सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 617 epizód

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Mindenképp látogasd meg a podcast oldalát, és támogasd a készítőjét: sambhashanasandesha.in

Szerző

सम्भाषणसन्देशः

Kategória

Kids

A podcast weboldala

sambhashanasandesha.in

Legutóbbi epizód

2026. júl. 11.

Hol hallgathatod?

Podcastok az alkalmazásban Replaio Radio Hamarosan

A podcastok hamarosan megérkeznek az alkalmazásba. Telepítsd most, és láss elsőként egy teljesen új megközelítést a podcastokhoz

Letöltés a Google Play-ről Telepítsd ingyen Android közel 10 M letöltés · 4,8-as értékelés iOS hamarosan

Epizódok

आचारानुगुणं फलम् 28.11.2025

कदाचित् वङ्गप्रदेशात् कालिचरणनामकः कश्चन भगवद्भक्तः चम्पानगर्यां स्थितं विष्णुदेवालयम् आगतः । महत्याः वृष्ट्याः उपशान्तेः अनन्तरं सः भक्त्या कर्दमपूर्णे मार्गे नृत्यं कुर्वन् अग्रे अगच्छत् । तदवसरे तस्य पादक्षेपेण उत्थितः कर्दमः कस्याश्चित् महिलायाः शाटिकां पतितः इति कारणेन तस्याः पतिः क्रोधेन दुर्वचनानि वदन् कालिचरणं प्रहृतवान् । कालिचरणः कारणम् अवगत्य दुःखितः भूत्वा धर्मशालां प्रति प्रस्थितः । स...

उज्ज्वलः भाषाभिमानः 27.11.2025

कदाचित् डा.रघुवीरः प्रवासावरे एकस्मिन् फ्रेञ्च्-जनस्य गृहे अतिथित्वेन वासम् अकरोत् । तदवसरे भारतात् आगतम् आङ्ग्लभाषया लिखितं पत्रं दृष्ट्वा गृहस्वामिनः पुत्री पृच्छति 'किमर्थं आङ्ग्लभाषया व्यवह्रियते ? स्वीया लिपिः भाषा वा नास्ति वा?’ इति । एतां घटनां ज्ञातवत्या बालिकायाः मात्रा उक्तम् - 'देशाभिमानः भाषाभिमानः च यस्य न स्यात् तं बर्बरं भावयामः वयम् । इतः‌ परं भवान् अन्यस्मिन् गृहे अतिथित्वेन वासं...

वृक्षस्य अङ्गानां श्रेष्ठता 26.11.2025

कस्याञ्चित् कक्ष्यायां कश्चन अध्यापकः छात्रान् अपृच्छत् 'वृक्षस्य एकैकः भागः अपि भवति महते प्रयोजनाय । भवत्सु कः कीदृशः वृक्षभागः भवितुम् इच्छति ?’ इति । तदा एकैकः छात्रः‌ अपि तस्य इच्छानुगुणं कीदृशः भागः भवितुम् इच्छति इति । तस्य भागस्य प्रयोजनं किम् इत्यपि वदति । कश्चन पर्णं, कश्चन पुष्पं, कश्चन फलं, कश्चन शाखा भवितुम् इच्छामि इति वदति । कक्ष्यायां कश्चन अन्धः छात्रः वृक्षस्य मूलं भवितुम् इच्छाम...

अपव्ययः न सोढव्यः 25.11.2025

मदनमोहनमालवीयः विश्वविद्यालयस्य संस्थापनाय कृतनिश्चयः सन् धनसङ्ग्रहाय सर्वत्र भ्रमित्वा कदाचित् कोलकातापत्तने कस्य श्रेष्ठिनः गृहं प्राप्तवान् । श्रेष्ठिनः बालेन काचित् अग्निशलाका प्रज्वालिता । विना कारणं अग्निशलाका व्यर्थीकृता इति कारणतः असः श्रेष्ठी बालस्य मुखे चपेटिकां दत्तवान् । शलाकामात्राय बालं ताडयितु उद्यतात् एतस्मात् दानस्य प्राप्त्याशा व्यर्था एव इति विचिन्त्य यदा निवर्तनाय उद्यतः मालवीय...

कथनस्य आशयः 24.11.2025

कदाचित् भगवान् बुद्धः प्रवचनावसरे 'अयि भक्ताः! समयः अतिक्रामति, जागृत' इति अवदत् । तदा कयाचित् नर्तक्या कुत्रचित् नर्तनं करणीयम् इति स्मृतम् । केनचित् लुण्ठाकेन लुण्ठनं करणीयम् इति स्मृतम् । केनचित् वृद्धेन इतः परं वा पुण्यं सम्पादनीयम् इति स्मृतम् । यतः आजीवनं धनार्जनमात्रमेव चिन्तितम् आसीत् । प्रवचनावसरे केवलम् एकं वाक्यम् उक्तं बुद्धेन किन्तु एकैकः अपि स्वमत्यनुगुणं तात्पर्याथं गृहीतवान् । (“के...

शान्तचित्ततायाः मार्गः 23.11.2025

कदाचित् कश्चन शिष्यः मनसः शान्तिप्राप्तिमार्गं गुरुः पृच्छति । तदा सः गजभृङ्गयोः कथां श्रावयित्वा वदति 'अस्मान् परितः यद्यत् प्रवर्तेत तत्र अस्माकं दृष्टिः तु भवेत् । किन्तु ते अंशाः अस्माकं‌ मनसि चाञ्चल्यं न जनयेयुः । यत् क्रियते तत्र मनसः पूर्णमग्नता स्यात् । अस्माकं निर्णयः बाह्यांशप्रभावयुक्तः न भवेत् । अयमेव शान्तचित्ततायाः मार्गः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गत...

वचनानि कीदृशानि भवेयुः? 22.11.2025

कदाचित् गुरुशिष्याणां मध्ये 'वचनानि कीदृशानि भवेयुः' इति सम्भाषणं प्रचलति । तदा गुरुः वदति 'यत् वचनं कमपि न व्यथयेत्, यतः श्रोतॄणां मनः विकसेत्, यत् वचनं स्नेहादिसद्भाववृद्ध्यै स्यात्, यस्य श्रवणात् सद्व्यक्तित्वम् अभिव्यज्येत तदेव वचनं नाम । तादृशानि एव वचनानि यस्य मुखात् सर्वदा निर्गच्छेयुः सः एव सम्भाषणं जानाति इत्यर्थः' । पुनः सः वायोः, आतपस्य, नद्याः च उदाहरणानि यच्छति । 'यस्य वचनानि मधुराणि,...

योग्यतापरीक्षा 21.11.2025

कश्चित् तरुणः आत्मानं शिष्यत्वेन स्वीकर्तुम् आचार्यं निवेदयति । तस्य योग्यतासामर्थ्यादिकं बहुधा परीक्ष्य सः उत्तीर्णः इति वदन् अपि एकसप्ताहानन्तरं निर्णयं श्रावयिष्यामि इति आचार्यः अवदत् । अनन्तरदिने एव आचार्यः कञ्चित् धनिकम् आहूय तरुणम् उन्नतस्थाने अधिकं वेतनम् दत्त्वा नियोजय इति अवदत् । तद्वदेव सः धनिकः अकरोत् । सप्ताहानन्तरं तं तरुणम् आहूय 'तव शिष्यत्वम् अङ्गीकृतं मया' इति यदा आचार्यः अवदत् तदा...

कार्यनीतेः आन्तर्यम् 20.11.2025

कदाचित् श्रीकृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् आप्तः सेवकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः सेवकः वदति यत् 'भवता किमर्थं तत्र गम्यते ? सः एव अत्र आनाय्यताम्' इति । तदा कृष्...

धनस्य कारणतः 19.11.2025

गोवल्लभनामकः कश्चन महाधनिकः भोगजीवनं यापयन् वार्धक्ये रोगग्रस्तः जातः । कदाचित् चिन्तामग्नेन तेन किञ्चित् मधुरं गीतं श्रुतम् । तेन आनन्दः प्राप्तः गोवल्लभः तं चर्मकारम् आनाय्य किञ्चित् धनं दत्त्वा श्वः अपि आगत्य एवम् एव एकं गीतं श्रावय इति अवदत् । किन्तु अनन्तरदिने सः चर्मकारः आगत्य धनं प्रत्यर्प्य 'धनस्य रक्षणविषये चिन्तां प्राप्तवता मया भगवतः स्मरणं कर्तुं न शक्तम् । धने सति आनन्दप्राप्तिः क्लेश...

भिक्षुकस्य दानम् 18.11.2025

कदाचित् मार्गे स्थितेन केनचित् खिन्नेन भिक्षुकेन स्वर्णरथेन सह अकाशात् आगतः देवपुरुषः दृष्टः ।  भिक्षुकः तं दृष्ट्वा हृष्टः सन् चिन्तितवान् यत् अद्य मम दरिद्रता समाप्ता भविष्यति इति । किन्तु देवः स्वयं भिक्षुकात् भिक्षां याचितवान्, येन सः विस्मितः अभवत् । तिरस्कारभावेन सः केवलम् एकं तण्डुलकणं देवाय दत्तवान् । देवः तं स्वीकृत्य अन्तर्हितः अभवत् । रात्रौ भिक्षुकः स्वस्य भिक्षाराशौ एकं सुवर्णतण्डुलकण...

ज्ञानप्राप्तीच्छा 17.11.2025

कस्यचन आचार्यस्य उभौ शिष्यौ आस्ताम् । तयोः एकः अध्ययने विशेषतया आसक्तः, अपरः च मन्दप्रवृत्तिः । कदाचित् अपरः गुरुं पृच्छति यत् किमर्थं प्रथमम् एव आधिक्येन पाठयति इति । तदा गुरुः बोधकथां श्रावयित्वा दर्शयति यत् प्रथमस्य ज्ञानप्राप्तीच्छा तीव्रा अस्ति अतः सः परिश्रमं करोति, परिश्रमानुगुणं फलं प्राप्नोति च । अपरस्य ज्ञानप्राप्तीच्छा तु दुर्बला अस्ति । अतः प्रयत्नः अपि मन्दः । तस्मात् फलम् अपि अल्पम्...

अभिमानधनः कविः 16.11.2025

राजा मानसिंहः एकदा वेषान्तरं धृत्वा कवेः कुम्भनदासस्य गृहम् अगच्छत् । तदवसरे प्रस्थानाय उद्यतः कविः तिलकं धर्तुं दर्पणम् आनेतुं पुत्रीम् अवदत् । अनवधानात् दर्पणः हस्तात् च्युतः सन् भग्नः जातः । तद् दृष्ट्वा कविः एकेन विशालमुखेन पात्रेण जलम् अनेतुम् उक्त्वा जले स्वमुखं दृष्ट्वा तिलकं धृत्वा प्रकोष्ठात् बहिः अगच्छत् । वेषान्तरं धृतवान् राजा एतत्सर्वं दृष्ट्वा परेद्यवि यदा कविः आस्थानम् आगतवान् तदा स...

अमृतपुत्राः 15.11.2025

सिक्खानां गुरोः गोविन्दसिंहस्य चत्वारः पुत्राः मोघलैः सह प्रवृत्ते युद्धे वीरमरणं प्राप्तवन्तः आसन् । एतत् वचनं श्रुत्वा पत्नी पुत्रवियोगेन नितरां दुःखसन्तप्ता भूत्वा उच्चैः रोदनम् अकरोत् । तदा गोविन्दसिंहः अवदत् ये धर्मयुद्धे वीरगतिं प्राप्नुवन्ति ते अमृतपुत्राः । तस्य विषये गर्वं भवतु । पुत्रवियोगं प्राप्तवन्तः जन्मदातारः सान्त्वनीयाः अस्माभिः । प्रजाः एव अस्मत्पुत्राः इति चिन्तय । चिन्तनपरिवर्त...

वरुणमन्त्रः 14.11.2025

अष्टादशवर्षपूर्वं स्यानन्दपुरे पद्मतीर्थनामा तडागः निर्जलः जातः । कथञ्चित् अयं तडागः जलपूर्णः स्यात् इति जनाः अचिन्तयन् । तदा तस्य कार्यार्थं डा. साम्बशिवनामकः कश्चन सज्जनः जनान्  प्रेरितवान् । साम्बशिवस्य न केवलं वैद्यकीये विषये, अपि तु वेदोपनिषत्सु अपि अध्ययनम् आसीत् । अग्रिमदिने सर्वे ब्राह्मे मुहूर्ते अनशनपूर्वकान् आर्द्रवस्त्रान् जनान् वरुणमन्त्रं बोधितवान् । ऋग्वेदस्य वरुणमन्त्रः श्रद्धया एक...

शिल्पिनः चयनम् 13.11.2025

कश्चित् राजा राजधान्याम् एकं भव्यं मन्दिरं निर्मातुं सङ्कल्पं कृतवान् । वृद्धः आस्थानशिल्पी राजानं यौवनशिल्पिनः चयनाय उपदिष्टवान् । राजा स्पर्धाम् आयोज्य उत्कृष्टं शिल्पं निर्मातुं शिल्पिनः आमन्त्रितवान् । तेषु शिवमूर्ति-धनपालाभ्यां निर्मितं शिल्पम् उत्कृष्टम् इति तु घोषितम्, किन्तु तयोः नाम न प्रकाशितम् । एतत् दृष्ट्वा धनपालः खिन्नः जातः, रात्रौ रहसि शिवमूर्तेः शिल्पं विरूपीकृतवान् । तस्य कृत्यं...

मूल्यवत् उपायनम् 12.11.2025

कदाचित् राष्ट्रपतिना अब्दुलकलाममहोदयेन कस्मिंश्चित् समारम्भे अध्यक्षस्थानं वोढव्यम् आसीत् । तस्य भाषणस्य अनुवादः गुरुराजकरजगिवर्यस्य । तेन रुदन्ती लघुबालिका दृष्टा । कारणे पृष्टे तस्याः पितरौ उक्तवन्तौ यत् 'कलाममहोदयेन भाषणं कर्तुम् एतस्याः इच्छा अस्ति' इति । अध्यक्षभाषणसमाप्तेः अनन्तरं गुरुराजवर्यः कलाममहोदयं लघुबालिकायाः इच्छाम् अवदत् । अनुक्षणमेव एकम् आरक्षकम् आहूय बालिकाम् आनेतुम् अवदत् । कलाम...

दर्शनमात्रेण उपेक्षा न उचिता 11.11.2025

पुरा ऋचीकनामा कश्चन ऋषिः, गाधिनाम्नः राज्ञः पुत्रीं सत्यवतीं परिणेतुम् ऐच्छन् माहाराजम् उपसर्प्य स्वस्य इङ्गितं निवेदितवान् । मुनये पुत्रीं दातुं राजा तु न इष्टवान् । बाह्यावलोकनतः अयं मुनिः सामान्यः इति विगणय्य राजा अस्मै साधारणं कार्यं ददामि इति अचिन्तयत् । ततः अवदत् यत् 'अस्माकं कुले विशिष्टा वरपरीक्षा अस्ति । यः एकतः श्यामकर्णान् सहस्रम् अश्वान् आनयेत् तस्मै एव पुत्री दीयेत' इति । राज्ञः अभिप्...

उत्कृष्टं प्रशासनं कीदृशम्? 10.11.2025

राजसूययगानन्तरं महता दानेन धर्मराजस्य मनसि अहं महादाता अस्मि इति भावः आगतः। एतत् अवगतेन श्रीकृष्णेन धर्मराजस्य एतं भावम् अपनेतुम् इच्छता सः बलिचक्रिवर्तिनः आस्थानं प्रति नीतः । कृष्णं दृष्ट्वा हर्षेण स्वागतवचनानि उक्त्वा बलिः अपृच्छत् 'आगमनावसरे भवता किमर्थम् अयम् अयोग्यः राजा अपि आनीतः' इति । कृष्णः 'एषः महान् दानशूरः अस्ति' इति यदा प्रत्युत्तरति तदा बलिः वदति 'मम राज्ये मदीयैः जनैः गृहं गृहं गत्...

महिलानां मानरक्षणम् 09.11.2025

कदाचित् भारतीयसेनाधिकारिणः तत्पत्न्यः च रेल्स्थानकं गतवन्तः आसन् । तदवसरे केचन दुष्टाः माहिलाः बहुधा अपीडयन् । ते अधिकारिणः दुष्टान् बद्ध्वा युतकादिकम् अपनीय अन्तर्वस्त्रमात्रतया मुख्यमार्गे तेषां शोभायात्रां कारितवन्तः । तेषां दुष्टानां नायकः आसीत् मुख्यमन्त्रिणः पुत्रः एव । अतः यदा मुख्यमन्त्री सेनाशिबिरं प्रति अगच्छत् तदा तस्य प्रवेशाय अनुमतिः एव न लब्धा । क्रुद्धः मुख्यमन्त्री प्रधानमन्त्रिणं...

मित्रस्य निमित्तम् 08.11.2025

काचित् वृद्धा भिक्षया यत् प्राप्यते तत् नारायणाय नैवेद्यत्वेन समर्प्य एव स्वयं खादति स्म । कदाचित् प्राप्तचणकान् जले संस्थाप्य मृदूकृत्य वस्त्रेण बद्ध्वा शयनम् अकरोत् । तस्यां रात्रौ चोराः आभरणग्रन्थिः इति मत्वा तं चणकग्रन्थिम् चोरयित्वा सान्दीपनिमुने आश्रमे नीलीय अतिष्ठन् । चणकग्रन्थिम् अप्राप्य दुःखिता वृद्धा शापं दत्तवती यत् ये तान् चणकान् खादेयुः ते महादरिद्राः भवेयुः इति । चोराः सः चणकग्रन्थि...

पुण्यकार्यपरम्परा 07.11.2025

कश्चन संन्यासी प्रयाणेन श्रान्तः सन् कस्यचित् गृहस्य पुरतः स्थित्वा भोजनं याचितवान् । गृहस्वामी सादरं तम् अन्तः नीत्वा भोजनं प्रदत्तवान् । किञ्चित्कालं विश्रान्तिसुखम् अनुभवन् प्रस्थानसमये संन्यासी गृहस्वामिने धनं दातुम् उद्युक्तः । किन्तु गृहस्वामी धनप्राप्तीच्छया न, अपि तु बुभुक्षिताय अन्नदानं पुण्यम् इत्यतः भोजनं दत्तम् इति अवदत् । संन्यासी उक्तवान् यत् 'दीयमानं धनं तु स्वार्थाय न, अपि तु पुनरप...

भागवतपारायणस्य प्रभावः 06.11.2025

षोडशे शतके केरले पून्ताननामा कश्चन गुरुवायूरुपुरेशभक्तः कदाचित् कोट्टियूरस्थे शिवमन्दिरे भागवतपारायणम् आरब्धवान् । तत्र कृष्णरुक्मिणीसंवादस्य कथां विवृत्य एकं पुटचिह्नं संस्थाप्य मन्दिरात् निर्गतः । परन्तु आश्चर्यं नाम अग्रिमे दिने तस्य अध्यायस्य आरम्भे एव तत् पुटचिह्नं दृष्टम् । एवम् अवशिष्टेषु दिनेषु अपि तेन सः एव कथाभागः पुनः पुनः पठितः । अन्तिमे दिने यदा पून्तानः मन्दिरात् भागवतपुस्तकम् आनेतुम...

प्रतिमानां सन्देशः 05.11.2025

कदाचित् कश्चन गुरुः लवणेन वस्त्रेण शिलया च निर्मिताः तिस्रः प्रतिमाः जले निमज्जयन् तासां तत्त्वं बोधयति । शिलानिर्मिता प्रतिमा जले निमज्ज्य अपि अल्पमपि विकारं न प्राप्नोत् । केचन शिलाप्रतिमा इव । जलं ज्ञानम् इव । केचन ज्ञाने निमज्ज्य अपि स्वस्मिन् किमपि परिवर्तनं न प्राप्नुवन्ति अहङ्कारादिकारणतः । वस्त्रनिर्मिता प्रतिमा तु जलं स्वस्य अन्तः स्वीकरोति । तादृशाः ज्ञानं सम्पादयन्तः तदनुगुणम् आचरन्तः व...

ध्यानात् सिद्ध्यति अभीष्टम् 04.11.2025

कश्चन महात्मा ध्यानविषये बोधयन् मण्डूकस्य दृष्टान्तं वदति — 'मण्डूकेन इव तदेकनिष्ठया ध्यानं करणीयम् । मण्डूकः क्षुद्रजीवी अपि श्रद्धया एकनिष्ठया ध्यानं करोति । सः वृष्टिं प्रार्थयमानः भूमेः अन्तः स्थित्वा प्रतीक्षां करोति । तस्य अपेक्षां निसर्गः पूरयति ।  श्रद्धया सहनया च अपेक्षितस्य तत्त्वस्य प्रतीक्षणम् एव ध्यानं नाम । तादृशः स्वभावः मानवेषु स्यात् चेत् ते अपि अपेक्षितं प्राप्तुं शक्नुवन्ति । उद...

Hallgasd a(z) बालमोदिनी podcastot a Replaióban

Rádió és podcastok egy alkalmazásban - ingyen és regisztráció nélkül. Telepítsd még ma, és ne maradj le a premierről

Letöltés a Google Play-ről

A Replaio nem podcastkiadó; a műsorok nevei, borítóképei és hanganyagai a szerzőiket illetik, és nyilvános RSS-csatornákon keresztül terjednek.