fr

सम्भाषणसन्देशः

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

N'hésitez pas à visiter le site du podcast et à soutenir son créateur : sambhashanasandesha.in

Auteur

सम्भाषणसन्देशः

Catégorie

Kids

Site du podcast

sambhashanasandesha.in

Dernier épisode

16 oct. 2026

Où écouter ?

Les podcasts dans l'appli Replaio Radio Bientôt disponible

Les podcasts arrivent très bientôt dans l'appli. Installe-la dès maintenant et découvre en avant-première une toute nouvelle façon de vivre les podcasts

Télécharger sur Google Play Installe-la gratuitement Android près de 10 M de téléchargements · note de 4,8 iOS bientôt

Épisodes

प्रयत्नेन किं न साध्येत ? 30.03.2026

सातारानगरे देवरायनामकः कश्चन धनिकः रामनामकस्य निर्धनसेवकस्य कदाचित् निर्धनताविषये अपहासम् अकरोत् । प्रयत्नेन सर्वम् अपि साधयितुं शक्येत इति मत्वा सः कष्टेन प्रयाणं कृत्वा काशीम् अगच्छत् । कस्यचित् आचार्यस्य गृहे आश्रयं प्राप्य कठिनपरिश्रमं कुर्वन् द्वादश वर्षाणि यावत् अधीत्य व्याकरणे, न्याये, वेदान्ते, अर्थशास्त्रे च प्रावीण्यं प्राप्तवान् । तदीयां विद्वत्तां दृष्ट्वा पेशवराजः तम् उच्चपदे नियुक्तव...

उन्नतिकारकः जीवनमार्गः 29.03.2026

कश्चन कृषिकः कञ्चन आश्रमं गत्वा परमया श्रद्धया गुरोः उपदेशं शृणोति स्म । उपनिषदादयः ग्रन्थाः तु तेन न अधीताः, तथापि तस्य जीवनं तु उदात्तपूर्णम् आसीत् । कदाचित् तयोः सम्भाषणावसरे कृषिकः पृच्छति 'यदि भगवान् प्रत्यक्षः भवेत् तर्हि अहं किं याचेयम्?’ इति । तदा गुरुः किं किं याचितुं शक्नोति सः इति वदति । तत् च - सम्पादनं श्रमपूर्वकं भवतु, उत्तमस्वभावः, उदारता, श्रद्धा, लज्जा, पारमार्थिकं धनं च । यस्य सम...

कालमहिमा 28.03.2026

कालः एव बलवान् । अनया कथया कालस्य महिमानं ज्ञातुं शक्नुमः । यस्य यदा उन्नतिकालः तदा तस्य बलं‌ शौर्यं च भवति । अन्तकाले सर्वं‌ निर्वीर्यं‌ भवति । उन्नत्यवनत्यादिकं भवति कालकारणतः । यावत् जीवेम तावत् कालस्य सद्विनियोगः‌ करणीयः । कदापि वृथा कालक्षेपः न करणीयः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Time alone is powerful. This story shows i...

समुचिता दृष्टिः 27.03.2026

कस्मिंश्चित् गुरुकुले गुरुः शिष्यान् बहुधा परीक्ष्य योग्यान् एव शिष्यत्वेन स्वीकरोति स्म । अथ कदाचित् प्रवेशावसरे गुरुः शिष्यान् अपृच्छत् 'भवद्भिः किं किम् आनीतम्? स्वस्य गृहकुलादिविषये वदन्तु' इति । सर्वे आत्मना आनीतस्य धनस्य वा सुवर्णस्य वा धान्यस्य वा विवरणं, स्वस्य पितृपितामहादयः कीदृशाः इत्यादिकं च श्रावितवन्तः । किन्तु कश्चन तरुणेन किमपि न आनीतम् आसीत् । स्वस्य पित्रादीनां‌ विषये किमपि न अवद...

प्राप्तः आनन्दः अनुभोक्तव्यः 26.03.2026

कदाचित् कश्चन शिष्यः गुरुणा दत्तस्य फलस्य आनन्दप्राप्त्यापेक्षया गुरुः किमपि तत्त्वं ज्ञापयितुम् इच्छति इति विचिन्त्य गुरुम् अनेकान् प्रश्नान् पृच्छति । यथा पिण्डे तथा ब्रह्माण्डे इत्येतत् तत्त्वं ज्ञापयितुम् एव दत्तं स्यात्? फलस्य भागे या रुचिः सा एव समग्रे अपि फले भवति इति आशयं ज्ञापयितुम् इच्छति वा? इत्यादयः‌ प्रश्नाः कृता शिष्येण । अन्ते गुरुः 'फलस्य रुचिः कीदृशी अस्ति इति आदौ वद' इति उक्त्वा...

उत्तरम् अहं जानामि 25.03.2026

दारिद्र्यकारणात् विद्याभ्यासं प्राप्तुम् अशक्नुवन् कश्चन निर्धनकुलीयः मेषपालकः बालकः मेषान् तृणचरणे नियोज्य विद्यालयस्य वातायनस्य पार्श्वे स्थित्वा अध्यापकस्य पाठान् श्रद्धया शृणोति स्म । अथ कदाचित् शिक्षणाधिकारी तं विद्यालयं परीक्षितुम् आगतः । तेन पृष्टस्य कस्यापि प्रश्ननस्य उत्तरं न कोSपि दत्तवान् । वातायनात् बहिः स्थितः बालकः 'अहं प्रश्नानाम् उत्तराणि वदामि' इत्युक्त्वा सर्वेषां प्रश्नानाम् उत्...

कः उपायः श्रेष्ठः ? 24.03.2026

अरण्ये कदाचित् मार्जालशृगालौ कुशलसम्भाषणे मग्नौ जातौ । शृगालस्य गर्वम् आसीत् यत् सः बहून् उपायान् जानाति इति । तावता एव अनतिदूरात् शुनकानां भषणं श्रुतम् । तदा 'वृक्षारोहणरूपम् एकमेव उपायं जानामि अहम्' इत्युक्त्वा मार्जालः वृक्षम् आरूढवान् । मार्जालस्य पुरतः अपमाननं न भवेत् मम इति चिन्तयन् शृगालः चिन्तामग्नः अभवत् । तावता समीपम् आगतवतः शुनकान् दृष्ट्वा सः पलायनरूपम् उपायम् आश्रितवान् । पतन् स्खलन्...

उष्ट्रः हर्म्यतले भवेत् कथम् ? 23.03.2026

पूर्वं कश्चित् राजा सर्वदा संन्यासिनः धर्मोपदेशकादीन् च मोक्षमार्गं पृच्छति स्म । सर्वैः स्वमत्यनुगुणं दत्तेन उत्तरेण नृपः सन्तुष्टमनस्कः न जातः । अथ कदाचित् कश्चन संन्यासी 'राजा सम्यक् बोधनीया' इति विचिन्त्य मध्यरात्रसमये राजभवनं गत्वा हर्म्यतलम् आरूढः । निद्राम् अलभमानः राजा झटिति उत्थाय 'कः भवान्?’ इति पृष्टे संन्यासी 'विनष्टं मम उष्ट्रम् अन्वेष्टुम् अहमत्र आगतः' इत्यवदत् । उच्चैः हसता नृपेण अव...

मार्गः अनुसरणीयः 22.03.2026

अहङ्कारद्वेषलोभमोहादीन् त्यक्त्वा जीवनं यापनीयम् इति कश्चन महात्मा कस्मिंश्चित्त् प्रवचनकार्यक्रमे जनान् उपदिशति स्म । कश्चन श्रोता आगत्य 'यद्यपि भवतः प्रवचनं प्रतिदिनं शृणोमि तथापि मयि कापि प्रगतिः न जाता' इति अवदत् । तयोः मध्ये सम्भाषणं प्राचलत् । प्रश्नोत्तरानन्तरं महात्मा 'यथा भवद्ग्रामं प्राप्तुं विभिन्नाः मार्गाः स्युः, तथा प्रगतिं प्राप्तुम् अपि केचन मार्गाः भवितुम् अर्हन्ति । केवलेन उपदेशश...

चत्वारः अवसराः 21.03.2026

केनचित् चतुरेण जनेन मृत्योः मैत्री सम्पादिता आसीत् । कदाचित् सः मृत्युम् अवदत् 'मैत्रीकारणतः एकं निवेदनं यत् प्राणहरणात् पूर्वं भवता अहं सकृत् स्मारणीयः' इति । 'त्रिचतुरवारम् एव स्मारणं करिष्यामि' इत्यवदत् मृत्युः । तस्मात् सन्तुष्टः जनः वर्षाणि यावत् स्वच्छन्देन जीवनम् अकरोत् । कदाचित् मृत्युः तदीयान् प्राणान् अपहर्तुम् यदा आगतः तदा 'स्मारणमेव न कृत्वा आगतः भवान्' इति अवदत् सः जनः । तदा मृत्युः अ...

कुशलस्य सत्यनिष्ठा 20.03.2026

पूर्वं सारङ्गिपुरनामके राज्ये कुशलनामकः युक्तिशाली मन्त्री आसीत् । सः न केवलं धीमान् अपि तु सत्यनिष्ठापरः प्रभुनिष्ठापरः च आसीत् । कदाचित् अन्यदेशे निवसन् तदीयः जामाता गृहम् आगतः । यदा तौ राजमार्गे गच्छन्तौ आस्तां तदा जामाता राज्ञः सैन्यशक्तिविषयम् अपृच्छत् । राज्यस्य आन्तरिकः विषयाः कस्मैचिदपि कदापि न वक्तव्याः इति प्रतिज्ञातवान् आसीत् कुशलः । परिवारात् अपि राज्यं मुख्यम् इत्यतः राज्यसम्बद्धं विव...

महाराजस्य राज्यम् 19.03.2026

कदाचित् जनकस्य आस्थाने 'राज्यं परित्यज्य गन्तव्यम्' इति दण्डनं कस्मैचित् निर्दोषिणे जनाय दत्तम् आसीत् । तत् श्रुत्वा सः जनः अपृच्छत् 'राजसीमा कियत्पर्यन्तम् अस्ति इति ज्ञायते चेत् मम आनुकूल्यं स्यात् । मिथिलायाः सीमादिकम् अहं जानामि किन्तु महाराजस्य राज्यस्य न' इति । तत् श्रुत्वा राजा अचिन्तयत् 'एतत् राज्यं पूर्वजेभ्यः मया प्राप्तम् । अहं निर्वहणकर्तृषु अन्यतमः अस्मि । एतस्य स्वामित्वं नास्ति ममाप...

वैविध्यं गुणाय 18.03.2026

कश्चन राजा राज्ये स्थितानां विविधपूजापद्धतीनां मध्ये ऐकमत्यं नास्ति इत्यतः या पूजापद्धतिः श्रेष्ठा सा एव देशस्थैः सर्वैः अनुस्रियेत इति अघोषयत् । अथ कदाचित् कश्चन माहात्मा तत् राज्यम् आगत्य राज्ञः चिन्तनं ज्ञातवान् । राज्ञा सह धान्यागारं गत्वा अनेकविधानि धान्यानि किमर्थम् अस्ति इति महात्मा अपृच्छत् । तदा राजा 'प्रभेदभेदात् वातावरणभेदात् च आवश्यकतासु अपि भेदः भवति । आरोग्यदृष्ट्या अपि एकस्यैव धान्य...

जीवने हानिः लाभः च 17.03.2026

कश्चन युवकः वणिक् वाणिज्ये महतीं हानिं प्राप्य गुरोः समीपे आगत्य बहुधा विलपितवान् । गुरुः  'भवतः जीवने किं नष्टं, किं च प्राप्तम् इति किञ्चित् परिशील्यताम्' इत्युक्त्वा एकं कागदम् अयच्छत् । यत् नष्टं तत् कागदस्य वामभागे, यत् प्राप्तं तत् दक्षिणभागे च लेखनीयम् इत्यवदत् गुरुः । दक्षिणभागस्था आवली सुदीर्घा जाता । एतस्य दर्शनात् युवकस्य उत्साहः प्रवृद्धः । सः अवदत् 'धनेन क्रेतुम् अयोग्याः बहवः अंशाः म...

लोककल्याणकार्यं लघुत्वाय न 16.03.2026

आसीत् पुरा इक्ष्वाकुकुले पुरञ्जयनामकः त्रैलोक्ये प्रसिद्धः कश्चन महायोधः । कदाचित् देवानाम् असुराणां च मिथः सङ्घर्षे जाते देवेन्द्रः पुरञ्जयं साहाय्यम् अयाचत । 'यदि भवान् वृषभरूपेण मम वाहनं भवेत् तर्हि मया साहाय्यं दीयते' इति अवदत् पुरञ्जयः । वृषभत्वस्य अङ्गीकारः अपमानकरः इति चिन्तितवते इन्द्राय विष्णुः 'चिन्तां विना लोकहिताय वृषभरूपेण पुरञ्जयस्य वाहनं भवतु भवान्' इत्यवदत् । भगवतः वचनानि श्रुत्वा...

सत्यवादी तीक्ष्णमती च 15.03.2026

कस्याञ्चित् कक्ष्यायां हरिः नरेन्द्रः शिवः च एकस्मिन् उपवेशनपीठे उपविष्टाः आसन् । नरेन्द्रः सुहृदौ एकां स्वारस्यकारीं कथां वदन् आसीत् तावता अध्यापकः आगत्य सस्यस्य अङ्गानि पाठयितुम् आरब्धवान् । हरिशिवयोः कथाश्रवणे महत् कुतूहलम् आसीत् इति कारणतः नरेन्द्रः कथाश्रवणम् अनुवर्तितवान् । तावता अध्यापकदृष्टिः तेषु पतिता । एतावता मया किं किं बोधितम् इति अध्यापकेन पृष्टे हरिः शिवः च उत्तरं वक्तुम् न शक्तवन्त...

अनन्यगामिनी निष्ठा 14.03.2026

मरणशय्यायां स्थितस्य कस्यचित् धनिकस्य त्रयः‌ पुत्राः‌ तु धनिकस्य ऐश्वर्यविषये आसक्ताः । धनिकस्य समीपे तिस्रः देवताः अपि सन्ति - सम्पत्तिः, प्रीतिः, निष्ठा च । धनिकस्य श्वासोत्क्रमणं यदा आरब्धं तदा सम्पत्तिः अवदत् 'यः मम वर्धने रक्षणे च आसक्तः तम् अहं सेवे' इति । प्रीतिः अवदत् 'धनिकस्य इहलोकव्यापारसमाप्तिसमनन्तरमेव अहम् इतः निर्गमिष्यामि । यः मां तीव्रतया स्मरेत् तस्य उपसर्पणं करिष्यामि' इति । निष्...

जीवने आनन्दस्य संरक्षणं कथम्? 13.03.2026

कदाचित् केनचित् योगिना सह रेल्यानेन प्रयाणं कुर्वन् कश्चन वणिक्, कश्चन राजनीतिनेता, काचित् गृहिणी च सम्भाषणम् आरब्धवन्तः । ते सर्वे स्वस्य स्वस्य सन्तोषस्य कारणं वदन्तः तेषाम् अपगमे आनन्दस्य का गतिः इति चिन्तां प्रकटितवन्तः । तदा सा योगी अवदत् 'भवताम् आनन्दः धनं स्थानं प्रीतिं च अवलम्ब्य तिष्ठति । वस्तुतः आनन्दः काचित् मानसिकी स्थितिः । सा स्थितिः बाह्यतत्त्वम् न अवलम्बेत । मनसः आनन्दः अन्यः, धनमा...

गुणवत्तां वर्धयत 12.03.2026

कस्मिंश्चित् ग्रामे सर्वे कृषिकाः कृष्या सह गोपालनमपि कुर्वन्ति स्म । तेषु केचन विष्णुपूजकाः, केचन शिवपूजकाः, अपरे केचन आञ्जनेयभक्ताः, अपरे केचन शक्तिपूजकाः च । स्वस्य स्वस्य आराध्यदेवस्य एव श्रेष्ठता इति सर्वेषां चिन्तनम् । कदाचित् ग्रामम् आगतवन्तं कञ्चन संन्यासिनं पञ्चषाः प्रमुखाः मतश्रेष्ठताविषये अपृच्छन् । तदा तेभ्यः प्रश्नोत्तरं कृत्वा संन्यासी अवदत् 'अस्माकं पूजापद्धतयः आराध्यदेवाः च विभिन्न...

भगवान् न क्रूरः 11.03.2026

चीनादेशे स्थिता काचित् भारतीया बालिका जपान्देशस्य युद्धभीत्या भारतं प्रत्यागता । तस्य माता नितान्तं भक्तिमती आसीत् इत्यतः सा मातरम् उक्तवती 'युद्धसङ्कटात् रक्षितुं जपानदेशे महान् भूकम्पः भवेत् इति भगवन्तं प्रार्थयताम्' इति । आश्चर्यान्विता माता अवदत् 'कस्यचन प्रार्थनां श्रुत्वा कामपि आपदं सृष्ट्वा असङ्ख्यानां निर्दुष्टजनानां मारणार्थं तत्परः भवितुं किम् ईश्वरः तावान् क्रूरः भवेत् ? एतत् न योग्यं‌...

शिल्पम् 10.03.2026

कदाचित् कश्चन सज्जनः 'आ बहुभ्यः वर्षेभ्यः पूजां कुर्वता अपि ईश्वरदर्शनं न प्राप्तं मया' इति कञ्चन महात्मानम् अवदत् । तदा सः महात्मा अवदत् 'ईश्वरस्य प्राप्तिः केवलं काचित् पद्धतिः नास्ति । अपि तु तत् शिल्पम्' इति । ततः सः एकेन निर्दर्शनेन पद्धतिशिल्पयोः मध्ये स्थितं भेदं वर्णयति । ईश्वरदर्शनमार्गान् सर्वे जानन्ति किन्तु तं मार्गम् अवगत्य स्वकौशलम् उपयुज्य च ईश्वरप्राप्तिः नाम किञ्चन विशिष्टं शिल्पम...

मोक्षस्य मार्गः 09.03.2026

जीवनस्य सर्वविधं सुखं दुःखं च अनुभूतवान् देवय्यः इतःपरं लौकिकजीवनस्य अवश्यकता नास्ति इति मत्वा कञ्चन साधुम् उपसर्प्य मोक्षस्य मार्गं दर्शयितुं प्रार्थयते । किन्तु तस्य संसारव्यामोहः न अपगतः इति ज्ञात्वा साधुः अवदत् 'यदा नेत्रे निमील्य अपि गृहादिकं न दृश्यते तदा एव मोक्षस्य प्राप्तिः । मोक्षं प्राप्तुं कठिनतपः आचरणीयम् इति नास्ति । संसारः अपि परित्यक्तव्यः इत्यपि नास्ति । सर्वदा भगवतः नामस्मरणं कुर...

अध्यात्ममार्गे 08.03.2026

कश्चन गुरुः दुःखे विद्यमानं भक्तं वदति 'भवान् पुण्यवान्' इति । सन्तोषेण स्थितवन्तं भक्तं तु प्रहरति । तद् दृष्ट्वा नूतनः शिष्यः ज्येष्ठं शिष्यं आचार्यस्य आचरणस्य आन्तर्यं किम् इति पृच्छति । तदा ज्येष्ठः शिष्यः वदति 'यः दुःखे भवेत् सः आत्मना कृतं दोषम् अवगच्छति, अध्यात्ममार्गे अग्रे गच्छति च । यः‌ सन्तोषेण स्थितः अस्ति सः स्वस्य दोषः कः इति न जानाति स्म, ज्ञातुं प्रयासमपि न करोति स्म । अतः एव तं प्...

भवेत् आन्तरङ्गिकः विकासः 07.03.2026

कश्चन राजा भौतिकव्यवस्थापरिकल्पनमात्रात् सुखशान्त्यादयः वर्धिष्यन्ते इति विचिन्त्य सर्वविधानि आनुकूल्यानि प्रजानां कृते परिकल्पितवान् आसीत् । तथापि सुखशान्त्यादयः प्रवृद्धाः न दृश्यन्ते इति यदा सः स्वस्य मार्गदर्शकं संन्यासिनम् उप्सर्प्य अवदत् तदा संन्यासी 'सुखशान्त्यादयः आन्तरङ्गिकाः । ते च भावाः जनानां मनस्सु स्वयम् उत्पन्नाः भवेयुः । तदर्थं धार्मिकोपन्यासाः आयोजनीयाः, सत्सङ्गादयः व्यवस्थापनीयाः...

असदृशी प्रीतिः 06.03.2026

श्रीरामे हनूमतः महती प्रीतिः, प्रेम, आदरः च । कदाचित् सिन्दूरलेपनं कुर्वतीं सीतां दृष्ट्वा सः सिन्दूरलेपनस्य कारणं किम् इति पृच्छति । तदा 'तव स्वामिनः दीर्घायुष्यं प्रार्थयमाना अहं सिन्दूरलेपनं करोमि' इति अवदत् सीता । तत् श्रुतवान् आञ्जनेयः आपणं गत्वा महास्यूतेन सिन्दूरम् अनीय गृहं गत्वा स्नानं कृत्वा समग्रं शरीरं सिन्दूरेण लिप्त्वा सीतारमयोः पुरतः स्थितः । सीतामातुः नेत्रे अश्रुपूर्णे जाते । अद्य...

Écoute le podcast बालमोदिनी sur Replaio

La radio et les podcasts dans une seule appli - gratuite, sans inscription. Installe-la dès aujourd'hui et ne rate pas le lancement

Télécharger sur Google Play

Replaio n'est pas éditeur de podcasts ; les noms des émissions, les visuels et l'audio appartiennent à leurs auteurs et sont diffusés via des flux RSS publics