fr

सम्भाषणसन्देशः

बालमोदिनी

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

N'hésitez pas à visiter le site du podcast et à soutenir son créateur : sambhashanasandesha.in

Auteur

सम्भाषणसन्देशः

Catégorie

Kids

Site du podcast

sambhashanasandesha.in

Dernier épisode

14 oct. 2026

Où écouter ?

Les podcasts dans l'appli Replaio Radio Bientôt disponible

Les podcasts arrivent très bientôt dans l'appli. Installe-la dès maintenant et découvre en avant-première une toute nouvelle façon de vivre les podcasts

Télécharger sur Google Play Installe-la gratuitement Android près de 10 M de téléchargements · note de 4,8 iOS bientôt

Épisodes

भक्तश्रेष्ठः पुण्डलीकः 06.07.2026

आसीत् कृष्णावतारकाले पुण्डलीको नाम कश्चन मातापित्रोः भक्तः । कदाचित् श्रीकृष्णः तम् अनुग्रहीतुम् इच्छन् चन्द्रभागनदीतीरस्थं पुण्डलीकाश्रमं प्रति निर्गतः । पुण्डलीकस्य पितृसेवां दृष्ट्वा सन्तुष्टः भगवान् 'वरं वृणीष्व' इत्यवदत् । तदा पुण्डलीकेन सविनयम् उक्तः 'लोके पितृभक्तिमहत्त्वं प्रदर्शयितुं भवता अत्रैव देव्या सह स्थातव्यम्' इति । भक्तस्य इच्छां परिपालयता कृष्णेन तत्रैव स्थितम् । तदेव पण्ढरापुरम्...

पुरुषप्रयासः मुख्यः 05.07.2026

कदाचित् उभौ राजानौ युद्धस्य आरम्भात् पूर्वं कस्यचन महात्मनः आशीर्वादं प्राप्तुम् इष्टवन्तौ । पूर्वराजस्य कृते महात्मा अवदत् 'भवतः विजयः सुलभसाध्यः' इति । अन्यस्य देशस्य राज्ञः कृते अवदत् महात्मा 'भवतः विजयः कष्टसाध्यः' इति । सः राजा स्वदेशं गत्वा सर्वविधसन्नाहं कर्तुं सेनाप्रमुखान् अवदत् । युद्धे पूर्वदेशस्य पराजयः अभवत् । यदा सः महात्मानं पराजयस्य कारणम् अपृच्छत् तदा महात्मा अवदत् 'भवता जयप्राप्त...

भगवतः प्रसन्नतायै 04.07.2026

कश्चन धनिकः भगवते अर्पयितुं देवालयस्य पुरतः स्थितात् आपणात् कमलपुष्पम् एकं क्रेतुम् ऐच्छत् । विंशतिरूप्यकाणि अधिकं मूल्यम् अस्ति इत्यतः दशरूप्यकाणि स्वीक्रियन्ताम् इति आपणिकम् अवदत् धनिकः । तावता तत्र आगतः राजकुमारः प्रेयसीनिमित्तं तत् एव कमलपुष्पं क्रेतुम् ऐच्छत् । धनिकराजकुमारयोः मध्ये वादविवादः जायते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रि...

समाजस्य उत्तरदायित्वम् 03.07.2026

हेन्रि ला ग्वार्डिवर्यः जनसेवायां विशेषतया आसक्तः । सः १९३४ तः १९४५ पर्यन्तं न्यूयार्क्-नगरस्य प्रमुखः सन् तस्य नगरस्य सर्वाङ्गीणाम् उन्नतिं साधितवान् । सः कदाचित् न्यायाधीशत्वेन यदा कार्यं करोति स्म तदा प्रवृत्ता घटना एषा । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Henry La Guardia was especially devoted to public service. From 1934 to 1945...

धनं देशसेवायै 02.07.2026

कस्मिंश्चित् विद्यालये आचार्यः पृच्छति यत् 'यदि मार्गे वज्रं प्राप्येत तर्हि भवन्तः किं कुर्युः?’ इति । एकैकः छात्रः एकैकविधं धनस्य उपयोगम् अवदत् । अन्ते कश्चन छात्रः अवदत् 'अहं वज्रं तस्य स्वामिने अर्पयिष्यामि । यदि सः न लभ्यते तर्हि वज्रम् आरक्षकाधीनं सर्वकाराधीनं वा करिष्यामि । यदि तस्य विक्रयणं करणीयम् इति आपतेत् तर्हि तस्य मूल्यराशेः उपयोगं देशसेवायै, निर्धनानां साहाय्याय, जनोपकराय च करिष्याम...

शुद्धहृदयैः निर्मिताः कासराः 01.07.2026

'बूढासागरः’, ‘सरमनसागरः', 'कैरायीसागरः', ‘कुण्डमसागरः' इत्येते चत्वारः विशालसरोवराः अद्यापि पाटनक्षेत्रे सुस्थितौ सन्ति । तेषां निर्माणं के कृतवन्तः ? कथं कृतवन्तः ? तेषाम् इतिहासः एव अस्याः कथायाः वस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In Patan, four large lakes—Buddhasagar, Sarmanasagar, Kairayisagar, and Kundamasagar—sti...

उपहारत्रयम् 30.06.2026

कस्मिंश्चित् उदारचरिते राजनि प्रजाजनाः विशेषादरवन्तः आसन् । तस्मिन् राज्ये कश्चन निन्दाशीलः जनः अपि आसीत् । राजा एतत् ज्ञात्वा कदाचित् गोधूमपूर्णम् एकं स्यूतम्, एकं फेनकम्, एकं खण्डशर्करायुक्तं स्यूतं च निन्दकाय प्रेषितवान् । सः सन्तुष्टः निन्दकः अचिन्तयत् 'मम योग्यताम् अभिज्ञाय आदरार्थम् एतानि वस्तूनि महाराजेन प्रेषितानि' इति । किन्तु यदा तस्य सुहृत् 'एतानि उपायनानि राज्ञा विशेषाभिप्रायेण प्रेषित...

कर्तव्यनिष्ठा 29.06.2026

कस्यचन कार्यस्य निमित्तं राज्यात् बहिः गतवतः शिवराजस्य प्रत्यागमने विलम्बः जातः । यतः सूर्यास्ततः सूर्योदयं यावत् दुर्गात् बहिः गमनम्, अन्तःप्रवेशः च निषिद्धः इति नियमः आसीत् अतः मुख्यप्रवेशद्वारं‌ पिहितम् आसीत् । संन्यासिनः वेषं धृत्वा प्रवेशद्वारस्य समीपं आगतः शिवराजः । अन्तःप्रवेशं निराकृतवान् द्वारपालकः । किञ्चित्कालानन्तरं शिवराजः संन्यासिवेषम् अपनीय स्वस्य निजरूपं दर्शितवान् । तथापि द्वारपाल...

भारत्मातुः सेवायै 28.06.2026

बलूचदले कश्चन सैनिकः आसीत् महम्मद् उस्मान् इति । अनेकेषु युद्धेषु भागं वहन् महत् शौर्यं प्रदर्शयन् उस्मान्-वर्यः 'ब्रिगेडियर्' पदं प्राप्नोत् । तदीयं देशप्रेम असदृशम् आसीत् । १९४७ तमे वर्षे यदा भारतस्य विभागः जातः तदवसरे निर्णीतं यत् बलूचदलं पाकिस्थानाधीनं स्यात् इति । किन्तु ब्रि.उस्मान्-वर्यः पाकिस्थानस्य अधीनतां न अङ्गीकृतवान् ।  १९४८ तमे वर्षे यदा पाकिस्थानेन भारतस्य कश्चन भूभागः वशीकृतः आसीत्...

विघ्नानां मध्ये एव जीवनीयम् 27.06.2026

कश्चन आचार्यः शिष्यं सुबोधं कथं जीवनीयम् इति बोधयति - 'अध्ययनं, जीवनम् इत्यादीनि विघ्नरहितानि न भवन्ति कदापि । विघ्नानां मध्ये एव चिन्तारहितं जीवनं यापयितुं कौशलं सम्पादनीयम् । तदा एव जीवनं सुखकरं भवति । विघ्नेषु सत्सु अपि कथं जीवनीयम् इत्येतत् अवगतं चेत् जीवनं कदापि कष्टाय न भवेत्' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A teacher o...

त्रीणि आभरणानि 26.06.2026

यदा ठाकुरदासः हठात् दिवङ्गतः तदा कुटुम्बपोषणभारः तस्य पत्न्याः उपरि अपतत् । सा कष्टेन धनम् अर्जयित्वा प्रीत्या पुत्रं पोषितवती । सः अध्ययनसमाप्तेः अनन्तरम् उद्योगं प्राप्य धनं सम्पादयन्, पूर्वं मात्रे दत्तं वचनं स्मरन् विद्यालयानां, चिकित्सालयानां, सहायताकेन्द्राणां च आरम्भं कृतवान् । तस्य महात्मनः नाम ईश्वरचन्द्रविद्यासागरः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथाना...

जीवनयात्रासूत्रम् 25.06.2026

अस्यां कथायां कश्चन संन्यासी कस्यचन शुनकस्य व्यवहारं दृष्ट्वा चिन्तयति -  जीवनयात्रायां यावच्छक्यं वस्तुमोहः न्यूनीकरणीयः । वस्तूनि अल्पानि चेत् आनन्दः अधिकः । 'अहं सर्वं जानामि' इत्यादयः भ्रमाः, अहङ्कारः, क्रोधः इत्यादयः अपि वस्तूनि इव भारायन्ते एव जीवने । तानि अपि याच्छक्यं न्यूनीकरणीयानि । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A monk...

लक्ष्मणस्य हासः 24.06.2026

चतुर्दशवर्षात्मकं वनवासं समाप्य आगतवतः श्रीरामस्य राज्याभिषेकमहोत्सवः सम्पन्नः । लक्ष्मणः, भरतः, शत्रुघ्नः, वानरवीराः च सर्वे सीतारामौ परितः स्थितवन्तः आसन् । तदा झटिति लक्ष्मणः किमपि भाषितवान् । सर्वेषां दृष्टिः तस्य उपरि अपतत् । सः किञ्चित् विहस्य जृम्भणं कृत्वा निद्रामग्नः अभवत् । हासः किमर्थम् इति सर्वेषाम् अपि कौतुकम् आश्चर्यं च । एकैकस्यापि एकैकरीत्या चिन्तनम् । (“केन्द्रीयसंस्कृतविश्वविद्या...

शास्वतं कार्यम् 23.06.2026

महतः राज्यस्य अधिपतिः राजा सुकृतशर्मा कदाचित् भव्यं कञ्चन प्रासादं निर्मीतवान् । तस्य प्रासादस्य दर्शनाय आगताः जनाः बहुधा प्रशंसन्ति स्म । एतेन राज्ञः महान् सन्तोषः भवति स्म । अथ एकदा कश्चन संन्यासी आगतवान् । राजा आत्मना निर्मितं प्रासादं तस्मै दर्शितवान् । आदौ संन्यासी प्रासादस्य श्लाघनं कृतवान् । अनन्तरं तत्रत्यं दोषद्वयम् उक्तवान् । संन्यासिनः कथनस्य आशयः अवगतः राज्ञा । राजा तस्मादेव दिनात् प्र...

वास्तविकः त्यागः 22.06.2026

राजा वसुधेन्द्रः प्रतापवान् धार्मिकः प्रजावत्सलः च । राज्ञः महान् खेदः नाम अपत्यं नास्ति इति । पुत्रकामेष्टियागं कृतवान् । यागस्य अन्ते अशरीरवाणी श्रुता 'औरसपुत्रप्राप्तिभाग्यं नास्ति तव । अतः योग्यः बालकः दत्तकरूपेण स्वीक्रियताम्' इति । देशस्य उत्तराधिकारी सुयोग्यः भवेत् इत्यतः दत्तकत्वयोग्यस्य अन्वेषणाय राजा स्वयं निर्गतः । कश्चन तरुणः दृष्टः यः त्यागात् एव मोक्षः इति चिन्तयति स्म ।  तं तरुणं दत...

योग्यः विद्वान् 21.06.2026

'मम राज्ये योग्याः विद्वांसः कति सन्ति इति द्रष्टव्यम्' इति महाराजस्य विक्रमसेनस्य मनसि उत्पन्नं विचारं सः मन्त्रिणम् अवदत् । तदनन्तरदिने एव तौ विदुषाम् अन्वेषणाय गतवन्तौ । ताभ्यां त्रयः विद्वांसः चिताः । राज्ञा द्रष्टुम् इष्टा योग्यता द्वयोः विदुषयोः न आसीत् । तृतीयः विद्वान् नदीतीरे लघुकुटीरे वसति स्म । सः आदरेण राजानं स्वागतीकृतवान् । किन्तु स्वागतप्रतिक्रियायां वैभवं किमपि न आसीत् । कुशलप्रश्न...

बालमनः 20.06.2026

शीत-ऋतोः मनमोहिकायां प्रभातवेलायां पानीयस्थापनस्थाने कलरवं कुर्वतः, आनन्देन भोजनकणान् खादतः च बहून् पक्षिणः मार्त्तण्डः अपश्यत् । पितामह्यां परलोकं गतायां केचन एव मासाः व्यतीताः आसन् । मार्त्तण्डः मातरम् अपृच्छत् 'पितामही कुत्र जन्म गृहीतवती भवेत्?’ इति । तदनन्तरं तस्मिन् विषये एव तयोः मध्ये सम्भाषणं प्रचलति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं...

सत्सङ्गस्य महत्त्वम् 19.06.2026

काचित् दासी मार्जनपात्रवस्त्रक्षालनादिकं करोति स्म । तस्य पञ्चवर्षीयः पुत्रः आसीत् । कदाचित् कस्यचन परमहंसभागवतस्य चातुर्मासस्य आश्रमस्य पालनार्थं ग्रामजनाः इमां दासीं नियोजितवन्तः । दास्या स्वपुत्रः शिक्षितः यत् भागवतः यत्किञ्चिदपि सेवां कुरु इति । बालः अपि तथैव अकरोत् । गच्छता कालेन बालेन भक्तिः, ज्ञानं, वैराग्यं च प्राप्तम् । मातुः मरणानन्तरं सः सत्वरं गत्वा वृक्षस्य अधः उपविश्य ध्यानमग्नः अभवत...

स्मर्तव्यं योगसूत्रं सदा 18.06.2026

कञ्चन ग्रामम् आगतवन्तं सिद्धपुरुषम् उपसर्प्य त्रयः युवकाः साधनम् उपदेशं वा याचिततवन्तः । सिद्धः तेभ्यः किमपि साधनकार्यं दत्तवान् । बहूनि वर्षाणि अतीतानि । किन्तु त्रिषु एकः अपि न कमपि विशेषम् अनुभूतवान् । न कोऽपि भौतिकलाभः वा प्राप्तः । कदाचित् ग्रामं प्रति प्रत्यागतं सिद्धं द्रष्टुं गताः युवकाः स्वनिराशताम् अकथयन् । सिद्धपुरुषः आत्मज्ञानेन सर्वं ज्ञात्वा कुत्र कुत्र युवकाः दोषान् आचरितवन्तः इत्यु...

देशभक्तः पुष्यमित्रः 17.06.2026

राजा बृहद्रथः मगधदेशस्य राजा । पुष्यमित्रः सेनापतिः । विदेशीयं ग्रीक्सैन्यं न प्रतिप्रेषितं चेत् राज्यस्य भारतस्य च महती हानिः स्यात् इति पुष्यमित्रस्य कथनेन अपि राजा ताटस्थ्यनीतिः अनुसरणीया इति अवदत् । पुष्यमित्रः देशस्य हितमेव मुख्यं मन्यमानः राजविरोधम् अपि उपेक्ष्य शत्रुदलीयानां निग्रहाय उद्युक्तः अभवत् । पुष्यमित्रस्य कथा कालिदासेन मालविकाग्निमित्रे उपवर्णिता अस्ति । (“केन्द्रीयसंस्कृतविश्वविद...

निश्चिन्तं जीवनम् 16.06.2026

बालगङ्गाधरतिलकः विधिशास्त्रस्य अध्ययनानान्तरं न्यायवादिवृत्तित्वं न इच्छति यतः तत्र प्रतिदिनं प्रतिपदम् असत्यं वक्तव्यं भवति इति । सर्वाकारीयम् उद्योगम् अपि न इच्छति सर्वकारस्य दास्यताकारणतः । सः कस्मिंश्चित् विद्यालये अध्यापकवृत्तित्वम् आरब्धवान् । तदीयं मासिकं वेतनं त्रीणि रूप्यकाणि इति । तिलकस्य उदात्तं चिन्तारहितं च व्यवहारं दृष्ट्वा तस्य सुहृत् महत् आश्चर्यम् अनुभूतवान् । (“केन्द्रीयसंस्कृतवि...

भगवद्दर्शनाय किं करणीयम् ? 15.06.2026

कश्चन महात्मा भगवद्दर्शनस्य विषयं कञ्चन सज्जनं वदति - 'ईश्वरः अस्माकम् अन्तः एव तिष्ठति । मोहमायादिकारणतः वयं तस्य दर्शनं प्राप्तुं न शक्नुमः । भगवान् द्रष्टव्यः चेत् सर्वादौ मोहमायादयः त्यक्तव्याः' इति । 'अद्यैव भगवद्दर्शनार्थं प्रयासस्य आरम्भं करिष्यामि' इत्युक्त्वा प्रणम्य च ततः प्रस्थितवान् सः सज्जनः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्र...

त्रयः लुण्ठाकाः 14.06.2026

इयं कथा वर्तते गुणत्रयविषये । तमोगुणः मानवं संहर्तुं प्रयासं करोति । रजोगुणः कौटुम्बिकव्यवहारादिभिः तं बध्नाति । किन्तु सत्त्वगुणः तमोरजसोः पीडातः मानवं विमोच्य सुयोग्यं मार्गं दर्शयति । एतस्मिन् मार्गे भयं न विद्यते । एषः मार्गः मानवान् भगवच्चरणं प्रापयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) This tale concerns the three guṇas (qualit...

अप्रतिमशूरः बघेलसिंहः 13.06.2026

बघेलसिंहः तारुण्ये एव सिक्खदलस्य प्रमुखः जातः । सः कदाचित् देहलीस्थं रक्तदुर्गं वशीकर्तुम् ऐच्छत् । यमुनाम् अतिक्रम्य आगतः अपि सः झटिति एव देहल्याः वशीकरणाय न उद्यतः । सेनायाः वर्धने, अन्येषां मैत्रीसम्पादने, व्यूहस्य आरचने च सः उद्यतः अभवत् । सः केनचित् उपायेन दुर्गं प्रविश्य देहलीं वशीकृतवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Bag...

धीरः रघुपतिसिंहः 12.06.2026

राणाप्रतापस्य सामन्तराजः रघुपतिसिंहः कदाचित् अकबरसैन्यात् पराजयं प्राप्य अरण्यम् आश्रितवान् । कदाचित् अस्वस्थः पुत्रं द्रष्टुं यदा रघुपतिसिंहः अगच्छत् तदा मोगलसैनिकाः तं गृहीतवन्तः । पुत्रदर्शनाय अवसरः दीयताम् इति सेनापतिम् आकाशवर्माणम् अपृच्छत् । रजपूताः विश्वासघातं न कुर्वन्ति इति जानन् आकाशवर्मा रघुपतिसिंहाय पुत्रदर्शनाय अनुज्ञां दत्तवान् । ततः आकाशवर्मणः बन्धनं जातम् । रघुपतिसिंहः एतत् ज्ञात्व...

Écoute le podcast बालमोदिनी sur Replaio

La radio et les podcasts dans une seule appli - gratuite, sans inscription. Installe-la dès aujourd'hui et ne rate pas le lancement

Télécharger sur Google Play

Replaio n'est pas éditeur de podcasts ; les noms des émissions, les visuels et l'audio appartiennent à leurs auteurs et sont diffusés via des flux RSS publics