सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ Επεισόδια: 617

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Μην παραλείψεις να επισκεφτείς τη σελίδα του podcast και να στηρίξεις τον δημιουργό: sambhashanasandesha.in

Δημιουργός

सम्भाषणसन्देशः

Κατηγορία

Kids

Ιστοσελίδα του podcast

sambhashanasandesha.in

Τελευταίο επεισόδιο

11 Ιουλ 2026

Πού να ακούσεις;

Podcast στην εφαρμογή Replaio Radio Έρχεται σύντομα

Τα podcast έρχονται σύντομα στην εφαρμογή. Εγκατάστησέ την τώρα και δες πρώτος μια εντελώς νέα προσέγγιση στα podcast

Κατέβασέ το από το Google Play Δωρεάν εγκατάσταση Android σχεδόν 10 εκατ. λήψεις · βαθμολογία 4,8 iOS σύντομα

Επεισόδια

उज्ज्वला स्वातन्त्र्यप्रीतिः 03.11.2025

शङ्करशाहः गोण्डवंशीयः राष्ट्रप्रेमी राजा आसीत्, यः कवित्वेन अपि प्रसिद्धः । तेन रचितानि देशभक्तिपराणि गीतानि जनाः सदा गायन्ति स्म । जबलपुरप्रदेशे आङ्ग्लैः संस्थानाधिपाः भूस्वामिनः च जनाः पीडिताः आसन्, अतः आङ्ग्लशासनविषये असन्तोषः उत्पन्नः । शङ्करशाहः तैः सह सम्पर्कं कृत्वा सर्वत्र युगपत् शासनविरोधस्य योजनाम् अकरोत् । सभायां तस्य पुत्रः रघुनाथशाहः अपि भागं गृहीत्वा नवरात्रारम्भदिने सैनिकैः शासनविरो...

वीरत्यागी विश्वनाथदासः 02.11.2025

तमिळुनाडुदेशीयः विश्वनाथदासः स्वीयैः देशभक्तिगीतैः,  नाटकैः, अभिनयैः च देशभक्तिम् जागरयति स्म । नाटकेषु 'वल्लीविवाहः' इति नाटके आङ्ग्लेयशासनं लक्षीकृत्य दासवर्यः गीतं गायति स्म येन कारणेन षट् मासान् संवत्सरान् वा यावत् कारागारवासः भवति स्म । कदाचित् दासवर्येण रङ्गं न प्रवेष्टव्यम् इति आङ्ग्लशासनेन आज्ञा कृता । तथापि वीरपुरुषः दासवर्यः रङ्गे निर्भयम् अगच्छत् । तस्मात् सः कारागारे स्थापितः । आङ्ग्लश...

श्रद्धा 01.11.2025

आ पञ्चदशभ्यः दिनेभ्यः मन्दिरम् आगत्य देवस्य पुरतः स्थित्वा वर्णमालां जपन्तीं बालिकां कश्चन भक्तः उपसर्प्य अपृच्छत् 'किमर्थं वर्णमालाजपं कृत्वा देवं प्रणम्य निर्गच्छसि' इति । तदा सा बालिका अवदत् यत् 'वर्णमाला एव मम स्तोत्रम् । अपि च मातामही कथयति यत् सर्वाणि स्तोत्राणि प्राथनाः च एतैः वर्णैः एव निर्मितानि भवन्ति । अतः भगवतः पुरतः श्रद्धया पठ' इति । प्रार्थनां स्तोत्राणि वा अजानत्याः अपि अस्याः भगवत...

दुश्चिन्तनं पापाय 31.10.2025

कदाचित् विश्वामित्रशिष्यः गालवः गरुडश्च गुरुदक्षिणसङ्ग्रहणार्थं प्रपञ्चपर्यटनम् आरब्धवन्तौ । तदवसरे विश्रान्त्यर्थं वृषभपर्वते स्थितवन्तौ । वृषभपर्वतस्थायां गुहायां वसत्या शाण्डिल्यमहर्षिपुत्र्या महातपस्विन्या स्वयम्प्रभया तौ सत्कृतौ । प्रातः उत्थानसमये गरुडस्य पक्षौ दग्धौ आस्ताम् । तदा गालवः गरुडं पृष्टवान् यत् तेन किमपि अनुचितं चिन्तनं कृतं वा इति । तदा गरुडः अवदत् - 'एतादृशीं सुन्दरीं नीत्वा ना...

निर्धनबालिकायाः निःस्पृहता 30.10.2025

कश्चन धनिकः बदरीकेदारनाथादिदर्शनार्थं गतवान् । तत्र काचन बालिका धनिकम् उपसर्प्य एकं रूप्यकम् अयाचत । सः कोषात् निष्कास्य अञ्जलिमितानि रूप्यकाणि बालैकायै अयच्छत् । एतावन्ति नाणकानि प्राप्य सा बालिका यद्यपि सन्तुष्टा जाता तथापि अनतिदूरे क्रीडतः निर्धनबालकान् दृष्ट्वा तस्याः सन्तोषः विलुप्तः । सा तेषां दिशि गत्वा एकैकस्मै अपि बालकाय एकैकं नाणकम् अयच्छत् । अन्ते एकम् एव नाणकं तस्याः हस्ते अवशिष्टम् ।...

वेणोः समुत्पत्तिः 29.10.2025

भगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः इति वयं जानीमः । सः वेणुहस्तः एव दृश्यते सर्वदा । कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते वेणुः अतिष्ठत् । परं, वेणुवादने गोपालेषु कथम् आसक्तिः उत्पन्ना , कथं गोपालकाः एव प्रथमवेणुवादकाः अभवन्, तस्य वाद्यस्य मूलं किम् इत्येते विषयाः अस्यां कथायाम् उक्ताः सन्ति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्...

चत्वारि सूत्राणि 28.10.2025

कदाचित् कश्चन ज्ञानी स्वकीयम् अपूर्वं ज्ञानं कस्मैचिदपि दातुं सज्जः अभवत् । यः इच्छति सः चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा स्वीकर्तुं शक्नोति इति सः उद्घोषितवान् । तत् श्रुत्वा कश्चन राजा तं ज्ञानिनं स्वस्य आस्थानम् आनाय्य सत्कृत्य च चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा अपूर्वं ज्ञानं दातुं निवेदितवान् । तदा ज्ञानी जीवनानुभवात् प्राप्तानि चत्वारि सूत्राणि उक्तवान् । तानि सूत्राणि श्रुत्वा राजा चिन्तन...

अचञ्चलं मनः 27.10.2025

श्रीरामचन्द्रस्य वनवासकाले प्रवृत्ता घटना एषा । कदाचित् श्रीरामः कुटिरात् बहिः गतवान् आसीत् । लक्ष्मणः वृक्षस्य अधः उपविश्य श्रीरामस्य विषये चिन्तामग्नः आसीत् । तदा निद्रया आवृतया सीतया शिरः स्थापयितुम् उपधानत्वेन किमपि अनुपलब्धे, सा लक्ष्मणस्य अङ्के शिरः स्थापयित्वा शयितवती । प्रत्यागतेन श्रीरामेण अन्तर्ज्ञानेन वस्तुस्थितौ अवगतायाम् अपि लक्ष्मणस्य परीक्षा करणीया इति विचिन्तितम् । शुकरूपं धृत्वा स...

आत्मा अलङ्करणीयः, न शरीरम् 26.10.2025

जनाः बाह्यशरीरस्य शोभावर्धनाय प्रभूतस्य धनस्य व्ययं कुर्वन्ति । किन्तु, अन्तः स्थितम् आत्मानं कदापि न अवलोकयन्ति । अतः एव जनानां मध्ये मानवता न्यूनीभवति, चेतना म्रियते च । दुःखानि कष्टानि च वर्धन्ते । इयं कथा तादृशमेव किञ्चित् बोधयति, आत्मावलोकनस्य अपि एकम् अवसरं कल्पयति च । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) People spend a lot of mon...

पिच्छधारिताकारणम् 25.10.2025

कृष्णावतारे कृष्णः सर्वदा स्वशिरसि पिच्छं किमर्थं धृतवान् इति ज्ञायते वा ? कदाचित् वनवासकाले सीता पिपासया बाध्यमाना आसीत् । तदा कश्चित् मयूरः आगत्य ततः अनतिदूरे कश्चन जलाशयः अस्ति इति उक्त्वा रामादयः यथा मार्गं जानीयुः तथा स्वस्य पिच्छं तत्र तत्र पातयन् अग्रे अगच्छत् । पिच्छमार्गम् अनुसरन्तः रामादयः यदा जलाशयं प्राप्तवन्तः तदा तत्र मरणदशां प्राप्तं मयूरं दृष्टवन्तः । स्वस्य प्राणापायम् अपि अविगण्ण...

वृक्षस्य चक्रवर्तित्वम् 24.10.2025

कदाचित् मार्गे गच्छता गुरुणा कस्यचित् महावृक्षस्य मनोवृत्तिं ज्ञात्वा 'तथास्तु' इति उक्तम् । सा मनोवृत्तिः का इति शिष्येण पृष्टे, गुरुः अवदत् 'चक्रवर्तीं भूत्वा भूमण्डलं परिपालनीयम्' इति । तत् श्रुतवतः शिष्यस्य हासं दृष्ट्वा गुरुः वदति यदि भगवतः सङ्कल्पः स्यात् तर्हि लोके असाध्यं किमपि नास्ति इति । किं तस्य वृक्षस्य मनोवृत्तिः परिपूर्णा भवेत् ? गुरोः आशीर्वादः सफलः किं भवेत् ? सर्वं जानन्तु कथां श...

प्रकाशः अन्धकारं प्रति गच्छेत् 23.10.2025

कदाचित् कृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् सारथिः दारुकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः दारुकः वदति यत् 'भवता किमर्थं तत्र गम्यते ? सः एव अत्र आनाय्यताम्' इति । तदा कृष्ण...

परिवर्तनम् 22.10.2025

कस्यचन वृद्धस्य राज्ञः प्रासादे उत्सवः आयोजितः आसीत् । बहवः नृपाः आसन् । कार्यक्रमान्ते नर्तक्याः नृत्यं प्राचलत् ।  किञ्चित्कालानन्तरं वाद्यवादकः निद्रां प्राप्नुवन् अस्ति इति कारणतः नर्तकी भीत्या तं सावधानं कर्तुम् एकं श्लोकम् अवदत् । वाद्यवादकः तन्द्रां त्यक्त्वा सम्यक् अवादयत् । तस्य श्लोकस्य अर्थं विभिन्नाः जनाः विभिन्नप्रकारेण स्वीकृतवन्तः ।  नर्तक्याः गुरुः, राजकुमारी, राजकुमारः, वृद्धः राज...

धनं देशसेवायै 21.10.2025

कस्याञ्चित् कक्ष्यायां प्रवृत्ता घटना एषा । अचार्यः कक्ष्यां प्रविश्य छात्रेभ्यः एकं प्रश्नं पृच्छति 'मार्गे गमनसमये वज्रं दृश्येत तर्हि किं कुर्युः भवन्तः' इति । तदा सर्वे स्वीयम् अभिप्रायं वदन्ति । किन्तु कश्चन बालकः वदति 'वज्रं विक्रीय ततः प्राप्तं धनं देशसेवायै, निर्धनानां साहाय्याय वा व्ययीकरिष्यामि' इति । नितरां सन्तुष्टः आचार्यः देशभक्तत्वेन ख्यातः भव इति अशीर्वादं ददाति । सः एव गोपालकृष्णग...

गाननिपुणः उलूकः गानबन्धुः 20.10.2025

कदाचित् नारदमहर्षिणा कोपाधिक्यात् लक्ष्मीः शप्ता । तेन कारणेन नारदस्य सङ्गीतज्ञानं विलुप्तं जातम् । ततः नारदः पश्चात्तापम् अनुभवन् विष्णुम् उपसर्प्य कृतस्य दोषस्य परिहारम् अपृच्छत् । तदा विष्णुः 'गानबन्धुनामकस्य दिव्योलूकस्य समीपं गत्वा तस्मात् गानं शिक्षेत' इति अवदत् । अनन्यगतिकया नारदः गानबन्धोः समीपं गत्वा प्रवृत्तं सर्वं निवेद्य तदीयं शिष्यत्वम् अङ्गीकृत्य सङ्गीतं शिक्षयितुं प्रार्थितवान् । तत...

मानसपूजायाः महिमा 19.10.2025

पूसलारनामा कश्चन निर्धनः शिवभक्तः शिवालयं निर्मातुम् ऐच्छन् स्वस्य असामर्थ्यं स्मृत्वा मनसि एव शङ्करस्य देवालयं रचयितुम् आरब्धवान् । स्वस्य चित्ते एव इष्टिकाः, दारुस्तम्भाः, फलकानि इत्यादीनि सङ्गृह्य शुभदिने देवालयकार्यम् आरभ्य शुभमुहूर्तं चित्वा कुम्भाभिषेकं कर्तुं निश्चितवान् । तस्मिन् एव दिने काञ्चीनगरस्य कश्चन राजा, तेन निर्मितस्य शिवदेवालस्य कुम्भाभिषेकमुहूर्तं निश्चितवान् । किन्तु शिवः राज्ञ...

भाग्ये यत् लिखितं तदेव प्राप्यते 18.10.2025

कदाचित् श्रीकृष्णलक्ष्म्योः मध्ये सुदाम्नः जीवनावस्थायाः चर्चा भवति । तदा श्रीकृष्णः वदति 'प्रारब्धं नाम किञ्चन तत्त्वम् अस्ति । तत् कस्मै अपि जनाय समयात् पूर्वं भाग्यात् अधिकं न ददाति' इति । तदा तत् अनङ्गीकृत्य लक्ष्मीः भिक्षाटनसमये कस्याश्चित् गृहस्वामिन्याः मनसि सुदामविषये अनुकम्पाम् उत्पादितवती । तस्य परिणामतः सुदामा पायसं प्राप्तवान् । गृहगमनसमये मार्गे सः पादस्खलनात् भूमौ अपतत् । समग्रं पायस...

अन्तरङ्गशुद्धिः 17.10.2025

वारणास्यां गङ्गाघट्टसमीपे छिन्नपादरक्षासीवनं कुर्वता गङ्गामातुः भक्तेन रूयिदासेन कदाचित् गङ्गास्नानाय गन्तुं समयः न लब्धः । अतः सः नाणकमेकं गङ्गामात्रे समर्पयितुं कस्मैचित् ब्राह्मणाय अयच्छत् । यदा सः ब्राह्मणः गङ्गामात्रे अर्पितवान् तदा गङ्गामाता सुवर्णकङ्कणमेकं रूयिदासाय दीयताम् इति ब्राह्मणस्य हस्ते अधत्त । किन्तु दुराशां प्राप्तवता ब्राह्मणेन तत् कङ्कणं राजगृहं विक्रेतुं नीतम्, । संशयं प्राप्त...

मनः दर्पणः एव 16.10.2025

कदाचित् श्रीरामः हनुमदादिभिः सह सुवेलपर्वतशिखरं गतः । तत्र दृश्यमानं चन्द्रं दर्शयन् स्वस्य स्वस्य चिन्तनानुगुणं चन्द्रे दृश्यमानायाः कृष्णवर्णतायाः कारणं किं भवितुमर्हति इति अपृच्छत् । राजा सुग्रीवः, अग्रजात् प्रहारं प्राप्य राज्यात् निर्गतः विभीषणः, सिंहासनस्य उत्तराधिकारित्वं प्राप्तुं योग्यतायां सत्याम् अपि युवराजपदमात्रं प्राप्तवान् अङ्गदः, प्रियसहोदरः, सीतावियोगदुःखतप्तः च रामः, रामभक्तः आञ्...

वेदविदः पक्षिणः 15.10.2025

महाभारतयुद्धस्य अनन्तरम् ऋषिः शमिकः रणरङ्गं गतः । तत्र लघुपक्षिणां कूजनं श्रुतम् । तान् स्वस्य आश्रमं नीत्वा जागरूकतया पोषितवान् । छात्राणाम् अध्यापनसमये पक्षिभिः अपि वेदाः, विविधानि शास्त्राणि च शिक्षितानि । एकस्मिन् दिने पक्षिणां मुखात् वेदमन्त्रान् श्रुत्वा मुन्यादयः महत् आश्चर्यं प्राप्तवन्तः । शमिकः अपृच्छत् यत् कथं ते मनुष्याः इव भाषणे समर्थाः इति । तदा ते पूर्वजन्मनि प्रवृद्धं सर्वम् अवदन्...

बुद्धिर्यस्य फलं तस्य 14.10.2025

मातुः वचनम् उपेक्ष्य कश्चन अजशावकः अजसमूहात् दूरं गत्वा अरण्यं प्राविशत् । तदा कश्चन महाकायः वृक पुरतः आगतः । कथमपि आत्मरक्षणं करोमि इति विचिन्त्य सः एकम् उपायं करोति । उच्चैः क्रन्दन् अवद्त् 'भ्रातः ! मह्यं जलं ददातु । अहं विषपर्णं खादितवान् अस्मि । मम सर्वम् अङ्गम् इदानीं विषमयं जातम्' इति वदन् निश्चेष्टः सन् अतिष्ठत् । तदा वृकः 'एतस्य मांसं खादित्वा अहमपि मृतः भविष्यामि' इति विचिन्त्य ततः अधावत...

फलं परनिन्दायाः 13.10.2025

पुरा काशीनगरे कश्चन धर्मात्मा प्रजावत्सलः च राजा आसीत् । कदाचित् मृगयार्थं गच्छतं राजानं कश्चन देवदूतः आकाशात् अवतीर्य 'भवतः कृते स्वर्गलोके सुवर्णप्रासादः सज्जीकृतः अस्ति' इत्युक्त्वा अन्तर्हितः अभवत् । पुनः कदाचित् राजा वने स्थितं कञ्चन तपस्विनं द्रष्टुं गतः । ध्यानमग्नः‌ तपस्वी नेत्रे न उद्घाटितवान् । क्रुद्धः राजा पार्श्वे पतितम् अश्वपुरीषं तपस्विनः शिरसि क्षिप्त्वा ततः निर्गतवान् । एकदा रात्र...

श्रेष्ठतमं कार्यम् 12.10.2025

पिप्पलः नाम कश्चन संन्यासी तपः आचर्य इन्द्रात् वरं प्राप्य अहङ्कारी जातः । कदाचित् पितामहः ब्रह्मा 'एतस्य अहङ्कारः निवारणीयः' इति विचिन्त्य सारसरूपं धृत्वा पिप्पलस्य समीपम् आगत्य 'भवान् किमर्थम् आत्मानं श्रेष्ठं मन्यते । कुण्डलस्य पुत्रः‌ सुकर्मा यद्यपि तपः न आचरितवान् भवदपेक्षया ज्ञानी अस्ति' इति । आश्चर्यभरितः पिप्पलः सुकर्मणः समीपं गत्वा तस्य ज्ञानस्य रहस्यम् अपृच्छत् । तदा सुकर्मा अवदत् 'अहं च...

अन्नदातुः वृत्तिः 11.10.2025

एकदा प्रवासं कुर्वता सत्पुरुषेण पिपासानिवारणार्थं मार्गमध्ये विद्यमानं कुटीरस्वामिनं जलं याचितम् । जलं पीत्वा अप्रसन्नमनस्कः सन् ततः यावत् गन्तुम् उद्युक्तः तदा 'किञ्चित् क्षीरं पीत्वा गच्छतु' इति स्वमी उक्तवान् । पुनः पुनः अनुरोधेन सत्पुरुषः चमसपरिमितमेव क्षीरं पीतवान् । अस्वस्थमनस्कः सः अवदत् यत् 'एषा धेनुः भवता चोरिता अस्ति । भवता दत्तं क्षीरं पीत्वा 'भवतः धेनुः चोरयितव्या' इति विचारः मम मनसि आ...

मन्त्रिणः युक्तिः 10.10.2025

पुरा कस्यचन महाराजस्य राज्यशासने अनासक्तिः आसीत् । गच्छता कालेन राज्यस्य दुःस्थितिः आगता । माहाराजस्य मन्त्रिषु अन्यतमः कश्चन मन्त्री कथमपि महाराजः बोधनीयः इति निश्चयम् अकरोत् । एकस्मिन् सायङ्काले वायुविहारसमये मन्त्री पक्षिणः कलरवं श्रद्धया कर्णौ दत्त्वा श्रोतुम् आरब्धवान् । यदा महाराजः अपृच्छत् तदा मन्त्री 'अहं पक्षिणः भाषां जानामि' इत्युक्त्वा तस्य मनसि यत् राज्ञे बोधनीयम् इति आसीत् तत् सर्वं प...

Άκου το podcast बालमोदिनी στο Replaio

Ραδιόφωνο και podcast σε μία εφαρμογή - δωρεάν, χωρίς εγγραφή. Εγκατάστησέ την σήμερα και μη χάσεις την πρεμιέρα

Κατέβασέ το από το Google Play

Το Replaio δεν είναι εκδότης podcast - τα ονόματα των εκπομπών, τα εξώφυλλα και ο ήχος ανήκουν στους δημιουργούς τους και διανέμονται μέσω δημόσιων ροών RSS