सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 617 epizód

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Mindenképp látogasd meg a podcast oldalát, és támogasd a készítőjét: sambhashanasandesha.in

Szerző

सम्भाषणसन्देशः

Kategória

Kids

A podcast weboldala

sambhashanasandesha.in

Legutóbbi epizód

2026. júl. 11.

Hol hallgathatod?

Podcastok az alkalmazásban Replaio Radio Hamarosan

A podcastok hamarosan megérkeznek az alkalmazásba. Telepítsd most, és láss elsőként egy teljesen új megközelítést a podcastokhoz

Letöltés a Google Play-ről Telepítsd ingyen Android közel 10 M letöltés · 4,8-as értékelés iOS hamarosan

Epizódok

स्वामिनः विवेकानन्दस्य व्यथा 11.05.2025

विश्वसम्मेलने उपस्थितौ कौचित् अमेरिकीयदम्पती स्वामिनं विवेकानन्दं स्वगृहं प्रति निमन्त्रितवन्तौ । गृहम् आगतवते स्वामिने उत्तमभोजनादिशयनव्यवस्थां परिकल्पितवन्तौ । अर्धरात्रे तल्पे विश्रामं कुर्वतः स्वामिनः मनसि दम्पत्योः समग्राम् उत्कृष्टां व्यवस्थां दृष्ट्वा भारतदेशस्य जनानां चित्रम् आगतम् । अपूर्णोदरान् अपर्याप्ताच्छादकान् भारतीयान् स्मृत्वा तन्मनः दुःखग्रस्तं जातम् । दुःखदारिद्र्यपूर्णं जीवनं या...

समानवृत्तिकौ आवां भ्रातरौ 10.05.2025

ईश्वरचन्द्रविद्यासागरः महाविद्वान् परमदयालुः आसीत् । कदाचित् महाविद्यालयस्य पार्श्वे शयानः कश्चित् कर्मकरः ज्वरेन पीडितः आसीत् ।  तं गृहं नीत्वा वैद्यम् आनाय्य तस्य शरीरस्य मार्जनं, वस्त्रपरिवर्तनम् इत्यादिकं च ईश्वरचन्द्रविद्यासागरेण स्वयमेव कृतम् । एतादृशं व्यवहारं दृष्ट्वा यदा कश्चित् बन्धुः अपृच्छत् - 'किं एषः भवतः बन्धुः ?’ तदा विद्यासागरः वदति - ‘आम्, एषः मम बन्धुः। मया ज्ञानसाहाय्येन अन्तरङ...

शान्तिसङ्केतः कपोतः 09.05.2025

कदाचित् द्वयोः देशयोः मध्ये युद्धः प्रचलति । शिरस्त्राणे सन्ति कपोतस्य सद्योजाताः शिशवः इति कारणतः राजा शिरस्त्राणम् अधृत्वा रणाङ्गणं प्रति गतवान् । एतत् दृष्ट्वा शत्रुराजः कारणं पृच्छति । प्रवृत्तं सर्वं विज्ञाय शत्रुराजः प्रतिवेशिराजस्य शान्तिप्रियताम् अभिनन्दन् अवदत् यत् 'युद्धकारणतः असङ्ख्यानां सैनिकानां मरणे प्रयासः कथम् औचित्यम् आवहेत्? विवेकिभिः अविचिन्त्य न व्यवहरणीयम् । आवां सम्भूय शान्ति...

शासनस्य मुख्यं लक्ष्यम् 08.05.2025

कश्चन युवराजः यौवराज्याभिशेकात् पूर्वं स्वस्य विद्यागुरुं अपृच्छत् - ‘राजा शक्तिसम्पन्नः कथं भवति इति?’। तदा अंशत्रयं वदति गुरुः -’प्रजाः आहाराभावं न अनुभवेयुः, शस्त्रास्त्राणां अभावाः देशे न उत्पद्येत, राज्ञि शासने च प्रजानां विश्वासः विनष्टः न भवेत् । त्रिषु अपि प्रजाहितम् एव शासनस्य मुख्यं लक्ष्यं भवति । राजत्वम् अधिकारसूचकं पदं न, अपि तु प्रजासेवकत्वसूचकं स्थानम्' इति । उत्तमस्य बोधनस्य प्राप्...

उत्कृष्टस्य क्षेपणम् 07.05.2025

रमणमहर्षेः आश्रमस्य समीपे कश्चन अध्यापकः निवसति स्म यस्य गृहे प्रतिदिनं कलहमयं वातावरणं भवति स्म । एतस्मात् जुगुप्सितः सः आत्महत्यां कर्तुं निर्णीतवान् ।  किन्तु आत्महत्यानिर्णयः न सुकरः इति विचिन्त्य मार्गदर्शनं प्राप्तुं सः रमणमहर्षेः आश्रमं गत्वा सर्वं निवेदितवान् । तदा महर्षिः केनचित् निर्दर्शनेन दर्शयति यत् 'योग्यम् उपयोगम् अस्वीकृत्य कस्यचित् वस्तुनः क्षेपणं न उचितम् । तथापि उपयोगसमाप्तितः प...

हेतुस्त्वं सर्वदेशिक ! 06.05.2025

पूर्वं केनचित् राज्ञा वेषान्तरं धृत्वा देशाटनसमये कश्चन ग्रामपरिसरः प्राप्तः । कस्यचित् बालकस्य मुखात् विविधेषु सन्दर्भेषु आगतानि सामान्यानि वचनानि राज्ञि महान्तं परिणामम् अजनयत् ।  रात्रौ शयनसमये अपि सः तानि एव वचनानि पुनः पुनः वदन् आसीत् । तस्य देशस्य धूर्तः मन्त्री सर्वदेशिकः रात्रौ राजकोषात् धनं चोरयितुम् आगतः । तदा निद्रामग्नस्य राज्ञः मुखात् तान्येव वचनानि आगतानि - ‘अहो!महान् शब्दः', ‘’निश्श...

निःस्पृहः गुम्फनदासः 05.05.2025

दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते धनं काष्ठकीर्णकीटः इव बाधते, अपि च अहं भगवद्भक्तपदे...

चिन्तनस्य विषयः तु ...... 04.05.2025

कदाचित् अश्वम् आरुह्य गच्छन्तौ गुरुशिष्यौ रात्रिवेलायां कस्मिंश्चित् जीर्णगृहे वासं कृतवन्तौ । अश्वः वृक्षे बद्धः अस्ति । तं रक्षतु ।  अहं निद्रां करोमि । निद्रानिवारणाय किमपि चिन्तयन् भवतु' इति गुरुः अवदत् । तथैव शिष्यः अकरोत् । मध्ये मध्ये गुरुः उत्थाय पृच्छति किं चिन्तयन् अस्ति, तदा शिष्यः अवदत् - नक्षत्राणि स्वयमेव उत्पन्नानि उत केनचित् स्थापितानि इति, समुद्रजलं स्वयमेव लवणमयं जातम् उत कोऽपि स...

आतपत्रपादत्राणयोः उद्भवः 03.05.2025

ग्रीष्मकालः आसीत् । महर्षिः जमदग्निः सूर्यतापस्य तीक्ष्णतां न्यूनीकर्तुं पत्न्या रेणुकादेव्या धनुम् आनाय्य सूर्यम् उद्दिश्य एकैकशः बाणानां प्रक्षेपणं अकरोत् । किन्तु भास्करः तथैव ज्वलन् स्थितवान् । महर्षेः क्रोधः पराकाष्ठां गतः । एतदभ्यन्तरे सूर्यदेवः विप्रवेषधारी भूत्वा महर्षिम् उपेत्य एतस्मात् यत्नात् विरमयितुं वदति । यदा महर्षिः एतत् न अङ्गीकरोति तदा सूर्यदेवः स्वस्य दिव्यशक्त्या आतपत्रं, पादत्...

कूपरहितं गृहम् 02.05.2025

दशमे शतके राजा यशस्करदेवः काश्मीरदेशं पालयति स्म । कदाचित् राजभवनस्य पुरतः प्राणत्यागाय प्रयतमानं सज्जनं आनाय्य कारणम् अपृच्छत् राजा । तदा ज्ञातवान् यत् न्यायाधीशेन अन्याय्यः निर्णयः श्रावितः आसीत् इति । सज्जनः कूपसहितः कश्चन भागः पत्न्यै रक्षित्वा गृहं विक्रीतवान् आसीत् । धनसम्पादनाय अन्यदेशं प्रति गतः यावत् प्रत्यागतः तावता कूपसहितायाः भूमितः पत्नी निष्कासिता आसीत् । ततः राजा न्यायाधीशं, गृहस्य...

योग्यतापरीक्षा 01.05.2025

कस्मिंश्चित् राज्ये नूतनमन्त्रिणः चयनदायित्वं राजा वृद्धाय मन्त्रिणे दत्तवान् । निश्चिते दिने बहवः युवकाः अर्हतापरीक्षार्थं राजभवने उपस्थिताः अभवन् । वृद्धः मन्त्री पेयवितारकरूपेण, कृषकरूपेण च वेषं धृत्वा परीक्षाम् अकरोत् । तत्र एकः एव युवकः चषकसङ्ग्रहणे, पङ्कात् शकटस्य उन्नयने च साहाय्यम् अकरोत् । सः एव योग्यतमः इति विचिन्त्य तमेव नूतनमन्त्रित्वेन चितवान् मन्त्री । (“केन्द्रीयसंस्कृतविश्वविद्यालय...

अनुभोक्तव्यम् एव पापफलम् 30.04.2025

चन्द्रनामा चोरः चौर्यकर्मकलाकोविदः एकदा लक्षाधिकानि रूप्यकाणि चोरयित्वा सुरक्षिते स्थले संस्थाप्य निश्चिन्तः अभवत् । तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । अतः सः विष्णुमन्दिरं गत्वा समग्रं धनं देवाय अर्पितवान् ।  ततः तेन विलक्षणः आनन्दः महती तृप्तिः च अनुभूता । मरणानन्तरं यमभटैः सः चित्रगुप्तस्य समीपं नीतः यत्र तस्य पापपुण्यादिविवरणं परिशीलितम् । चित्रगुप्तः अवदत् यत् तस्य चौर्यकर्मणः...

नादस्य कारणम् 29.04.2025

कृष्णः बाल्ये यदा गृहिण्यः गृहे न स्युः, तदा सः मित्रैः सह प्रतिवेशिगृहं गत्वा नवनीतं चौरयति स्म । एकदा काचित् गोपिका शिक्यायां घण्टिकां बध्नाति । यदा कृष्णः नवनीतं चोरयति तदा घण्टानादः भवेत् इति । परन्तु कृष्णः घण्टिकां दृष्ट्वा ताम् आदिष्टवान् यत् मम स्पर्शे शब्दं न करोतु इति । तथापि, नवनीतं मुखे स्थापनसमये घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः आगमनात् पूर्वं सः पलायितवान् । अनन्तरं कृष्णः घण्ट...

स्वर्गः नरकं च इहैव 28.04.2025

कश्चित् सज्जनः एकदा ग्रामस्य देवालये साधोः प्रवचनं आयोजितवान् यत्र प्रतिदिनं जनाः साधोः प्रवचनं श्रोतुं आगच्छन्ति स्म । एकस्मिन् दिने साधुः स्वर्गनरकयोः विषये सविस्तरं व्याख्यानं कृत्वा यदा अपृच्छत् 'कति जनाः स्वर्गं गन्तुम् इच्छन्ति?’ सर्वे एकस्वरेण 'अहम् अहम्" इति अवदन् ।  किन्तु एकः बालकः प्रतिस्पन्दं न अकरोत् । पुनः साधुः अपृच्छत् "कति जनाः नरकं गन्तुम् इच्छन्ति?’ सर्वे मौनेन आसन् । साधुः बालक...

भक्तिः 27.04.2025

काचित् दरिद्रा महिला कृष्णभक्ता आसीत् । रोगग्रस्तस्य पत्युः चिकित्सायैः सर्वं धनं व्ययीकृतम् आसीत् तया । कृष्णजन्माष्टमीदिने विशेषभोजनं सज्जीकरिष्यामि इति पुत्रान् उक्तवती आसीत् । तस्याः दृढविश्वासः आसीत् यत् देवः कमपि मार्गं दर्शयिष्यति इति । वस्तूनि क्रेतुं यदा आपणं गतवती तदा निर्धनां तां महिलां 'देवस्य कृते लिखितं प्रार्थनापत्रं तुलायां स्थापयतु, अहं तद्भारतुल्यानि वस्तूनि ददामि' इति नास्तिकः आ...

सहजता 26.04.2025

कश्चन बौद्धभिक्षुः उत्तमः कलाकारः सन् बौद्धालयस्य निर्माणविन्यासं करोति स्म । भवनं द्रष्टुम् आगतेन केनचन निरुद्योगिना मुख्यप्रवेशद्वारस्य विन्यासरचनसमये शताधिकानि चित्राणि रचितानि चेदपि सर्वत्र दोषः दृश्यते स्म ।  कदाचित् एकाकिना भिक्षुणा उपविश्य विन्यासः रचितः । 'अल्पे एव काले अद्भुतं चित्रं कथं रचितं भवता?’ इति पृष्टे भिक्षुः अवदत् 'यावत् अन्यस्य प्रीत्यर्थं कार्यं क्रियते, तावत् अस्माकं कार्यं...

त्रयः प्रश्नाः 25.04.2025

काशीराज्यस्य राज्ञः मनसि चन्द्रवर्माणं कदाचित् त्रयः प्रश्नाः उत्पन्नाः — उत्तमं कार्यं किम्, उत्तमः पुरुषः कः, उत्तमा वेला च का इति । बहुधा प्रयत्नं कृत्वा अपि तृप्तिकरम् उत्तरं न प्राप्नोत् सः । एकदा सः मृगयार्थम् अरण्यं गतः । विश्रामार्थं सः कञ्चित् आश्रमं प्रविष्टवान् । तत्र संन्यासी तं फलादिदानेन सत्कृतवान् । अचिरात् एकः व्रणितः ग्रामीणः आगतः । संन्यासिना तस्य चिकित्सा कृता । राजा संन्यासिनं...

कुलस्य आचारः 24.04.2025

कश्चन चातकशिशुः पिपासया पीडितः मातुः समीपं गत्वा अवदत् 'अम्ब ! अहं तटाकजलं पातुम् इच्छामि" ।  माता तम् अबोधयत् यत् तटाकजलं न पातव्यम्, केवलं मेघजलम् एव पातव्यम् इति अस्माकं कुलस्य आचारः' । चातकशिशुः पिपासां सोढुम् अशक्नुवन् गङ्गाजलं पातुम् गङ्गां प्रति गच्छन् रात्रियापनाय कस्यचित् कृषिकस्य गृहे उशितवान् । तत्र कृषकपुत्रयोः सम्भाषणेन ज्ञातं यत् पुत्रेण कुलस्य आचारः रक्षितः इति ।  मेघजलम् एव पातव्यम...

ताः धूमरेखाः 23.04.2025

इब्राहिमलोदिः अफगानिस्थानात् भारतं जेतुं आगतः किन्तु तस्य सैन्यम् आसीत् अत्यल्पम् । लोदिः चिन्ताक्रान्तः आसीत् यतः अल्पसैन्ययुक्तेन कथं एतत् सुविशालं मराठासैन्यं जेतुं शक्यम् इति । सः दूरस्थं स्थानं आरुह्य मराठासैन्यशिबिरे अनेकेभ्यः स्थलेभ्यः धूमोत्पत्तिं दृष्टवान् । ज्ञातवान् च यत्  मराठासैनिकाः विभिन्नजातीयाः सन्ति, ते विभिन्न पाकशालासु पाकं कुर्वन्ति । हिन्दवः जात्युपजातिभेदान् कारणतः सहभोजनं न...

प्रवचने शक्तिः 22.04.2025

काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् । तथापि मम अनुभवः एव मम प्रवचनस्य मुख्या शक्तिः । अ...

मोहजालम् 21.04.2025

मोहजाले पतितः प्राणी अविवेकपूर्णं निर्णयं करोति । मोहः जीवनस्य प्रगतिकर्तव्यायोः मार्गम् अवरुणद्धि । तादृशी स्थितिः एव अस्यां कथायां कस्यचित् वणिजः माधवस्य । यद्यपि सः श्रमशीलः निर्वञ्चनः परोपकारी च आसीत् मोहजालकारणेन स्वर्गप्राप्तिम् अपि बहुधा निराकरोति । सः विविधानि जन्मानि प्राप्य अपि विवेकस्तु न प्राप्तवान् । किमर्थम् ? कथम् ? इति इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतवि...

चिरञ्जीविनः 20.04.2025

अरण्यवासं कुर्वन्तं धर्मराजं चिरञ्जीवी इति विश्रुतः मार्कण्डेयमहर्षिः धर्मं बोधयन् आसीत् ।  'भवादृशः अन्यः चिरञ्जीवी अस्ति वा?’ इति पृष्टे महर्षिः इन्द्रद्युम्ननामकस्य राज्ञः वृत्तान्तं कथयति । सः दानशीलः धर्मपुरुषः राजर्षिः च आसीत् । तेन सहस्रं यज्ञाः कृताः । दानरूपेण प्रदत्तां गवां खुरन्यासैः भूमिः सरोवररूपेण परिणता जाता । बहूनां प्राणिनाम् आश्रयदाता अभवत् । 'राजा इन्द्रद्युम्नः मत्तः श्रेष्ठः ।...

अङ्कुरः एव सारदर्शी 19.04.2025

कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति ।  तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या ।  'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् ।  शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् ।  एतत् श्रुत्वा यद्यपि अन्ये छात्राः परिहसन्ति । किन्तु अध्यापकः 'एषः सामान्यः ब...

रत्नात् अपि मूल्यवत् 18.04.2025

कदाचित् प्रतिदिनं पर्वतस्थं मन्दिरं प्रति गच्छान्त्या महिलया कश्चन मणिः प्राप्तः ।  आकर्षकम् उत्कृष्टं च तं मणिं स्वसमीपे स्थापितवती । अग्रे केनचित् बुभुक्षितेन पान्थेन भोजनम् अयाचत ।  भोजनस्वीकारेसमये तेन मणिः दृष्टः, मणिं याचितवान् ।  प्रतिवचनं किमपि उनुक्त्वा सा मणिः अयच्छत् ।  एतम् अमूल्यं मणिं सा महिला तृणाय अमन्यत । तस्याः त्यागशीलता नितरां श्रेष्ठा इति चिन्तयन् सः महिलायाः समीपं गत्वा 'तादृ...

कटुवचनं न युक्तम् 17.04.2025

कस्यचित् मठस्य व्यवस्थापकः कञ्चित् युवकं चन्दनस्य उद्घर्षणं क्रियताम् इति आदिशत् । प्रतिवचनं किमपि अनुक्त्वा सः उद्घर्षणं कुर्वन् रामनामजपम् अकरोत् । किञ्चित् कालानन्तरम् अज्ञाततया अग्निसूक्तपठनम् आरब्धम् । तावता चन्दनलेपः सिद्धः आसीत् । वेदज्ञाः तद् लिप्तवन्तः, किन्तु तेषां देहे तापः अभवत् । व्यवस्थापकः युवकं क्षमां प्रार्थितवान्, युवकः वरुणसूक्तम् अपठत् । ततः वेदज्ञाः शीतलताम् अनुभूतवन्तः । एषः...

Hallgasd a(z) बालमोदिनी podcastot a Replaióban

Rádió és podcastok egy alkalmazásban - ingyen és regisztráció nélkül. Telepítsd még ma, és ne maradj le a premierről

Letöltés a Google Play-ről

A Replaio nem podcastkiadó; a műsorok nevei, borítóképei és hanganyagai a szerzőiket illetik, és nyilvános RSS-csatornákon keresztül terjednek.