सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Επεισόδια: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Μην παραλείψεις να επισκεφτείς τη σελίδα του podcast και να στηρίξεις τον δημιουργό: sambhashanasandesha.in

Δημιουργός

सम्भाषणसन्देशः

Κατηγορία

Kids

Ιστοσελίδα του podcast

sambhashanasandesha.in

Τελευταίο επεισόδιο

11 Ιουλ 2026

Πού να ακούσεις;

Podcast στην εφαρμογή Replaio Radio Έρχεται σύντομα

Τα podcast έρχονται σύντομα στην εφαρμογή. Εγκατάστησέ την τώρα και δες πρώτος μια εντελώς νέα προσέγγιση στα podcast

Κατέβασέ το από το Google Play Δωρεάν εγκατάσταση Android σχεδόν 10 εκατ. λήψεις · βαθμολογία 4,8 iOS σύντομα

Επεισόδια

अध्यात्ममार्गे 08.03.2026

कश्चन गुरुः दुःखे विद्यमानं भक्तं वदति 'भवान् पुण्यवान्' इति । सन्तोषेण स्थितवन्तं भक्तं तु प्रहरति । तद् दृष्ट्वा नूतनः शिष्यः ज्येष्ठं शिष्यं आचार्यस्य आचरणस्य आन्तर्यं किम् इति पृच्छति । तदा ज्येष्ठः शिष्यः वदति 'यः दुःखे भवेत् सः आत्मना कृतं दोषम् अवगच्छति, अध्यात्ममार्गे अग्रे गच्छति च । यः‌ सन्तोषेण स्थितः अस्ति सः स्वस्य दोषः कः इति न जानाति स्म, ज्ञातुं प्रयासमपि न करोति स्म । अतः एव तं प्...

भवेत् आन्तरङ्गिकः विकासः 07.03.2026

कश्चन राजा भौतिकव्यवस्थापरिकल्पनमात्रात् सुखशान्त्यादयः वर्धिष्यन्ते इति विचिन्त्य सर्वविधानि आनुकूल्यानि प्रजानां कृते परिकल्पितवान् आसीत् । तथापि सुखशान्त्यादयः प्रवृद्धाः न दृश्यन्ते इति यदा सः स्वस्य मार्गदर्शकं संन्यासिनम् उप्सर्प्य अवदत् तदा संन्यासी 'सुखशान्त्यादयः आन्तरङ्गिकाः । ते च भावाः जनानां मनस्सु स्वयम् उत्पन्नाः भवेयुः । तदर्थं धार्मिकोपन्यासाः आयोजनीयाः, सत्सङ्गादयः व्यवस्थापनीयाः...

असदृशी प्रीतिः 06.03.2026

श्रीरामे हनूमतः महती प्रीतिः, प्रेम, आदरः च । कदाचित् सिन्दूरलेपनं कुर्वतीं सीतां दृष्ट्वा सः सिन्दूरलेपनस्य कारणं किम् इति पृच्छति । तदा 'तव स्वामिनः दीर्घायुष्यं प्रार्थयमाना अहं सिन्दूरलेपनं करोमि' इति अवदत् सीता । तत् श्रुतवान् आञ्जनेयः आपणं गत्वा महास्यूतेन सिन्दूरम् अनीय गृहं गत्वा स्नानं कृत्वा समग्रं शरीरं सिन्दूरेण लिप्त्वा सीतारमयोः पुरतः स्थितः । सीतामातुः नेत्रे अश्रुपूर्णे जाते । अद्य...

आवश्यकतापूरणम् एव श्रेष्ठः धर्मः 05.03.2026

कदाचित् कश्चन कुग्रामवासी कस्यचन धनिकस्य गृहं गत्वा जलं याचति । किन्तु धनिकः तस्य मलिनवस्त्रं दृष्ट्वा क्रुद्धः भूत्वा किमपि न यच्छति । अग्रे कदाचित् सः‌ धनिकः यदा मृगयार्थं गतः तदा मार्गभ्रष्टः सन् बहुधा अटित्वा अन्ते कुग्रामवासिनः गृहं प्राप्नोत् । किन्तु सः कुग्रामवासी धनिकाय जलं भोजनं शयनाय स्वस्य मञ्चं च दत्तवान् । अग्रिमदिने यदा धनिकः सुवर्णनाणकानि कुग्रामीणाय कृतज्ञतापूर्वकं दातुम् उद्यतः त...

ज्ञानाय परिश्रमः एव मार्गः 04.03.2026

कश्चन राजा तस्य पुत्रं गुरुकुलं प्रेषयितुम् इच्छन् तत्रत्यम् आचार्यम् अपृच्छत् यत् तस्य पुत्रस्य वासशिक्षणादिनिमित्तं कापि विशेषव्यव्यस्था परिकल्पयितुं शक्यते वा इति । तदा आचार्यः अवदत् 'राजकुलीयानां सञ्चाराय, वासाय, आहारस्य वा विशेषव्यवस्था भवेत् राजभवने किन्तु ज्ञानमार्गेण ये गन्तुम् इच्छेयुः तेषां निमित्तं पार्थक्येन न भवति विशेषमार्गः । अत्र राजकुमारेण सर्वैः सह वासः करणीयः, सर्वैः यत् सेव्येत...

सार्थकताप्राप्तिमार्गः 03.03.2026

कश्चन ख्यातः विद्वान् कञ्चित् ज्योतिषिकं द्रष्टुं गतः द्वित्रैः अनुयायिभिः सह । ख्यातनामा सः ज्योतिषिकः मुखदर्शनमात्रेण एव पुरतः‌ स्थितस्य जनस्य गुणस्वभावादिकं वक्तुं समर्थः आसीत् । सः विदुषः मुखं किञ्चित् कालं दृष्ट्वा तस्मिन् विद्यमानान् बहून् दुर्गुणान् उल्लिखितवान् । तथापि सः महाजनः दक्षिणारूपेण प्रभूतं धनं दत्त्वा ततः प्रतिगतवान् । प्रतिगमनसमये कश्चन अनुयायी अपृच्छत् 'यद्यपि सः ज्योतिषिकः अप्...

परिशुद्धतायाः फलम् 02.03.2026

कस्मिंश्चित् संशोधनकेन्द्रे अन्तिमचक्रस्य संदर्शने सि.वि.रामन्वर्यः षण्णाम् अभ्यर्थिनां सन्दर्शनं कृत्वा तेषु त्रीन् चितवान् । तेभ्यः षड्भ्यः अपि यातायातव्ययं दातुं तत्सम्बद्धम् अधिकारिणम् असूचयत् सः । तेषु एकः युवकः यः सन्दर्शने न चितः सः रामन्-वर्यम् उपसर्प्य 'यः यातायतव्ययः प्रदत्तः, तत्र दोषेण सप्त रूप्यकाणि अधिकानि दत्तानि' इति अवदत् । रामन्-वर्यः सप्त रूप्यकाणि स्वीकृत्य अग्रिमरदिने मेलितुम्...

भगवदुपासनायाः उद्देशः 01.03.2026

कस्यचन आश्रमस्य अर्थस्थितिः नास्ति इत्यतः तत्रत्यः आचार्यः आश्रमस्य निर्वहणार्थं सर्वदा कष्टम् अनुभवति स्म । अतः कश्चन शिष्यः आचार्यम् उपसर्प्य 'भवान् आश्रमस्य अर्थक्लेशस्य निवारणाय किमर्थं भगवन्तं न प्रार्थयते?’ इति अवदत् । तदा आचार्यः अवदत् 'प्रतिफलम् अपेक्ष्य भगवदुपासना न करणीया वत्स ! असीमानन्दानुभूत्यै वयं निसर्गं पश्यामः, न तु प्रतिफलापेक्षया । एवमेव भगवदुपासना अपि असीमानन्दस्य अनुभूत्यै एव...

भगवतः साक्षात्कारः 28.02.2026

अस्यां कथायां कश्चन महात्मा बहून् ग्रन्थान् अधीतवन्तं कञ्चन पण्डितं भगवतः साक्षात्कारस्य विषये वदति । भगवान् प्रत्यक्षतः स्वप्ने वा प्रकटीभवेत् यत् तदेव भगवतः साक्षात्कारः इति मन्यमानं पण्डितं महात्मा वदति 'भगवान् सर्वेषु जीविषु अस्ति । अतः दीनदुर्गतानां सेवां कुर्वन् भवान् भगवत्स्वरूपं पश्यतु । परोपकारः भवतः स्वभावः भवतु । नदीतरुगुल्मादिषु अपि भगवत्स्वरूपं द्रष्टव्यम् । एतादृशात् आचरणात् एव सर्वत...

आकाशस्य आधारः 27.02.2026

'आकाशस्य आधारः एव नास्ति । निराधारः आकाशः ममोपरि पतेत् चेत् मम का गतिः ?’ इति कश्चन  बालकः स्वस्य चिन्तनं कस्मैचित् संन्यासिने अवदत् । मन्दहासं प्रकटयन् संन्यसी बुभुक्षाग्रस्तं बालकं 'भिक्षायाचनं कृत्वा आहारं प्राप्य बुभुक्षां निवारय' इति असूचयत् । भिक्षायाचनाय गतः बालकेन किमपि न प्राप्तम् । नितरां खिन्नेन तेन ग्रामात् बहिः कश्चन उटजः प्राप्तः । तत्र काचित् माता तस्मै प्रीत्या भोजनं दत्तवती । प्रव...

निर्व्यामोहप्राप्त्यै मार्गः 26.02.2026

कदाचित् कश्चन राजा कस्मैचित् संन्यासिने सुवर्णमयं भिक्षापात्रम् अयच्छत् । संन्यासी तेन भिक्षापात्रेण भिक्षायाचनं करोति स्म । कश्चन चोरः तत् पात्रं चोरयितुं तं संन्यासिनं रहसि अनुसृतवान् । एतत् ज्ञातवान् संन्यासी भिक्षापात्रं बहिः अक्षिपत् । तत् दृष्ट्वा निर्व्यामोहम् अमूल्यं भिक्षापात्रं बहिः क्षिप्तवान् अयं महात्मा इति विचिन्त्य अन्तः गत्वा महात्मानं नमस्कृत्य 'कथम् अमूल्यं वस्तु बहिः क्षिप्तं भव...

यद्विना सर्वमपि व्यर्थं तत् ..... 25.02.2026

कस्यचन विद्याकेन्द्रे ज्योतिष-वैद्यकीय—शिल्पशास्त्रादयः जीवनोपयोगिन्यः विद्याः प्राधान्येन अध्याप्यन्ते स्म । देशस्य नानाकोणेभ्यः विदेशेभ्यः च अध्ययनोत्सुकाः तत् विद्याकेन्द्रं प्रति आयान्ति स्म । कदाचित् तं विद्याकेन्द्रं द्रष्टुम् आगतेन केनचित् महात्मना दिनद्वयं स्थित्वा सर्वा व्यवस्था परिशीलिता । सः यदा प्रस्थातुम् उद्यतः तदा तस्य विद्याकेन्द्रस्य प्राचार्यः तस्य अभिप्रायम् अपृच्छत् । तदा महात्...

चतुर्विधा शुद्धिः 24.02.2026

कदाचित् कश्चन राजा कस्यचन आश्रमस्य गुरुम् उपसर्प्य स्वस्य व्यवहारः कीदृशः भवेत् इति मार्गदर्शनं प्रार्थयते । तदा गुरुः 'चतुर्विधा शुद्धिः अपेक्ष्यते' इति अवदत् । ताः काः इति राज्ञा पृष्टे गुरुः अवदत् 'कायिकी, मानसिकी, आर्थिकी, आन्तरङ्गिकी' चेति । ततः गुरुः तासां शुद्धीनां विवरणं ददाति । तासां च प्राप्त्यर्थं किं किं करणीयम् इति सर्वं राजानं बोधयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजना...

परोपकारः प्रवृत्तिः 23.02.2026

आ बाल्यात् परोपकारी सेवातत्परः च रामरमणः जगन्नाथस्य भक्तया मात्रा कनककुमार्या सर्वदा बोधितः भवति स्म - 'दुःखग्रस्तानां साहाय्यं यदि क्रियेत तर्हि भगवान् सन्तुष्टः‌ भवेत्' इति । कदाचित् शिरोभ्रमणं प्राप्य पतितवतः कस्यचन वृद्धस्य सेवां करोति रामरमणः । वृद्धस्य वस्तूनि स्वशिरसि संस्थाप्य यदा वृद्धेन सह प्रस्थितः तदा 'निम्नजातीयस्य मम वस्तूनि भवता न वोढव्यानि' इति अवदत् वृद्धः। 'भगवतः दृष्ट्या सर्वे स...

भेदांशः अयमेव 22.02.2026

कश्चन राजा कञ्चन संन्यासिनम् अपृच्छत् 'आवयोः भेदः कः?' इति । तदा संन्यासी अवदत् 'किञ्चिद्दूरं सञ्चराव । तत्र अहं ज्ञापयिष्यामि' इति । ततः प्रस्थितवन्तौ । बहवः ग्रामाः अतिक्रान्ताः । सुदूरम् अतिक्रान्तं चेदपि संन्यासी किमपि न अवदत् । एतत् असहमानः राजा 'कियद्दूरम् एव गमनम्?’ इति यदा अपृच्छत् तदा 'अग्रे गच्छाव तावत्' इति अवदत् संन्यासी । तदा राजा वदति 'मया प्रासादः प्रतिगमनीयः। मम राज्यम् अस्ति, पत्न...

देशसमृद्धिः न सुवर्णेन 21.02.2026

कश्चन राजा सुवर्णनिर्माणविद्यां ज्ञातुं कस्मिंश्चित् आश्रमे मासं यावत् न्यवसत् । आश्रमे सः सत्सङ्गकार्यक्रमे भागम् ऊढवान् । अन्तिमदिने यदा संन्यासी अपृच्छत् 'श्वः सुवर्णनिर्माणविद्यां बोधयिष्यामि किम्?’ इति । तदा राजा अवदत् 'महात्मन्! तस्य आवश्यकता नास्ति । मम हृदयम् अमृतरसायनेन पूर्णम् अस्ति । सत्सङ्गस्य कारणतः जनाः लोभ-मोह-अहङ्कारादिभ्यः विकारेभ्यः मुक्ताः भवन्ति । अतः देशे सत्सङ्गानां व्यवस्थाप...

कृष्णः ध्वजः श्वेतः जातः 20.02.2026

कदाचित् कश्चन लुण्ठाकः पश्चात्तापं प्राप्य कञ्चित् गुरुं दृष्ट्वा सन्मार्गप्राप्तीच्छां वदति । तदा गुरुः तस्मै एकं कृष्णध्वजं दत्त्वा 'एतं गृहीत्वा तीर्थयात्रां कुरु । यदा एषः श्वेतः भविष्यति तदा भवतः पापात् मुक्तिः' इति अवदत् । शताधिकेषु तीर्थेषु तेन स्नानं कृतं चेत् अपि ध्वजः श्वेतवर्णतां न गतः । तस्मात् सः नितरां खिन्नः । अथ कदाचित् सः दशाधिकेभ्यः दुष्टेभ्यः काञ्चित् सुन्दरीं रक्षितवान् । तदा ह...

उचितम् आचरणम् 19.02.2026

कदाचित् कश्चन कृषिकः बुद्धस्य कार्यक्रमम् आयोजितवान् । किन्तु प्रवचनदिने सः कृषिकः एव अनुपस्थितः आसीत् । ग्रामजनाः कृषिकः बुद्धस्य विषये अगौरवं दर्शितवान् इति परस्परम् अवदन् । अनन्तरदिने सर्वेषां सम्मुखे बुद्धः कृषिकस्य अनुपस्थितेः कारणं यदा अपृच्छत् तदा कृषिकः अवदत् 'मम वृषभः नितराम् अस्वस्थः आसीत् । पशुचिकित्सालयं प्रति सः नेतव्यः आसीत् । अतः प्रवचनकाले उपस्थातुं न शक्तवान्' इति । तदा बुद्धः जना...

समस्यापरिहारः 18.02.2026

कश्चन जनः बह्वीभिः समस्याभिः ग्रस्तः आसीत् । समस्यानां परिहारस्य मार्गं ज्ञातुम् इच्छन् सः कस्यचित् महात्मनः आश्रमं गत्वा मार्गदर्शनं क्रियताम् इति प्रार्थयति । बहुधा पृष्टः अपि महात्मा किमपि उत्तरं न अवदत् । अन्ते महात्मनः मौनप्रतिस्पन्दनं सोढुम् अशक्नुवन् सः जनः अवदत् 'भवान् तु किमपि अवदन् मयि उपेक्षां दर्शयति । समस्यानां परिहाराय अहमेव मार्गं चिन्तयिष्यामि । शरीरे शक्तिः अस्ति । मयि बुद्धिमत्ता...

गुडाकेशः लक्ष्मणः 17.02.2026

श्रीरामस्य वनवासकाले घटिता घटना एषा । लक्ष्मणः गुडाकेशः इति प्रसिद्धः इति तु वयं जानीमः । गुडाका नाम निद्रा । निद्रायाः ईशः गुडाकेशः । निशादेवीतः प्राप्तवरः एषः । किन्तु किञ्चन निबन्धम् आसीत् । तत् च यावती निद्रा लक्ष्मणेन त्यज्येत तावतीं निद्राम् अन्यः कश्चित् स्वीकुर्यात् इति । सीतायाः यादृशी पतिभक्तिः तादृशी एव पतिभक्तिः ऊर्मिलायाः अपि । अतः सा निद्रादेव्याः प्रस्तावं ससन्तोषम् अङ्गीकृतवती । तद...

दुर्गुणानां दर्शनम् 16.02.2026

कस्यचन शिष्यस्य अध्ययनशीलतां सेवाभावं च दृष्ट्वा सन्तुष्टः गुरुः गुरुकुलात् निर्गमनकाले तस्मै एकं दिव्यं दर्पणं दत्तवान् । पुरतः स्थितस्य जनस्य मनोभावान् दर्शयितुं सामर्थ्यम् आसीत् तस्य दर्पणस्य । तस्य सामर्थ्यं परीक्षितुम् इच्छन् सः आदौ गुरोः पुरतः गृहीतवान् । तत्र मोहाहङ्कारक्रोधादयः तेन लक्षितः । ततः सः मित्राणां पुरतः, मातपित्रोः पुरतः च तं दर्पणं गृहीतवान् । तेन बहवः दुर्गुणाः दृष्टाः । एतस्म...

दैनिकनियमपालनम् 15.02.2026

नोबेल्-पुरस्कारविजेता भारतरत्नं चन्द्रशेखरवेङ्कटरामः प्रसिद्धः विज्ञानी चेदपि प्रतिदिनं देवपूजानिमित्तम् उपनिषदादिग्रन्थपारायणाय च कञ्चित् समयं नियततया व्ययीकरोति स्म । एतत् जानन् कश्चन विज्ञानी वदति 'प्रसिद्धः विज्ञानी भवान् । यानि विज्ञानसिद्धानि न, तादृशेषु अंशेषु भवतः प्रवृत्तिः न उचिता' इति । तदा वेङ्कटरामः अवत् 'इदानीं तु विज्ञानसिद्धानि न । किन्तु भाविनि काले यदि तेषां विषये प्रमाणं लभ्येत...

सत्फलप्राप्तिः 14.02.2026

कदाचित् कश्चन भक्तः भगवन्तं बुद्धम् उपसर्प्य अपृच्छत् 'आर्य! भवतः उपदेशस्य कारणतः अद्यावधि कियन्तः जनाः सत्यदर्शनं प्राप्तवन्तः स्युः, कियन्तः च मोक्षमार्गस्य अनुसरणं कृतवन्तः स्युः' इति । 'अस्य उत्तरं श्वः वदिष्यामि । तदभ्यन्तरे ग्रामे अटित्वा कः किम् इच्छति इति ज्ञात्वा आगच्छतु' इति अवदत् बुद्धः । जनाः तु दुःखस्य निवारणम्, अस्वास्थ्यस्य अपगमनं, पुत्रादीनाम् उद्योगं, धनप्राप्तिं, पौत्रप्राप्तिं,...

लक्ष्म्याः निवासः 13.02.2026

'गावः लोके पूज्याः भवन्ति । गोषु वासेन ममापि गौरवं वर्धेत' इति विचिन्त्य लक्ष्मीदेवी गवां समूहम् उपसर्प्य स्वपरिचयम् उक्त्वा स्वेच्छां प्रकटय्य तदर्थम् अनुज्ञां प्रार्थयति । तदा गावः उक्तवत्यः 'पूज्ये! भवती पूजार्हा चेदपि चञ्चलत्वेन भवत्याः अपख्यातिः अस्ति । अतः भवत्यै आश्रयं दातुं नेच्छामः वयम्' इति । 'भवत्यः गुणवत्यः परोपकारशीलाः च । अतः कस्मिंश्चित् अङ्गे वासाय अवसरः दीयताम्' इति पुनः लक्ष्मीः...

पतितस्य उद्धारः 12.02.2026

कदाचित् कश्चन भ्रमणसमये कूपे अपतत् । तं रक्षितुं कश्चन महापुरुषः आगतवान् । सः ग्रन्थिकायुक्तां रज्जुं कूपस्य अन्तः क्षिप्त्वा अवदत् 'ग्रन्थिकां गृहीत्वा त्वम् उपरि आगच्छ' इति । कूपे स्थितस्य कृषिकस्य मनसि संशयः आसीत् । अतः सः अपृच्छत् 'कर्षणसमये रज्जुः भग्ना भवेत् चेत्?’ इति । 'रज्जुः अस्ति शक्तियुक्ता' इति महापुरुषेण उक्ते अपि पुनः पुनः नैकविधान् संशयान् प्रकटयति सः कृषिकः । महापुरुषस्य वचने कृषि...

Άκου το podcast बालमोदिनी στο Replaio

Ραδιόφωνο και podcast σε μία εφαρμογή - δωρεάν, χωρίς εγγραφή. Εγκατάστησέ την σήμερα και μη χάσεις την πρεμιέρα

Κατέβασέ το από το Google Play

Το Replaio δεν είναι εκδότης podcast - τα ονόματα των εκπομπών, τα εξώφυλλα και ο ήχος ανήκουν στους δημιουργούς τους και διανέμονται μέσω δημόσιων ροών RSS