सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Επεισόδια: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Μην παραλείψεις να επισκεφτείς τη σελίδα του podcast και να στηρίξεις τον δημιουργό: sambhashanasandesha.in

Δημιουργός

सम्भाषणसन्देशः

Κατηγορία

Kids

Ιστοσελίδα του podcast

sambhashanasandesha.in

Τελευταίο επεισόδιο

11 Ιουλ 2026

Πού να ακούσεις;

Podcast στην εφαρμογή Replaio Radio Έρχεται σύντομα

Τα podcast έρχονται σύντομα στην εφαρμογή. Εγκατάστησέ την τώρα και δες πρώτος μια εντελώς νέα προσέγγιση στα podcast

Κατέβασέ το από το Google Play Δωρεάν εγκατάσταση Android σχεδόν 10 εκατ. λήψεις · βαθμολογία 4,8 iOS σύντομα

Επεισόδια

वैराग्यस्य महिमा 01.07.2025

इयं कथा पितापुत्रयोः व्यासशुकदेवयोः मध्ये संवादरूपेण वर्तते । शुकदेवः यदा जन्म प्राप्तवान् तदा एव उत्थाय पितरं नमस्कृत्य वनं गन्तुं सज्जः अभवत् । पुत्रस्य एतादृशं व्यवहारं दृष्ट्वा विस्मितः व्यासः पुत्रस्य मनसि कथमपि संस्कारविषये आसक्तिः जनयितव्या इति मत्वा बहून् विषयान् वदति । परन्तु केनापि शुकदेवः न विचलति । वादप्रतिवादयोः अनन्तरं व्यासः विरक्तः सन् पुत्रस्य वनगमननिर्णयम् अङ्गीकरोति । (“केन्द्री...

यादृशं मनः तादृशः कायः 30.06.2025

कदाचित् कश्चन काव्यकुशलः जैनाचार्यः किञ्चन महाकाव्यं रचयितुम् आरब्धवान् । कस्मिंश्चित् सर्गे जलधेः वर्णनं कर्तुम् आरभते । जलधेः विषयमेव सर्वदापि सः चिन्तयन् भवति । तन्मधे जलोदररोगेण ग्रस्तः भवति । सर्वं वृत्तान्तं ज्ञात्वा वैद्यः वदति 'जलधेः वर्णनं समाप्य मरुभूमेः वर्णनं करोतु' इति । जैनाचार्यः विस्मितः सन् अपि वैद्यस्य सूचनां श्रद्धया अपालयत् । जलोदररोगः शान्तः भवति । मनसि यादृशः विचारः क्रियते त...

उपदेशाचरणयोः अन्तरम् 29.06.2025

कदाचित् कश्चन बौद्धभिक्षुः कम्बोजराज्यम् आगत्य महाराजं तिङ्गभिङ्गं प्रति तस्य राज्यस्य राजपुरोहितः भवितुम् इच्छामि इति कामनां प्राकटयत् । किन्तु राजा 'पुनरपि एकवारं धर्मग्रन्थानाम् आवृत्तिं कृत्वा अगच्छेत्' इति अवदत् । कुपितः सन् सः भिक्षुः किमपि अनुक्त्वा धर्मग्रन्थानाम् अध्ययनम् एकवर्षं यावत् कृत्वा पुनरागच्छति । किन्तु राजा 'एकान्तवासम् अनुभवन् पुनरपि धर्मग्रन्थानां पारायणं करोति चेत् उत्तमं भव...

सर्वश्रेष्ठः पुण्यात्मा 28.06.2025

कदाचित् साक्षात् भगवान् विश्वनाथः मन्दिरस्य पूजकस्य स्वप्नम् आगत्य 'अहं सर्वश्रेष्ठाय पुण्यात्मने कमपि पुरस्कारं दातुम् इच्छामि' इति अवदत् । अनन्तरदिने पूजकः सर्वत्र घोषम् अकरोत् । ततः विभिन्नेषु प्रदेशेषु विद्वांसः, धर्मात्मानः, दातारः, साधकाः च मन्दिरं समागताः । पूजनसमये भगवतः मूर्तेः पुरतः एकं स्वर्णपात्रम् आगतम् । परीक्षार्थं सः पूजकः येषां हस्ते स्वर्णपात्रं ददाति तेषां हस्तं प्राप्य तत्क्षणं...

सङ्गीतं देशरक्षणाय अपि !! 26.06.2025

भारतीयेतिहासस्य मध्यकाले चित्रदुर्गनामके संस्थाने सैनिककुटुम्बे जयसिंहः नाम कश्चन युवकः खड्गादिभिः योद्धुं नेष्यते स्म । गाने वाद्यसङ्गीते च तस्य महती आसक्तिः । 'देशस्य रक्षणं न केवलं शस्त्रेण एव, अपि तु सङ्गीतेनापि शक्यम्' इति वदति स्म । कदाचित् सः ब्रिटिश्सैनिकैः निगृहीतः । उच्चाधिकारी 'अद्य रात्रौ दुर्गस्य मुख्यद्वारस्य पुरतः‌ गातव्यम्' इति अवदत् । सः दुर्गसैन्यस्य जागरणाय गीतम् आरभत । जागरितं...

खड्गस्य गुणवत्ता 25.06.2025

अङ्गारदेशस्य राज्ञः अङ्गदस्य पुत्रः अक्षयकुमारः । प्रधानमन्त्रिणा जीमूतेन युवराजस्य अध्यापनाय भानुमित्रः‌ गर्गः चेति उभौ आचार्यौ चितौ । भानुमित्रः सुन्दरः सम्भाषाणचतुरः उत्कृष्टवस्त्रधारी च आसीत् । गर्गः तु सामान्यः वेषभूषादिषु अनासक्तः मितभाषी च आसीत् । अतः राज्ञ्यै गायत्र्यै गर्गः न अरोचत । केषाञ्चित् दिनानाम् अनन्तरं जीमूतः राजानं राज्ञीं च आयुधशालां नीत्वा मूषातः तप्तायःपट्टिकां स्वीकृत्य दर्श...

सर्वं भगवतः लीला 24.06.2025

कदाचित् प.पू वल्लभदीक्षितः तत्पुत्रः च श्रीधरहर्गेमहाराजः तीर्थयात्रां कुर्वन्तौ गोदावरीनद्याः समीपे स्थितं राजमहेद्रपत्तनम् आगतवन्तौ । सुखसम्पन्नं नगरं दृष्ट्वा वल्लभदीक्षितः सङ्कल्पितवान् यत् सप्त दिनानि भागवतपारायणं कथाश्रवणं च करणीयम्, तदवसरे सर्वजातिबान्धवानाम् अपि भोजनव्यवस्था करणीया इति । किन्तु नगरस्य धनिकाः वणिजः अदृष्टपूर्वे जने अधिकं विश्वासं कर्तुम् अनिच्छन्तः साहाय्यं न कृतवन्तः । यस्...

अकबर-बीरबलयोः स्वप्नः 23.06.2025

कदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् ।  किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत्  इति जिज्ञासायां कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, A...

आत्मज्ञानप्राप्तिः..... 22.06.2025

कदाचित् नारदः स्वसोदराणां सनक-सनत्कुमार-सनन्दन-सन्त्सुजातानां वैराग्यम् आत्मज्ञानप्राप्तिजिज्ञासां जानन् 'योग्यं गुरुम् अन्विष्य मुक्तिं प्राप्तुं प्रयत्नं कुर्वन्तु' इति स्मारितवान् । सनकादयः वैकुण्ठं यदा गतवन्तः तत्र लक्ष्मीसहितं विष्णुं, तत्रत्यं वैभवं दृष्ट्वा आत्मज्ञानं कथं लभेत इति अचिन्तयन् । सर्वम् अन्तर्ज्ञानेन जानन् शिवः सनकादीन् अनुग्रहीतुम् इच्छन् दक्षिणामूर्तिरूपेण अवतारं प्राप्य वटवृ...

जयः अमलवर्मणः...... 21.06.2025

शान्तिपुरं नाम किञ्चन राज्यं शान्तिप्रियः अमलवर्मा परिपालयति स्म । कदाचित् शान्तिपुरस्य प्रतिवेशिराज्यस्य परमक्रूरः लोभी च राजा क्रूरसिंहः पूर्वसूचनां विना युद्धघोषणं कृतवान् । कथञ्चिदपि युद्धं निवारयितुं अमलवर्मा मक्षिकाणां महाराजेन मक्षीशेन मिलित्वा साहाय्यं पृष्टवान् । युद्धतः प्रत्यागमनान्तरं राज्ये वासार्थम् अनुमतिः दातव्या इति मक्षीशः प्रार्थितवान् । मक्षिकाः उपायेन युद्धं जित्वा शान्तिपुरं...

चतुरः वणिक् 20.06.2025

कस्यचन वणिजः गृहे प्रभूतः कार्पासः अस्तीति ज्ञात्वा कश्चन चोरः तं चोरयितुम् आगतः । कार्पासस्य बन्धनाय यावत् वस्त्रं प्रसारितवान् तावता चतुरेण वणिजा जागरणं प्राप्य मन्दम् उत्थाय वस्त्रम् अपसारितम्  । कथञ्चिदपि कार्पासं नेतव्यमिति निश्चित्य स्वस्य युतकम् ऊरुकं च प्रसारितवान् यत् वणिजा अपसारितम् । चोरः निर्वस्त्रः जातः । ततः वणिक् गृहसदस्यान् जागरय्य चोरं बद्धवान् । एवं वणिजा स्वबुद्धिमत्तया चोरः गृह...

यथा कृत्यं तथा फलम् 19.06.2025

'यथा कृत्यं तथा फलम्' इति वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति एषा कथा । कदाचित् मित्रे गजवानरौ नद्याः अपरस्मिन् तीरे स्थितानि स्वादूनि फलानि खादितुम् उद्युक्तौ । वानरः अङ्कुशं गृहीत्वा गजस्य पृष्ठे उपविष्टवान् । सः कदाचित् अङ्कुशेन गजं ताडयित्वा, पीडयित्वा कार्यं कारयन्तं हस्तिपकं दृष्टवान् आसीत् । गजः नद्यां किञ्चिद्दूरं गतवान् तदा वानरः गजम् अङ्कुशेन पीडयितुम् उद्युक्तः । गजः महतीं वेदनाम् अनु...

वसुधैव कुटुम्बकम् 18.06.2025

सन्ततुकारामः पुण्यपत्तनसमीपे देहुनामके ग्रामे निवसति स्म । सः प्रातः उत्थाय स्नानादिकं कृत्वा भोजनादिचिन्ताम् अकृत्वा वीणां करतालं च गृहीत्वा निर्जनं पर्वतं गच्छति स्म भजनं कर्तुम् । सः सर्वेषु अपि प्राणिषु स्थितः परमात्मा एव इति विचिन्त्य धान्यक्षेत्रे पक्षिणः न निवरयति । कदाचित् क्षेत्रस्वामिनः प्रेषितं धान्यराशिम् अपि ग्रामजनेभ्यः वितरति । सः आत्मवत् सर्वभूतानि अपश्यत् इति अनया कथया ज्ञायते । (...

बलीयसी भवितव्यता 17.06.2025

दक्षिणभारते काञ्चिनगरे कस्यचन यज्ञस्य प्रवेशद्वारे मृत्युदेवस्य यमराजस्य वक्रदृष्टिः अपतत् इति कारणेन कश्चन पारवतः म्लानमुखः आसीत् । तत्रैव स्थितः सरलहृदयः सहायमनस्कः च गरुडः कारणं ज्ञात्वा पारवतं पारेयोजनसहस्रं सुमेरुपर्वतस्य कन्दरां प्रापय्य प्रत्यागतः। यज्ञसभातः‌ निष्क्रामन् यमराजः पारवतस्य गहनतामासु सुमेरुकन्दरासु एकेन बिडालेन कथं सम्पाद्यते इति जिज्ञसां गरुडाय प्रकटयति तदा गरुडः प्रवृत्तं सर्...

वर्तमाने वर्तितव्यम् 16.06.2025

कल्पनालोके विहरन् कश्चन तरुणः कदाचित् स्वप्ने राजत्वं प्राप्तवान् आसीत् । अग्रिमदिनात् आरभ्य सः महाराजवत् व्यवहारम् आरब्धवान् । मातापितरौ किमपि कार्यं वदतः चेत् सः वदति 'अहं महाराजः अस्मि । किं महाराजः स्वयं कार्यं कुर्यात्‌?’ इति । एषः कथं बोधनीयः इति गृहसदस्याः यदा चिन्ताक्रान्ताः आसन् तदा तस्य अनुजा उपायेन तं समीकरोति । वस्तुस्थितिम् अवगत्य सः तरुणः कल्पनालोके विहारात् कीदृशं कष्टं भवति इति जान...

त्रयः प्रश्नाः 15.06.2025

कदाचित् राज्ञः विक्रमादित्यस्य मनसि त्रयः प्रश्नाः उदिताः -’ईश्वरात् पूर्वं कः आसीत्?’, 'ईश्वरः कुत्र निवसति?’, 'ईश्वरः किं करोति?’ । 'सन्तोषप्रदानि उत्तराणि यः यच्छति तम् अर्धं राज्यं दास्यामि, असम्यक् उत्तरं यः ददाति तस्मै कठोरदण्डनम्' इति घोषणां कारितवान् ।  दण्डभयात् कः अपि जनः उत्तरं दातुं साहसं न कृतवान् । किन्तु कश्चन हलवाहकः आगत्य राज्ञः त्रयाणां प्रश्नानाम् उत्तरं निर्दर्शनेन प्रतिपाद्य र...

त्रयः पुत्राः 14.06.2025

कस्यचित् धनिकस्य अन्त्यकाले पुत्राणां साहाय्यम् अपेक्ष्य एकैकं पुत्रम् आहूय साहाय्यं याचते । त्रयः अपि पुत्राः भिन्नं भिन्नम् उत्तरं अयच्छन् । तृतीयस्य पुत्रस्य उत्तरं श्रुत्वा धनिकः शान्त्या दिवङ्गतः । ते एव त्रयः पुत्राः धनजनपुण्यरूपाः । प्रथमः पुत्रः धनकनकादिसम्पद्रूपः । द्वितीयः आप्तजनः । तृतीयस्तु परोपकारः । एषा कथा परोपकारस्य महत्त्वं सम्यक् प्रकारेण व्यक्तं करोति । मानवजीवनस्य मूल्यं परहिते...

मूर्खः पण्डितः 13.06.2025

कस्मिंश्चित् ग्रामे शास्त्रग्रन्थादीन् पठितवान् कश्चन गर्वी पण्डितः आसीत् । सः स्वीयां प्रशंसां स्वयमेव सर्वत्र कुर्वन् भ्रमति स्म । कदाचित् कश्चन बुद्धिमान् जनः तं पण्डितं 'अन्यं ग्रामं गत्वा तत्रत्यान् पण्डितान् जयति चेत् भवतः‌ पाण्डित्यस्य मूल्यम् अत्रत्याः जनाः अवगच्छेयुः' इति अवदत् । पण्डितः ससन्तोषं यावत् सः पार्श्वस्थं ग्रामं प्राविशत् कश्चन अजपालः तेन दृष्टः । सम्भाषणावसरे पण्डितः गर्वी इत...

चरणचिह्नचिन्तनम् 12.06.2025

कदाचित् वनप्रदेशे तृणसेवनमग्नात् मेषसमूहात् एकः मेषशावकः पृथक् जातः । शावकः एकाकी स्वगृहमार्गस्य अन्वेषणं यदा आरब्धवान् तदा निर्झरस्य समीपे विद्यमानासु वालुकासु वनराजस्य सिंहस्य सुचारूणि पदचिह्नानि अपश्यत् । एकाग्रतया भक्त्या च वनराजस्य पदचिह्नानि पश्यन्तं शावकं जम्बूकः, वृकः, व्याघ्रः च यथाक्रमं दृष्ट्वा सौजन्येन व्यवहृत्य ततः पलायनं अकुर्वन् । साक्षात् सिंहः यदा शावकस्य दृढं भक्तिभावं अपश्यत् तद...

भक्तसेवा 11.06.2025

आसीत् कश्चन नापितः यः प्रतिदिनं भगवतः ध्यानं कृत्वा एव कार्ये प्रवर्तते स्म ।  अथैकदा भगवन्तं पूजयित्वा ध्यानमग्नः अभवत् । समये तस्य उनुपस्थितिं दृष्ट्वा कुपितः राजा भटान् प्रेषयति । भीता नापितस्य पत्नी पतिः गृहे नास्ति इति अवदत् । असूयावन्तः भटाः भार्या अनृतम् अवदत्, नापितः गृहे एव अस्ति इति अवदन् । तत् श्रुत्वा क्रुद्धः राजा नापितम् आनेतुं भटान् यदा आदिशत् तदा स्वयं देवः नापितवेषं धृत्वा राज्ञः...

भीमावतारः 10.06.2025

अस्ति भारते हिमालयस्य सन्निकटे बोयलनामकः ग्रामः । अथैकदा अत्रत्याः बहवः ग्रामीणाः यदा कुम्भस्नानाय प्रयागं प्रति प्रस्थिताः तदा मार्गे खड्गहस्ताः लुण्ठकाः आगताः । सर्वे यात्रिणः भीताः । तेषु शिवदेवनामकः अतीव भीतः पर्वतीयभाषया 'ओ.. इ.. जा.. आ.. ज.. मर् यां.. अम्ब ! अद्य मृताः वयम्' इति उच्चैः क्रन्दनं कृत्वा कूर्दितवान् । तत् सर्वं दृष्ट्वा लुण्ठकाः भीताः । भीमकायस्य शिवदेवस्य कूर्दनं दृष्ट्वा लुण्...

मधुरवचनानि 09.06.2025

कस्मिंश्चित् नगरे विजयरामनामकः कश्चन महाधनिकः अत्यन्तं लोभी आसीत् । सम्पत्तेः सङ्ग्रहणं तस्य विकृतः स्वभावः आसीत् । एकदा कश्चन साधुः धनिकस्य गृहसमीपस्थात् उद्यानात् कस्यचित् पक्षिणः मधुरं गानं श्रुत्वा एकं सुवर्णनाणकं दत्त्वा 'अनेन फलानि बीजानि पक्षिणः प्रियखाद्यानि च क्रीत्वा पक्षिणे ददातु' इति उक्तवान् । किन्तु सः लोभी धनिकः मम पक्षिणः गानश्रवणाय शतं सुवर्णनाणकानि ददातु इति कथयति । तदनन्तरं सः स...

प्रयत्नो विधेयः प्रयत्नो विधेयः 08.06.2025

सुन्दरपुरनाम्नि ग्रामे कस्यचन कृषकस्य पुत्रः अनिलः अलसः युवकः निरुद्योगी सन् आदिनं मित्रैः सह इतस्ततः भ्रमन् आसीत् । कदाचित् सूर्यास्तसमये समीपस्थात् पर्वतात् अवरोहद्भिः  आरुह्यमाण: कश्चन वृद्धः लघुना दीपेन सह दृष्टः ।  आचर्येण यदा अनिलः अपृच्छत् तदा सः वृद्धः शिखरस्थं शिवालयं गन्तुम् इच्छामि इति अवदत् । तदनन्तरं यानि हितवचनानि वृद्धेन उक्तानि तानि वचनानि हासः च अनिलस्य मनसि मुहुर्मुहुः गुञ्जनम् अ...

मा कुरु गर्वम् 07.06.2025

कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता ।  सहसा तस्याः‌ दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च  । अग्रिमदिने यदा सा कलिका पुष्पतां गता कश्चन भक्तः तत् पुष्पम् अ...

आदर्शः निरुद्धः 06.06.2025

कदाचित् घोरे युद्धे प्रवृत्ते उभयपक्षीयाः अपि बहवः मृताः । सर्वत्र मानवानां शवाः एव दृश्यन्ते स्म । कतिपयैः जनैः सह 'आदर्शः' अपि भीतो भूत्वा पलायनम् आरब्धवान् । दैवदुर्वियोगवशात् पलायमानः सः आदर्शः आतङ्कवादिना गृहीतः । यदा आदर्शः वदति 'मानवतारक्षणं मम धर्मः' ततः आरभ्य सः आतङ्कवादिनाम् अज्ञाते स्थले निरुद्धः वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक...

Άκου το podcast बालमोदिनी στο Replaio

Ραδιόφωνο και podcast σε μία εφαρμογή - δωρεάν, χωρίς εγγραφή. Εγκατάστησέ την σήμερα και μη χάσεις την πρεμιέρα

Κατέβασέ το από το Google Play

Το Replaio δεν είναι εκδότης podcast - τα ονόματα των εκπομπών, τα εξώφυλλα και ο ήχος ανήκουν στους δημιουργούς τους και διανέμονται μέσω δημόσιων ροών RSS