सम्भाषणसन्देशः
बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...
N'hésitez pas à visiter le site du podcast et à soutenir son créateur : sambhashanasandesha.in
Auteur
सम्भाषणसन्देशः
Catégorie
Site du podcast
Dernier épisode
14 oct. 2026
Où écouter ?
Les podcasts dans l'appli Replaio Radio Bientôt disponibleLes podcasts arrivent très bientôt dans l'appli. Installe-la dès maintenant et découvre en avant-première une toute nouvelle façon de vivre les podcasts
Épisodes
ह्यस्तनरोटिकाः 25.08.2026 3:02
कस्मिंश्चित् कुटुम्बे पुत्रः माता पिता चेति त्रयः सदस्याः आसन् । पुत्रः रामः यद्यपि अध्ययने निपुणः तथापि कदापि किमपि कार्यं न करोति स्म । विवाहोत्तरमपि सः तथैव आसीत् । तस्य पत्नी उमा बुद्धिमती व्यवहारकुशला च आसीत् । अल्पे एव काले पिता दिवं गतः । तथापि रामः कार्ये धनसम्पादने वा प्रवृत्तः न जातः । माता स्नुषा च मिलित्वा कमपि उपायं कृत्वा रामस्य कर्तव्यं किम् इति ज्ञापयतः । ततः सः परिश्रमपूर्वकं ध...
भगवतः अस्तित्वम् 24.08.2026 4:47
देवः देवालये शिलारूपेण मूर्तिरूपेण वा न भवति । सः जनानां हृदये भवति । दीनानां रुग्णानां दरिद्राणां च प्रतिफलनिरपेक्षया सेवा करणीया । तस्मात् देवः सन्तुष्टः भवति । भगवदनुग्रहः अपि प्राप्यते । इयं कथा एतस्य उत्तमम् उदाहरणं भवितुमर्हति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) God does not exist only in temples or in stone idols. He lives in...
अहं न अधिकारी .... 23.08.2026 2:17
पिपासया बाधितः कश्चन यात्रिक: कञ्चन कूपम् अपश्यत् । स: कृषकस्य समीपं गत्वा रज्जुं घटं च अयाचत । कृषक: राज्ज्वादिकम् आनीय कूपात् जलम् उद्धृत्य यात्रिकम् अपाययत् । कूपस्य जलम् अमृतोपमयम् आसीत् इति यात्रिक: अवदत् । किन्तु स: कृषक: तावत् पर्यन्तं जलस्य उपयोगं न कृतवान् आसीत् यत: तेन कूपखननार्थम् ऋणं स्वीकृतम् आसीत् । ऋणप्रत्यर्पणपर्यन्तं कूपजलस्य उपयोगे स: अनधिकारी इति मन्यते स्म । (“केन्द्रीयसंस्कृतव...
मानवायुषः इतिवृत्तम् 22.08.2026 2:04
यदा भगवान् ब्रह्मा जगत् असृजत् तदा सर्वान् आहूय पञ्चविंशतिवर्षात्मकम् आयुः किं पर्याप्तम् ? इति अपृच्छत् । तदा मानवः तावत् न पर्याप्तम् इति अवदत् । तदा गर्दभः कुक्कुरः उलूकः च स्वस्य स्वस्य वयसः पञ्चविंशतिं वर्षाणि मनुष्यस्य कृते दातुम् अर्हति भवान् इति भगवन्तम् अवदन् । अधुना मानवेन शतायुष्कत्वं प्राप्तम् । अतः एव मनुष्यः आदौ पञ्चविंशतिं वर्षाणि मनुष्यः इव जीवनं, पुनः पञ्चविंशतिं वर्षाणि गर्दभः...
सङ्गः ईश्वरस्य मानवस्य च 21.08.2026 5:26
सूफीमतस्य साधुषु अन्यतमः खय्यामः शिष्येण केनचित् सह परिभ्रमति स्म । ग्रामात् ग्रामं गच्छाद्भ्यां मार्गस्य निबिडम् अरण्यमेकं क्रमणीयम् अभवत् । तदा विलक्षणं घटनाद्वयं समभवत् । यदा शिष्यः गुरोः विलक्षणस्य व्यवहारस्य कारणम् अपृच्छत् तदा खय्यामः ईश्वरस्य मानवस्य च सङ्गः कारणम् इति विवृत्य ईश्वरे दृढा श्रद्धा स्थापनीया, भगवान् पदे पदे अस्मान् परीक्षते.... इत्यादीनि हितवचनानि अवदत् । (“केन्द्रीयसंस्कृतवि...
साधोः सम्पत्तिः 20.08.2026 3:16
सुवर्धनामकः कश्चन नृपः प्रजानां समस्यानां परिहारं यथाशीघ्रं करोति स्म | कदाचित् कस्यचन साधोः स्थालिकां पीठम् उपाधानं भिक्षापात्रं ढप्पली (एकं वाद्यं) च चोरिताः जाताः | राजा अनुक्षणं भटान् अन्वेषणाय प्रेषितवान् | केषाञ्चन दिनानाम् अनन्तरं कञ्चित् जनं निगृह्य नृपस्य अभिमुखम् आनयन् भटाः | किन्तु तेन चोरेण केवला स्थालिका एव चोरिता आसीत् | तदा साधुः अवदत् सः स्थालिका एव उपाधानत्वे, रोटिकानिर्माणसमये पी...
हृदये सुगन्धः 19.08.2026 2:45
कस्यचन अधिकारिणः मुहुः स्थानान्तरस्य आदेशः आगतः | अन्यत् नगरं प्रति गमनावसरे भवन्ति कार्याणि बहूनि | कार्यालयस्य कोऽपि कर्मचारी तस्य साहाय्यार्थं न आगतः | रेल्वेस्थानकं प्रति सर्वाणि वस्तूनि तेन स्वयं नीतानि | आप्रच्छानार्थम् अपि कोऽपि कार्यालयीयः जनः न आगतः इति विषादेन मनसि एव अहसत् सः अधिकारी | तावता कश्चन सेवकः पुष्पमालाहस्तः सन् वेगेन स्थानकम् आगच्छत् | अधिकारिणः प्रीतिः उपकारः च न विस्मृतः ते...
भोजने रुचिः त्यज्यताम् 18.08.2026 3:45
कश्चन महर्षेः पुत्रः उलूकः मन्दमतिः | यद्यपि सः गुरुकुले वसति स्म, तथापि गुरुणा बोधितं किमपि न अवगच्छति स्म | कदाचित् गुरुः अवदत् 'पठने रुचिः नास्ति चेत् गुरुकुलं परित्यज्य गच्छ' इति | विषादेन सः पर्वतशिखरं गत्वा तपः आचरितवान् | वृद्धवेषधारी ईश्वरः आगत्य किञ्चन तत्वं बोधितवान् | तदनन्तरमेव सः अध्ययनं समाप्य ज्ञानी जातः | महर्षिः अपि | तस्य एव नाम कणादः इति यः वैशेषिकदर्शनस्य प्रवर्तकः सन् परमाणुतत...
न अहं भुजङ्गः 17.08.2026 3:34
बाणभट्टः प्रसिद्धः कविः । चित्रभानुराजदेव्योः पुत्रः सः । चतुर्दशे वयसि पितृवियोगे सति दुःखं विस्मर्तुं देशाटनम् आरब्धवान् । तारुण्ये सः ग्रामम् आगत्य स्वस्य प्रवासानुभवान् जनान् आख्यानरूपेण श्रावयति स्म । ततः सम्राजः श्रीहर्षस्य आस्थानकवित्वं प्राप्तवान् सः अचिरात् एव राज्ञः प्रियः अभवत् । एतेन बाणभट्टेन एव 'हर्षचरितं' 'कादम्बरी' इत्येतौ ग्रन्थौ रचितौ । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशी...
कलियुगभीमः राममूर्तिः 16.08.2026 3:46
कञ्चन मल्लं जनाः 'कलियुगभीमः' इति निर्दिश्यन्ते स्म | तस्य मल्लस्य नाम कोडिराममूर्तिनायुडु इति | हठयोगस्य अभ्यासं बाल्यात् एव कृत्वा सततेन परिश्रमेण सः भीमबलं सम्पादितवान् आसीत् | बलप्रदर्शनेन यावत् धनं प्राप्यते स्म तत्सर्वं राममूर्तिः दरिद्रेभ्यः ददाति स्म | बहुत्र तेन व्यायामशालाः आरब्धाः | तस्य जीवने घटिता काश्चन घटनाः अस्यां कथायाम् उल्लिखिताः सन्ति | (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टाद...
कुलगौरवरक्षणम् 15.08.2026 2:23
दुर्गादासराथोड: कश्चन अप्रतिमवीर: । कथञ्चित् दुर्गादास: मारणीय: इति मोगलाजना: चिन्तयन्त: आसन् । कदाचित् दुर्गादास: पुण्यक्षेत्रस्य दर्शनसमये एकस्यां रात्रौ कस्यचित् मराठदलपते: गृहे वासम् अकारोत् । स: दुर्गादासं मारयित्वा राज्ञा प्रभूतं धनं स्वीकरिष्यामि इति मत्वा खड्गं स्वीकृत्य दुर्गादासं मारयितुम् उद्युक्तः अभवत् । अग्रे किं जातम् इति स्वारस्यकारीं कथां श्रुत्वा जानीमः । (“केन्द्रीयसंस्कृतविश्वव...
किं नु कारणम् ? 14.08.2026 5:45
भगवान् बुद्ध: श्रावस्त्यां धर्मोपदेशं करोति स्म । एकाग्रचित्ता: सर्वे जना: सकलम् अन्यद् विस्मृत्य भगवत: वचनं श्रुण्वन्ति स्म । तदवसरे बुद्धेन ज्ञातं यत् कश्चन श्रोता अन्यमनस्क: जात: अस्ति इति । तस्य कारणं पृष्ट्वा समाधानं यच्छति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In Śrāvastī, Lord Buddha was delivering a discourse. All the listeners...
दुराशाग्रस्तता 13.08.2026 3:06
मानवेषु आशा भवेत् नाम किन्तु दुराशा कदापि न भवेत् । कदाचित् दुराशाकारणत: यद्यद् लब्धं तत् सर्वं विलुप्तं भवितुम् अर्हति । इयमेव गति: कश्चन निर्धनस्य जाता अस्यां कथायाम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Among humans, hope is natural, but false or excessive desire should never arise. Often, because of such misguided desire, whateve...
दुश्चरितात् निवृत्तिः 12.08.2026 2:50
कश्चन चोर: । धनापहरणं लुण्ठनं मारणं च तस्य प्रवृत्ति: । एतादृशं जीवनं निन्द्यम् इत्यपि जानाति स्म । जीवने उन्नति: साधनीया इति इच्छया स: महात्मनाम् उपदेशं श्रोतुम् अपि गच्छति । कदाचित् गुरुनानकवर्यस्य उपदेशं श्रोतुं गतवान् । तेन दत्तेन मार्गोपायेन स: चोर: दुश्चरितात् निवृत्तिं प्राप्तवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was...
पुरुषार्थे स्यात् विश्वासः 11.08.2026 2:57
शकटाल: कश्चन भाग्यवादी । पुरुषप्रयत्नात् अपि भाग्यस्य एव श्रेष्ठता अधिका इत्यत्र तस्य विश्वास: । सर्वस्यापि दैवमेव कारणम् इति वदति स्म । किन्तु केचन तादीयम् एतं विश्वासं खण्डयन्ति स्म । कदाचित् स: महावीरं मुनिं दृष्ट्वा तस्य विश्वास: अनुचित: किम् ? इति अपृच्छत् । तत: प्रचिलितेन प्रश्नोत्तरेण शकटालेन ज्ञातं यत् दैवे विश्वास: भवतु किन्तु पुरुषप्रयत्न: कदापि न परित्यक्तव्य: इति । (“केन्द्रीयसंस्कृतवि...
स्थिरं मनः 10.08.2026 3:25
सर्वधर्मसम्मेलने भागवहनस्य अनन्तरम् अमेरिकादेशस्य विविधभागेषु विवेकानन्दस्य भाषणस्य आयोजनमपि प्रवृत्तम् । तस्य उपदेशवचनानि श्रोतुं जना: महता प्रमाणेन आयान्ति स्म । भौतिकवादिनां तेषां मनसि विवेकानन्दस्य विषये सन्देह: अपि आसीत् । अत: ते अनेकविधान् प्रश्नान् पृच्छन्ति स्म । अथ कदाचित् तै: निर्णीतं यत् विवेकानन्दस्य परीक्षा करणीया इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...
मधुप्रियः महर्षिः 09.08.2026 3:39
आसीत् नैमिषारण्ये कश्चन युवा ऋषिः यस्य न आसीत् किमपि नाम । माधुर्यप्रदानं तस्य ऋषेः स्वभावः । सः अनामिकः ऋषिः कदाचित् दीर्घकालं तपस्याम् अकरोत् । यदा मधुमक्षिकाभिः ऋषेः समाधिभङ्गः जातः तदा श्रीविष्णुः हसन् अवदत् 'ध्यानं कर्तुम् एकस्मिन् स्थाने एव स्थिरतया उपवेष्टव्यम् इति नास्ति । सञ्चरन् अपि मम ध्यानं कर्तुं शक्नोषि' इति । तस्मात् दिनात् आरभ्य सः सदा सञ्चरन् ध्यानम् अकरोत् । माधुर्यात् अन्यत् किम...
सर्वाधिकं मधुरं किम्? 08.08.2026 3:44
कदाचित् अकबरः अपृच्छत् 'सर्वाधिकं प्रियं वस्तु किम्’ इति । बीरबलः अवदत् 'मधुरवचनानि एव सर्वाधिकप्रियाणि भवन्ति' इति । अकबरः एतत् न अङ्गीकरोति यतः विशाले जगति मनोहराणि अनेकानि वस्तूनि सन्ति चेदपि मधुरवचनानि एव सर्वाधिकप्रियाणि कथं भवेत् इति । ततः बिरबलः स्वस्य कथनं सप्रमाणं निरूपयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Perhaps Akbar on...
कस्य महत्त्वं कस्मात् ? 07.08.2026 3:09
अहमदशाहः जन्मना मुसलमानमतीयः । परन्तु महान् कृष्णभक्तः आसीत् । तस्य भक्त्या सन्तुष्टः कृष्णः तदा तदा दर्शनदानेन तम् अनुगृह्णाति स्म । कदाचित् अहमदशाहः उन्नताकारं शिरस्त्रं धृतवान् आसीत् । तदवसरे तस्य पुरतः कृष्णः प्रत्यक्षीभूय सविनोदम् अपृच्छत् 'किम् एतत् शिरस्त्रं मह्यं विक्रेतुम् अर्हेत् भवान् ?’ इति । श्रीकृष्णस्य वचनं श्रुत्वा अहमदशाहे अपि प्रीत्युद्रेकः जातः । ततः जातं तयोः सम्भाषणम् एव एत...
विदेही कः ? 06.08.2026 3:28
जनकमहाराजः 'विदेही' नाम्ना अपि निर्दिश्यते स्म । 'देहधारी अपि भवान् 'विदेही' इति किमर्थं निर्दिश्यते?’ इति कश्चन मन्त्री जनकमहाराजम् अपृच्छत् । तदा राजा केषाञ्चित् दिनानाम् अनन्तरम् उत्तरं वदिष्यामि इति अवदत् । केषाञ्चित् दिनानाम् अनन्तरम् एकेन निर्दर्शनेन 'देहविषये यस्य ममकारः सर्वथा न भवेत् सः उच्यते 'विदेही' इति सिद्धान्तयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथ...
असहायाः न पीडनीयाः 05.08.2026 3:33
गुर्जरदेशस्य राजा कुमारपालः कदाचित् वेषान्तरं धृत्वा सञ्चरन् स्मशानभूमिसमीपे कस्याश्चित् रोदनं श्रुतवान् । तस्य कारणम् आसीत् यत् अपुत्रायाः तस्याः महिलायाः पतिः यः वाणिज्यार्थं देशान्तरं गतः आसीत् सः तत्रैव मृतः आसीत् । 'रुदतीवित्त'नाम्ना निर्दिश्यमाना अपुत्रायाः सम्पत्तिः राजाधीना भवेत् इति नियमः आसीत् । अतः सा महिला गृहे रोदनं न अकरोत् । धनाशया अनुचिताः नियमाः न पालनीयाः इति मत्वा सः राजा तं निय...
गुणग्राहिता 04.08.2026 2:54
कदाचित् देवलोके गुणानां विषये चर्चा प्रवृत्ता । 'गुणाः भवेयुः किन्तु गुणग्राहिता तु दुर्लभा' इति कश्चन देवः वदति । तदा अपरः देवः वदति 'मानवानां मध्ये अपि गुणग्राहिणः भवन्ति । एकं तु अहं जानामि' इति । तस्य मानवस्य परीक्षां कर्तुं तौ देवौ वेषान्तरं धृत्वा भूलोकं प्रति आगतौ । परीक्षायाम् उत्तीर्णः जातः सः मानवः । ततः देवौ स्वीयं रूपं धृत्वा तं मानवम् आशिषा अनुगृह्य ततः अदृश्यतां गतवन्तौ । (“केन्द्री...
विनयः विधेयता च 03.08.2026 3:00
चक्रवर्तिनः मनोः शतरूपायाः च पुत्री देवहूतिः अनुपमसुन्दरी, सौम्यस्वभावा, सकलविद्यापारङ्गता च आसीत् । नारदमहर्षिस्वारा ज्ञातं यत् तस्याः योग्यः वरः कर्दममहर्षिः अस्ति इति । नारदस्य कथनं पुरस्कृत्य मनुः शतरूपा च पुत्र्या देवहूत्या सह कर्दममहर्षेः आश्रमं गतवन्तौ । यद्यपि देवहूत्याः रूपज्ञानादयः सर्वत्र ख्याताः तथापि तस्याः स्वभावः कीदृशः अस्ति इति महर्षिणा लघु परीक्षा कृता । तस्याः स्वभावोत्कृष्टतां...
देशीयम् एव उपयोक्तव्यम् 02.08.2026 3:12
कश्चन विदेशीयः वणिक् बहुविधानि काचनिर्मितानि वस्तूनि राज्ञः रणजितसिंहस्य आस्थानं प्रति आनयति । राजा केनचित् निर्दर्शनेन दर्शयति यत् विदेशीयेन आनीतानि वस्तूनि चित्तकर्षकानि सन्ति चेदपि वास्तवमूल्यरहितानि । अस्माकं देशे निर्मितानि पात्रादीनि वस्तूनि बहूपयोगीनि, नाशानन्तरमपि मूल्यवन्ति । शाश्वतमौल्ययुक्तानि स्वदेशीयानि वस्तूनि एव वयं क्रेतुम् इच्छामः, न तु मोहकमात्राणि विदेशीयवस्तूनि इति । (“केन्द्री...
सम्राट् कीदृशः स्यात् ? 01.08.2026 2:53
कदाचित् कश्चन सम्राट् रथे उपविश्य राजमार्गेण गच्छन् आसीत् । तस्मिन् मार्गे गच्छन्तं कञ्चन सामान्यवेषधारिणं विरागिणम् अपसर्तुं कश्चन भटः प्रयासम् अकरोत् । किन्तु सः विरागी परिवृत्य सम्राजं सकृत् दृष्ट्वा मन्दहासं प्रकटय्य शान्तभावेन यथापूर्वम् अग्रे अगच्छत् । यदा रथः विरागिणः समीपम् आगच्छत् तदा क्रुद्धः सम्राट् अगर्जत् । तदनन्तरं तयोः मध्ये यत् सम्भाषणं प्रचलितं तेन स्वस्य दोषम् अवगत्य सम्राट् रथात...
Replaio n'est pas éditeur de podcasts ; les noms des émissions, les visuels et l'audio appartiennent à leurs auteurs et sont diffusés via des flux RSS publics