सम्भाषणसन्देशः

बालमोदिनी

Kids SA ↓ 713 Folgen

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhas...

Besuch unbedingt die Website des Podcasts und unterstütze die Macher: sambhashanasandesha.in

Autor

सम्भाषणसन्देशः

Kategorie

Kids

Podcast-Website

sambhashanasandesha.in

Neueste Folge

15. Okt 2026

Wo hören?

Podcasts in der App Replaio Radio Bald verfügbar

Podcasts kommen bald in die App. Installiere sie jetzt und erlebe als Erster einen ganz neuen Blick auf Podcasts

Bei Google Play herunterladen Kostenlos installieren Android fast 10 Mio. Downloads · Bewertung 4,8 iOS bald

Folgen

धीरः रघुपतिसिंहः 12.06.2026

राणाप्रतापस्य सामन्तराजः रघुपतिसिंहः कदाचित् अकबरसैन्यात् पराजयं प्राप्य अरण्यम् आश्रितवान् । कदाचित् अस्वस्थः पुत्रं द्रष्टुं यदा रघुपतिसिंहः अगच्छत् तदा मोगलसैनिकाः तं गृहीतवन्तः । पुत्रदर्शनाय अवसरः दीयताम् इति सेनापतिम् आकाशवर्माणम् अपृच्छत् । रजपूताः विश्वासघातं न कुर्वन्ति इति जानन् आकाशवर्मा रघुपतिसिंहाय पुत्रदर्शनाय अनुज्ञां दत्तवान् । ततः आकाशवर्मणः बन्धनं जातम् । रघुपतिसिंहः एतत् ज्ञात्व...

शूरा रत्नावली 11.06.2026

जयसलमेरस्य राज्ञः रतनसिंहस्य पुत्री रत्नावली शौर्येण अप्रतिमा । कदाचित् अल्लावुद्दीनस्य सेनापतिः मल्लिकाफुरः रतनसिंहं पराजेतुं ससैन्यम् आगतः । राजकुमारी रत्नावली सैन्यस्य नेतृत्वम् ऊढवती । मल्लिकाफुरः शत्रुहस्तगतः अभविष्यत् । किन्तु कथञ्चित् आत्मानं रक्षन् रणरङ्गात् पलायत । सः कुतन्त्रम् आश्रित्य दुर्गस्य अन्तः गमनाय मार्गं दर्शयितुं कस्मैचित् निर्धनाय वृद्धाय प्रभूतं धनं दत्तवान् । किं सः वृद्धः...

उदारम् आचरणम् 10.06.2026

लक्ष्मणमेघनादयोः युद्धे लक्ष्मणेन प्रयुक्तः बाणः मेघनादस्य हस्तम् अकर्तयत् । सः हस्तः रावणस्य अन्तःपुरे मेघनादस्य पत्न्याः सुलोचनायाः पुरतः अपतत् । दुःखितः सुलोचना सहगमनं कर्तुं निश्चयं अकरोत् । किन्तु दाहसंस्कारार्थं मेघनादस्य शिरः आवश्यकम् । सा धैर्येण श्रीरामस्य दर्शनाय प्रस्थिता । श्रीरामः तस्यां महान्तम् आदरं प्रदर्शयन् मेघनादस्य शिरः दत्तवान् । मेघनादस्य अन्त्यसंस्कारं निमित्तीकृत्य एकं दिनं...

जितेन्द्रियता 09.06.2026

पञ्चदशवर्षीयः कश्चन तरुणः कञ्चन महात्मानम् उपसर्प्य संन्यासदीक्षां याचते । पुनः पुनः याचनेन महात्मा तस्य परीक्षां करोति । परीक्षया तरुणस्य जितेन्द्रियता साधिता अस्ति इति महात्मना ज्ञातम् । अतः संन्यासादीक्षां दास्यामि इत्युक्त्वा तं तरुणम् आशिषा अनुगृह्णाति । सः एव भाविनि काले 'महात्मा ज्ञानेश्वरः' इति ख्यातः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक...

कः आरोग्यसम्पन्नः ? 08.06.2026

वाग्भटः विख्यातः प्राचीनः वैद्यराजः । एकदा धन्वन्तरिः पृथ्वीतले वैद्यानां परीक्षा करणीया इति विचिन्त्य शुकस्य रूपं धृत्वा एकं प्रश्नं त्रिवारम् उच्चार्य वैद्यान् अपृच्छत् - 'कोऽरुक्? कोऽरुक्? कोऽरुक्?’ (कः आरोग्यसम्पन्नः भवति इत्यर्थः)। वैद्याः विविधानि उत्तराणि दत्तवन्तः किन्तु धन्वन्तरिः न सन्तुष्टः । यदा वाग्भटं प्रति आगत्य प्रश्नं अपृच्छत् तदा सः उत्तरयति 'हितभुक्, मितभुक्, उष्णभुक्' इति । तस्...

तारतम्यभावम् आचरन्ति अज्ञानिनः 07.06.2026

कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । कस्यचित् चर्मकारस्य कुटीरं प्राप्य जलं पृष्टवान् । किन्तु निम्नकुलीयः सः चर्मकारः जलं कथं ददानि इति चिन्तयति । तदा महात्मा वदति यत् भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः.....’। तदनन्तरं सः चर्मकारः सन्तोषेण तस्मै महात्मने जलं दत्तवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टाद...

स्वातन्त्र्यप्रिया अभयादेवी 06.06.2026

उल्लाळराज्यं किञ्चन सम्पद्भरितं लघुसंस्थानम् । गच्छता कालेन तस्य संस्थानस्य राज्ञः मद्यपानप्रवृत्तिः जाता । पोर्तुगीसाः तस्य मैत्रीं सम्पादितवन्तः । मद्यपानाय यत् मद्यं क्रेतव्यं, तन्निमित्तं स्वसंस्थानमेव पोर्तुगीसाधीनं कृतवान् सः । राज्ञी अभयादेवी संस्थानरक्षणाय स्वयं शासनसूत्रं गृहीतवती । पोर्तुगीस्-अभयादेव्योः मध्ये जाते युद्धे पोर्तुगीसानां पराजयः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्...

वास्तविकः धनिकः 05.06.2026

कस्मिंश्चित् ग्रामे देवालयनिर्माणार्थं धनं प्राप्तुं पञ्च जनाः प्रतिगृहं गतवन्तः । यः अधिकं धन दास्यति तस्य नाम्नः उट्टङ्कनं देवालये भवितुम् अर्हति इति निश्चितवन्तः । कश्चन कोट्यधीशः लक्षरूप्यकपरिमितं धनं दत्तवान् । कदाचित् धनिकेन धनदातॄणाम् आवली दृष्टा । तत्र कश्चन कृषिकः सहस्रं रूप्यकाणि दत्तानि आसन् । कृषिकस्य आर्थिकी स्थितिः शोचनीया चेदपि तेन सहस्रं रूप्यकाणि दत्तानि । मत्तः तस्य हृदयौदार्यम्...

असंमोहः 04.06.2026

अनया कथया वार्धक्ये कथं व्यवहरणीयम् इति ज्ञातुं शक्नुमः । पुत्राः प्रमादं कुर्युः इति भीतिः, मम अनुभवस्य उपयोगं कुर्युः इति अपेक्षा इत्यादयः वार्धक्ये सहजाः । तादृशीं मानसिकताम् अवहतः कस्यचन ज्येष्ठस्य जीवनं निश्चयेन अस्ति अनुकरणार्हम् । प्रायः असंमोहः नाम अयमेव । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) This story teaches how one should co...

सत्यनिष्ठा सुहृत्प्रीतिः च 03.06.2026

कदाचित् अन्यस्मिन् देशे कश्चन वणिक् लघुनः अपराधस्य निमित्तं कारागारे स्थापितः आसीत् । तस्य शूलारोपम् आदिष्टवान् राजा । सः वणिक् राज्ञे निवेदितवान् यत् गृहं गत्वा यद्यत् करणीयं स्यात् तत्सर्वं निर्वर्त्य वर्षाभ्यन्तरे प्रत्यागमिष्यामि इति । तस्य स्थाने तस्य मित्रं कारागारे स्थापितः आसीत् । वर्षम् अतीतम् । तस्य मित्रस्य शूलारोपस्य समयः आगतः । तावता धावन् तत्र आगतः सः वणिक् । बहुविधान् विघ्नान् अपाकृ...

विलक्षणः आसीर्वादः 02.06.2026

कश्चन महात्मा विलक्षणानि आशीर्वादवचनानि ददाति स्म । यथा राजानं 'सुभटो भव', आस्थानपण्डितम् 'अज्ञानी भव', महाधनिकं वणिक्प्रमुखं 'सेवकः भव' इति । किमर्थम् एवम् आशीर्वादं ददाति इति ज्ञातुं अनन्तरदिने राज्ञः वृद्धमन्त्री गत्वा महात्मानं राजास्थानम् आनयति । तदा महात्मा विलक्षणाशीर्वदवचनानाम् विशेषार्थं वदति । महात्मना कृतः आशीर्वादः विलक्षणः स्याद् चेदपि विशेषाभिप्रायगर्भः आसीत् इति जानन्तः सभास्थाः सर्...

मानवहृदयम् 01.06.2026

कश्चन निर्धनः दीनः जनः आसीत् यस्य निबिडं श्मश्रु, दीर्घाः नखाः, जीर्णं दुर्गन्धयुक्तं वस्त्रं च आसीत् । जनाः तम् उन्मत्तः इति वदन्ति स्म । कदाचित् कश्चन सहृदयः तरुणः विनयः तं जनं दृष्ट्वा मनसि बहुविधैः प्रश्नैः पीडितः अभवत् । द्वितीये दिने सः तस्मै एकं कदलीफलम् अयच्छत् । अग्रिमे दिने विनयाय एकं पत्रम् आगतम् - भवान् मुख्यमन्त्रिणः सहयोगित्वेन नियुक्तः इति । यदा सः अग्रिमे दिने मन्त्रालयं प्राप्तवान...

श्रमः व्ययामः च 31.05.2026

नूतनतया निर्मीयमाणस्य पत्तनस्य विभिन्नानि कार्याणि प्रचलन्ति स्म । एकदा मार्गनिर्माणकार्ये नैके कर्मकराः अहोरात्रं कार्यं कुर्वन्ति स्म । तदा कुतश्चित् कश्चित् सुदृढः युवा तत्र समागत्य बहूनि कार्याणि अकरोत् । सायं यदा सन्तुष्टः स्वामी तस्मै द्विगुणितं वेतनं दातुम् उद्यतः तदा सः तत् सर्वथा निराकृत्य अवदत् 'प्रतिदिनं मया कठिनाः व्यायामाः क्रियन्ते । अस्य अस्मिन्नेव मार्गे चलन् अहं मार्गस्य निर्माणका...

चर्वितचर्वणम् 30.05.2026

अस्यां कथायां अजापालकेन सह साक्षात्सन्दर्शनं भवति वार्तादूरदर्शनस्य । एकस्य विषयस्य पुनः पुनः चर्चा चर्वितचर्वणम् इति कथ्यते । सन्दर्शनस्य चर्वितचर्वणस्य च कः सम्बन्धः इति ज्ञातुम् इच्छा अस्ति वा? तर्हि इमां हास्यमयीं कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In this humorous story, a goatherd is interviewed on the televisio...

धूर्तः आपणिकः 29.05.2026

लालबहादुरशास्त्री भारतस्य सुप्रसिद्धः द्वितीयः प्रधानमन्त्री । तस्य पत्नी ललितादेवी अपि स्वातन्त्र्यान्दोलने भागग्रहीत्री एव । सा महिला दलस्य प्रमुखा आसीत् । कदाचित् सा आपणिकानां मनः परिवर्तयितुम् अन्याभिः महिलाभिः साकं वैदेशिकवस्तुविक्रयणस्थलं गतवती । बहवः आपणिकाः‌ ललितादेव्याः अनुरोधं स्वीकृत्य सर्वाणि वैदेशिकवस्तूनि बहिः अक्षिपन् ।  किन्तु एकः आपणिकः तत् न अङ्गीकृतवाम् । तस्य मनःपरिवर्तनं कथं भ...

सङ्गं मा कुरु दुष्टानाम् 28.05.2026

दुष्टानां सङ्गः सर्वथा न करणीयः इति इयं कथा ज्ञापयति । पितुः मरणानन्तरं भट्टनाथस्य स्वेच्छाचारस्य निग्रहीता न कोऽपि आसीत् । दुष्टानां मित्राणाम् उपदेशं पालयन् सः मनोरञ्जनाय दुर्व्यसनाय च प्रभूतं धनं व्ययितवान् । उद्योगिनः तं वञ्चितवन्तः । वाणिज्ये महती हानिः तेन अनुभूता । अन्ते यदा सः आत्महत्यार्थं प्रकोष्ठस्य अट्टाधारे रज्जुं बद्ध्वा पाशं कण्ठे योजयित्वा कूर्दनम् अकरोत् तदा अट्टाधारः भग्नः जातः ।...

महात्मनाम् आशीर्वादस्य फलम् 27.05.2026

महात्मनाम् आशीर्वादवचनानि कदापि विफलानि न भवन्ति इत्यस्य उदाहरणं भवितुम् अर्हति इयं कथा । कश्चन तरुणः बालगङ्गाधरवर्येण कानिचन आशीर्वादवचनानि प्राप्नोत् । तानि आशीर्वादवचनानि तस्य हृदये स्थिरतया अतिष्ठन् । तरुणेन विद्याभ्यासं समाप्य सर्वकारोद्योगः प्राप्तः । स्वयोग्यतया अल्पे एव काले पदोन्नतिं प्राप्नुवन् रिसर्व्-वित्तकोषस्य 'गवर्नर्' पदमपि प्राप्नोत् । ब्रिटिश्-शासने तत् पदं प्राप्तवान् प्रथमः भार...

अनुचितं कार्यं न करोमि 26.05.2026

कश्चन विद्यालये कश्चन निरीक्षणाधिकारी छात्राणां परीक्षार्थं पञ्च आङ्ग्लशब्दान् अवदत् । यदा मुख्योपाध्यायः छात्राणां मध्ये सञ्चरन् आसीत् तदा तेन ज्ञातं यत् एकेन छात्रेण 'केट्ल्' इत्ययं शब्दः दोषपूर्णतया लिखितः इति । सः नेत्रसङ्केतेन छात्रम् असूचयत् यत् पार्श्वस्थेन छात्रेण यत् लिखितं तत् दृष्ट्वा समीकुरु इति । किन्तु तेन छात्रेण आदेशः न पालितः । यदा निरीक्षणाधिकारी निर्गतः तदा मुख्योपाध्यायः किमर्थ...

पालय कर्तव्यम् 25.05.2026

बहुषु युद्धेषु शत्रुजनानां मारणं दृष्ट्वा कस्यचन राज्ञः मनः विषादग्रस्तं जातम् । सः कञ्चन संन्यासिनम् उपसर्प्य  'भवतः इव तपोमयं जीवनं स्यात् ममापि' इति अवदत् । तदा संन्यासी 'प्रजारक्षणं, युद्धम् इत्यादिकं तव कर्तव्यम् । तपसि प्रवृत्तिः, जनानां प्रबोधनम् इत्यादिकं मम कर्तव्यम् । सर्वेण अपि जनेन स्वस्य कर्तव्यपालनमात्रं चिन्तनीयम् । अन्येन आत्मनः तोलनं न युज्यते....’ इत्यादिभिः वचनैः राजानं बोधयति ।...

मानवता 24.05.2026

जोधपुरसाम्राज्ये राजा रामसिंहः आधिपत्यं वहन् आसीत् । कदाचित् रामसिंहः महता शौर्येण मोगलैः सह युद्धम् अकरोत् । भीतं मोगलसैन्यं तत्स्थानात् पलायनम् अकरोत् । पलायमानाः पिपासापीडिताः मोगलसैनिकाः कस्यचन तडागस्य जलं पातुं यदा उद्यताः तदा रामसिंहस्य सैनिकाः तेषां जलपानं निवारितवन्तः । रामसिंहः त्वरितं तत्रागत्य 'इमे निश्शस्त्राः, निस्सहायाः, पिपासाबाधिताश्च । जलपानाय प्रतिगमनाय च अनुमन्यन्ताम्' इति उच्चै...

राधानामजपः किमर्थम् ? 23.05.2026

कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'सदैव भवान् राधे! राधे! इति किमर्थं जपति?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । वेदनायाः निवारणं कथम् इति पृष्टे कृष्णः अवदत् 'मद्भक्तस्य चरणरजसः स्पर्शेन इयं वेदना दूरीभवितुमर्हति’ इति । अविलम्बेन गत्वा आनेष्यामि इत्युक्त्वा नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य चरणरजः अयाचत । परन्तु सर्वतः अपि न...

अहो! उदारता 22.05.2026

रवीन्द्रनाथवर्येण यदा नोबेल्पुरस्कारः प्राप्तः तदा असङ्ख्याः जनाः तम् अभिनन्दितवन्तः । किन्तु कश्चन प्रतिवेशी तस्य अभिनन्दं न कृतवान् इति तस्य दुःखम् आसीत् । कदाचित् वायुविहारार्थं रवीन्द्रनाथवर्यः समुद्रतीरम् अगच्छत् । समुद्रे पतिताः सूर्यकिरणाः रमणीयतया शोभते स्म । अत्रान्तरे तस्य दृष्टिः एकस्मिन् गर्ते पतिता । सः अचिन्तयत् 'सूर्यकिरणाः प्रसारविषये गर्तसमुद्रादिभेदभावं न प्रदर्शयन्ति.......’ इति...

स्वीकरणे योग्यता 21.05.2026

पूर्वं कश्चन राजा कस्यचन संन्यासिनः समीपं गत्वा 'उत्कृष्टं तत्त्वं किञ्चन उपदिश्यताम्' इति प्रार्थितवान् । 'अपेक्षिता योग्यता नास्ति इदानीं भवतः' इति संन्यासिना उक्तम् । खिन्नः राजा स्वभवनं गत्वा कोपेन मन्त्रिणम् अवदत् 'एकः पण्डितः, सः संन्यासी च अनीयेताम्' इति । यदा तौ आगतवन्तौ तदा राजा अवदत् यत् अहं पण्डितस्य मुखात् उपदेशं प्राप्स्यामि इति । तदा संन्यासी क्षणमात्रेण एव भवतः योग्यतापरीक्षणं भवितु...

स्वातन्त्र्यम् आनन्दः च 20.05.2026

कदाचित् प्रजानुरागी राजा अरण्यमार्गे गच्छन् आसीत् । कश्चन अजापालकः वृक्षस्य अधः उपविश्य वेणुवादने मग्नः आसीत् । राजा अपृच्छत् 'साम्राज्यमेव प्राप्तवान् इव महति आनन्दे मग्नः भवान् वेणुवादनं करोति' इति । तदा अजापालकः अवदत् 'वस्तुतः वेणुवादनस्य साम्राज्यप्राप्तेः च न सादृश्यम् । अहं तु भगवच्चिन्तनं कुर्वन् सर्वचिन्ताभ्यः मुक्तः सन् मनोवाक्कायकर्मसु स्वतन्त्रः । धनस्य स्वातत्न्त्र्यस्य आनन्दस्य च न को...

का शक्तिः श्रेष्ठा ? 19.05.2026

कदाचित् लक्ष्मीसरस्वत्योः मध्ये का श्रेष्ठा इति विवादः उत्पन्नः । संन्यासिनीरूपेण भूलोकं गत्वा स्वस्य श्रेष्ठता प्रतिष्ठापनीया इति निर्णयं कृत्वा आदौ लक्ष्मीः एकं ग्रामम् अगच्छत् । स्वीयेन सुवर्णपात्रेण यस्मिन् गृहे सा भोजनं करोति तत्रैव भोजनपात्रं परित्यज्यते लक्ष्म्या । जनाः तां स्वगृहं प्रति निमन्त्रयितुम् अहमहमिकया प्रवृताः अभवन् । ग्रामे सर्वत्र ईर्ष्या, असूया, कलहः इत्यादयः आरब्धाः । तदनन्तर...

Höre den Podcast बालमोदिनी in Replaio

Radio und Podcasts in einer App - kostenlos und ohne Anmeldung. Installiere sie noch heute und verpasse den Start nicht

Bei Google Play herunterladen

Replaio ist kein Herausgeber von Podcasts; die Namen der Sendungen, Cover und Audioinhalte gehören ihren Autoren und werden über öffentliche RSS-Feeds verbreitet