातम् ? इति जिज्ञासायाम् इमां स्वारस्यकारीं कथां श्रुण्वन्तु ।    (“केन्द्रीयसंस्कृतविश्वव...

विद्या विनयेन शोभते 17.10.2026

श्रोणिकनामकः राजा मगधदेशस्य राजगृहनामके नगरे शासनं करोति स्म । तस्य मन्त्री अभयकुलः अत्यतं चतुरः आसीत् । तस्य राजोद्याने कश्चित् सदाफलः महान् आम्रवृक्षः आसीत् । उद्यानात् अनतिदूरे कश्चन चाण्डालः वसति स्म । तस्य गर्भवती पत्नी कदाचित् आम्रफलखादनेच्छां प्रकटितवती । सः अवनामिका उन्नामिका इति विद्याद्वयं जानाति स्म । सः एते विद्ये उपयुज्य राजोद्यानात् आम्रफलानि चोरितवान् । यदा सः चौर्यार्थं गृहीतः जातः...

गोमातुः औदार्यम् 16.10.2026

प्रलयकाले सर्वेषामपि चराचरजन्तूनां किमपि आश्रयस्थानम् अपेक्षितं भवति । अतः ते गोमातरं शरणम् अगछन् । भगवतः नारायणस्य पत्नी लक्ष्मीः अन्यं शरणं न गच्छामि इति नितरां गर्विता आसीत् । अन्ते सा कुतूहलेन द्रष्टुं गोलोकम् अगच्छत् । गोमाता निश्चिन्ततया स्थिता आसीत् । साक्षात् भगवान् विष्णुः अपि गोमातुः अङ्गम् आश्रित्य स्थितवान् आसीत् । तत् दृष्टवत्याः लक्ष्म्याः गर्वः अपगतः । सा अपि गोमातरं सम्प्रार्थ्य तस...

अतिलोभात् विनश्यति 15.10.2026

पुरातनकाले सञ्जीवनामकः महाराजः पुत्रकामनया बहुकालपर्यन्तं ब्राह्मणान् सेवितवान् । सन्तुष्टाः ब्राह्मणाः नारदमहर्षिं राज्ञे पुत्रदानार्थं प्रार्थितवन्तः । नारदमहर्षिः तत् अङ्गीकृत्य राजानम् अपृच्छत् 'भवान् कीदृशं पुत्रम् इच्छति?' इति । राजा अतिलोभात् 'तादृशं पुत्रं यच्छतु यस्य विष्ठा, मूत्रं, ष्ठीवनं, कफः सर्वमपि सुवर्णमयं स्यात्' इति । तथैव पुत्रः जातः । अल्पेनैव कालेन राज्ञः भाण्डागारं सुसंवृद्धम...

आत्मानन्दः 14.10.2026

रोहिदासनामा कश्चन चर्मकारः पादरक्षाणां निर्माणं कृत्वा ताः विक्रीय जीवनं करोति स्म । महान् हरिभक्तः सः पादरक्षानिर्माणसमयेऽपि हरिनाम जपित्वा सर्वदा आनन्देन तिष्ठति स्म । तस्य शिष्यः चिन्तयति स्म यत् 'एतेन ज्ञानिना एतादृशं क्षुद्रं कार्यं न करणीयम्' इति । अतः सः गुरोः दारिद्र्यं दूरीकर्तुम् कञ्चन निकषं ददाति यस्य स्पर्शेन अयोमयानि वस्तूनि सुवर्णमयानि भवति । किन्तु रोहिदासः तस्य उपयोगं न करोति । तस्...

परिणामे भयङ्करः 13.10.2026

कश्चन कलारसिकः काव्यप्रियः च महाराजः आसीत् । कदाचित् मगधदेशात् काव्यं श्रावयितुम् अस्य महाराजस्य आस्थानम् आगतवान् । यद्यपि सः उत्तमः कविः तथापि तस्य एकः दुरभ्यासः आसीत् यत् सः काव्यश्रावणसमये पुनःपुनः करतलयोः कण्डूयनं करोति स्म । तदपि सः तावद्वारं करोति स्म यत् काव्यश्रोतारः तेन जुगुप्साम् अनुभवेयुः । महाराजः तस्य काव्यं श्रुत्वा तं दुरभ्यासं दूरीकर्तुम् उपायमेकं करोति ।   (“केन्द्रीयसंस्कृतविश्वव...

केतक्याः पतनम् 12.10.2026

केतकी कदाचित् ब्रह्मणा सह मिलित्वा शिवस्य अन्वेषणविषये असत्यवचनं कथयति । कुपितः शिवः तां शप्तवान् यत् 'इतः परं मम पूजायां तव उपयोगः न भविष्यति' इति । अतः एव तदाप्रभृति शिवस्य पूजार्थं केतकी न उपयुज्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, the Ketaki flower falsely supported Brahma during the search for Lord Shiva's true form. An...

संयमात् एव शान्तिः 11.10.2026

कदाचित् वारणास्याम् आयोजितायां सभायां नानाविधाः चर्चाः शास्त्रार्थसंवादाश्च प्राचलन् 'शान्तिः कस्मात् प्राप्यते' इत्यस्मिन् विषये । सप्त दिनानि यावत् सभा प्रवृत्ता । अन्ते राजपुरोहितः सर्वेषां मतानि परिशील्य 'ज्ञानेन एव शान्तिः प्राप्यते' इति निर्णयम् असूचयत् । सर्वेऽपि सभासदः सम्मतिं सूचितवन्तः । किन्तु कश्चन युवकः उत्थाय अवदत् यत् 'शान्तिः संयमेनैव प्राप्यते' इति । सः एव युवकः आसीत् उद्दालकः। सः...

Hallgasd a(z) बालमोदिनी podcastot a Replaióban

Rádió és podcastok egy alkalmazásban - ingyen és regisztráció nélkül. Telepítsd még ma, és ne maradj le a premierről

Letöltés a Google Play-ről

A Replaio nem podcastkiadó; a műsorok nevei, borítóképei és hanganyagai a szerzőiket illetik, és nyilvános RSS-csatornákon keresztül terjednek.