सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Επεισόδια: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Μην παραλείψεις να επισκεφτείς τη σελίδα του podcast και να στηρίξεις τον δημιουργό: sambhashanasandesha.in

Δημιουργός

सम्भाषणसन्देशः

Κατηγορία

Kids

Ιστοσελίδα του podcast

sambhashanasandesha.in

Τελευταίο επεισόδιο

11 Ιουλ 2026

Πού να ακούσεις;

Podcast στην εφαρμογή Replaio Radio Έρχεται σύντομα

Τα podcast έρχονται σύντομα στην εφαρμογή. Εγκατάστησέ την τώρα και δες πρώτος μια εντελώς νέα προσέγγιση στα podcast

Κατέβασέ το από το Google Play Δωρεάν εγκατάσταση Android σχεδόν 10 εκατ. λήψεις · βαθμολογία 4,8 iOS σύντομα

Επεισόδια

तीक्ष्णतमम् उत्तरम् 25.02.2025

सिकन्दरः यदा भारते क्रमणाय उद्यतः तदा तदीयः गुरुः अरिष्टाटलः उक्तवान् यत् भारतीयानां संन्यासिनाम् आशीर्वादं प्राप्य प्रत्यागच्छेत् इति । कदाचित् दण्डयात्रावसरे दश संन्यासिनः सिकन्दरेण प्राप्ताः । तान् दृष्ट्वा सिकन्दरः - ‘अहं प्रश्नान् पृच्छामि । यस्य उत्तरं तीक्ष्णतमम् अस्ति तं हनिष्यामि' इति । ततः किं भवति, कः संन्यासी तीक्ष्णम् उत्तरं ददाति, सिकन्दरः हनिष्यति वा इति सर्वं कथां श्रुत्वा जानन्तु...

वास्तविकः आनन्दः 24.02.2025

कदाचित् अमेरिकादेशे वेदान्तविचारप्राचारसमये काचित् पुत्रशोकम् अनुभवन्ती माता स्वामिनं रामतीर्थं दृष्ट्वा विलुप्तस्य आनन्दस्य पुनःप्राप्तेः मार्गं यदा अपृच्छत् तदा स्वामी समीपस्थम् अनाथबालकं दर्शयन् तं स्वपुत्रं मत्वा पालयेत् इति उक्तवान् । तद्विषये सुदीर्घायाः चर्चायाः अनन्तरं सा महिला अङ्गीकृतवती आनन्दमपि प्राप्तवती । निर्धनानाम् अनाथानां च सेवातः एव वास्तविकः आनन्दः प्राप्येत इति अवगतवती च । (“क...

गुरौ प्राप्ते 23.02.2025

कदाचित् केनचित् तरुणेन शिष्यत्वेन स्वीकर्तुं गुरुः प्रार्थितः । शताधिकाः शिष्याः आश्रमे सन्ति इत्यतः तन्निराकरोति गुरुः । यत्किमपि कार्यं करोमि इति यदा वदाति तदा पाकशालायां पेषणादिकार्यं कुरु इति गुरुः वदति । बहूनां वर्षाणाम् अनन्तरं यदा गुरोः अन्तिमकालः सन्निहितः, शिष्यान् अहूय प्राप्तस्य शिक्षणस्य सारं लिखन्तु इति गुरुः वदति । आगच्छन्तु शृण्मः यत् शिष्याः किं किं अलिखन् ? अपि च सः पेषणकार्यनिरतः...

अज्ञानं दुःखकारकम् 22.02.2025

कस्मिंश्चित् वने कश्चित् तक्षकः वृक्षान् कर्तयित्वा, तान् ज्वालयित्वा, कृष्णाङ्गारान् निर्माय विक्रयणं करोति स्म । गच्छता कालेन वनं समाप्तं गतम् । तक्षकः नृपेण मिलित्वा स्वसमस्यां यदा निवेदितवान् तदा राजा महानगरात् बहिः रक्षितं स्वचन्दनवनं तक्षकाय दत्तवान् । चन्दवृक्षस्य मूल्यम् अजानन् सः तक्षकः पूर्ववत् तान् दग्ध्वा कृष्णाङ्गाराणां निर्माणं कृत्वा विक्रयणम् अकरोत् । राजा तस्य अज्ञानं ज्ञात्वा चन्...

चिन्तनमात्रात् न हानिः 21.02.2025

कश्चन शिष्यः गुरुं पृच्छति यत् - सर्वदा निषिद्धानां एव वस्तूनां स्मरणं भवति । किं करणीयम् इति ? तदा गुरुः वदति -  'निषिद्धविषायाणां चिन्तनमात्रेण न कापि हानिः भवति । किन्तु पुनः पुनः‌ स्मरणात् तेषु प्रवृत्तिः भवेत् इत्यतः सद्विषयाः एव चिन्तनीयाः । तदर्थं सत्कार्येषु प्रवृत्तिः अधिका भवेत् । सद्ग्रन्थान् सच्चरित्राणि च पठनीयानि । सज्जनानां सहवासः अधिकतया करणीयः । एतस्य सर्वस्य कारणतः सर्वदा मनसि सद...

विचिन्त्य वक्तव्यम् 20.02.2025

वचनानि कागदखण्डाः इव एव भवन्ति । एकस्य मुखात् निर्गताः‌ ते अन्येषां मुखानि कथं प्राप्नुवन्ति इत्यस्य अवगमनमेव दुष्करम् । अत एव यस्य विषयस्य पूर्णज्ञानं अस्माकं न स्यात् तस्य विषये असमीचीनं वचनं कदापि न वक्तव्यम् । एतत् सर्वम् इयं कथा निरूपयति । कथं कस्यचन वृद्धस्य असत्यकथनेन युवकस्य कारागारवासः अभवत् । अन्ते कथं सः वृद्धः स्वदोषम् अवगत्य क्षमायाचनां करोति इति शृण्मः । (“केन्द्रीयसंस्कृतविश्वविद्या...

योगी वृद्धः च 19.02.2025

पूर्वं कश्चन योगी अष्ट अपि सिद्धीः प्राप्य अद्भुतकार्याणि प्रदर्शयन् जनेषु महत् आश्चर्यं जनयति स्म । कदाचित् सः 'तिरुवल्लिक्केणी'  प्रदेशम् आगत्य मार्गे भूमौ खननं कृत्वा सस्यस्य मूलभागम् उपरि कृत्वा पर्णादियुक्तं भागं गर्ते वपन्तं कञ्चन वृद्धं दृष्ट्वा कीदृशः मूढमतिः त्वम् ?  इति पृच्छति । तदा वृद्धः - 'अष्ट सिद्धीः आप्तवान् अपि भवान् क्षुल्लकसिद्धिप्रदर्शनेन जनान् वञ्चयन् कालं यापयति'  इति वदति ।...

आत्मसाक्षात्काराय अर्हता 18.02.2025

आत्मसाक्षात्काराय अपि काचित् अर्हता अपेक्षते इति इयं कथा दर्शयति । कश्चन साधकः आत्मसाक्षात्कारं प्राप्तुम् इच्छन् कञ्चन माहात्मानं मार्गदर्शनं प्रार्थयते । महात्मा प्रतिवर्षं तं परीक्ष्य पुनः जपकरणार्थं प्रेषयति । वर्षत्रयानन्तरं सः साधकः परीक्षायाम् उत्तीर्णतां प्राप्य आत्मसाक्षात्काराय अपेक्षितां योग्यतां निरूपयति । तदनन्तरं सः महात्मा साधकं ब्रह्मस्वरूपादिकं बोधयति । (“केन्द्रीयसंस्कृतविश्वविद्...

अहो गतिः कष्टदेयम् ! 17.02.2025

कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । कार्यसमाप्तेः अनन्तरं राज्ञी तान् अहूय वदति – ‘स्वशक...

अनुल्लङ्घयाः न्यायनियमाः 16.02.2025

कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्या...

मैत्र्याः सीमा 15.02.2025

पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं मारितवान् । राजकुमारः‌ एव स्वशावकं मारितवान् इति विचिन्त्य सा चटका चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती । स्वपुत्रस्य राजकुमारस्य दोषं ज्ञात्वा यद्यपि सः राजा चटकायाः अपराधं क्षान्तवान् तथापि परस्पर...

भवेत् को मुक्तिदायकः ? 14.02.2025

बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् ।  सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः कथम् अन्यं मोचयितुं शक्नुयात्' इति केनचित् प्रयो...

नक्षत्रेषु दृष्टिः 13.02.2025

षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभिजानीहि' इति वदति । गच्छता कालेन नक्षत्रवीक्षणं तस्य स्वभावः जातः । प्रौढत्वे प्राप्ते नक्षत्रवीक्षणाय सः एकं दूरवीक्षकं सज्जिकृत्य नक्षत्राणां ग्रहाणां च गतेः अध्ययनम् आरब्धवान् । कालान्तरे सः 'श्रेष्ठ...

दानम् 12.02.2025

कदाचित् केनचित् राज्ञा दत्तानि दुकूलवस्त्राणि गुरुः भिक्षुकं निर्गतिकावस्थायां दृष्ट्वा तस्मै अयच्छत् । अग्रे कदाचित् राज्ञा दत्तं सुवर्णकङ्कणं पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवते राजास्थानस्य उद्योगिने अयच्छत् । एतत् ज्ञात्वा राजा एवं किमर्थं कृतवान् इति गुरुं पृच्छति । गुरुः वदति - ‘दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागः । कृतस्य दानस्य विषये पृच्छन् अस्ति इत्यतः दा...

महामेधावी 11.02.2025

जर्मन्देशीयः महाभौतविज्ञानी 'कार्ल् फेडरिक् गास्'  बाल्ये कदाचित् मुख्योपाध्यायेन दत्तस्य प्रश्नस्य उत्तरं निमेषद्वयाभ्यन्तरे ददाति । प्रश्नः आसीत् - ‘एकतः शतपर्यन्तं लिखित्वा सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः' इति । कथम् उत्तरं प्राप्तवान् इति पृष्टे फेडरिक् वदति - ‘आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तरं तृतीयायाः अन्त्यात् पूर्वस्याः पूर्वस्याः च योज...

विचिन्त्य उपदेष्टव्यम् 10.02.2025

महावीरः नाम नरपतिः गान्धारदेशं पालयति स्म । विवेकिभिः उच्यते - ‘कालम् अवेक्ष्य एव नृपजनान् हितम् अहितं वा उपदेष्टव्यम् । अन्यथा उपदेष्टॄणाम् एव अपायः सम्भवेत्' इति । तत् सत्यम् इति अनया कथया ज्ञायते । को वा नृपम् उपदिष्टवान् ?  उपदेशानन्तरं किं प्राचलत् इत्यादयः विषयाः अस्यां कुतूहलकारिकथायां विद्यन्ते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रिय...

सर्वश्रेष्ठा गुरुदक्षिणा 09.02.2025

कस्मिंश्चित् गुरुकुले गुरुदक्षिणारूपेण किं देयम् इति यदा विद्यार्थिनः गुरुं पृच्छन्ति तदा गुरु वदति - यत् अधीतं तस्य सम्यक् अनुष्ठानं क्रियताम् । स्वावलम्बितया जीवनं कृत्वा वर्षाभ्यन्तरे यत् सम्पाद्येत तत्र कश्चन भागः दीयताम्' । विद्यार्थिनः तथैव कुर्वन्ति । कदाचित् कश्चित् तेजस्वी बालः वर्षाभ्यन्तरे  प्रत्यागत्य दश बालान् आनीय - 'यथाशक्ति मया पाठयित्वा एताः भवच्छिष्यार्हताः कृताः। इतः परं भवान् ए...

मार्गोपदेशः 08.02.2025

कदाचित् बुद्धस्य प्रवचनं श्रोतुं वैशालीतः कश्चित् वणिक आगतः । तस्य मनसि सुमुत्पन्नं प्रश्नं बुद्धं प्रति निवेदयति यत् प्रतिदिनं निर्वाणप्राप्तिविषयं श्रोतुं बहवः जनाः आगच्छन्ति किन्तु तेषु कति जनाः निर्वाणमार्गानुयायिनः स्युः इति । तदा बुद्धः उत्तरं ददाति - ‘उपदेशः मम कर्तव्यं, तत् श्रद्धया करोमि । निर्वाणस्य प्राप्तिः अप्राप्तिः वा तत्तस्य प्रयत्नं विकासं च अवलम्बते' । अग्रे किञ्चित् सुन्दरम् उदा...

विदुषी द्रवमयी 07.02.2025

पूर्वम् असमराज्ये चण्डीचरणतर्कालङ्कारः नाम विद्वान् स्वगृहे एव छात्रान् अध्यापयति स्म । बाल्ये एव पतिविहीना जाता पुत्री द्रवमयी पितुः गृहम् आश्रित्य संस्कृताध्ययने प्रवृत्ता, अल्पे एव काले अपूर्वं पाण्डित्यं प्राप्तवती च । कालान्तरे वार्धक्यस्य अस्वास्थ्यस्य च कारणतः पिता गुरुकुलस्य पिधानं चिन्तितवान् । किन्तु द्रवमयी तत् निराकृत्य स्वयमेव अध्यापनम् आरब्धवती । सा तत् उत्तरदायित्वं सम्यक् एव निरुह्...

राज्ञी मालादेवी 07.02.2025

दक्षिणभारतस्य बळ्ळारिसंस्थानं शिवराजसैन्यं स्वाधीनम् यदा अकरोत् तदा बळ्ळारिसंस्थानस्य राज्ञी मालादेवी शिवराजस्य पुरतः उपस्थापिता सती पराधीनजीवनं निराकृत्य मरणदण्डनं याचितवती । तदा शिवराजः तस्यां मातृत्वं दृष्वा अज्ञानात् यत् आक्रमणं कृतं तदर्थं‌ क्षमाम् अयाचत । बळ्ळारिसंस्थानं च स्वतन्त्रम् अकरोत् च । शिवराजस्य औदार्यस्य विनयस्य च दर्शनात्  मालादेव्याः हृदयं भावनिर्भरं जातम् ।  (“केन्द्रीयसंस्कृतव...

शिवविष्ण्वोः अभेदः 06.02.2025

भगवद्भक्तः नरहरिः पण्ढरपुरे स्थितस्य सुवर्णकारस्य चाङ्गदेवस्य पुत्रः यः शिवपूजां श्रद्धया करोति स्म । शिवभक्तेः अतिरेकात् सः कदापि विठ्ठलमन्दिरं न गतवान् । कदाचित् कश्चित् धनिकः पुत्रप्राप्तेः अनन्तरं विठ्ठलाय सुवर्णकटिसूत्रं अर्पणीयमिति विचिन्त्य तत्कार्यं नरहरये अर्पितवान् । एतावत्पर्यन्तं विठ्ठलं न दृष्टवान् नरहरिः कटिसूत्रनिर्माणकार्ये सफलः भवति वा ?  शिवविष्ण्वोः अभेदः तेन ज्ञायते वा इति कथां...

अपरीग्रहशीलता 05.02.2025

'राजतरङ्गिणी' इत्यस्य श्रेष्ठस्य ग्रन्थस्य निर्माता काश्मीरदेशीयः कविः कल्हणः सर्वत्र ख्यातः किन्तु सः एकस्मिन् सामान्ये कुटीरे वसति स्म । कदाचित् उज्जयिनीतः आगतः पण्डितगणः कवेः वसतिविषयं दृष्ट्वा राज्ञः पुरतः स्वस्य असन्तोषं प्राकटयत् । राज्ञः अनुरोधेनापि सः कविः कस्यापि वस्तुनः स्वीकारं न अङ्गीकरोति इति पण्डिताः ज्ञातवन्तः । पण्डिताः यदा राज्ञा दत्तां सामग्रीं कवये अयच्छन् तदा कुपितः कविः राज्यत...

कीदृशी उदारता 04.02.2025

स्वातन्त्र्यसङ्ग्रामकाले यदा गान्धिवर्यः धनसङ्ग्रहणं कुर्वन्नासीत् तदा काचित् निर्धना जीर्णशीर्णावस्थायुक्ता वृद्धा गान्धिवर्यम् उपसर्प्य भक्त्या नमस्कृत्य कटिस्थेन जीर्णवसनेन ग्रन्थीकृत्य संरक्षिताम् एकां कपर्दिकां निष्कास्य तस्य पादयोः समीपे संस्थाप्य ततः निर्गता । यदा श्रेष्ठिवर्यः श्री जमनालालः गणनायां लेखितुं कपर्दिकाम् अयाचत तदा गान्धिवर्यः तां न अयच्छत् । किमर्थम् ?  तस्याः कपर्दिकायाः विशे...

सज्जनसङ्गः श्रीगन्धः इव 03.02.2025

शय्याम् आश्रितवान् कश्चन वृद्धः स्वपुत्रं प्रति कानिचन मार्गदर्शकवाक्यानि वदति । यथा सात्त्विकं जीवनं करणीयं, पापकार्याणि न करणीयानि, सज्जनसङ्गः करणीयः, दुर्जनसङ्गः परिहरणीयः इत्यादीनि । विषयं स्पष्टतया अवगमयितुं सः वृद्धः श्रीगन्धचूर्णं अङ्गारचूर्णं च आनाय्य प्रयोगमेकम् कारयति । केवलस्य बोधनस्य अपेक्षया कदाचित् प्रयोगेण विषयस्य अवगमनं शीघ्रं सम्यक् च भवति । तद्बोधिका कथा एषा । (“केन्द्रीयसंस्कृतव...

भक्तस्य प्रेम 03.02.2025

हजरतनिजामुद्दीनस्य समीपं कश्चन निर्धनः आगत्य पुत्र्याः विवाहार्थं साहाय्यम् अयाचत । दिनद्वयानन्तरं हजरतः तस्मै निर्धनाय स्वीयां पादुकां अयच्छत् । निराशः सन् यदा सः निर्धनः‌ हजरतभक्तेन अमीरखुसरेण मार्गमध्ये प्राप्तः तदा अमीरखुसरेण कस्माच्चित् स्थानात् सुगन्धः अनुभूतः । सः सुगन्धः हजरतस्य पादुकातः आगच्छति इति ज्ञाते अमीरखुसरः स्वीयान् उष्ट्रान् प्रभूतं धनं च निर्धनाय दत्तवान् । सः निर्धनः अमीरखुसराय...

Άκου το podcast बालमोदिनी στο Replaio

Ραδιόφωνο και podcast σε μία εφαρμογή - δωρεάν, χωρίς εγγραφή. Εγκατάστησέ την σήμερα και μη χάσεις την πρεμιέρα

Κατέβασέ το από το Google Play

Το Replaio δεν είναι εκδότης podcast - τα ονόματα των εκπομπών, τα εξώφυλλα και ο ήχος ανήκουν στους δημιουργούς τους και διανέμονται μέσω δημόσιων ροών RSS