सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Επεισόδια: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Μην παραλείψεις να επισκεφτείς τη σελίδα του podcast και να στηρίξεις τον δημιουργό: sambhashanasandesha.in

Δημιουργός

सम्भाषणसन्देशः

Κατηγορία

Kids

Ιστοσελίδα του podcast

sambhashanasandesha.in

Τελευταίο επεισόδιο

11 Ιουλ 2026

Πού να ακούσεις;

Podcast στην εφαρμογή Replaio Radio Έρχεται σύντομα

Τα podcast έρχονται σύντομα στην εφαρμογή. Εγκατάστησέ την τώρα και δες πρώτος μια εντελώς νέα προσέγγιση στα podcast

Κατέβασέ το από το Google Play Δωρεάν εγκατάσταση Android σχεδόν 10 εκατ. λήψεις · βαθμολογία 4,8 iOS σύντομα

Επεισόδια

राममन्दिरस्य अन्वेषणम् 07.01.2025

आक्रामकेण बाबरेण नाशितस्य राममन्दिरस्य कथा एषा । कश्चन प्रतापी सम्राट् विक्रमादित्यः कदाचित् रामजन्मभूमिम् अन्वेष्टुं सरयूनदीतटस्य समीपे स्थिते घोरे अरण्ये अन्वेषणं कारितवान् । किन्तु, न प्राप्तम् । विषादेन वृक्षस्य अधः उपविष्टवता राज्ञा प्रयागराजः दृष्टः । प्रयागराजस्य कथनानुगुणं यत्र क्षीरं स्रावन्ती धेनुः दृष्टा तत्र भूमेः खननेन एकं मन्दिरं दृष्टिगोचरतां गतम् । तत्रैव यत् भव्यं मन्दिरं निर्मापि...

स्नेहशिल्पम् 06.01.2025

मित्रयोः मध्ये स्नेहः कथं भवेत् इति अनया कथया ज्ञायते । कदाचित् रामश्यामयोः मध्ये कलहे जाते, रामः श्यामं ताडितवान् । तदा श्यामः सिकतासु लिखितवान् - ‘अद्य मम प्रियवयस्यः मां ताडितवान्' इति । अन्यस्मिन् दिने जले निम्मज्जन्तं श्यामं यदा रामः रक्षितवान्, तदा श्यामः शिलाखण्डेन लिखति - ‘अद्य निमज्जन्तं मां मम प्रियवयस्यः रक्षितवान्' इति । किमर्थम् एकवारं सिकतासु, एकवारं शिलाखण्डेन लिखति इति पृष्टे श्याम...

बलाबलपरीक्षा 05.01.2025

कदाचित् सिंहः सिंही च वने भ्रमन्तौ वृषभमेकं दृष्टवन्तौ । सिंहः तं हन्तुम् इच्छन्, गर्वेण सिंह्याः पुरतः स्वस्य अङ्गानां प्रशंसनं कृत्वा हठात् आक्रम्य वृषभस्य कण्ठं त्रोटयित्वा तदीयं मांसम् अखादत् । अनतिदूरे शृगाल्या सह स्थितः कश्चन शृगालः प्रवृत्तं सर्वं दृष्ट्वा स्वस्य शौर्यं प्रदर्शयितुम् यदा उद्युक्तः, तदा वृषभः तं पादेन बलात् प्रहृत्य शृङ्गाभ्यां नितराम् अपीडयत् । अतः अनुकरणात् प्राक् अस्माकं...

कर्मफलं कर्तारम् उपैति 04.01.2025

कर्मफलं कर्तारम् उपैतिकर्ममीमांसायां पारङ्गताः दश पण्डिताः यदा ग्रामान्तरं गन्तुं उद्युक्ताः तदा मार्गमध्ये अशनियुक्ता महावृष्टिः आरब्धा । जन्मान्तरे कृतं पापमेव अशनिवृष्ट्यादिपीडायाः कारणं इति विचिन्त्य - 'एकैकः मण्डपात् बहिः गत्वा तिष्ठेत् । यः महापापी स्यात् तस्य उपरि अशनिः पतत्येव' इति तैः निश्चितम् । नवानां जनानां पर्यायः समाप्तश्चेदपि अशनिपातः न अभवत् । दशमः एव महापापी स्यात् इति विचिन्त्य त...

सङ्गात् सञ्जायते कामः 03.01.2025

सङ्गः अपि विनाशस्य कारणं भवितुम् अर्हति इति अनया कथया ज्ञायते । आसीत् एकस्मिन् वनप्रदेशे मानसोल्लासः नाम ऋषिः यः सत्यवचनः परमकारुणिकः च । तस्य आश्रमे पशवः सर्वे पारस्परिकं वैरभावं विस्मृत्य मोदेन क्रीडन्ति स्म । गच्छता कालेन तस्य आसुरीप्रवृत्तिः उद्भूता । कथं केनोपायेन च इन्द्रेण एतत् सम्पादितम् इति स्वारस्यकरीं कथां शृण्मः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां...

श्रेष्ठः उपकारः 02.01.2025

अरिदमननामकस्य कस्यचन राज्ञः पञ्च पत्न्यः आसन् । तासु पञ्चम्यां तस्य अनादरः आसीत्। यतः सा निर्धनकुले जाता इति । कस्मिंश्चित् दिने मरणदण्डनं प्राप्तवान् चोरः एकं दिनं वा सन्तोषम् अनुभूय मरणं प्राप्नोतु इति राज्ञीभिः प्रार्थितम् । तथैव चतस्रः राज्ञ्यः सहस्राधिकं सुवर्णनाणकानि, उत्तमवस्त्राणि, उत्तम्भोजनादिकं चोराय अयच्छन् । किन्तु पञ्चमी राज्ञी सामान्यभोजनं दत्त्वा वदति - 'चौर्यं निन्द्यं कर्म । तत्...

सद्विचारः कार्यः सदा 01.01.2025

बाल्यादारभ्यः वयं सर्वे विजयनगरसाम्राज्यस्य प्रसिद्धशासकस्य कृष्णदेवरायस्य, तस्य सभायाः सदस्यस्य तेनालिरामस्य च कथां शृण्वन्तः स्म । कदाचित् नगरस्य विहारसमये कञ्चन तक्षकं दृष्ट्वा महाराजस्य मनः खिन्नम् । अपरस्मिन् दिने तमेव तक्षकं दृष्ट्वा महाराजः मुदितः । कथम् एतत् इति पृष्टे तेनालिरामः यत् समाधानं वदति तत् कथां श्रुत्वा जानीयाम । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...

महात्मनां भूमिः एषा 31.12.2024

अमेरिकीयः धर्मगुरुः रेवरेण्ड् आवरः, पुणेनगरपरिसरे स्थितान् निर्धननिरक्षरान् क्रिस्तमतीयान् अकरोत् ।अनेन हिन्दुधर्मग्रन्थानाम् अध्ययनम् अकृत्वा, वास्तवं स्वरूपम् अनवगत्य सर्वदा हिन्दुधर्मस्य निन्दा कृता । कश्चन पण्डितः वदति यत् - 'आदौ वास्तवस्वरूपम् अवगन्तुं प्रयासः स्यात्, ततः एव अवगुणाः प्रकाशनीयाः' इति । ततः सः हिन्दुधर्मस्य अध्ययनं कृत्वा संस्कृतं मराठीं च अधीत्य बहून् ग्रन्थान् आङ्ग्लभाषया अनू...

विरक्तः महाराजः 31.12.2024

मिथिलाधिपति: जनकमहाराज:  बहुधा व्यापृतः अपि तस्य गुरो: आश्रमम् आगत्य सश्रद्धम् उपदेशं श्रुत्वा अल्पमपि दर्पम् अप्रदर्शयन् यथाशक्ति गुरो: सेवां करोति स्म । अत: तस्मिन् गुरो: प्रीति: अधिका आसीत् । बहवः शिष्या: एतत् न असहन्त । एतत् जानन् ऋषिः, काञ्चन परीक्षां कृत्वा शिष्येभ्यः दर्शयति यत् किमर्थं महाराजे तस्य प्रीतिः अधिका अस्तीति। का सा परीक्षा इति कथां श्रुत्वा जानीमः । (“केन्द्रीयसंस्कृतविश्वविद्य...

सेवा क्षालयति पापम् 31.12.2024

पूर्वस्मिन् जन्मनि उत्पन्नया प्रतीकारभावनया काचित् गर्भवती नर्तकी अग्रिमजन्मनि राजगृहे हारीतिः नामिका यक्षिणी भूत्वा नगरस्थान् बालान् चोरयित्वा खादनम् आरब्धवती । राजा तस्याः बन्धनं कारयित्वा कारागृहे स्थापितवान् । गौतमबुद्धेन तस्याः पुत्रः अपहरणीयः इति राजभटाः आदिष्टाः । तथा कृते हारीतिः पश्चात्तापं अनुभवन्ती पापात् कथं विमुक्तिः प्राप्तव्या इति प्रार्थितवती । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष...

जीवनसूत्रम् 28.12.2024

जीवने महान्तम् आघातं प्राप्तः कश्चन जनः, तस्य मित्रं च वाताटस्य उड्डयनं, सूत्रस्य खण्डनं, ततः वाताटस्य पतनं च दृष्टवन्तौ । विषादेन उपविष्टवन्तं मित्रं, सुहृत् जीवनतत्त्वम् उपदिशति - परिवारसंस्कृतादयः सूत्रम् इव व्यवहरन्तः जीवने स्थिरत्वं समतोलनं च ददाति । तस्मात् तेषां खण्डनं कदापि न करणीयम् । एतत् अनवगच्छन्तः वयं परिवारसंस्कृत्यादिकं विस्मृत्य धनैकदृष्ट्यः, उन्नत्यैकदृष्ट्यः सन्तः, अग्रे गच्छामः,...

बालकः चोरः च 27.12.2024

कश्चित् निर्दयः चोरः कस्मिंश्चित् गृहं प्रविश्य जागरितं बालकं रज्जुभिः बध्नाति । क्षणाभ्यन्तरे बालकः बन्धनात् आत्मानम् अमोचयत् । कीदृशः चोरः भवान् यः दृढं बन्धुम् अपि न शक्नोति, कथं बन्धनं करणीयमिति दर्शयिष्यामि इति वदन् बालकः चोरस्य पादौ हस्तौ ग्रीवां च बध्नाति । ग्रन्थीनां शिथीलीकरणे चोरः न शक्तः । रज्जुभिः बन्धनं कर्मभिः बन्धनमिव । कर्मणां बन्धनेभ्यः अस्माभिः मुक्तैः भवितव्यम् ।  (“केन्द्रीयसंस...

नाशस्य कारणं व्याक्षेपः 26.12.2024

चतुरस्य कस्यचित् बालकस्य आलस्यकारणात् धनविद्यादीर्घायुष्यादीनि हस्तच्युतानि जातानि । कथं, कुत्र, किमर्थमिति ज्ञायते अनया कथया । तद्दिनस्य कार्याणि तद्दिने एव करणीयानि । श्वः अग्रे वा करिष्यामि इति चिन्तनमेव अनर्थस्य कारणम् इति अनया कथया ज्ञायते। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A clever person, due to laziness, lost wealth, knowledg...

तत्त्वस्य आचरणम् 25.12.2024

प्रतिदिनं कस्यचित् महात्मनः प्रवचनं बहुभ्यः वर्षेभ्यः श्रुण्वन् कश्चित् सज्जनः पुत्रेण हठात् मरणे प्राप्ते प्रवचनकाले न दृष्टः । महान्तं विषादम् अनुभवन् सः महात्मा यदा ग्रन्थपरिशीलने मग्नः आसीत्, तदा सः सज्जनः महात्मनः गृहमागतवान् । किमपि अजानन् इव व्यवहरन् महात्मा अनागमस्य कारणं पृच्छति । सज्जनः वदति - 'अतिथेः सम्प्रेषणव्यवस्थायां व्यग्रः आसम्' इति । एतत् श्रुत्वा भावगद्गदः सन् वदति - 'बोधनं सुकर...

अन्तरङ्गसंस्कारः 24.12.2024

वस्तूनां क्रयणाय नगरं गच्छद्भ्यां धान्यवणिक्-चर्मवणिग्भ्यां मध्येमार्गं श्रमनिवारणाय यः आश्रमः प्रविष्टः तत्रत्यः संन्यासी धान्यवणिजे कुटीरस्य अन्तः, चर्मवणिजे बहिः च भोजनं दत्तवान् । प्रत्यागमनावसरे संन्यासी चर्मवणिजे अन्तः, धान्यवणिजे बहिः च भोजनं परिवेषितवान् । किमर्थम् एतादृशः व्यवहारः इति पृष्टे संन्यासी अवदत् - अन्तरङ्गस्वरूपभेदः एव सत्कारभेदस्य कारणम् । जीवने अन्तरङ्गसंस्कारः एव मुख्यः, न त...

अर्ज्यतां गुणोत्कर्षः 23.12.2024

कश्चन राजा स्वेन सम्पादितम् अपारम् ऐश्वर्यम् अतिथिभ्यः साभिमानं दर्शयति स्म । तं प्रति आगतवन्तं संन्यासिनं सम्पत्तिं दर्शयितुं यं दीपं राजा गृहीतवान् आसीत्, तं हठात् मुखवायुना संन्यासी निर्वापितवान् । तेन अन्धकारः प्रसृतः । अनन्तरं संन्यासी राजानं अबोधयत् - दीपप्रकाशस्य अभावे तु मौक्तिकादीनां महामूल्यता नास्ति । यथा दीपप्रकाशः तथा भवति आत्मविकासः गुणोकर्षः च । सर्वोपकारकं गुणोत्कर्षम् अर्जयितुं वि...

कार्ये श्रद्धा 22.12.2024

स्वप्ने आगतायाः देव्याः वचनानुसारं मन्दिरनिर्माणकार्यम् आरब्धवान् कश्चित् धनिकः । देव्याः अनुग्रहेण प्राप्तः कश्चन उत्कृष्टः शिल्पी, श्रद्धया भक्त्या च यत् मूर्तिनिर्माणं कृतवान्, तस्याः मूर्तेः मुखे लघु कलङ्कः जातः इति कारणतः पुनः तेन अन्या मूर्तिः निर्मिता । सूक्ष्मदर्शानात् अपि कोSपि कलङ्कः न दृश्यते, किमर्थं नूतना मूर्तिः निर्मिता इति धनिकेन पृष्टे सति, शिल्पी उदतरत् - मनःसाक्षिविरोधार्थं कार्...

पूज्यः वृक्षः 21.12.2024

पूर्वं सुमात्राद्वीपे वृद्धः तपस्वी कश्चन गुहायामेव तपः आचरन् ग्रामतः आगतानां कृषिकाणां मार्गदर्शनं करोति स्म । अन्ये असूयपराः तपस्विनः एकदा यदा वृद्धं तपस्विनं मारयितुं प्रयतन्ते, तदा कश्चन महान् सर्पः आकाशात् पतित्वा रक्षति । अपरक्षणॆ प्रसारितफणातः उद्भूताभिः शाखाभिः कश्चन वृक्षः प्रत्यक्षः भवति । पश्चात्तापम् अनुभवन्तः तपस्विनः - अस्मासु कश्चित् भवन्तं पीडयेत् चेत् अस्य वृक्षस्य शाखा खड्गः भूत्...

भक्तिमती श्रुतावती 20.12.2024

अनुपमसुन्दरी सद्गुणसम्पन्ना विद्यावती च भरद्वाजमहर्षेः पुत्री श्रुतावती, इन्द्रमेव वरितुम् इष्ट्वा तं पूजयति स्म। एकदा इन्द्रः तां परीक्षितुं विशिष्ठवेषेण आगत्य कानिचन बदरफलानि पक्वीकृत्य दीयतामिति उक्तवान्। चुल्ल्यां बहुधा काष्ठानि योजितानि चेदपि बदरफलानि तु पक्वानि न अभवन् । परीक्षार्थमेव इदम् इति विचिन्त्य स्वस्य पादौ चुल्ल्यां स्थापितवती श्रुतावती । ततः इन्द्रः प्रत्यक्षीभूय तां पत्नीत्वेन अङ्...

प्रजासु अविद्यमानासु क्व राजत्वम् 19.12.2024

विकृतवर्मा नाम कश्चन राजा स्वविषये प्रजामतं ज्ञातुम् इच्छन् वेषान्तरं धृत्वा देशपर्यटनं कृतवान् । तदा सर्वत्रापि तस्य विषये असमाधानम् अस्ति इति तेन ज्ञातम्। तेन कुपितः राजा राज्ये विद्यमानानां सर्वेषां मरणदण्डनं घोषितवान् ।अत्रान्तरे आगतः कश्चन संन्यासी - राज्ये जनेषु सुखेन असत्सु कथं महाराजत्वेन तिष्ठति भवान् इति उपदिशति । ततः स्वदोषं जानन् महाराजः राज्यस्य अभिवृद्ध्यर्थम् अहर्निशं कार्यं करोति ।...

उचितं न कृतं त्वया 18.12.2024

बुन्देलखण्डस्य शासकः अनिरुद्धसिंहः एकदा रणरङ्गतः पलायितः । तदा तस्य भगिनी सारन्धा कोपेन एतादृशेन व्यवाहारेण कुलस्य गौरवं नाशितम्, पलाय्य उचितं कार्यं न कृतं च इति वदति । तस्मात् जागरितः अनिरुद्धः मासत्रयं यावत् युद्धं कृत्वा विजयं प्राप्य प्रत्यागच्छति । तस्य स्वागताय ससन्तोषेण भगिनी सारन्धा पत्नी शीतलादेवी च सज्जा अभवताम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां...

सदाचरणमेव जीवनम् 17.12.2024

जीवनं नाम किम् इति जिज्ञासुः कश्चन जनः सर्वत्र परिभ्रमन् अरण्यं प्रविष्टवान् । तत्र जीवनविषये पृष्टे सति शुकः, शशः, हरिणः, नदी, वृक्षः, बीजः, उलूकः च स्वाभिप्रायम् प्रकटयन्ति । अनन्तरं तेन कश्चन संन्यासी दृष्टः । ततः ज्ञातवान् यत् केवलम् अन्वेषणेन जीवनं यापयितुम् अवसरः न प्राप्यते । आदौ उत्तमं जीवनं करणीयम् । सदाचरणमेव जीवनम् इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां...

वचनपरिपालनम् 16.12.2024

काचन निर्धना माता पुत्रजननसमये धात्रै दत्तं वाक्यं पालयितुम्, पञ्चवर्षाणि पश्चात् सर्वमपि धनं यत् पुत्रेण प्राप्तं तत् सर्वं धात्रै अर्पयति। निर्धनमहिलायाः वचनपरिपालकतां निर्लोलुपतां च दृष्ट्वा सा धात्री तेन धनेन एकं कासारं निर्मितवती । अयं कासारः अद्यापि दरभङ्गानगरे 'धात्रीकासार' नाम्ना ख्यातः । सः बालकः भाविनि काले 'शङ्करमिश्र' नाम्ना ख्यातः, न्यायशास्त्रक्षेत्रे च महती ख्यातिः विद्यते । (“केन्द...

शान्तिप्राप्तेः मार्गः 15.12.2024

शान्तियुतं जीवनं कर्तुम् इच्छन् राजा शान्तियुतजीवनस्य मार्गं ज्ञात्वा आगच्छन्तु इति भटान् प्रेषयति । कञ्चन तेजस्विनं सन्यासिनं दृष्ट्वा अपेक्षायाम् उक्तायां 'शान्तिमार्गः अन्तरङ्गे भवति' इति संन्यासी वदति । परन्तु राजा स्वयमेव आगत्य विनयेन वचनस्य तात्पर्यं पृच्छति । तदा शान्तिमार्गस्य अन्वेषणम्, अन्तरङ्शोधनस्य सोपानानि इत्यादीनि विस्तरेण विवृणोति संन्यासी । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टा...

मार्गस्य शुद्धता 14.12.2024

कदाचित् बौद्धविहारे भगवता बुद्धेन ज्ञातं यत् शिष्याः सर्वदा ध्यानमग्नाः सन्तः ज्वरग्रस्तं शिष्यम् उपेक्षितवन्तः इति ।तदा तान् सर्वान् आहूय - केवलं ध्यानमार्गेण गमनेन न प्रयोजनम्, दीनसेवादिभ्यः एव मार्गस्य शुद्धिः भवति, मार्गस्य अनुसरणं यावत् मुख्यं भवति, मार्गस्य शुद्धता अपि तावती एव मुख्या इति बोधयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियत...

Άκου το podcast बालमोदिनी στο Replaio

Ραδιόφωνο και podcast σε μία εφαρμογή - δωρεάν, χωρίς εγγραφή. Εγκατάστησέ την σήμερα και μη χάσεις την πρεμιέρα

Κατέβασέ το από το Google Play

Το Replaio δεν είναι εκδότης podcast - τα ονόματα των εκπομπών, τα εξώφυλλα και ο ήχος ανήκουν στους δημιουργούς τους και διανέμονται μέσω δημόσιων ροών RSS